ऋग्वेदः सूक्तं ६.१

विकिस्रोतः तः
Jump to navigation Jump to search
ऋग्वेदः - मण्डल ६
सूक्तं ६.१
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.२ →
दे. अग्निः। त्रिष्टुप् ।


त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।
त्वं सीं वृषन्नकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥१॥
अधा होता न्यसीदो यजीयानिळस्पद इषयन्नीड्यः सन् ।
तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ॥२॥
वृतेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जागृवांसो अनु ग्मन् ।
रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥३॥
पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्नमृक्तम् ।
नामानि चिद्दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥४॥
त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् ।
त्वं त्राता तरणे चेत्यो भूः पिता माता सदमिन्मानुषाणाम् ॥५॥
सपर्येण्यः स प्रियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान् ।
तं त्वा वयं दम आ दीदिवांसमुप ज्ञुबाधो नमसा सदेम ॥६॥
तं त्वा वयं सुध्यो नव्यमग्ने सुम्नायव ईमहे देवयन्तः ।
त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥७॥
विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् ।
प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम् ॥८॥
सो अग्न ईजे शशमे च मर्तो यस्त आनट् समिधा हव्यदातिम् ।
य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः ॥९॥
अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः ।
वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौ यतेम ॥१०॥
आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः ।
बृहद्भिर्वाजै स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि ॥११॥
नृवद्वसो सदमिद्धेह्यस्मे भूरि तोकाय तनयाय पश्वः ।
पूर्वीरिषो बृहतीरारेअघा अस्मे भद्रा सौश्रवसानि सन्तु ॥१२॥
पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन्वसुता ते अश्याम् ।
पुरूणि हि त्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वे ॥१३॥

सायणभाष्यम्

भारद्वाजे षष्ठे मण्डले षष्ठानुवाकाः । तत्र प्रथमेऽनुवाके पञ्चदश सूक्तानि । तत्र 'त्वं ह्यग्ने' इति त्रयोदशर्चं प्रथमं सूक्तम् । ' त्वं ह्यमे सप्तोनेति बार्हस्पत्यो भरद्वाजः षष्ठं मण्डलमपश्यत्' इत्यनुक्रान्तत्वात् मण्डलद्रष्टा स एव भरद्वाज ऋषिः । अनादेशपरिभाषया त्रिष्टुप् । मण्डलादिपरिभाषया अग्निर्देवता । पशोः हविषि अवदीयमाने मैत्रावरुणेनानुवचनीयमिदं मनोतासूक्तम् । सुत्रितं -- ' त्वं ह्यग्ने प्रथमं इत्यन्वाह' (आश्व. श्रौ. ३. ६) इति । प्रातरनुवाक आग्नेये क्रतौ त्रैष्टुभे छन्दसि एतदादिसूक्तषट्कं द्वितीयवर्जम् । सूत्रितं च--- त्वं ह्यग्ने प्रथम इति षण्णां द्वितीयमुद्धरेत् ' ( आश्व. श्रौ. ४. १३ ) इति । आद्या उपाकरणे विनियुक्ता। सूत्रं नु पूर्वमन्त्र उक्तम् ॥


त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒स्या धि॒यो अभ॑वो दस्म॒ होता॑ ।

त्वं सीं॑ वृषन्नकृणोर्दु॒ष्टरी॑तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ॥

त्वम् । हि । अग्ने । प्रथमः । मनोता । अस्या । धियः । अभवः । दस्म । होता ।

त्वम् । सीम् । वृषन् । अकृणोः । दुस्तरीतु । सहः। विश्वस्मै । सहसे । सहध्यै ॥ १ ॥

हे "अग्ने प्रथमः देवानां मध्ये प्रथमः प्रतमः प्रकृष्टतमः पूर्वभावी वा “त्वं मनोता “हि देवानां मनो यत्रोतं संबद्धं भवति तादृशो भवसि । हिशब्दः ‘अग्निः सर्वा मनोताग्नौ मनोताः संगच्छन्ते' (ऐ. ब्रा. २. १०) इत्यादिब्राह्मणप्रसिद्धिद्योतनार्थः । हे “दस्म दर्शनीय अस्याः “धियः अस्य कर्मणः होता देवानामाह्वाता "अभवः भवसि । हे वृषन् कामानां वर्षितः “त्वं "सीं सर्वतः "दुष्टरीतु दुर्हिंस्यमहिंस्यं "सहः बलम् "अकृणोः अकरोः । किमर्थम् । विश्वस्मै "सहसे सर्वस्यापि बलवतः शत्रोः "सहध्यै अभिभवनाय ।। ।


अधा॒ होता॒ न्य॑सीदो॒ यजी॑यानि॒ळस्प॒द इ॒षय॒न्नीड्य॒ः सन् ।

तं त्वा॒ नरः॑ प्रथ॒मं दे॑व॒यन्तो॑ म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ ग्मन् ॥

अध । होता । नि । असीदः । यजीयान् । इळः । पदे । इषयन् । ईड्य: । सन् ।

तम् । त्वा । नरः । प्रथमम् । देवऽयन्तः । महः । राये । चितयन्तः । अनु । ग्मन् ॥२॥

"अध अधुना हे अग्ने "यजीयान् अतिशयेन यष्टा त्वं होता होमनिष्पादकः सन् "इळः भूम्याः वेदिलक्षणायाः "पदे स्थाने “न्यसीदः निषण्णवानसि । किं कुर्वन् । "इषयन् पशुपुरोडाशादिलक्षणमन्नमिच्छन् "ईड्यः स्तुत्यः "सन् । “तं तादृशं "त्वा त्वां "प्रथमम् इतरदेवताभ्यः पूर्वं "देवयन्तः देवं त्वामात्मन इच्छन्तः "नरः नेतारो मनुष्या ऋत्विग्यजमानाः "महः महते "राये धनाय “चितयन्तः जानन्तः स्तुत्या ज्ञापयन्तो वा "अनु "ग्मन् अन्वगच्छन् पूर्वम् ॥


वृ॒तेव॒ यन्तं॑ ब॒हुभि॑र्वस॒व्यै॒३॒॑स्त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ ग्मन् ।

रुश॑न्तम॒ग्निं द॑र्श॒तं बृ॒हन्तं॑ व॒पाव॑न्तं वि॒श्वहा॑ दीदि॒वांस॑म् ॥

वृताऽइव । यन्तम् । बहुऽभिः । वसव्यैः । त्वे इति । रयिम् । जागृऽवांसः । अनु । ग्मन् ।

रुशन्तम् । अग्निम् । दर्शतम् । बृहन्तम् । वपाऽवन्तम् । विश्वहा । दीदिऽवांसम् ।। ३ ।।

“वृतेव मार्गेण । इवेति संप्रत्यर्थे । लोकद्वयमध्यगतेन मार्गेण बहुभिः अनेकैः "वसव्यैः वसुभिः ।। स्वार्थिकस्तद्धितप्रत्ययः । यजमानानां निवासयोग्यैर्वा सार्धं यन्तं गच्छन्तं त्वाम् अनु “ग्मन् अनुगच्छन्ति । संभजन्ते यजमानाः । कीदृशास्ते । “त्वे त्वयि देवे "रयिं धनं "जागृवांसः प्रयच्छन्त इत्यर्थः । कीदृशं त्वामित्युच्यते । रुशन्तं दीप्तवर्णम् अग्निम् अङ्गनादिगुणविशिष्टं दर्शतं दर्शनीयं “बृहन्तं महान्तं “वपावन्तं "विश्वहा सर्वेषु कालेषु दीदिवांसं दीप्यमानम् ॥


प॒दं दे॒वस्य॒ नम॑सा॒ व्यन्तः॑ श्रव॒स्यव॒ः श्रव॑ आप॒न्नमृ॑क्तम् ।

नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि भ॒द्रायां॑ ते रणयन्त॒ संदृ॑ष्टौ ॥

पदम् । देवस्य । नमसा । व्यन्तः । श्रवस्यवः । श्रवः । आपन् । अमृक्तम् ।

नामानि । चित् । दधिरे । यज्ञियानि । भद्रायाम् । ते। रणयन्त । सम्ऽदृष्टौ ।। ४ ।।

“देवस्य द्योतमानस्याग्नेः "पदम् आहवनीयस्थानं "नमसा हविषा स्तोत्रेण वा "व्यन्तः गच्छन्तः “श्रवस्यवः अन्नमिच्छन्तः पूर्वे यजमानाः “श्रवः सर्वत्र श्रूयमाणमन्नम् अमृक्तम् अन्यैरपरिबाध्यम् “आपन् आप्नुवन्ति । हे अग्ने ते तव “भद्रायां स्तुत्यायां "संदृष्टौ निमित्तायां "रणयन्त रमयन्ति । "यज्ञियानि यज्ञयोग्यानि नामानि नमनीयानि वैश्वानरो जातवेदा इत्यादीनि दधिरे धारयन्ति । अथवा नमनसाधनानि स्तोत्राणि दधिरे ।।


त्वां व॑र्धन्ति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया॑सो॒ जना॑नाम् ।

त्वं त्रा॒ता त॑रणे॒ चेत्यो॑ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ॥

त्वाम् । वर्धन्ति । क्षितयः । पृथिव्याम् । त्वाम् । रायः । उभयासः । जनानाम् ।

त्वम् । त्राता । तरणे । चेत्यः । भूः । पिता । माता। सदम् । इत् । मानुषाणाम् ॥ ५ ॥

हे अग्ने त्वां क्षितयः मनुष्या ऋत्विजः "पृथिव्यां वेदिलक्षणायां "वर्धन्ति वर्धयन्ति । "उभयासः उभयविधानि पश्वपशुरूपाणि "जनानां यजमानानां संबन्धीनि "रायः धनानि ऋत्विजः अध्वर्य्वादयः त्वां त्वामुद्दिश्य वर्धन्ति । अथवा उभयविधानि धनानि गवादीनि जनानां पुत्रादीनाम् अर्थाय प्राप्तुं त्वां वर्धन्ति । हे "तरणे दुःखात्तारकाग्ने “त्वं चेत्यः ज्ञातव्यः स्तुत्यः सन् “त्राता रक्षिता "भूः भवसि । किंच "मानुषाणां मनुष्याणां स्तोतॄणामस्माकं "सदमित् सर्वदा “पिता "माता च मातापितृस्थानीय भूः भवसि ॥ ॥ ३५ ॥


स॒प॒र्येण्य॒ः स प्रि॒यो वि॒क्ष्व१॒॑ग्निर्होता॑ म॒न्द्रो नि ष॑सादा॒ यजी॑यान् ।

तं त्वा॑ व॒यं दम॒ आ दी॑दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ॥

सपर्येण्यः । सः । प्रियः । विक्षु । अग्निः । होता । मन्द्रः । नि । ससाद । यजीयान् ।

तम् । त्वा । वयम् । दमे । आ । दीदिऽवांसम् । उप । ज्ञुऽबाधः । नमसा । सदेम ॥ ६ ॥

"सः "अग्निः सपर्येण्यः पूज्यः "प्रियः कामानां पूरकः विक्षु प्रजासु "होता होमनिष्पादकः “मन्द्रः मदनीयः "यजीयान् अतिशयेन इतरदेवानां यष्टा यजनायो वा । एवं महानुभावोऽग्निः “नि “षसाद निषण्णोऽभूत् । अथ प्रत्यक्षकृतः। "तं "त्वा तादृशं त्वां वयं यजमानाः "दमे गृहे "दीदिवांसं दीप्यमानं "ज्ञुबाधः जानुनी बाधयन्तः अवनतजानवः प्रणताः सन्तः नमसा स्तोत्रेण “उप “आ “सदेम आसादयेम । अथवा उपासीदेमेत्येवमाशास्ते ॥


तं त्वा॑ व॒यं सु॒ध्यो॒३॒॑ नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यन्तः॑ ।

त्वं विशो॑ अनयो॒ दीद्या॑नो दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ ॥

तम् । त्वा । वयम् । सुऽध्यः । नव्यम् । अग्ने । सुम्नऽयवः । ईमहे । देवऽयन्तः ।

त्वम् । विशः । अनयः । दीद्यानः । दिवः । अग्ने । बृहता । रोचनेन ।। ७ ।।

हे अग्ने तं तादृशं महानुभावं नव्यं स्तुत्यं “त्वा त्वां “सुध्यः शोभनबुद्धयः “सुम्नायवः सुखमिच्छन्तः “देवयन्तः देवं स्वामिच्छन्तः “वयम् ईमहे याचामहे । स्तुम इत्यर्थः । हे अग्ने त्वं "दीद्यानः दीप्यमानः सन् । केन । "बृहता महता "रोचनेन रोचमानेन तेजसा दीद्यानः विशः प्रजाः स्तोतॄनस्मान् "दिवः स्वर्गम् अनयः अगमयः । रोचनेनादित्येन दिवमगमय इति वा संबन्धः । आदित्यमार्गेणेत्यर्थः ॥


वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम् ।

प्रेती॑षणिमि॒षय॑न्तं पाव॒कं राज॑न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम् ॥

विशाम् । कविम् । विश्पतिम् । शश्वतीनाम् । निऽतोशनम् । वृषभम् । चर्षणीनाम् ।

प्रेतिऽइषणिम् । इषयन्तम् । पावकम् । राजन्तम् । अग्निम् । यजतम् । रयीणाम् ॥ ८॥

“शश्वतीनां नित्यानां विशाम् ऋत्विग्यजमानलक्षणानां विश्पतिं स्वामिनं कविं क्रान्तदर्शिनं “नितोशनं शत्रूणां हिंसकं वृषभं कामानां वर्षकं चर्षणीनां स्तोतॄणां मनुष्याणां प्रेतीषणिं प्राप्तगमनम् इषयन्तम् अन्नं कुर्वन्तं पावकं शोधकं “राजन्तं दीप्यमानं दीपयन्तं वा रयीणां लाभाय यजतं यष्टव्यम् "अग्निं स्तुम इति शेषः ॥


सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा॑ ह॒व्यदा॑तिम् ।

य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोतः॑ ॥

सः । अग्ने । ईजे । शशमे । च । मर्तः । यः । ते । आनट् । सम्ऽइधा । हव्यऽदातिम् ।

यः । आऽहुतिम् । परि । वेद । नम:ऽभिः । विश्वा । इत्। सः । वामा । दधते । त्वाऽऊतः ॥॥

हे अग्ने त्वां “सः "मर्तः स यजमानः “ईजे यजते । “शशमे च स्तौति । ' शशमानः ' (नि. ३. १४. २२ ) इति स्तुतिकर्मसु पाठादिदमपि स्तुतिकर्म । “यः यजमानः “ते तव “समिधा सह “हव्यदातिं हविषां दानम् “आनट् करोति । किंच “यः यजमानः “नमोभिः स्तुतिभिः "आहुतिम् आज्यादिलक्षणां "परि “वेद परितो वेत्ति । ददातीत्यर्थः । सः यजमानः “त्वोतः त्वया रक्षितः सन् "विश्वेत् सर्वाणि "वामा वननीयानि धनानि “दधते धारयति ।।


अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः ।

वेदी॑ सूनो सहसो गी॒र्भिरु॒क्थैरा ते॑ भ॒द्रायां॑ सुम॒तौ य॑तेम ॥

अस्मै । ऊँ इति । ते । महि । महे । विधेम । नमःऽभिः । अग्ने । सम्ऽइधा । उत । हव्यैः ।

वेदी । सूनो इति । सहसः । गीःऽभिः । उक्थैः । आ । ते । भद्रायाम् । सुऽमतौ । यतेम ।।१०।।

हे अग्ने महे महते “अस्मै “ते तुभ्यं “महि महत् अत्यधिकं “विधेम परिचरेम। कैरित्युच्यते । “नमोभिः नमस्कारैः “समिधा वा “उत अपि च “हव्यैः हविर्भिः । हे “सहसः “सूनो “वेदी वेद्यां “गीर्भिः स्तोत्रैः “उक्थैः शस्त्रैश्च विधेमेति संबन्धः । किंच “ते तव “भद्रायां स्तुत्यायां “सुमतौ शोभनानुग्रहबुद्धौ आ "यतेम आगच्छेम । भवमेत्यर्थः ॥


आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा श्रवो॑भिश्च श्रव॒स्य१॒॑स्तरु॑त्रः ।

बृ॒हद्भि॒र्वाजै॒ः स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा॑हि ॥

आ । यः । ततन्थ । रोदसी इति । वि। भासा । श्रव:ऽभिः । च । श्रवस्यः । तरुत्रः ।।

बृहत्ऽभिः । वाजैः । स्थविरेभिः । अस्मे इति । रेवत्ऽभिः । अग्ने । विऽतरम् । वि । भाहि ॥११॥

हे अग्ने "यः त्वं रोदसी द्यावापृथिव्यौ भासा दीप्त्या "वि “आ “ततन्थ व्यतनोः। किंच "तरुत्रः तारकस्त्वं श्रवोभिः स्तुतिभिः श्रवस्यः च भवसि हे तादृश अग्ने "बृहद्भिः महद्भिः “वाजैः अन्नैः स्थविरेभिः स्थविरैः स्थूलैः "रेवद्भिः रयिमद्भिः “अस्मे अस्मदर्थं “वितरं विशिष्टतरं “वि “भाहि विशेषेण दीप्यस्व ।।


नृ॒वद्व॑सो॒ सद॒मिद्धे॑ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः ।

पू॒र्वीरिषो॑ बृह॒तीरा॒रेअ॑घा अ॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ॥

नृऽवत् । वसो इति । सदम् । इत् । धेहि । अस्मे इति । भूरि । लोकाय । तनयायः। पश्वः ।।

पूर्वीः । इषः । बृहतीः । आरेऽअघाः । अस्मे इति । भद्रा । सौश्रवसानि । सन्तु ॥ १२ ॥

हे "वसो वासक धनवन् वाग्ने "नृवत् मनुष्यैरुपेतं धनं सदमित् सर्वदा अस्मे अस्मासु “धेहि स्थापय । किंच "भूरि प्रभूतान् पश्वः पशूंश्च धेहि। किमर्थम्। "तोकाय अस्मत्पुत्राय “तनयाय तत्पुत्राय । किंच “पूर्वीः पूरयित्र्यः कामानां बह्वयो वा “बृहतीः महत्यः “आरेअघाः । आरे दूरेऽघानि यासु ताः । तादृश्यः “इषः उक्तलक्षणान्यन्नानि भद्रा भद्राणि “सौश्रवसानि सुश्रवस्त्यानि “अस्मे अस्मासु “सन्तु भवन्तु ।।


“पुरूण्यग्ने' इति त्रयोदशी उखासंभरणीयेष्टौ अग्नेः क्षत्रवतोऽनुवाक्या । सूत्रितं च--- पुरूण्यग्ने पुरुधा त्वाया स चित्र चित्रं चितयन्तमस्मे' (आश्व. श्रौ. ४. १ ) इति ॥

पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू॑नि राजन्व॒सुता॑ ते अश्याम् ।

पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्त्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ॥

पुरूणि । अग्ने । पुरुधा । त्वाऽया । वसूनि । राजन् । वसुता । ते । अश्याम् ।

पुरूणि । हि । त्वे इति । पुरुऽवार । सन्ति । अग्ने । वसु । विधते । राजनि । त्वे इति ॥१३॥

हे “अग्ने “राजन् "ते तव “पुरूणि बहूनि “पुरुधा गवश्विादिरूपेण बहुप्रकाराणि “वसूनि धनानि “वसुता वसुतायै वसुमत्त्वाय “अश्यां व्याप्नुयां भुञ्जीय वा । अत्र भरतस्वामी वसुतात इत्येकपदं सप्तम्यन्तं चकार भट्टभास्करमिश्रोऽप्येकपदं संबुद्धयन्तं चकार । हे “पुरुवार बहुभिर्वरणीय “अग्ने राजनि राजमाने “त्वे त्वयि “पुरूणि बहूनि “वसु वसूनि “त्वे त्वां “विधते परिचरते मह्यं दातव्यानि “सन्ति ॥ ॥ ३६ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थाँश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये चतुर्थाष्टके चतुर्थोऽध्यायः समाप्तः ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.१&oldid=199734" इत्यस्माद् पुनः प्राप्तिः