ऋग्वेदः सूक्तं ६.६८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.६७ ऋग्वेदः - मण्डल ६
सूक्तं ६.६८
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.६९ →
दे. इन्द्रावरुणौ। त्रिष्टुप्, ९-१० जगती


श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद्वृक्तबर्हिषो यजध्यै ।
आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत् ॥१॥
ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठा ता हि भूतम् ।
मघोनां मंहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना ॥२॥
ता गृणीहि नमस्येभिः शूषैः सुम्नेभिरिन्द्रावरुणा चकाना ।
वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्यन्यो वृजनेषु विप्रः ॥३॥
ग्नाश्च यन्नरश्च वावृधन्त विश्वे देवासो नरां स्वगूर्ताः ।
प्रैभ्य इन्द्रावरुणा महित्वा द्यौश्च पृथिवि भूतमुर्वी ॥४॥
स इत्सुदानुः स्ववाँ ऋतावेन्द्रा यो वां वरुण दाशति त्मन् ।
इषा स द्विषस्तरेद्दास्वान्वंसद्रयिं रयिवतश्च जनान् ॥५॥
यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तं पुरुक्षुम् ।
अस्मे स इन्द्रावरुणावपि ष्यात्प्र यो भनक्ति वनुषामशस्तीः ॥६॥
उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् ।
येषां शुष्मः पृतनासु साह्वान्प्र सद्यो द्युम्ना तिरते ततुरिः ॥७॥
नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा ।
इत्था गृणन्तो महिनस्य शर्धोऽपो न नावा दुरिता तरेम ॥८॥
प्र सम्राजे बृहते मन्म नु प्रियमर्च देवाय वरुणाय सप्रथः ।
अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्यजरो न शोचिषा ॥९॥
इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रता ।
युवो रथो अध्वरं देववीतये प्रति स्वसरमुप याति पीतये ॥१०॥
इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् ।
इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन्बर्हिषि मादयेथाम् ॥११॥


सायणभाष्यम्

' श्रुष्टी वाम्' इत्येकादशर्चं सप्तमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रावरुणम् । तथा चानुक्रम्यते - ‘ श्रुष्टी वामैन्द्रावरुणमुपान्त्ये जगत्यौ ' इति । ‘ प्र सम्राजे, इन्द्रावरुणा सुतपौ ' इत्येते जगत्यौ शिष्टास्त्रिष्टुभः । इन्द्रावरुणौ देवता । आभिप्लविकेषूक्थ्येषु तृतीयसवने होत्रकशस्त्रेषु स्तोमवृद्धौ मैत्रावरुणस्येदमावापार्थं सूक्तम् । सूत्रितं च - श्रुष्टी वां यज्ञो युवां नरा ' ( आश्व. श्रौ. ७. ९) इति । तृतीयसवने ‘ इन्द्रावरुणा सुतपाविमं सुतम् ' इति प्रशास्तुः प्रस्थितयाज्या । सूत्रितं च - इन्द्रावरुणा सुतपाविमं सुतमिन्द्रश्च सोमं पिबतं बृहस्पते ' ( आश्व. श्रौ. ५. ५) इति । उक्थ्ये तृतीयसवने ‘ इन्द्रावरुणा मधुमत्तमस्य ' इति मैत्रावरुणस्य शस्त्रयाज्या । सूत्रितं च - ‘ इन्द्रावरुणा मधुमत्तमस्येति याज्या ' (आश्व. श्रौ. ६. १) इति ।।


श्रु॒ष्टी वां॑ य॒ज्ञ उद्य॑तः स॒जोषा॑ मनु॒ष्वद्वृ॒क्तब॑र्हिषो॒ यज॑ध्यै ।

आ य इन्द्रा॒वरु॑णावि॒षे अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ॑व॒वर्त॑त् ॥१

श्रु॒ष्टी । वा॒म् । य॒ज्ञः । उत्ऽय॑तः । स॒ऽजोषाः॑ । म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषः । यज॑ध्यै ।

आ । यः । इन्द्रा॒वरु॑णौ । इ॒षे । अ॒द्य । म॒हे । सु॒म्नाय॑ । म॒हे । आ॒ऽव॒वर्त॑त् ॥१

श्रुष्टी । वाम् । यज्ञः । उत्ऽयतः । सऽजोषाः । मनुष्वत् । वृक्तऽबर्हिषः । यजध्यै ।

आ । यः । इन्द्रावरुणौ । इषे । अद्य । महे । सुम्नाय । महे । आऽववर्तत् ॥१

“महे मंहनीयौ हे "इन्द्रावरुणौ "वां युवयोरर्थे “श्रुष्टी क्षिप्रः । तथा च यास्कः - श्रुष्टीति क्षिप्रनामाशु अष्टीति ' (निरु. ६. १२)। "यज्ञः सोमः "सजोषाः ऋत्विग्भिः सहितः "अद्य “आ समन्तात् "उद्यतः प्रवृत्तः । "यः सोमः "मनुष्वत् मनोरिव “वृक्तबर्हिषः स्तीर्णबर्हिषः यजमानस्य “इषे अन्नार्थं "महे महते "सुम्नाय सुखाय च "यजध्यै यष्टुं वाम् "आववर्तत आवर्तयति ॥


ता हि श्रेष्ठा॑ दे॒वता॑ता तु॒जा शूरा॑णां॒ शवि॑ष्ठा॒ ता हि भू॒तम् ।

म॒घोनां॒ मंहि॑ष्ठा तुवि॒शुष्म॑ ऋ॒तेन॑ वृत्र॒तुरा॒ सर्व॑सेना ॥२

ता । हि । श्रेष्ठा॑ । दे॒वऽता॑ता । तु॒जा । शूरा॑णाम् । शवि॑ष्ठा । ता । हि । भू॒तम् ।

म॒घोना॑म् । मंहि॑ष्ठा । तु॒वि॒ऽशुष्मा॑ । ऋ॒तेन॑ । वृ॒त्र॒ऽतुरा॑ । सर्व॑ऽसेना ॥२

ता । हि । श्रेष्ठा । देवऽताता । तुजा । शूराणाम् । शविष्ठा । ता । हि । भूतम् ।

मघोनाम् । मंहिष्ठा । तुविऽशुष्मा । ऋतेन । वृत्रऽतुरा । सर्वऽसेना ॥२

हे इन्द्रावरुणौ “ता तौ प्रसिद्धौ युवां “श्रेष्ठा श्रेष्ठौ "देवताता देवतातौ यज्ञे। ' इष्टिः देवताता ' इति यज्ञनामसु पाठात् । "तुजा धनानां प्रेरकौ “हि "भूतं भवतम् । किंच “ता तौ “हि युवां “शूराणां मध्ये “शविष्ठा अतिशयेन बलवन्तौ भूतम् । किंच “मघोनां दानवतां “मंहिष्ठा दातृतमौ “तुविशुष्मा बहुबलौ “ऋतेन सत्येन "वृत्रतुरा शत्रूणां हिंसकौ "सर्वसेना कृत्स्नसेनौ च भूतमिति ॥


ता गृ॑णीहि नम॒स्ये॑भिः शू॒षैः सु॒म्नेभि॒रिन्द्रा॒वरु॑णा चका॒ना ।

वज्रे॑णा॒न्यः शव॑सा॒ हन्ति॑ वृ॒त्रं सिष॑क्त्य॒न्यो वृ॒जने॑षु॒ विप्र॑ः ॥३

ता । गृ॒णी॒हि॒ । न॒म॒स्ये॑भिः । शू॒षैः । सु॒म्नेभिः॑ । इन्द्रा॒वरु॑णा । च॒का॒ना ।

वज्रे॑ण । अ॒न्यः । शव॑सा । हन्ति॑ । वृ॒त्रम् । सिस॑क्ति । अ॒न्यः । वृ॒जने॑षु । विप्रः॑ ॥३

ता । गृणीहि । नमस्येभिः । शूषैः । सुम्नेभिः । इन्द्रावरुणा । चकाना ।

वज्रेण । अन्यः । शवसा । हन्ति । वृत्रम् । सिसक्ति । अन्यः । वृजनेषु । विप्रः ॥३

हे भरद्वाज "नमस्येभिः स्तुत्यैः “शूषैः बलैः । ' शूषम् ' इति बलनामसु पाठात् । "सुम्नेमिः। सुखैश्च सर्वैः "चकाना स्तुतौ॥ कायतिः शब्दकर्मा । तस्य लिटः कानचि रूपमिदम् ॥ “ता ताविन्द्रावरुणौ "गृणीहि स्तुहि । "अन्यः तयोरन्य इन्द्रः “वृत्रं वृत्रनामकमसुरं "वज्रेण "हन्ति । "अन्यः वरुणः "विप्रः प्राज्ञः "वृजनेषु स्तोतॄणामुपद्रवेषु रक्षितुं "शवसा बलेन "सिषक्ति संगच्छते ॥


ग्नाश्च॒ यन्नर॑श्च वावृ॒धन्त॒ विश्वे॑ दे॒वासो॑ न॒रां स्वगू॑र्ताः ।

प्रैभ्य॑ इन्द्रावरुणा महि॒त्वा द्यौश्च॑ पृथिवि भूतमु॒र्वी ॥४

ग्नाः । च॒ । यत् । नरः॑ । च॒ । व॒वृ॒धन्त॑ । विश्वे॑ । दे॒वासः॑ । न॒राम् । स्वऽगू॑र्ताः ।

प्र । ए॒भ्यः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । म॒हि॒ऽत्वा । द्यौः । च॒ । पृ॒थि॒वि॒ । भू॒त॒म् । उ॒र्वी इति॑ ॥४

ग्नाः । च । यत् । नरः । च । ववृधन्त । विश्वे । देवासः । नराम् । स्वऽगूर्ताः ।

प्र । एभ्यः । इन्द्रावरुणा । महिऽत्वा । द्यौः । च । पृथिवि । भूतम् । उर्वी इति ॥४

"नरां नृणां मनुष्याणां मध्ये "ग्नाश्च स्त्रियश्च । 'मेना ग्ना इति स्त्रीणाम् ' (निरु. ३. २१) इति यास्कवचनात् । "नरश्च पुरुषाश्च "विश्वे सर्वे "देवासः देवाः स्तोतारः ॥ देवासः इत्यत्र ‘ पुमान् स्त्रिया ' इत्येकशेषात् देव्यश्च देवाश्च देवास इति निदेशः पुंवन्निर्देशः ॥ "स्वगूर्ताः स्वयमुद्यताः "यत् यदा “ववृधन्त स्तुतिभिर्वर्धयन्ते तदा हे इन्द्रावरुणौ "महित्वा महत्त्वयुक्तौ “एभ्यः स्तोतृभ्यः "प्र “भूतं प्रभवतम् । हे "द्यौः "पृथिवि “च उभे “उर्वी विस्तीर्णे युवामेभ्यः प्र भूतमित्यनुषङ्गः ॥


स इत्सु॒दानु॒ः स्ववाँ॑ ऋ॒तावेन्द्रा॒ यो वां॑ वरुण॒ दाश॑ति॒ त्मन् ।

इ॒षा स द्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिं र॑यि॒वत॑श्च॒ जना॑न् ॥५

सः । इत् । सु॒ऽदानुः॑ । स्वऽवा॑न् । ऋ॒तऽवा॑ । इन्द्रा॑ । यः । वा॒म् । व॒रु॒णा॒ । दाश॑ति । त्मन् ।

इ॒षा । सः । द्वि॒षः । त॒रे॒त् । दास्वा॑न् । वंस॑त् । र॒यिम् । र॒यि॒ऽवतः॑ । च॒ । जना॑न् ॥५

सः । इत् । सुऽदानुः । स्वऽवान् । ऋतऽवा । इन्द्रा । यः । वाम् । वरुणा । दाशति । त्मन् ।

इषा । सः । द्विषः । तरेत् । दास्वान् । वंसत् । रयिम् । रयिऽवतः । च । जनान् ॥५

हे “इन्द्रा इन्द्रौ "वरुणा हे वरुणौ ॥ इतरेतरयोगादुभयत्र द्विवचनप्रयोगः । वरुणेत्यत्र संहितायां ह्रस्वश्छान्दसः ॥ "वां युवाभ्यां "यः यजमानः "त्मन् आत्मनैव "दाशति हवींषि ददाति “स “इत् स एव "सुदानुः शोभनदानो भवति । "स्ववान् धनवांश्च “ऋतावा यज्ञवांश्च भवति । किंच "सः "दास्वान् दानवान् "द्विषः द्वेष्टुः "इषा अन्नेन जयलब्धेन सह "तरेत् प्राप्येत । अपि च “रयिं धनं "रयिवतः धनवतः “जनान् पुत्रान् "च "वंसत् संभजेत् ॥ ॥ ११ ॥


यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मन्तं पुरु॒क्षुम् ।

अ॒स्मे स इ॑न्द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ॥६

यम् । यु॒वम् । दा॒शुऽअ॑ध्वराय । दे॒वा॒ । र॒यिम् । ध॒त्थः । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् ।

अ॒स्मे इति॑ । सः । इ॒न्द्रा॒व॒रु॒णौ॒ । अपि॑ । स्या॒त् । प्र । यः । भ॒नक्ति॑ । व॒नुषा॑म् । अश॑स्तीः ॥६

यम् । युवम् । दाशुऽअध्वराय । देवा । रयिम् । धत्थः । वसुऽमन्तम् । पुरुऽक्षुम् ।

अस्मे इति । सः । इन्द्रावरुणौ । अपि । स्यात् । प्र । यः । भनक्ति । वनुषाम् । अशस्तीः ॥६

"देवा देवौ स्तूयमानौ हे "इन्द्रावरुणौ "युवं युवां “दाश्वध्वराय दत्तहविष्काय “वसुमन्तं धनानुबन्धिनं "पुरुक्षुं बह्वन्नं पूर्णयशस्कं वा “यं यादृशं "रयिं धनं “धत्थः प्रयच्छथः । “यः "अपि च "वनुषां हिंसकानाम् "अशस्ती: अकीर्तीः। शत्रुकृतान्ययशांसीत्यर्थः। “प्र “भनक्ति प्ररुजति “सः तादृशो रयिः "अस्मे अस्मासु "स्यात् भूयात् ॥


उ॒त न॑ः सुत्रा॒त्रो दे॒वगो॑पाः सू॒रिभ्य॑ इन्द्रावरुणा र॒यिः ष्या॑त् ।

येषां॒ शुष्म॒ः पृत॑नासु सा॒ह्वान्प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु॑रिः ॥७

उ॒त । नः॒ । सु॒ऽत्रा॒त्रः । दे॒वऽगो॑पाः । सू॒रिऽभ्यः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । र॒यिः । स्या॒त् ।

येषा॑म् । शुष्मः॑ । पृत॑नासु । स॒ह्वान् । प्र । स॒द्यः । द्यु॒म्ना । ति॒रते॑ । ततु॑रिः ॥७

उत । नः । सुऽत्रात्रः । देवऽगोपाः । सूरिऽभ्यः । इन्द्रावरुणा । रयिः । स्यात् ।

येषाम् । शुष्मः । पृतनासु । सह्वान् । प्र । सद्यः । द्युम्ना । तिरते । ततुरिः ॥७

“उत अपि च “इन्द्रावरुणा हे इन्द्रावरुणौ "सूरिभ्यः स्तोतृभ्यः "नः अस्मभ्यं "सुत्रात्रः सुरक्षः “देवगोपाः । देवा गोपा गोप्तारो यस्य स तथाविधः । "रयिः धनं "स्यात् भूयात् । किंच “येषाम् अस्माकं “शुष्मः बलं "पृतनासु युद्धेषु "साह्वान् शत्रूणामभिभविता “ततुरिः हिंसकश्च सन् "द्युम्ना यशांसि “सद्यः एव “प्र “तिरते सम्यक् तिरस्कुर्यात् ॥


नू न॑ इन्द्रावरुणा गृणा॒ना पृ॒ङ्क्तं र॒यिं सौ॑श्रव॒साय॑ देवा ।

इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्धो॒ऽपो न ना॒वा दु॑रि॒ता त॑रेम ॥८

नु । नः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । गृ॒णा॒ना । पृ॒ङ्क्तम् । र॒यिम् । सौ॒श्र॒व॒साय॑ । दे॒वा॒ ।

इ॒त्था । गृ॒णन्तः॑ । म॒हिन॑स्य । शर्धः॑ । अ॒पः । न । ना॒वा । दुः॒ऽइ॒ता । त॒रे॒म॒ ॥८

नु । नः । इन्द्रावरुणा । गृणाना । पृङ्क्तम् । रयिम् । सौश्रवसाय । देवा ।

इत्था । गृणन्तः । महिनस्य । शर्धः । अपः । न । नावा । दुःऽइता । तरेम ॥८

हे “इन्द्रावरुणा इन्द्रावरुणौ "गृणाना स्तूयमानौ युवां "नः अस्मभ्यं "सौश्रवसाय । सुश्रवसो भावः सौश्रवसम् । तस्मै सुश्रवस्त्वाय "रयिं धनं "नु क्षिप्रं "पृङ्क्तं प्रयच्छतम् । किंच “देवा हे देवौ "महिनस्य महतोर्युवयोः “शर्धः बलम् “इत्था इत्थं "गृणन्तः स्तुवन्तो वयं "दुरिता दुरितानि "नावा "अपो "न उदकानीव "तरेम ।।


प्र स॒म्राजे॑ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथ॑ः ।

अ॒यं य उ॒र्वी म॑हि॒ना महि॑व्रत॒ः क्रत्वा॑ वि॒भात्य॒जरो॒ न शो॒चिषा॑ ॥९

प्र । स॒म्ऽराजे॑ । बृ॒ह॒ते । मन्म॑ । नु । प्रि॒यम् । अर्च॑ । दे॒वाय॑ । वरु॑णाय । स॒ऽप्रथः॑ ।

अ॒यम् । यः । उ॒र्वी इति॑ । म॒हि॒ना । महि॑ऽव्रतः । क्रत्वा॑ । वि॒ऽभाति॑ । अ॒जरः॑ । न । शो॒चिषा॑ ॥९

प्र । सम्ऽराजे । बृहते । मन्म । नु । प्रियम् । अर्च । देवाय । वरुणाय । सऽप्रथः ।

अयम् । यः । उर्वी इति । महिना । महिऽव्रतः । क्रत्वा । विऽभाति । अजरः । न । शोचिषा ॥९

हे स्तोतः "सम्राजे आज्ञया राज्ञां शासकाय "बृहते परिवृढाय “देवाय द्योतमानाय “वरुणाय “प्रियं मनोहरं "सप्रथः सर्वतः पृथु। तथा च यास्कः - ‘ सप्रथाः सर्वतः पृथुः ' ( निरु. ६. ७ ) इति । "मन्म स्तोत्रं “नु अद्य “प्र “अर्च प्रोच्चारय । "अयं "यः योऽयं वरुणः "महिना महिम्ना युक्तः “महिव्रतः महाकर्मा “क्रत्वा प्रज्ञया च युक्तः "अजरो “न जरारहितश्च “उर्वी विस्तीर्णे द्यावापृथिव्यौ “शोचिषा दीप्त्या "विभाति विभासयति ।।


इन्द्रा॑वरुणा सुतपावि॒मं सु॒तं सोमं॑ पिबतं॒ मद्यं॑ धृतव्रता ।

यु॒वो रथो॑ अध्व॒रं दे॒ववी॑तये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये॑ ॥१०

इन्द्रा॑वरुणा । सु॒त॒ऽपौ॒ । इ॒मम् । सु॒तम् । सोम॑म् । पि॒ब॒त॒म् । मद्य॑म् । धृ॒त॒ऽव्र॒ता॒ ।

यु॒वोः । रथः॑ । अ॒ध्व॒रम् । दे॒वऽवी॑तये । प्रति॑ । स्वस॑रम् । उप॑ । या॒ति॒ । पी॒तये॑ ॥१०

इन्द्रावरुणा । सुतऽपौ । इमम् । सुतम् । सोमम् । पिबतम् । मद्यम् । धृतऽव्रता ।

युवोः । रथः । अध्वरम् । देवऽवीतये । प्रति । स्वसरम् । उप । याति । पीतये ॥१०

“इन्द्रावरुणा हे इन्द्रावरुणौ "सुतपौ सुतस्य सोमस्य पातारौ युवां “मद्यं मदकरं "सुतम् अभिषुतम् “इमं “सोमं “पिबतम् । किंच “धृतव्रता हे धृतकर्माणौ "युवोः युवयोः “रथः “अध्वरम् उद्दिश्य “देववीतये देवानां पानार्थं “पीतये युवयोरपि सोमपानार्थं “स्वसरं मार्ग “प्रति “उप “याति ।।


इन्द्रा॑वरुणा॒ मधु॑मत्तमस्य॒ वृष्ण॒ः सोम॑स्य वृष॒णा वृ॑षेथाम् ।

इ॒दं वा॒मन्ध॒ः परि॑षिक्तम॒स्मे आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयेथाम् ॥११

इन्द्रा॑वरुणा । मधु॑मत्ऽतमस्य । वृष्णः॑ । सोम॑स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् ।

इ॒दम् । वा॒म् । अन्धः॑ । परि॑ऽसिक्तम् । अ॒स्मे इति॑ । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒ये॒था॒म् ॥११

इन्द्रावरुणा । मधुमत्ऽतमस्य । वृष्णः । सोमस्य । वृषणा । आ । वृषेथाम् ।

इदम् । वाम् । अन्धः । परिऽसिक्तम् । अस्मे इति । आऽसद्य । अस्मिन् । बर्हिषि । मादयेथाम् ॥११

“इन्द्रावरुणा हे इन्द्रावरुणौ “वृषणा कामानां वर्षितारौ युवां “मधुमत्तमस्य अतिशयेन मधुमन्तं रसवन्तं “वृष्णः वर्षितारं “सोमस्य सोमम् “आ “वृषेथाम् अश्नीतम् । तथा च शतपथब्राह्मणं - यथाभागमावृषायध्वमिति यथाभागमश्नीतेत्येवैतदाह ' ( श. ब्रा. २. ४. ३. २०) इति । “वां युवयोरथें “इदम् “अन्धः सोमरूपमन्नम् “अस्मे अस्माभिः “परिषिक्तं पात्रेषु । अतः “आसद्य उपविश्य “अस्मिन् “बर्हिषि यज्ञे “मादयेथां सोमपानेनेति शेषः ॥ ॥ १२ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.६८&oldid=200456" इत्यस्माद् पुनः प्राप्तिः