ऋग्वेदः सूक्तं ६.७०
← सूक्तं ६.६९ | ऋग्वेदः - मण्डल ६ सूक्तं ६.७० बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.७१ → |
दे. द्यावापृथिवी। जगती। |
घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा ।
द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥१॥
असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते ।
राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन्मनुर्हितम् ॥२॥
यो वामृजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति ।
प्र प्रजाभिर्जायते धर्मणस्परि युवोः सिक्ता विषुरूपाणि सव्रता ॥३॥
घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा ।
उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद्विप्रा ईळते सुम्नमिष्टये ॥४॥
मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते ।
दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यम् ॥५॥
ऊर्जं नो द्यौश्च पृथिवी च पिन्वतां पिता माता विश्वविदा सुदंससा ।
संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिमस्मे समिन्वताम् ॥६॥
सायणभाष्यम्
घृतवती भुवनानाम् ' इति षड़ृचं नवमं सूक्तं भरद्वाजस्यार्षं जागतं द्यावापृथिवीदेवताकम् । तथा चानुक्रम्यते - ‘ घृतवती षट् द्यावापृथिवीयं जागतम् ' इति । आभिप्लविके पञ्चमेऽहनि वैश्वदेवशस्त्र आद्यस्तृचो द्यावापृथिव्यनिविद्धानार्थः । सूत्रितं च -- ‘घृतवती भुवनानामभिश्रियेन्द्र ऋभुभिर्वाजवद्भिरिति तृचौ ' ( आश्व. श्रौ. ७. ७) इति । बृहस्पतिसवेऽपि वैश्वदेवशस्त्र एष तृचः । सूत्रितं च ( आश्व. श्रौ. ९ . ५ )। आभिप्लविके तृतीयेऽहनि वैश्वदेवशस्त्रे ‘ घृतेन द्यावापृथिवी ' इति तिस्रो द्यावापृथिव्यनिविद्धानार्थाः । सूत्रितं च- ' घृतेन द्यावापृथिवी इति तिस्रोऽनश्वो जातः' (आश्व. श्रौ. ७. ७) इति ।
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा ।
द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ॥१
घृ॒तव॑ती॒ इति॑ घृ॒तऽव॑ती । भुव॑नानाम् । अ॒भि॒ऽश्रिया॑ । उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे॑ । सु॒ऽपेश॑सा ।
द्यावा॑पृथि॒वी इति॑ । वरु॑णस्य । धर्म॑णा । विस्क॑भिते॒ इति॒ विऽस्क॑भिते । अ॒जरे॒ इति॑ । भूरि॑ऽरेतसा ॥१
घृतवती इति घृतऽवती । भुवनानाम् । अभिऽश्रिया । उर्वी इति । पृथ्वी इति । मधुदुघे इति मधुऽदुघे । सुऽपेशसा ।
द्यावापृथिवी इति । वरुणस्य । धर्मणा । विस्कभिते इति विऽस्कभिते । अजरे इति । भूरिऽरेतसा ॥१
“द्यावापृथिवी द्यावापृथिव्यौ “घृतवती दीप्तिमत्यौ उदकवत्यौ वा । ‘वनं घृतम्' इत्युदकनामसु पाठात् । भवत इति शेषः । “भुवनानां भूतानाम् “अभिश्रिया अभिश्रयणीये भवत इति सर्वत्रानुसंधेयम् । “उर्वी विस्तीर्णे “पृथ्वी बहुकार्यरूपेण प्रथिते च "मधुदुघे मधुन उदकस्य “दोग्र्यौती "सुपेशसा सुरूपे “वरुणस्य सर्वस्य नियामकस्य “धर्मणा धारणेन “विष्कभिते पृथग्धारिते “अजरे नित्ये “भूरिरेतसा बहुरेतस्के बहुकायें वा भवतः। अत्र साक्षात् द्यावापृथिव्योः स्तुतिः प्रसङ्गात् वरुणस्येति द्रष्टव्यम् ॥
अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि॑व्रते ।
राज॑न्ती अ॒स्य भुव॑नस्य रोदसी अ॒स्मे रेत॑ः सिञ्चतं॒ यन्मनु॑र्हितम् ॥२
अस॑श्चन्ती॒ इति॑ । भूरि॑धारे॒ इति॒ भूरि॑ऽधारे । पय॑स्वती॒ इति॑ । घृ॒तम् । दु॒हा॒ते॒ इति॑ । सु॒ऽकृते॑ । शुचि॑व्रते॒ इति॒ शुचि॑ऽव्रते ।
राज॑न्ती॒ इति॑ । अ॒स्य । भुव॑नस्य । रो॒द॒सी॒ इति॑ । अ॒स्मे इति॑ । रेतः॑ । सि॒ञ्च॒त॒म् । यत् । मनुः॑ऽहितम् ॥२
असश्चन्ती इति । भूरिधारे इति भूरिऽधारे । पयस्वती इति । घृतम् । दुहाते इति । सुऽकृते । शुचिव्रते इति शुचिऽव्रते ।
राजन्ती इति । अस्य । भुवनस्य । रोदसी इति । अस्मे इति । रेतः । सिञ्चतम् । यत् । मनुःऽहितम् ॥२
“असश्चन्ती असज्यमाने व्युदस्यन्त्यौ वा “भूरिधारे बहुधारे । दिवो वृष्टिधाराः पृथिव्याश्चाहुत्युद्भूतरसधाराः । एवमुभयोरपि बहुधारत्वम्। “पयस्वती उदकवत्यौ । तथा च यास्कः - ‘ असज्यमाने इति वा व्युदस्यन्त्याविति वा बहुधारे उदकवत्यौ ' (निरु. ५.२) इति । “शुचिव्रते शुचिक्रिये द्यावापृथिव्यौ “सुकृते शोभनकारिणे यजमानाय “घृतं सस्यादिसमृद्धिहेतुमुदकं “दुहाते । अथ प्रत्यक्षस्तुतिः। “रोदसी हे द्यावापृथिव्यौ “अस्य “भुवनस्य भूतजातस्य “राजन्ती ईशाने युवाम् “अस्मे अस्मासु “रेतः प्रजननसमर्थं वीर्यं “सिञ्चतम् । “यत् रेतः “मनुर्हितं मनुष्येभ्यो हितम् ॥
यो वा॑मृ॒जवे॒ क्रम॑णाय रोदसी॒ मर्तो॑ द॒दाश॑ धिषणे॒ स सा॑धति ।
प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः सि॒क्ता विषु॑रूपाणि॒ सव्र॑ता ॥३
यः । वा॒म् । ऋ॒जवे॑ । क्रम॑णाय । रो॒द॒सी॒ इति॑ । मर्तः॑ । द॒दाश॑ । धि॒ष॒णे॒ इति॑ । सः । सा॒ध॒ति॒ ।
प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ । यु॒वोः । सि॒क्ता । विषु॑ऽरूपाणि । सऽव्र॑ता ॥३
यः । वाम् । ऋजवे । क्रमणाय । रोदसी इति । मर्तः । ददाश । धिषणे इति । सः । साधति ।
प्र । प्रऽजाभिः । जायते । धर्मणः । परि । युवोः । सिक्ता । विषुऽरूपाणि । सऽव्रता ॥३
“धिषणे धृष्टे सर्वस्य भुवनस्य निवासभूते वा हे “रोदसी "वां युवाभ्यां “यः “मर्तः मर्त्यः “ऋजवे “क्रमणाय युवयोः सुखगमनाय “ददाश हवींषि ददाति “सः मर्त्यः “साधति कामान् साधयति । किंच “प्रजाभिः पुत्रपौत्रादिभिः “प्र “जायते प्रवृद्धो भवति । “धर्मणः कर्मणः “परि उपरि “युवोः युवयोः “सिक्ता सिक्तानि रेतांसि “विषुरूपाणि नानावर्णानि “सव्रता समानकर्माणि भूतानि जायन्ते॥
घृ॒तेन॒ द्यावा॑पृथि॒वी अ॒भीवृ॑ते घृत॒श्रिया॑ घृत॒पृचा॑ घृता॒वृधा॑ ।
उ॒र्वी पृ॒थ्वी हो॑तृ॒वूर्ये॑ पु॒रोहि॑ते॒ ते इद्विप्रा॑ ईळते सु॒म्नमि॒ष्टये॑ ॥४
घृ॒तेन॑ । द्यावा॑पृथि॒वी इति॑ । अ॒भीवृ॑ते॒ इत्य॒भिऽवृ॑ते । घृ॒त॒ऽश्रिया॑ । घृ॒त॒ऽपृचा॑ । घृ॒त॒ऽवृधा॑ ।
उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । हो॒तृ॒ऽवूर्ये॑ । पु॒रोहि॑ते॒ इति॑ पु॒रःऽहि॑ते । ते इति॑ । इत् । विप्राः॑ । ई॒ळ॒ते॒ । सु॒म्नम् । इ॒ष्टये॑ ॥४
घृतेन । द्यावापृथिवी इति । अभीवृते इत्यभिऽवृते । घृतऽश्रिया । घृतऽपृचा । घृतऽवृधा ।
उर्वी इति । पृथ्वी इति । होतृऽवूर्ये । पुरोहिते इति पुरःऽहिते । ते इति । इत् । विप्राः । ईळते । सुम्नम् । इष्टये ॥४
"द्यावापृथिवी द्यावापृथिव्यौ "घृतेन उदकेन "अभिवृते आवृते भवतः। "घृतश्रिया उदकं श्रयन्त्यौ च “घृतपृचा घृतसंपृक्ते च "घृतावृधा घृतं वर्धयन्त्यौ च "उर्वी विस्तीर्णे "पृथ्वी प्रथिते च भवतः । “होतृवूर्ये यज्ञे "पुरोहिते यजमानैः पुरस्कृते च भवतः । "विप्राः प्राज्ञा: स्तोतारः "ते “इत् द्यावापृथिव्यावेव "इष्टये यज्ञाय। ‘होत्रा इष्टिः' इति यज्ञनामसु पाठात् । "सुम्नं सुखम् “ईळते याचन्ते । सुखे सति हि यागाः प्रवर्तन्ते ॥
मधु॑ नो॒ द्यावा॑पृथि॒वी मि॑मिक्षतां मधु॒श्चुता॑ मधु॒दुघे॒ मधु॑व्रते ।
दधा॑ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्य॑म् ॥५
मधु॑ । नः॒ । द्यावा॑पृथि॒वी इति॑ । मि॒मि॒क्ष॒ता॒म् । म॒धु॒ऽश्चुता॑ । म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे॑ । मधु॑व्रते॒ इति॒ मधु॑ऽव्रते ।
दधा॑ने॒ इति॑ । य॒ज्ञम् । द्रवि॑णम् । च॒ । दे॒वता॑ । महि॑ । श्रवः॑ । वाज॑म् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् ॥५
मधु । नः । द्यावापृथिवी इति । मिमिक्षताम् । मधुऽश्चुता । मधुदुघे इति मधुऽदुघे । मधुव्रते इति मधुऽव्रते ।
दधाने इति । यज्ञम् । द्रविणम् । च । देवता । महि । श्रवः । वाजम् । अस्मे इति । सुऽवीर्यम् ॥५
"मधुश्चुता उदकस्य क्षारयित्र्यौ "मधुदुघे उदकदोग्ध्र्यौ "मधुव्रते उदकार्थकर्माणौ “देवता देवताभूते “अस्मे अस्मासु "यज्ञं “द्रविणं धनं "च "महि महत् "श्रवः यशः “वाजम् अन्नं "सुवीर्यं सुवीरत्वं च “दधाने ददत्यौ "द्यावापृथिवी द्यावापृथिव्यौ "नः अस्मान् "मधु मधुना ॥ तृतीयैकवचनस्य लुक् ॥ “मिमिक्षतां सिञ्चताम् ॥
ऊर्जं॑ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा॑ सु॒दंस॑सा ।
सं॒र॒रा॒णे रोद॑सी वि॒श्वश॑म्भुवा स॒निं वाजं॑ र॒यिम॒स्मे समि॑न्वताम् ॥६
ऊर्ज॑म् । नः॒ । द्यौः । च॒ । पृ॒थि॒वी । च॒ । पि॒न्व॒ता॒म् । पि॒ता । मा॒ता । वि॒श्व॒ऽविदा॑ । सु॒ऽदंस॑सा ।
सं॒र॒रा॒णे इति॑ स॒म्ऽर॒रा॒णे । रोद॑सी॒ इति॑ । वि॒श्वऽश॑म्भुवा । स॒निम् । वाज॑म् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒ता॒म् ॥६
ऊर्जम् । नः । द्यौः । च । पृथिवी । च । पिन्वताम् । पिता । माता । विश्वऽविदा । सुऽदंससा ।
संरराणे इति सम्ऽरराणे । रोदसी इति । विश्वऽशम्भुवा । सनिम् । वाजम् । रयिम् । अस्मे इति । सम् । इन्वताम् ॥६
“पिता वर्षस्य सेक्तृत्वेन पितृभूता “द्यौश्च "माता धारकत्वेन मातृभूता “पृथिवी “च उभे “नः अस्मभ्यम् “ऊर्जम् अन्नं पिन्वतां यच्छताम् । किंच “विश्वविदा विश्वं जानन्त्यौ विश्वस्य वेदयित्र्यौ वा सुदंससा सुकर्माणौ “संरराणे परस्परोपकार्योपकारकभावेन सह रममाणे "विश्वशंभुवा सर्वस्य भावयित्र्यौ "रोदसी द्यावापृथिव्यौ "अस्मे अस्मासु "सनिं संभजनीयं पुत्रादिकं “वाजं बलं “रयिं धनं च "समिन्वतां संप्रेरयताम् ॥ ॥ १४ ॥
मण्डल ६ | ||||
---|---|---|---|---|