सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०२/अग्निर्वैश्वानरस्य(मूर्धानं)

विकिस्रोतः तः
अग्निर्वैश्वानरः
अग्निर्वैश्वानरस्य.

मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निं ।
कविं सम्राजमतिथिं जनानामासन्नाः पात्रं जनयन्त देवाः ॥ ६७ ॥ ऋ. ६.७.१


(६७।१) ॥ अग्निर्वैश्वानरस्य सामनी द्वे । द्वयोरग्निर्वैश्वानरास्त्रिष्टुबाग्निर्वैश्वानरः॥
मूर्द्धोहोहाइ ।। नंदाऽ२३४इवाः । अरताइम् । पृथीऽ३व्याः । वैश्वानराम् । ऋतआ।
जातमग्नीम् ।। कविꣳसम्राजमातिथाइम् । जनाऽ२३नाम् ॥ आसन्नःपा । त्राऽ३०जन । याऽ३४३ । ताऽदाऽ५इवाऽ६५६: ।। (दी० ६ । प० १३ । मा० १४ )३९(गी। १०९)

(६७।२)
होवाइ । मूर्द्धोहाइ ॥ नंदाइ । वाऽ३अर । तिंपृथिव्याः । इहोइयाऽ३ । ईऽ३या३ ।
वैश्वानराम् । ऋतआ । जातमग्नीम् । इहोइयाऽ३ । ईऽ३या ।। कविꣳसंम्रा । जाऽ३मति । थिंजनानाम् । इहोइयाऽ३ । ईऽ३या ॥ आसन्नःपा। त्राऽ३०जन । यंतदेवाः । इहोइयाऽ३ । ईऽ२ । याऽ२३४ । औहोवा ॥ ईऽ२३४५॥ (णी । ११० )
 (दी० १३ । प० २५ । मा० १४ )४०
॥ इति ग्रामेगेयगाने द्वितीयस्यार्धःप्रपाठकः ॥२॥

[सम्पाद्यताम्]

टिप्पणी