ऋग्वेदः सूक्तं ६.५७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.५६ ऋग्वेदः - मण्डल ६
सूक्तं ६.५७
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.५८ →
दे. इन्द्रापूषणौ। गायत्री


इन्द्रा नु पूषणा वयं सख्याय स्वस्तये ।
हुवेम वाजसातये ॥१॥
सोममन्य उपासदत्पातवे चम्वोः सुतम् ।
करम्भमन्य इच्छति ॥२॥
अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता ।
ताभ्यां वृत्राणि जिघ्नते ॥३॥
यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः ।
तत्र पूषाभवत्सचा ॥४॥
तां पूष्णः सुमतिं वयं वृक्षस्य प्र वयामिव ।
इन्द्रस्य चा रभामहे ॥५॥
उत्पूषणं युवामहेऽभीशूँरिव सारथिः ।
मह्या इन्द्रं स्वस्तये ॥६॥


सायणभाष्यम्

‘ इन्द्रा नु पूषणा ' इति षड़ृचमष्टमं सूक्तं भरद्वाजस्यार्षं गायत्रमैन्द्रापौष्णम् । अनुक्रान्तं च -- ‘ इन्द्रा न्वैन्द्रं च ' इति । गतो विनियोगः ॥


इन्द्रा॒ नु पू॒षणा॑ व॒यं स॒ख्याय॑ स्व॒स्तये॑ ।

हु॒वेम॒ वाज॑सातये ॥१

इन्द्रा॑ । नु । पू॒षणा॑ । व॒यम् । स॒ख्याय॑ । स्व॒स्तये॑ ।

हु॒वेम॑ । वाज॑ऽसातये ॥१

इन्द्रा । नु । पूषणा । वयम् । सख्याय । स्वस्तये ।

हुवेम । वाजऽसातये ॥१

इतरेतरयोगात् इन्द्रपूषशब्दयोः उभयत्र द्विवचनम् । इन्द्रापूषणौ देवौ “नु अद्य च "वयं “स्वस्तये “सख्याय शोभनाय सखित्वाय “वाजसातये वाजस्यान्नस्य बलस्य वा सातये संभजनाय च “हुवेम आह्वयाम । स्तवाम ॥


सोम॑म॒न्य उपा॑सद॒त्पात॑वे च॒म्वो॑ः सु॒तम् ।

क॒र॒म्भम॒न्य इ॑च्छति ॥२

सोम॑म् । अ॒न्यः । उप॑ । अ॒स॒द॒त् । पात॑वे । च॒म्वोः॑ । सु॒तम् ।

क॒र॒म्भम् । अ॒न्यः । इ॒च्छ॒ति॒ ॥२

सोमम् । अन्यः । उप । असदत् । पातवे । चम्वोः । सुतम् ।

करम्भम् । अन्यः । इच्छति ॥२

“चम्वोः अधिषवणफलकयोः “सुतम् अभिषुतं "सोमम् “अन्यः अनयोरेकतर इन्द्रः “पातवे पातुम् "उपासदत् उपसीदति । उपगच्छति । “अन्यः एकतरः पूषा “करम्भं घृतसिक्तं सक्त्वात्मकं हविः भक्षयितुम् “इच्छति ॥


अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ सम्भृ॑ता ।

ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते ॥३

अ॒जाः । अ॒न्यस्य॑ । वह्न॑यः । हरी॒ इति॑ । अ॒न्यस्य॑ । सम्ऽभृ॑ता ।

ताभ्या॑म् । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥३

अजाः । अन्यस्य । वह्नयः । हरी इति । अन्यस्य । सम्ऽभृता ।

ताभ्याम् । वृत्राणि । जिघ्नते ॥३

अनयोरिन्द्रापूष्णोः “अन्यस्य एकस्य पूष्णः "अजाः छागाः “वह्नयः वाहका अश्वाः । “अन्यस्य अपरस्येन्द्रस्य "संभृता संभृतौ सम्यक् पुष्टौ “हरी एतत्संज्ञावश्वौ वाहकौ । स चेन्द्रः “ताभ्यां “वृत्राणि शत्रून् “जिघ्नते हन्ति ॥


यदिन्द्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृष॑न्तमः ।

तत्र॑ पू॒षाभ॑व॒त्सचा॑ ॥४

यत् । इन्द्रः॑ । अन॑यत् । रितः॑ । म॒हीः । अ॒पः । वृष॑न्ऽतमः ।

तत्र॑ । पू॒षा । अ॒भ॒व॒त् । सचा॑ ॥४

यत् । इन्द्रः । अनयत् । रितः । महीः । अपः । वृषन्ऽतमः ।

तत्र । पूषा । अभवत् । सचा ॥४

“यत् यदा “वृषन्तमः अतिशयेन वर्षिता “इन्द्रः “रितः गन्त्रीः “महीः महतीः “अपः वृष्ट्युदकानि “अनयत् इमं लोकं प्रापयति “तत्र तदानीं “पूषा पोषको देवः “सचा “अभवत् अस्येन्द्रस्य सहायो भवति ॥


तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व ।

इन्द्र॑स्य॒ चा र॑भामहे ॥५

ताम् । पू॒ष्णः । सु॒ऽम॒तिम् । व॒यम् । वृ॒क्षस्य॑ । प्र । व॒याम्ऽइ॑व ।

इन्द्र॑स्य । च॒ । आ । र॒भा॒म॒हे॒ ॥५

ताम् । पूष्णः । सुऽमतिम् । वयम् । वृक्षस्य । प्र । वयाम्ऽइव ।

इन्द्रस्य । च । आ । रभामहे ॥५

“पूष्णः पोषकस्य देवस्य “इन्द्रस्य “च “तां प्रसिद्धां “सुमतिं कल्याणीं मतिमनुग्रहबुद्धिं “वृक्षस्य महीरुहस्य “प्र “वयां प्रकृष्टां दृढां शाखाम् “इव “वयम् “आ “रभामहे अवलम्बामहे । आश्रयामह इत्यर्थः ॥


उत्पू॒षणं॑ युवामहे॒ऽभीशूँ॑रिव॒ सार॑थिः ।

म॒ह्या इन्द्रं॑ स्व॒स्तये॑ ॥६

उत् । पू॒षण॑म् । यु॒वा॒म॒हे॒ । अ॒भीशू॑न्ऽइव । सार॑थिः ।

म॒ह्यै । इन्द्र॑म् । स्व॒स्तये॑ ॥६

उत् । पूषणम् । युवामहे । अभीशून्ऽइव । सारथिः ।

मह्यै । इन्द्रम् । स्वस्तये ॥६

“पूषणं पोषकं देवम् “इन्द्रं च "मह्यै महत्यै “स्वस्तये रक्षार्थम् "उत् "युवामहे उद्योजयामः । उद्योजनमाकर्षणम् । तत्र दृष्टान्तः । “सारथिः सूतः “अभीशूनिव। अभीशून् रश्मीन् अश्वबन्धनार्थान् यथाकर्षति तद्वत् ॥ ॥ २३ ।।

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.५७&oldid=200350" इत्यस्माद् पुनः प्राप्तिः