ऋग्वेदः सूक्तं ६.७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.६ ऋग्वेदः - मण्डल ६
सूक्तं ६.७
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.८ →
दे. वैश्वानरोऽग्निः। त्रिष्टुप्, ६-७ जगती


मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् ।
कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥१॥
नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त ।
वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥२॥
त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः ।
वैश्वानर त्वमस्मासु धेहि वसूनि राजन्स्पृहयाय्याणि ॥३॥
त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते ।
तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥४॥
वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष ।
यज्जायमानः पित्रोरुपस्थेऽविन्दः केतुं वयुनेष्वह्नाम् ॥५॥
वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना ।
तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः ॥६॥
वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः ।
परि यो विश्वा भुवनानि पप्रथेऽदब्धो गोपा अमृतस्य रक्षिता ॥७॥


सायणभाष्यम्

‘ मूर्धानम्' इति सप्तर्चं सप्तमं सूक्तं भरद्वाजस्यार्षं वैश्वानराग्निदेवताकम् । षष्ठीसप्तम्यौ जगत्यौ शिष्टाः पञ्च त्रिष्टुभः । तथा चानुक्रान्तं- मूर्धानं वैश्वानरीयं हि द्विजगत्यन्तम्' इति । गतः सूक्तविनियोगः । विषुवत्याग्निमारुत आद्यस्तृचो वैकल्पिकः स्तोत्रियः । तथैव सूत्रितं--- मूर्धानं दिवो अरतिं पृथिव्या मूर्धा दिवो नाभिरग्निः पृथिव्या इति वा ' ( आश्व. श्रौ. ८. ६) इति ॥


मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निं ।

क॒विं स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयंत दे॒वाः ॥१

मू॒र्धान॑म् । दि॒वः । अ॒र॒तिम् । पृ॒थि॒व्याः । वै॒श्वा॒न॒रम् । ऋ॒ते । आ । जा॒तम् । अ॒ग्निम् ।

क॒विम् । स॒म्ऽराज॑म् । अति॑थिम् । जना॑नाम् । आ॒सन् । आ । पात्र॑म् । ज॒न॒य॒न्त॒ । दे॒वाः ॥१

मूर्धानम् । दिवः । अरतिम् । पृथिव्याः । वैश्वानरम् । ऋते । आ । जातम् । अग्निम् ।

कविम् । सम्ऽराजम् । अतिथिम् । जनानाम् । आसन् । आ । पात्रम् । जनयन्त । देवाः ॥१

“मूर्धानं शिरोभूतम् । कस्य । “दिवः द्युलोकस्य “पृथिव्याः प्रथिताया भूमेः “अरतिं गन्तारम् । यद्वा । गन्तव्यं स्वामिनं “वैश्वानरं विश्वेषां नराणां संबन्धिनम् “ऋते । ऋतमिति सत्यस्य यज्ञस्य वा नाम । निमित्तसप्तम्येषा । ऋतनिमित्तम् "आ आभिमुख्येन “जातं सृष्ट्यादावुत्पन्नं “कविं क्रान्तदर्शिनं “सम्राजं सम्यग्राजमानं “जनानां यजमानानाम् “अतिथिं हविर्वहनाय सततं गन्तारम् । यद्वा । अतिथिवत्पूज्यम् । “आसन् आसनि आस्ये । द्वितीयार्थे सप्तमी । आस्यभूतम् । अग्निलक्षणेनास्येन हि देवा हवींषि भुञ्जते । “पात्रं पातारं रक्षकम् । यद्वा । आस्येन धारकम् । एवंगुणविशिष्टं वैश्वानराग्निं “देवाः स्तोतार ऋत्विजो देवा एव वा “आ “जनयन्त । यज्ञाभिमुख्येन अजीजनन् । अरण्यो: सकाशादुदपादयन् ॥


नाभिं॑ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा॑हा॒वम॒भि सं न॑वंत ।

वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां॑ य॒ज्ञस्य॑ के॒तुं ज॑नयंत दे॒वाः ॥२

नाभि॑म् । य॒ज्ञाना॑म् । सद॑नम् । र॒यी॒णाम् । म॒हाम् । आ॒ऽहा॒वम् । अ॒भि । सम् । न॒व॒न्त॒ ।

वै॒श्वा॒न॒रम् । र॒थ्य॑म् । अ॒ध्व॒राणा॑म् । य॒ज्ञस्य॑ । के॒तुम् । ज॒न॒य॒न्त॒ । दे॒वाः ॥२

नाभिम् । यज्ञानाम् । सदनम् । रयीणाम् । महाम् । आऽहावम् । अभि । सम् । नवन्त ।

वैश्वानरम् । रथ्यम् । अध्वराणाम् । यज्ञस्य । केतुम् । जनयन्त । देवाः ॥२

“यज्ञानां ज्योतिष्टोमादियागानां “नाभिं नहनं बन्धकं तथा “रयीणां धनानां “सदनं स्थानमैकनिलयं “महां महान्तम् “आहावम् । आहूयन्तेऽस्मिन्नाहुतय इत्याहावः । तादृशम् । यद्वा । वृष्ट्युदकधारणमाहावं निपानस्थानीयम् । एवंभूतमग्निम् “अभि अभितः “सं “नवन्त स्तोतारः सम्यक् स्तुवन्ति । तथा “वैश्वानरं विश्वेषां नराणां संबन्धिनम् “अध्वराणां यज्ञानां “रथ्यं रथिनम् । यथा रथी स्वरथं नयति तद्वन्नेतारं ग्राहयितारं गमयितारं “यज्ञस्य “केतुं प्रज्ञापकम् । एवंविधमग्निं “देवाः स्तोतार ऋत्विजो देवा एव वा “जनयन्त जनयन्ति मथनेनोत्पादयन्ति ॥


त्वद्विप्रो॑ जायते वा॒ज्य॑ग्ने॒ त्वद्वी॒रासो॑ अभिमाति॒षाहः॑ ।

वैश्वा॑नर॒ त्वम॒स्मासु॑ धेहि॒ वसू॑नि राजन्त्स्पृह॒याय्या॑णि ॥३

त्वत् । विप्रः॑ । जा॒य॒ते॒ । वा॒जी । अ॒ग्ने॒ । त्वत् । वी॒रासः॑ । अ॒भि॒मा॒ति॒ऽसहः॑ ।

वैश्वा॑नर । त्वम् । अ॒स्मासु॑ । धे॒हि॒ । वसू॑नि । रा॒ज॒न् । स्पृ॒ह॒याय्या॑णि ॥३

त्वत् । विप्रः । जायते । वाजी । अग्ने । त्वत् । वीरासः । अभिमातिऽसहः ।

वैश्वानर । त्वम् । अस्मासु । धेहि । वसूनि । राजन् । स्पृहयाय्याणि ॥३

हे “अग्ने “वाजी हविर्लक्षणान्नवान् पुरुषः “त्वत् त्वत्तः सकाशात् “विप्रः मेधावी “जायते । तुभ्यं हविर्दानेन मेधावी भवति । तथा “वीरासः वीराः “त्वत् त्वत्तः अभिमातिषाहः अभिमातीनां शत्रूणामभिभवितारो जायन्ते । यस्मादेवं तस्मात् हे “वैश्वानर “राजन् राजमानाग्ने “त्वमस्मासु त्वद्भक्तेषु "स्पृहयाय्याणि स्पृहणीयानि “वसूनि धनानि “धेहि निधेहि ॥


त्वां विश्वे॑ अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा अ॒भि सं न॑वंते ।

तव॒ क्रतु॑भिरमृत॒त्वमा॑य॒न्वैश्वा॑नर॒ यत्पि॒त्रोरदी॑देः ॥४

त्वाम् । विश्वे॑ । अ॒मृ॒त॒ । जाय॑मानम् । शिशु॑म् । न । दे॒वाः । अ॒भि । सम् । न॒व॒न्ते॒ ।

तव॑ । क्रतु॑ऽभिः । अ॒मृ॒त॒ऽत्वम् । आ॒य॒न् । वैश्वा॑नर । यत् । पि॒त्रोः । अदी॑देः ॥४

त्वाम् । विश्वे । अमृत । जायमानम् । शिशुम् । न । देवाः । अभि । सम् । नवन्ते ।

तव । क्रतुऽभिः । अमृतऽत्वम् । आयन् । वैश्वानर । यत् । पित्रोः । अदीदेः ॥४

हे “अमृत मरणधर्मरहिताग्ने “विश्वे सर्वे “देवाः स्तोतारः “जायमानम् अरण्योः सकाशात् उत्पद्यमानं “त्वां “शिशुं न पुत्रमिव “अभि “सं “नवन्ते अभिसंस्तुवन्ति । यद्वा । दीव्यन्तीति देवा रश्मयः । ते सर्वे जायमानं त्वामभि सं नवन्ते अभिसंगच्छन्ते यथा पितरः पुत्रमभिगच्छन्ति । अपि च हे “वैश्वानर अग्ने “यत् यदा “पित्रोः पालयित्र्योर्द्यावापृथिव्योर्मध्ये “अदीदेः दीप्यसे तदानीं “तव त्वदीयैः क्रतुभिः कर्मभिर्ज्योतिष्टोमादिभिर्यागैः “अमृतत्वं देवत्वम् “आयन् यजमानाः प्राप्नुवन्ति ।


वैश्वा॑नर॒ तव॒ तानि॑ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष ।

यज्जाय॑मानः पि॒त्रोरु॒पस्थेऽविं॑दः के॒तुं व॒युने॒ष्वह्नां॑ ॥५

वैश्वा॑नर । तव॑ । तानि॑ । व्र॒तानि॑ । म॒हानि॑ । अ॒ग्ने॒ । नकिः॑ । आ । द॒ध॒र्ष॒ ।

यत् । जाय॑मानः । पि॒त्रोः । उ॒पऽस्थे॑ । अवि॑न्दः । के॒तुम् । व॒युने॑षु । अह्ना॑म् ॥५

वैश्वानर । तव । तानि । व्रतानि । महानि । अग्ने । नकिः । आ । दधर्ष ।

यत् । जायमानः । पित्रोः । उपऽस्थे । अविन्दः । केतुम् । वयुनेषु । अह्नाम् ॥५

हे "वैश्वानर विश्वेषां नराणां संबन्धिन् “अग्ने “तव त्वदीयानि “तानि प्रसिद्धानि “व्रतानि कर्माणि “महानि महान्ति “नकिरा “दधर्ष न कश्चनान्यो धर्षयति बाधते । “यत् यदा त्वं “पित्रोः द्यावापृथिव्योः “उपस्थे उपस्थानेऽन्तरिक्ष “वयुनेषु गन्तव्येषु मार्गेषु “जायमानः सन् "अह्नां “केतुं प्रज्ञापकं सूर्यं स्वर्भानुनावृतम् “अविन्दः अलम्भयः । तमोरूपमसुरं स्वतेजसा निवारयन्नस्थापय इत्यर्थः । तदा तानि व्रतानीति पूर्वत्रान्वयः ।।


वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू॑नि दि॒वो अ॒मृत॑स्य के॒तुना॑ ।

तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या इ॑व रुरुहुः स॒प्त वि॒स्रुहः॑ ॥६

वै॒श्वा॒न॒रस्य॑ । विऽमि॑तानि । चक्ष॑सा । सानू॑नि । दि॒वः । अ॒मृत॑स्य । के॒तुना॑ ।

तस्य॑ । इत् । ऊं॒ इति॑ । विश्वा॑ । भुव॑ना । अधि॑ । मू॒र्धनि॑ । व॒याःऽइ॑व । रु॒रु॒हुः॒ । स॒प्त । वि॒ऽस्रुहः॑ ॥६

वैश्वानरस्य । विऽमितानि । चक्षसा । सानूनि । दिवः । अमृतस्य । केतुना ।

तस्य । इत् । ऊं इति । विश्वा । भुवना । अधि । मूर्धनि । वयाःऽइव । रुरुहुः । सप्त । विऽस्रुहः ॥६

“वैश्वानरस्य विश्वनरहितस्याग्नेः “चक्षसा तेजसा “अमृतस्य उदकस्य “केतुना प्रज्ञापकेन “दिवः द्युलोकस्य “सानूनि समुच्छ्रितस्थलानि नक्षत्ररूपाणि “विमितानि निर्मितानि । यद्वा । दिवोऽन्तरिक्षस्य सानूनि समुच्छ्रितप्रदेशा मेघात्मका विमितानि निर्मिताः । धूमविकारत्वात्तेषाम् । “तस्येदु तस्यैव वैश्वानरस्य “मूर्धनि मूर्धस्थानीय उपरि वर्तमाने धूमे मेघात्मना परिणते “विश्वा विश्वानि व्याप्तानि “भुवना भुवनान्युदकानि “अधि वसन्ति । यद्वा । वैश्वानरात्मकस्य परब्रह्मणो मूर्धन्युपरिप्रदेशे सर्वाणि भूतजातान्यधिवसन्ति । तथा “वयाः शाखा: “इव “सप्त सर्पणशीलाः सप्तसंख्याः वा “विस्रुहः नद्यश्च गङ्गाद्याः “रुरुहुः रोहन्ति । अस्मादेव वैश्वानरात् प्रादुर्भवन्ति । आहुतिद्वारा सकलं जगदग्नेः सकाशादुत्पद्यत इत्यर्थः ।


वि यो रजां॒स्यमि॑मीत सु॒क्रतु॑र्वैश्वान॒रो वि दि॒वो रो॑च॒ना क॒विः ।

परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थेऽद॑ब्धो गो॒पा अ॒मृत॑स्य रक्षि॒ता ॥७

वि । यः । रजां॑सि । अमि॑मीत । सु॒ऽक्रतुः॑ । वै॒श्वा॒न॒रः । वि । दि॒वः । रो॒च॒ना । क॒विः ।

परि॑ । यः । विश्वा॑ । भुव॑नानि । प॒प्र॒थे । अद॑ब्धः । गो॒पाः । अ॒मृत॑स्य । र॒क्षि॒ता ॥७

वि । यः । रजांसि । अमिमीत । सुऽक्रतुः । वैश्वानरः । वि । दिवः । रोचना । कविः ।

परि । यः । विश्वा । भुवनानि । पप्रथे । अदब्धः । गोपाः । अमृतस्य । रक्षिता ॥७

“सुक्रतुः सुकर्मा “वैश्वानरः विश्वेषां नराणां हितः “यः अग्निः “रजांसि उदकानि लोकान् वा “वि “अमिमीत निर्मितवान् । तथा “दिवः द्युलोकस्य संबन्धीनि “रोचना रोचमानानि दीप्यमानानि नक्षत्रादीनि “कविः क्रान्तदर्शी सन् योऽग्निः “वि अमिमीत । “यः च “विश्वा सर्वाणि “भुवनानि भूतजातानि व्याप्तान्युदकानि वा “परि “पप्रथे परितोऽप्रथयत् सोऽयम् “अदब्धः केनाप्यहिंसितः “गोपाः सर्वस्य गोपायिता रक्षिता “अमृतस्य अमरणहेतोरुदकस्य “रक्षिता पालयिता सन् वर्तत इति शेषः ॥ ॥ ९ ॥


[सम्पाद्यताम्]

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.७&oldid=209202" इत्यस्माद् पुनः प्राप्तिः