ऋग्वेदः मण्डल ६
टिप्पणी
भरद्वाजोपरि पौराणिकाः संदर्भाः
भरद्वाजोपरि संक्षिप्त टिप्पणी एवं वैदिकसंदर्भाः
टिप्पणी – भरद्वाजशब्दस्य सामान्य अर्थं भवति – यः वाजस्य भरणं करोति। वाजः किं भवति। ब्राह्मणग्रन्थेषु सार्वत्रिकरूपेण वाजस्य तात्पर्यं अन्नं भवति। अन्नभक्षणात् वीर्यं जायते। अतएव, यः सर्वेषां अन्नानां, सर्वेषां ओषधीनां वीर्याणां सद्यः संभरणं कर्तुं शक्यते, तस्य संज्ञा वाजी भवति। संभरणस्य संदर्भे पुराणेषु कथनं अस्ति यत् देवाः दर्शनेनैव सृजने समर्थाः सन्ति, योगिनः स्पर्शने इत्यादि(सृष्टिः संकल्पजा श्रेष्ठा धामेश्वरादिलोकगा। सृष्टिर्दर्शनजा चान्या देवपित्रादिलोकगा।। सृष्टिः स्पर्शनजन्या तु तापसानां च योगिनाम्।। सृष्टिर्मैथुनजा लोके मनुष्यपशुपक्षिणाम्।। - लक्ष्मीनारायण संहिता ४.१०१.५)।
वैदिकनिघण्टुमध्ये वाजशब्दस्य वर्गीकरणं अन्ननामसु एवं बलनामसु अस्ति। वाजशब्दस्य बलनामसु वर्गीकरणस्य कः औचित्यमस्ति। अयं प्रतीयते यत् वाजस्य प्रतीपं, विपरीतं जवः अस्ति। जवः – वेगः, यथा अश्वे जवः भवति। ज्वरशब्दस्य मूलमपि जवः अस्ति, अयं प्रतीयते। कामज्वरः। भरद्वाजस्य कार्यं कामज्वरस्य रूपान्तरणं वाजबलरूपे करणमस्ति। ब्रह्मपुराणे १.९.३८ भरद्वाजः आयुर्वेदस्य प्रणेता अस्ति। कारणं – सः ओषधसंज्ञकानां वाजानां(तै.ब्रा. १.३.७.१) संभरणे समर्थः अस्ति। सैव वास्तविकौषधिरस्ति या कामज्वरस्य रूपान्तरणं कर्तुं शक्यते।
मैत्रायणीसंहितायां १, ११,५ कथनमस्ति यत् वाग् हि वाजस्य प्रसवः। अर्थात् यदा वाजस्य संभरणं कर्तुं शक्यन्ते, तदा तत् वाजः वाचः सर्जनं करोति। अयं वाक् दिव्या वाक् अपि भवितुं शक्यते। वैदिकवाङ्मये ऋभु, विभु एवं वाजस्य उल्लेखं भवति। ऋभुः – ज्ञानं, विभुः – प्रेम, भावना एवं वाजः – क्रियाशक्ति। आधुनिकभौतिकविज्ञाने क्रियाशक्तिः एव एण्ट्रांपी, अव्यवस्थायाः वर्धनस्य कारणमस्ति। केवलं ज्ञानतः एवं प्रेमतः अव्यवस्थायाः वर्धनं न भवेत्। किन्तु कर्मकाण्डे वाजपेययागः भवति यत्र ये वाजिसंज्ञकाः देवाः सन्ति, तेषां मध्ये काष्ठासंज्ञकस्य लक्ष्यस्य प्राप्त्यर्थं आजिः, प्रतिस्पर्द्धा भवति। अयं विषयः अन्वेषणीयः अस्ति।
पुराणेषु कथनमस्ति यत् त्रयाः देवाः – ब्रह्मा, विष्णु, शिवः – ते अत्रेः ऋषेः पुत्राः अभवन्। ओंकारे त्रयः अक्षरा भवन्ति – अ(ब्रह्मा), उ (विष्णुः) एवं म (शिवः)। एतेभ्यः परि एका अर्धमात्रा भवति। यदा शक्तिः, प्रकृतिः प्रभूता बलवती प्रजायते, यदा सा पुरुषस्य समाना भवति, तस्याः प्रतीकं ओंकारस्य अर्धमात्रा अस्ति। भरद्वाजऋषेः संदर्भे यदा कथयन्ति यत् वाजस्य, प्रजायाः भरणकर्ता भरद्वाजः अस्ति (ऐतरेयारण्यकम् २.२.२), अत्र प्रजाशब्दतः तात्पर्यं शक्तितः अस्ति, अयं प्रतीयते। अर्धमात्रायाः सम्यक् विवेचनं स्कन्दपुराणस्य अम्बिकाखण्डे उपलब्धमस्ति।
एष उ एव बिभ्रद्वाजः प्रजा वै वाजस्ता एष बिभर्ति यद्बिभर्ति तस्माद्भरद्वाजस्तस्माद्भरद्वाज इत्याचक्षत एतमेव सन्तम्, इति । - ऐतरेयारण्यकम् २.२.२