ऋग्वेदः सूक्तं ६.६९
← सूक्तं ६.६८ | ऋग्वेदः - मण्डल ६ सूक्तं ६.६९ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.७० → |
दे. इन्द्राविष्णू। त्रिष्टुप् |
सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य ।
जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥१॥
या विश्वासां जनितारा मतीनामिन्द्राविष्णू कलशा सोमधाना ।
प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥२॥
इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना ।
सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥३॥
आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु ।
जुषेथां विश्वा हवना मतीनामुप ब्रह्माणि शृणुतं गिरो मे ॥४॥
इन्द्राविष्णू तत्पनयाय्यं वां सोमस्य मद उरु चक्रमाथे ।
अकृणुतमन्तरिक्षं वरीयोऽप्रथतं जीवसे नो रजांसि ॥५॥
इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या ।
घृतासुती द्रविणं धत्तमस्मे समुद्र स्थः कलशः सोमधानः ॥६॥
इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् ।
आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे ॥७॥
उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः ।
इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥८॥
सायणभाष्यम्
‘सं वां कर्मणा ' इत्यष्टर्चमष्टमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रावैष्णवम् । अनुक्रम्यते च -- ‘ सं वामष्टावैन्द्रावैष्णवम् ' इति । उक्थ्ये तृतीयसवनेऽच्छावाकशस्त्र एतत् सूक्तम् । सूत्र्यते हि - सं वां कर्मणेन्द्राविष्णू मदपती मदानामिति याज्या ' ( आश्व. श्रौ. ६. १ ) इति । सोमातिरेके प्रातःसवने नैमित्तिके शस्त्रे परिहिते सति गाणगारिमते ‘सं वाम् ' इति तस्य शस्त्रयाज्या । सूत्रितं च -- ‘ ऐन्द्रावैष्णव्येति गाणगारिदैवतप्रधानत्वात् सं वां कर्मणा समिषा हिनोमि' (आश्व. श्रौ. ६. ७ ) इति । सोमातिरेके माध्यंदिनसवने ‘ या विश्वासाम् ' इत्येषा शस्त्रयाज्या । सूत्रितं च -- ‘या विश्वासां जनितारा मतीनामिति याज्या ' ( आश्व. श्रौ. ६. ७) इति । उक्थ्ये तृतीयसवनेऽच्छावाकस्य ‘इन्द्राविष्णू मदपती ' इति शस्त्रयाज्या । सूत्रं तूदाहृतम् । तृतीयसवनेऽच्छावाकस्य ' इन्द्राविष्णू पिबतम् ' इति प्रस्थितयाज्या। सूत्रितं च - ‘ इन्द्राविष्णू पिबतं मध्वो अस्येमं स्तोममर्हते जातवेदसे ' (आश्व. श्रौ. ५. ५) इति ॥
सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य ।
जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभि॑ः पा॒रय॑न्ता ॥१
सम् । वा॒म् । कर्म॑णा । सम् । इ॒षा । हि॒नो॒मि॒ । इन्द्रा॑विष्णू॒ इति॑ । अप॑सः । पा॒रे । अ॒स्य ।
जु॒षेथा॑म् । य॒ज्ञम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । अरि॑ष्टैः । नः॒ । प॒थिऽभिः॑ । पा॒रय॑न्ता ॥१
सम् । वाम् । कर्मणा । सम् । इषा । हिनोमि । इन्द्राविष्णू इति । अपसः । पारे । अस्य ।
जुषेथाम् । यज्ञम् । द्रविणम् । च । धत्तम् । अरिष्टैः । नः । पथिऽभिः । पारयन्ता ॥१
हे “इन्द्राविष्णू “वां युवां “कर्मणा स्तोत्रेण “इषा हविषा च “सं “हिनोमि सम्यक् प्रेरयामि । “अपसः कर्मणः “अस्य उक्थस्य “पारे समाप्तौ “यज्ञं “जुषेथां सेवेथाम् । किंच “अरिष्टैः अनुपद्रवैः “पथिभिः मार्गैः "नः अस्मान् “पारयन्ता पारं नयन्तौ युवां “द्रविणं धनं “धत्तम् अस्मभ्यं दत्तम् ॥
या विश्वा॑सां जनि॒तारा॑ मती॒नामिन्द्रा॒विष्णू॑ क॒लशा॑ सोम॒धाना॑ ।
प्र वां॒ गिर॑ः श॒स्यमा॑ना अवन्तु॒ प्र स्तोमा॑सो गी॒यमा॑नासो अ॒र्कैः ॥२
या । विश्वा॑साम् । ज॒नि॒तारा॑ । म॒ती॒नाम् । इन्द्रा॒विष्णू॒ इति॑ । क॒लशा॑ । सो॒म॒ऽधाना॑ ।
प्र । वा॒म् । गिरः॑ । श॒स्यमा॑नाः । अ॒व॒न्तु॒ । प्र । स्तोमा॑सः । गी॒यमा॑नासः । अ॒र्कैः ॥२
या । विश्वासाम् । जनितारा । मतीनाम् । इन्द्राविष्णू इति । कलशा । सोमऽधाना ।
प्र । वाम् । गिरः । शस्यमानाः । अवन्तु । प्र । स्तोमासः । गीयमानासः । अर्कैः ॥२
“या यौ प्रसिद्धौ “इन्द्राविष्णू “विश्वासां सर्वासां “मतीनां स्तुतीनां “जनितारा जनितारौ ॥ ‘ जन जनने ' इत्यस्मात् धातोः तृचि इदं रूपम् । यद्वा । ‘ जनी प्रादुर्भावे ' इत्यस्मात् धातोरेव तृचि । जनिता मन्त्रे ' इति निपातनात् णिलोपः ॥ “ कलशा कलशौ “सोमधाना सोमस्य निधानभूतौ च स्याताम् । अथ प्रत्यक्षस्तुतिः । हे इन्द्राविष्णू “वां युवां “शस्यमानाः उच्चार्यमाणाः शस्त्ररूपाः “गिरः वाचः “प्र “अवन्तु प्राप्नुवन्तु । “अर्कैः स्तोतृभिः “गीयमानासः गीयमानाः “स्तोमासः स्तोमाः स्तोत्राणि च "प्र अवन्तु प्राप्नुवन्तु ॥
इन्द्रा॑विष्णू मदपती मदाना॒मा सोमं॑ यातं॒ द्रवि॑णो॒ दधा॑ना ।
सं वा॑मञ्जन्त्व॒क्तुभि॑र्मती॒नां सं स्तोमा॑सः श॒स्यमा॑नास उ॒क्थैः ॥३
इन्द्रा॑विष्णू॒ इति॑ । म॒द॒प॒ती॒ इति॑ मदऽपती । म॒दा॒ना॒म् । आ । सोम॑म् । या॒त॒म् । द्रवि॑णो॒ इति॑ । दधा॑ना ।
सम् । वा॒म् । अ॒ञ्ज॒न्तु॒ । अ॒क्तुऽभिः॑ । म॒ती॒नाम् । सम् । स्तोमा॑सः । श॒स्यमा॑नासः । उ॒क्थैः ॥३
इन्द्राविष्णू इति । मदपती इति मदऽपती । मदानाम् । आ । सोमम् । यातम् । द्रविणो इति । दधाना ।
सम् । वाम् । अञ्जन्तु । अक्तुऽभिः । मतीनाम् । सम् । स्तोमासः । शस्यमानासः । उक्थैः ॥३
हे “इन्द्राविष्णू “मदानां सोमानां “मदपती स्वामिनौ । मदपती इत्यत्र मदशब्दः अनुवादः । “द्रविणो द्रविणानि धनान्यपि ॥ द्रविणा उ इति पदद्वयमेकीभूय द्रविणो इति निष्पन्नं पदम् ॥ "दधाना ददानौ युवां “सोमम् अभि “आ “यातम् । मतीनां स्तोतॄणां “स्तोमासः स्तोत्राणि “उक्थैः शस्त्रैः सार्धं “शस्यमानासः उच्चार्यमाणाः “वां युवाम् “अक्तुभिः तेजोभिः “सम् “अञ्जन्तु समर्धयन्तु । सं समिति द्विरुक्तिरादार्था ।
आ वा॒मश्वा॑सो अभिमाति॒षाह॒ इन्द्रा॑विष्णू सध॒मादो॑ वहन्तु ।
जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा॑णि शृणुतं॒ गिरो॑ मे ॥४
आ । वा॒म् । अश्वा॑सः । अ॒भि॒मा॒ति॒ऽसहः॑ । इन्द्रा॑विष्णू॒ इति॑ । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ।
जु॒षेथा॑म् । विश्वा॑ । हव॑ना । म॒ती॒नाम् । उप॑ । ब्रह्मा॑णि । शृ॒णु॒त॒म् । गिरः॑ । मे॒ ॥४
आ । वाम् । अश्वासः । अभिमातिऽसहः । इन्द्राविष्णू इति । सधऽमादः । वहन्तु ।
जुषेथाम् । विश्वा । हवना । मतीनाम् । उप । ब्रह्माणि । शृणुतम् । गिरः । मे ॥४
हे “इन्द्राविष्णू “वां युवाम् “अभिमातिषाहः अभिमातीनां हिंसकानामभिभवितारः “सधमादः सह माद्यन्तः “अश्वासः अश्वाः “आ “वहन्तु । "मतीनां स्तोतॄणां “विश्वा विश्वानि सर्वाणि “हवना हवनानि स्तोत्राणि "जुषेथां सेवेथाम् । तदर्थं “मे मदीयानि “ब्रह्माणि स्तोत्राणि “गिरः शस्त्ररूपा वाचश्च “उप “शृणुतम् ॥
इन्द्रा॑विष्णू॒ तत्प॑न॒याय्यं॑ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे ।
अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे॑ नो॒ रजां॑सि ॥५
इन्द्रा॑विष्णू॒ इति॑ । तत् । प॒न॒याय्य॑म् । वा॒म् । सोम॑स्य । मदे॑ । उ॒रु । च॒क्र॒मा॒थे॒ इति॑ ।
अकृ॑णुतम् । अ॒न्तरि॑क्षम् । वरी॑यः । अप्र॑थतम् । जी॒वसे॑ । नः॒ । रजां॑सि ॥५
इन्द्राविष्णू इति । तत् । पनयाय्यम् । वाम् । सोमस्य । मदे । उरु । चक्रमाथे इति ।
अकृणुतम् । अन्तरिक्षम् । वरीयः । अप्रथतम् । जीवसे । नः । रजांसि ॥५
हे “इन्द्राविष्णू “वां युवयोः “तत् कर्म “पनयाय्यं स्तुत्यम् । किं तत् कर्मेत्यत आह । “सोमस्य "मदे सति यत् "उरु विस्तीर्णं “चक्रमाथे विचक्रमाथे । यद्यपि विष्णोरेव विक्रमः तथापि एकार्थत्वादुभयोरित्युच्यते । यच्च “अन्तरिक्षं “वरीयः उरुतरम् “अकृणुतम् अकुरुतम् । यदपि च "रजांसि लोकान् सर्वान् । 'लोका रजांस्युच्यन्ते ' इति यास्कः । “नः अस्माकं “जीवसे जीवनाय "अप्रथतम् अप्रथयतम् ॥
इन्द्रा॑विष्णू ह॒विषा॑ वावृधा॒नाग्रा॑द्वाना॒ नम॑सा रातहव्या ।
घृता॑सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थ॑ः क॒लश॑ः सोम॒धान॑ः ॥६
इन्द्रा॑विष्णू॒ इति॑ । ह॒विषा॑ । व॒वृ॒धा॒ना । अग्र॑ऽअद्वाना । नम॑सा । रा॒त॒ऽह॒व्या॒ ।
घृता॑सुती॒ इति॒ घृत॑ऽआसुती । द्रवि॑णम् । ध॒त्त॒म् । अ॒स्मे इति॑ । स॒मु॒द्रः । स्थः॒ । क॒लशः॑ । सो॒म॒ऽधानः॑ ॥६
इन्द्राविष्णू इति । हविषा । ववृधाना । अग्रऽअद्वाना । नमसा । रातऽहव्या ।
घृतासुती इति घृतऽआसुती । द्रविणम् । धत्तम् । अस्मे इति । समुद्रः । स्थः । कलशः । सोमऽधानः ॥६
“घृतासुती घृतान्नौ “इन्द्राविष्णू युवां “हविषा सोमेन “वावृधाना वर्धमानौ “अग्राद्वाना सोमाग्रस्य शुक्रस्य अत्तारौ “नमसा नमस्कारेण “रातहव्या दत्तहविष्कौ यजमानैः “अस्मे अस्मभ्यं “द्रविणं धनं “धत्तं प्रयच्छतम् । किंच युवां “समुद्रः उदधिरिव “स्थः भवथः । यतः “सोमधानः सोमनिधानः “कलशः भवथः ।।
इन्द्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथाम् ।
आ वा॒मन्धां॑सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा॑णि शृणुतं॒ हवं॑ मे ॥७
इन्द्रा॑विष्णू॒ इति॑ । पिब॑तम् । मध्वः॑ । अ॒स्य । सोम॑स्य । द॒स्रा॒ । ज॒ठर॑म् । पृ॒णे॒था॒म् ।
आ । वा॒म् । अन्धां॑सि । म॒दि॒राणि॑ । अ॒ग्म॒न् । उप॑ । ब्रह्मा॑णि । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥७
इन्द्राविष्णू इति । पिबतम् । मध्वः । अस्य । सोमस्य । दस्रा । जठरम् । पृणेथाम् ।
आ । वाम् । अन्धांसि । मदिराणि । अग्मन् । उप । ब्रह्माणि । शृणुतम् । हवम् । मे ॥७
“दस्रा हे दर्शनीयौ “इन्द्राविष्णू युवां “मध्वो “अस्य मदकरमिमं “सोमस्य सोमं “पिबतम् । किंच "जठरम् उदरं “पृणेथां सोमेन पूरयेथाम् । हे इन्द्राविष्णू “वां युवां “मदिराणि मदकराणि “अन्धांसि सोमात्मकान्यन्नानि “आ “अग्मन् अभिगच्छन्तु । “मे मदीयानि “ब्रह्माणि स्तोत्राणि “हवं मदीयमाह्वानं च “उप “शृणुतम् ॥
उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनो॑ः ।
इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् ॥८
उ॒भा । जि॒ग्य॒थुः॒ । न । परा॑ । ज॒ये॒थे॒ इति॑ । न । परा॑ । जि॒ग्ये॒ । क॒त॒रः । च॒न । ए॒नोः॒ ।
इन्द्रः॑ । च॒ । वि॒ष्णो॒ इति॑ । यत् । अप॑स्पृधेथाम् । त्रे॒धा । स॒हस्र॑म् । वि । तत् । ऐ॒र॒ये॒था॒म् ॥८
उभा । जिग्यथुः । न । परा । जयेथे इति । न । परा । जिग्ये । कतरः । चन । एनोः ।
इन्द्रः । च । विष्णो इति । यत् । अपस्पृधेथाम् । त्रेधा । सहस्रम् । वि । तत् । ऐरयेथाम् ॥८
हे इन्द्राविष्णू "उभा उभौ युवां “जिग्यथुः शत्रूनजैष्टम् । “न "परा "जयेथे न पुनः कदाचन पराजयेथे । “एनोः एनयोर्युवयोर्मध्ये “कतरश्चन एकतरोऽपि न "परा “जिग्ये न पराजैष्ट। हे “विष्णो “इन्द्रश्च त्वं च युवां “यत् यद्वस्तु प्रति “अपस्पृधेथाम् असुरैः सहास्पृधेथां “त्रेधा लोकवेदवागात्मना त्रिधा स्थितं "सहस्रम् अमितं च “वि “तत् “ऐरयेथां व्यक्रमेथामित्यर्थः । तथा च ब्राह्मणम् - ‘ उभा जिग्यथुरित्यच्छावाकस्योभौ हि तौ जिग्यतुर्न परा जयेथे न परा जिग्य इति न हि तयोः कतरश्चन पराजिग्य इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथामितीन्द्रश्च ह वै विष्णुश्चासुरैर्युयुधाते तान् ह स्म जित्वोचतुः कल्पामहा इति ते ह तथेत्यसुरा ऊचुः सोऽब्रवीदिन्द्रो यावदेवायं विष्णुस्त्रिर्विक्रमते तावदस्माकमथ युष्माकमितरदिति स इमाँल्लोकान्विचक्रमेऽथो वेदानथो वाचं तदाहुः किं तत्सहस्रमितीमे लोका इमे वेदा अथो वागिति ब्रूयादैरयेथामैरयेथाम् ' ( ऐ. ब्रा. ६:१५ ) इति । यद्वा । तत् सहस्रं गवां सहस्रं त्रेधा व्यैरयेथामित्यर्थः ॥ ॥ १३ ॥
मण्डल ६ | ||||
---|---|---|---|---|