ऐतरेय आरण्यकम्/आरण्यक २

विकिस्रोतः तः
Jump to navigation Jump to search

2.1.1

अथ द्वितीयारण्यकम् । प्रथमोऽध्यायः ।
तत्रप्रथमः खण्डः
एष पन्था एतत्कर्मैतद्ब्रह्मैतत्सत्यम्, इति । तस्मान्न प्रमाद्येत्तन्नातीयात्, इति । न ह्यत्यायन्पूर्वे येऽत्यायंस्ते परा बभूवुः,इति । तदुक्तमृषिणा प्रजा ह तिस्रो अत्यायमीयुर्न्य१न्या अर्कमभितो विविश्रे । बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेशेति, इति । प्रजा ह तिस्रो अत्यायमीयुरिति या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानीमानि वयांसि वङ्गावगधाश्चेरपादाः, इति ।
न्य१न्या अर्कमभितो विविश्र इति ता इमाः प्रजा अर्कमभितो निविष्टा इममेवाग्निम्, इति । बृहद्ध तस्थौ भुवनेष्वन्तरित्यद उ एव बृहद्भुवनेष्वन्तरसावाऽदित्यः, इति । पवमानो हरित आ विवेशेति वायुरेव पवमानो दिशो हरित आविष्टः, इति ।।
इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये प्रथमः खण्डः ।।१ ।।

2.1.2

पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किंच, इति । तस्याग्निरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति । अन्तरिक्षमेवोक्थमन्तरिक्षं वा अनु पतन्त्यन्तरिक्षमनु धावयन्ति तस्य वायुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति ।
असावेव द्यौरुक्थममुतःप्रदानाद्धीदं सर्वमुत्तिष्ठति यदिदं किंच तस्यासावादित्योऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति ।
इत्यधिदैवतमथाध्यात्मम्, इति । पुरुष एवोक्थमयमेव महान्प्रजापतिरहमुक्थमस्मीति विद्यात्, इति । तस्य मुखमेवोक्थं यथा पृथिवी तथा, इति । तस्य वागर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति । नासिके एवोक्थं यथाऽन्तरिक्षं तथा, इति ।
तस्य प्राणोऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति । तदेतद्ब्रध्नस्य विष्टपं यदेतन्नासिकायै विनतमिव, इति ।
ललाटमेवोक्थं यथा द्यौस्तथा तस्य चक्षुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति । समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेवान्नेन हीमानि सर्वाणि भूतानि समनन्तीँ३ अन्नेनेमं लोकं जयत्यन्नेनामुं तस्मात्समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेव, इति । तदिदमन्नमन्नादमियमेव पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किंच, इति । यद्ध किंचेदं प्रेर्ता३इ तदसौ सर्वमत्ति यदु किंचातः प्रैतीँ ३ तदियं सर्वमत्ति सेयमित्याद्याऽत्त्री, इति । अत्ता ह वा आद्यो भवति, इति । न तस्येशे यन्नाद्याद्यद्वैनं नाद्युः, इति ।
इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ।। २ ।।

2.1.3

अथातो रेतसः सृष्टिः प्रजापते रेतो देवा देवानां रेतो वर्षे वर्षस्य रेत ओषधय ओषधीनां रेतोऽन्नमन्नस्य रेतो रेतो रेतसो रेतः प्रजाः प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसो रेतो वाग्वाचो रेतः कर्म तदिदं कर्म कृतमयं पुरुषो ब्रह्मणो लोकः, इति ।
स इरामयो यद्धीरामयस्तस्माद्धिरण्मयः, इति । हिरण्मयो ह वा अमुष्मिँल्लोके संभवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये तृतीय खण्डः ।। ३ ।।

2.1.4

तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात्प्रपदे तस्मात्प्रपदे इत्याचक्षते शफाः खुरा इत्यन्येषां पशूनाम्, इति । तदूर्ध्वमुदसर्पत्ता ऊरू अभवताम्, इति । उरु गृणीहीत्यब्रवीत्तदुदरमभवत्, इति। उर्वेव मे कुर्वित्यब्रवीत्तदुरोऽभवत्, इति । उदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं ब्रह्मेत्यारुणयो ब्रह्माहैव ता३इ, इति । ऊर्ध्वं त्वेवोदसर्पत्तच्छिरोऽश्रयत यच्छिरोऽश्रयत तच्छिरोऽभवत्तच्छिरसः शिरस्त्वम्, इति । ता एताः शीर्षञ्छ्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राणः, इति । श्रयन्तेऽस्मिञ्छ्रियो य एवमेतच्छिरसः शिरस्त्वं वेद, इति । ता अहिंसन्ताहमुक्थमस्म्यहमुक्थमस्मीति ता अब्रुवन्हन्तास्माच्छरीरादुत्क्रामाम तद्यस्मिन्न उत्क्रान्त इदं शरीरं पत्स्पति तदुक्थं भविष्यतीति, इति । वागुदक्रामदवदन्नश्नन्पिबन्नास्तैव चक्षुरुदक्रामदपश्यन्नश्नन्पिबन्नास्तैव श्रोत्रमुदक्रामदशृण्वन्नश्नन्पिबन्नास्तैव मन उत्क्रामन्मीलित इवाश्नन्पिबन्नास्तैव प्राण उदक्रामत्तत्प्राण उत्क्रान्तेऽपद्यत, इति । तदशीर्यताशारीतीँ३ तच्छरीरमभवत्तच्छरीरस्य शरीरत्वम्, इति । शीर्यते ह वा अस्य द्विषन्पाप्मा भ्रातव्यः पराऽस्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद, इति । ता अहिंसन्तैवाहमुक्थमस्म्यहमुक्थमस्मीति ता अब्रुवन्हन्तेदं पुनः शरीरं प्रविशाम तद्यस्मिन्नः प्रपन्न इदं शरीरमुत्थास्यति तदुक्थं भविष्यतीति, इति । वाक्प्राविशदशयदेव चक्षुः प्राविशदशयदेव श्रोत्रं प्राविशदशयदेव मनः प्राविशदशयदेव प्राणः प्राविशत्तत्प्राणे प्रपन्न उदतिष्ठत्तदुक्थमभवत्, इति । तदेतदुक्थाँ३ प्राण एव, इति प्राण उक्थमित्येव विद्यात्, इति । तं देवा अब्रुवन्त्वमुक्थमसि त्वमिदं सर्वमसि तव वयं स्मस्त्वमस्माकमसीति, इति । तदप्येतदृषिणोक्तं त्वमस्माकं तव स्मसीति, इति ।
इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये चतुर्थः खण्डः ।। ४ ।।

2.1.5

तं देवाः प्राणयन्त स प्रणीतः प्रातायत प्रातायीतीँ३ तत्प्रातरभवत्समागादितीँ२ तत्सायमभवदहरेव प्राणो रात्रिरपानः, इति । वागग्निश्चक्षुरसावादित्यश्चन्द्रमा मनो दिशः श्रोत्रं स एष प्रहितां संयोगोऽध्यात्ममिमा देवता अद उ आविरधिदैवतमित्येतत्तदुक्तं भवति, इति । एतद्ध स्म वै तद्विद्वानाह हिरण्यदन्बैदो न तस्येशे यं मह्यं न दद्युरिति प्रहितां वा अहमध्यात्मं संयोगं निविष्टं वेदैतद्ध तत्, इति । अनीशानानि ह वा अस्मै भूतानि बलिं हरन्ति य एवं वेद, इति । तत्सत्त्यं सदिति प्राणस्तीत्यन्नं यमित्यसावादित्यस्तदेतत्त्रिवृत्त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिकेति, इति । स यदि ह वा अपि मृषा वदति सत्त्यं हैवास्योदितं भवति य एवमेतत्सत्त्यस्य सत्त्यत्वं वेद इति ।
इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये पञ्चमः खण्डः ।। ५ ।।

2.1.6

तस्य वाक्तन्तिर्नामानि दामानि तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितं सर्वं हीदं नामनीँ३ सर्वं वाचाऽभिवदति, इति । वहन्ति ह वा एनं तन्तिसंबद्धा य एवं वेद, इति । तस्योष्णिग्लोमानि त्वग्गायत्री त्रिष्टुम्मांसमनुष्टुप्स्नावान्यस्थि जगती पङ्क्तिर्मज्जा प्राणो बृहती स च्छन्दोभिश्छन्नो यच्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते, इति । छादयन्ति ह वा एनं छन्दांसि पापात्कर्मणो यस्यां कस्यांचिद्दिशि कामयते य एवमेतच्छन्दसां छन्दस्त्वं वेद, इति । तदुक्तमृषिणा, इति । अपश्यं गोपामित्येष वै गोपा एष हीदं सर्वं गोपायति, इति । अनिपद्यमानमिति न ह्येष कदाचन संविशति, इति । आ च परा च पथिभिश्चरन्तमित्या च ह्येष परा च पथिभिश्चरति, इति । स सध्रीचीः स विषूचीर्वसान इति सध्रीचीश्च ह्येष विषूचीश्च वस्त इमा एव दिशः, इति । आवरीवर्ति भुवनेष्वन्तरित्येष ह्यन्तर्भुवनेष्वावरीवर्ति, इति । अथो आवृतासोऽवतासो न कर्तृभिरिति, इति ।
सर्वं हीदं प्राणेनाऽऽवृतम्, इति । सोऽयमाकाशः प्राणेन बृहत्या विष्टब्धस्तद्यथाऽयमाकाशः प्राणेन बृहत्या विष्टब्ध एवं सर्वाणि भूतान्या पिपीलिकाभ्यः प्राणेन बृहत्या विष्टब्धानीत्येवं विद्यात्, इति ।।
इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये षष्ठः खण्डः ।। ६ ।।

2.1.7

अथातो विभूतयोऽस्य पुरुषस्य, इति । तस्य वाचा सृष्टौ पृथिवी चाग्निश्चास्यामोषधयो जायन्तेऽग्निरेनाः स्वदयतीदमाहरतेदमाहरतेत्येवमेतौ वाचं पितरं परिचरतः पृथिवी चाग्निश्च, इति । यावदनु पृथिवी यावदन्वग्निस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते पृथिव्याश्चाग्नेश्च य एवमेतां वाचो विभूतिं वेद, इति । प्राणेन सृष्टावन्तरिक्षं च वायुश्चान्तरिक्षं वा अनु चरन्त्यन्तरिक्षमनु शृण्वन्ति वायुरस्मै पुण्यं गन्धमावहत्येवमेतौ प्राणं पितरं परिचरतोऽन्तरिक्षं च वायुश्च यावदन्वन्तरिक्षं यावदनु वायुस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यन्तेऽन्तरिक्षस्य च वायोश्च य एवमेतां प्राणस्य विभूतिं वेद, इति । चक्षुषा सृष्टौ द्यौश्चाऽऽदित्यश्च द्यौर्हास्मै वृष्टिम न्नाद्यं संप्रयच्छत्यादित्योऽस्य ज्योतिः प्रकाशं करोत्येवमेतौ चक्षुः पितरं परिचरतो द्यौश्चाऽऽदित्यश्च यावदनु द्यौर्यावदन्वादित्यस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते दिवश्चाऽऽदित्यस्य च य एवमेतां चक्षुषो विभूतिं वेद, इति । श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च दिग्भ्यो हैनमायतीँ३ दिग्भ्यो विशृणोति चन्द्रमा अस्मै पूर्व पक्षापरपक्षान्विचिनोति पुण्याय कर्मण एवमेते श्रोत्रं पितरं परिचरन्ति दिशश्च चन्द्रमाश्च यावदनु दिशो यावदनु चन्द्रमास्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यते दिशां च चन्द्रमसश्च य एवमेतां श्रोत्रस्य विभूतिं वेद, इति । मनसा सृष्टा आपश्च वरुणश्चाऽऽपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे वरुणोऽस्य प्रजां धर्मेण दाधारैवमेते मनः पितरं परिचरन्त्यापश्च वरुणश्च यावदन्वापो यावदनु वरुणस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यतेऽपां च वरुणस्य च य एवमेतां मनसो विभूतिं वेद, इति । इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये सप्तमः खण्डः ।। ७ ।।

2.1.8

आपा३ इत्याप इति तदिदमाप एवेदं वै मूलमदस्तूलमयं पितैते पुत्रा यत्र ह क्व च पुत्रस्य तत्पितुर्यत्र वा पितुस्तद्वा पुत्रस्येत्येतत्तदुक्तं भवति, इति । एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेय आऽहं मां देवेभ्यो वेद ओ मद्देवान्वेदेतःप्रदाना ह्येत इतःसंभृता इति, इति । स एष गिरिश्चक्षुः श्रोत्रं मनो वाक्प्राणस्तं ब्रह्मगिरिरित्याचक्षते, इति । गिरति ह वै द्विषन्तं पाप्मानं भ्रातृव्यं पराऽस्य द्विषन्पाप्मा भ्रातृव्यो .भवति य एव वेद, इति । स एषोऽसुः स एष प्राणः स एष भूतिश्चाभूतिश्च, इति । तं भूतिरिति देवा उपासांचक्रिरे ते बभूवुऽस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसिति, इति । अभूतिरित्यसुरास्ते पराबभूवुः, इति । भवत्यात्मना पराऽस्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद, इति । स एष मृत्युश्चैवामृतं च, इति । तदुक्तमृषिणा, इति । अपाङ्प्राङेति स्वधया गृभीत इत्यपानेन ह्ययं यतः प्राणो न पराङ्भवति, इति । अमर्त्यो मर्त्येना सयोनिरित्येतेन हीदं सर्वं सयोनि मर्त्यानि हीमानि शरीराणीँ३ अमृतैषा देवता, इति । ता शश्वन्ता विषूचीना वियन्ता न्य१न्यं चिक्युर्न निचिक्युरन्यमिति निचिन्वन्ति हैवेमानि शरीराणीँ३ अमृतैवैषा देवता, इति । अमृतो ह वा अमुष्मिँल्लोके संभवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद य एवं वेद, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमाध्यायेऽष्टमः खण्डः ।। ८ ।।
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमोऽध्यायः ।। १ ।।

2.2.1

अथ द्वितीयारण्यके द्वितीयोऽध्यायः । तत्र प्रथमः खण्डः । (नवमः)

एष इमं लोकमभ्यार्चत्पुरुषरूपेण य एष तपति प्राणो वाव तदभ्यार्चत्प्राणो ह्येष य एष तपति तं शतं वर्षाण्यभ्यार्चत्तस्माच्छतं वर्षाणि पुरुषायुषो भवन्ति तं यच्छतं वर्षाण्यभ्यार्चत्तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तम्, इति । स इदं सर्वं मध्यतो दधे यदिदं किंच स यदिदं सर्वं मध्यतो दधे यदिदं किंच तस्मान्माध्यमास्तस्मान्माध्यमा इत्याचक्षत एतमेव सन्तम्, इति । प्राणो वै गृत्सोऽपानो मदः स यत्प्राणो गृत्सोऽपानो मदस्तस्माद्गृत्समदस्तस्माद्गृत्समद इत्याचक्षत एतमेव सन्तम्, इति । तस्येदं विश्वं मित्रमासीद्यदिदं किंच तद्यदस्येदं विश्वं मित्रमासीद्यदिदं किंच तस्माद्विश्वामित्रस्तस्माद्विश्वामित्र इत्याचक्षत एतमेव सन्तम्, इति । तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तं यद्देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद्वामदेवस्तस्माद्वामदेव इत्याचक्षत एतमेव सन्तम्, इति । स इदं सर्वं पाप्मनोऽत्रायत यदिदं किंच स यदिदं सर्वं पाप्मनोऽत्रायत यदिदं किंच तस्मादत्रयस्तस्मादत्रय इत्याचक्षत एतमेव सन्तम्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये प्रथमः खण्डः ।। १ ।। ( ९)

2.2.2

एष उ एव बिभ्रद्वाजः प्रजा वै वाजस्ता एष बिभर्ति यद्बिभर्ति तस्माद्भरद्वाजस्तस्माद्भरद्वाज इत्याचक्षत एतमेव सन्तम्, इति ।
तं देवा अब्रुवन्नयं वै नः सर्वेषां वसिष्ठ इति तं यद्देवा अब्रुवन्नयं वै नः सर्वेषां वसिष्ठ इति तस्माद्वसिष्ठस्तस्माद्वसिष्ठ इत्याचक्षत एतमेव सन्तम्, इति । स इदं सर्वमभिप्रागाद्यदिदं किंच स यदिदं सर्वमभिप्रागाद्यदिदं किंच तस्मात्प्रगाथास्तस्मात्प्रगाथा इत्याचक्षत एतमेव सन्तम्, इति । स इदं सर्वमभ्यपवयत यदिदं किंच स यदिदं सर्वमभ्यपवयत यदिदं किंच तस्मात्पावमान्यस्तस्मात्पावमान्य इत्याचक्षत एतमेव सन्तम्, इति । सोऽब्रवीदहमिदं सर्वमसानि यच्च क्षुद्रं यच्च महदिति ते क्षुद्रसूक्ताश्चाभवन्महासूक्ताश्च तस्मात्क्षुद्रसूक्तास्तस्मात्क्षुद्रसूक्ता इत्याचक्षत एतमेव सन्तम्, इति । सूक्तं बतावोचतेति तत्सूक्तमभवत्तस्मात्सूक्तं तस्मात्सूक्तमित्याचक्षत एतमेव सन्तम्, इति । एष वा ऋगेष ह्येभ्यः सर्वेभ्यो भूतेभ्योऽर्चत स यदेभ्यः सर्वेभ्यो भूतेभ्योऽर्चत तस्मादृक्तस्मादृगित्याचक्षत एतमेव सन्तम्, इति । एष वा अर्धर्च एष ह्येभ्यः सर्वेभ्योऽर्धेभ्योऽर्चत स यदेभ्यः सर्वेभ्योऽर्धेभ्योऽर्चत तस्मादर्धर्चस्तस्मादर्धर्च इत्याचक्षत एतमेव सन्तम्, इति । एष वै पदमेष हीमानि सर्वाणि भूतानि पादि स यदिमानि सर्वाणि भूतानि पादि तस्मात्पदं तस्मात्पदमित्याचक्षत एतमेव सन्तम्, इति । एष वा अक्षरमेष ह्येभ्यः सर्वेभ्यो भूतेभ्यः क्षरति न चैनमतिक्षरन्ति स यदेभ्यः सर्वेभ्यो भूतेभ्यः क्षरति न चैनमतिक्षरन्ति तस्मादक्षरं तस्मादक्षरमित्याचक्षत एतमेव सन्तम्, इति । ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात्, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये द्वितीयः खण्डः ।। २ ।। ( १०)

2.2.3

विश्वामित्रं ह्येतदहः शंसिष्यन्तमिन्द्र उपनिषससाद स हान्नमित्यभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति । तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः स वा ऋषे द्वितीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति । तमिन्द्र उवाच ऋषे प्रियं वै ते धामोपागाः स वा ऋषे तृतीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति । तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागा वरं ते ददामीति स होवाच त्वामेव जानीयामिति तमिन्द्र उवाच प्राणो वा अहमस्म्यृषे प्राणस्त्वं प्राणः सर्वाणि भूतानि प्राणो ह्येष य एष तपति स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि तस्य मेऽन्नं मित्रं दक्षिणं तद्वैश्वामित्रमेष तपन्नेवास्मीति होवाच, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये तृतीयः खण्डः ।। ३ ।। ( ११)

2.2.4

तद्वा इदं बृहतीसहस्रं संपन्नं तस्य यानि व्यञ्जनानि तच्छरीरं यो घोषः स आत्मा य ऊष्माणः स प्राणः, इति । एतद्ध स्म वै तद्विद्वान्वसिष्ठो वसिष्ठो बभूव तत एतन्नामधेयं लेभे, इति । एतदु हैवेन्द्रो विश्वामित्राय प्रोवाचैतदु हैवेन्द्रो भरद्वाजाय प्रोवाच तस्मात्स तेन बन्धुना यज्ञेषु हूयते, इति । तद्वा इदं वृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति व्यञ्जनैरेव रात्रीराप्नुवन्ति स्वरैरहानि, इति । तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य परस्तात्प्रज्ञामयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद, इति । तद्योऽहं सोऽसौ योऽसौ सोऽहम्, इति । तदुक्तमृषिणा सूर्य आत्मा जगतस्तस्थुषश्चेति, इति । एतदु हैवोपेक्षेतोपेक्षेत, इति ।
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये चतुर्थः खण्डः ।। ४ ।। ( १२)
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयोऽध्यायः ।। २ ।।

2.3.1

यो ह वा आत्मानं पञ्चविधमुक्थं वेद यस्मादिदं सर्वमुत्तिष्ठति स संप्रतिवित्पृथिवी वायुराकाश आपो ज्योतींषीत्येष वा आत्मोक्थं पञ्चविधमेतस्माद्धीदं सर्वमुत्तिष्ठत्येतमेवाप्येत्ययनं ह वै समानानां भवति य एवं वेद, इति । तस्मिन्योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते भवत्यस्यान्नमापश्च पृथिवी चान्नमेतन्मयानि ह्यन्नानि भवन्ति ज्योतिश्च वायुश्चान्नादमेताभ्यां हीदं सर्वमन्नमत्त्यावपनमाकाश आकाशे हीदं सर्वं समोप्यत आवपनं ह वै समानानां भवति य एवं वेद, इति । तस्मिन्योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते भवत्यस्यान्नमोषधिवनस्पतयोऽन्नं प्राणभृतोऽन्नादमोषधिवनस्पतीन्हि प्राणभृतोऽदन्ति, इति । तेषां य उभयतोदन्ताः पुरुषस्यानुविधा विहितास्तेऽन्नादा अन्नमितरे पशवस्तस्मात्त इतरान्पशूनधीव चरन्त्यधीव ह्यन्नेऽन्नादो भवति, इति । अधीव ह समानानां जायते य एवं वेद, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयाण्यके तृतीयाध्याये प्रथमः खण्डः ।। १ ।। ( १३)

2.3.2

तस्य य आत्मानमाविस्तरां वेदाश्नुते हाऽऽविर्भूयः, इति । ओषधिवनस्पतयो यच्च किंच प्राणभृत्स आत्मानमाविस्तरां वेदौषधिवनस्पतिषु हि रसो दृश्यते चित्तं प्राणभृत्सु, इति । प्राणभृत्सु त्वेवाऽऽविस्तरामात्मा तेषु हि रसोऽपि दृश्यते न चित्तमितरेषु, इति । पुरुषे त्वेवाऽऽविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामृतमीप्सत्येवं संपन्नः, इति । अथेतरेषां पशूनामशनापिपासे एवाभिविज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोकालोकौ त एतावन्तो भवन्ति यथाप्रज्ञं हि संभवाः, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये द्वितीयः खण्डः ।। २ ।। ( १४)

2.3.3

स एष पुरुषः समुद्रः सर्वं लोकमति यद्ध किंचाश्नुतेऽत्येनं मन्यते यद्यन्तरिक्षलोकमश्नुतेऽत्येनं मन्यते यद्यमुं लोकमश्नुवीतात्येवैनं मन्येत, इति । स एष पुरुषः पञ्चविधस्तस्य यदुष्णं तज्ज्योतिर्यानि खानि स आकाशोऽथ यल्लोहितं श्लेष्मा रेतस्ता आपो यच्छरीरं सा पृथिवी यः प्राणः स वायुः, इति । स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानस्ता एता देवताः प्राणापानयोरेव निविष्टाश्चक्षुः श्रोत्रं मनो वागिति प्राणस्य ह्यन्वपायमेता अपियन्ति, इति । स एष वाचश्चित्तस्योत्तरोत्तरिक्रमो यद्यज्ञः स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः स एष यज्ञानां संपन्नतमो यत्सोम एतस्मिन्ह्येताः पञ्च विधा अधिगम्यन्ते यत्प्राक्सवनेभ्यः सैका विधा त्रीणि सवनानि यदूर्ध्वं सा पञ्चमी, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये तृतीयः खण्डः ।। ३ ।। ( १५)

2.3.4

यो ह वै यज्ञे यज्ञं वेदाहन्यहर्देवेषु देवमध्यूह्ळं स संप्रतिविदेष वै यज्ञे यज्ञोऽहन्यहर्देवेषु देवोऽध्यूह्ळो यदेतन्महदुक्थम्, इति । तदेतत्पञ्चविधं त्रिवृत्पञ्चदशं सप्तदशमेकविंशं पञ्चविंशमिति स्तोमतो गायत्रं रथंतरं वृहद्भद्रं राजनमिति सामतो गायत्र्युष्णिग्बृ हतीत्रिष्टुब्द्विपदेति च्छन्दस्तः शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मेत्याख्यानम्, इति । पञ्चकृत्वः प्रस्तौति पञ्चकृत्व उद्गायति पञ्चकृत्वः प्रतिहरति पञ्चकृत्व उपद्रवति पञ्चकृत्वो निधनमुपयन्ति तत्स्तोभसहस्रं भवति, इति । एवं ह्येताः पञ्च विधा अनुशस्यन्ते यत्प्राक्तृचाशीतिभ्यः सैका विधा तिस्रस्तृचाशीतयो यदूर्ध्वं सा पञ्चमी, इति । तदेतत्सहस्रं तत्सर्वं तानि दश दशेति वै सर्वमेतावती हि संख्या दश दशतस्तच्छतं दश शतानि तत्सहस्रं तत्सर्वं तानि त्रीणि च्छन्दांसि भवन्ति त्रेधा विहितं वा इदमन्नमशनं पानं खादस्तदेतैराप्नोति, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये चतुर्थः खण्डः । । ४ । । ( १६)

2.3.5

तद्धैतदेके नानाच्छन्दसा सहस्रं प्रतिजानते किमन्यत्सदन्यद्ब्रूयामेति, इति । त्रिष्टुप्सहस्रमेके जगतीसहस्रमेकेऽनुष्टुप्सहस्रमेके, इति । तदुक्तमृषिणा, इति । अनुष्टुभमनु चञ्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषेति वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत्तदुक्तं भवति, इति । स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः, इति । ईश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽऽहाकृत्स्नो ह्येष आत्मा यद्वागभि हि प्राणे न मनसेऽस्यमानो वाचा नानुभवति, इति । बृहतीमभि संपादयेदेष वै कृत्स्न आत्मा यद्बृहती, इति । सोऽयमात्मा सर्वतः शरीरैः परिवृतस्तद्यथाऽयमात्मा सर्वतः शरीरैः परिवृत एवमेव बृहती सर्वतश्छन्दोभिः परिवृता, इति । मध्यं ह्येषामङ्गानामात्मा मध्य छन्दसां बृहती, इति । स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽऽह कृत्स्नो ह्येष आत्मा यद्बृहती तस्माद्बृहतीमेवाभि संपादयेत्, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये पञ्चमः खण्डः ।। ५ ।। ( १७)

2.3.6

तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्यैकादशानुष्टुभां शतानि भवन्ति पञ्चविंशतिश्चानुष्टुभ आत्तं वै भूयसा कनीयः, इति । तदुक्तमृषिणा, इति । वाचमष्टापदीमहमित्यष्टौ हि चतुरक्षराणि भवन्ति, इति । नवस्रक्तिमिति बृहती संपद्यमाना नवस्रक्ति , इति । ऋतस्पृशमिति सत्यं वै वागृचा स्पृष्टा, इति । इन्द्रात्परि तन्वं मम इति तद्यदेवैतद्बृहतीसहस्रमनुष्टुप्संपन्नं भवति तस्मात्तदैन्द्रात्प्राणाद्बृहत्यै वाचमनुष्टुभं तन्वं संनिर्मिमीते, इति । स वा एष वाचः परमो विकारो यदेतन्महदुक्थं तदेतत्पञ्चविधं मितममितं स्वरः सत्यानृते इति, इति । ऋग्गाथा कुम्ब्या तन्मितं यजुर्निगदो वृथा वाक्तदमितं सामाथो यः कश्च गेष्णः स स्वर ओमिति सत्यं नेत्यनृतम्, इति । तदेतत्पुष्पं फलं वाचो यत्सत्यं स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः पुष्पं हि फलं वाचः सत्यं वदति, इति । अथैतन्मूलं वाचो यदनृतं तद्यथा वृक्ष आविर्मूलः शुष्यति स उद्वर्तत एवमेवानृतं वदन्नाविर्मूलमात्मानं करोति स शुष्यति स उद्वर्तते तस्मादनृतं न वदेद्दयेत त्वेनेन, इति । पराग्वा एतद्रिक्तमक्षरं यदेतदो३मिति तद्यत्किंचोमित्याहात्रैवास्मै तद्रिच्यते स यत्सर्वमों कुर्याद्रिञ्च्यादात्मानं स कामेभ्यो नालं स्यात्, इति । अथैतत्पूर्णमभ्यात्मं यन्नेति स यत्सर्वं नेति ब्रूयात्पापिकाऽस्य कीर्तिर्जायेत सैनं तत्रैव हन्यात्, इति । तस्मात्काल एव दद्यात्काले न दद्यात्तत्सत्यानृते मिथुनी करोति तयोर्मिथुनात्प्रजायते भूयान्भवति, इति । यो वै तां वाचं वेद यस्या एष विकारः स संप्रतिविदकारो वै सर्वा वाक्सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति, इति । तस्यै यदुपांशु स प्राणोऽथ यदुच्चैस्तच्छरीरं तस्मात्तत्तिर इव तिर इव ह्यशरीरमशरीरो हि प्राणोऽथ यदुच्चैस्तच्छरीरं तस्मात्तदाविराविर्हि शरीरम्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये षष्ठः खण्डः ।। ६ ।। ( १८)

2.3.7

तद्वा इदं बृहतीसहस्रं संपन्नं तद्यशः स इन्द्रः स भूतानामधिपतिः स य एवमेतमिन्द्रं भूतानामधिपतिं वेद विस्रसा हैवास्माल्लोकात्प्रैतीति ह स्माऽऽह महिदास ऐतरेयः प्रेत्येन्द्रो भूत्वैषु लोकेषु राजति, इति । तदाहुर्यदनेन रूपेणामुं लोकमभिसंभवतीँ३ अथ केन रूपेणेमं लोकमाभवतीँ३, इति । तद्यदेतत्स्त्रियां लोहितं भवत्यग्नेस्तद्रूपं तस्मात्तस्मान्न बीभत्सेताथ यदेतत्पुरुषे रेतो भवत्यादित्यस्य तद्रूपं तस्मात्तस्मान्न बीभत्सेत सोऽयमात्मेममात्मानममुष्मा आत्मने संप्रयच्छत्यसावात्माऽमुमात्मानमिमस्मा आत्मने संप्रयच्छति तावन्योन्यमभिसंभवतोऽनेनाह रूपेणामुं लोकमभिसंभवत्यमुनो रूपेणेमं लोकमाभवति, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये सप्तमः खण्डः ।। ७ ।। ( १९)

2.3.8

तत्रैते श्लोकाः ३, इति । यदक्षरं पञ्चविधं समेति युजो युक्ता अभियत्संवहन्ति । सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति, इति । यदक्षरादक्षरमेति युक्तं युजो युक्ता अभि यत्संवहन्ति । सत्यस्य शृणु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति, इति । यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु । तद्वियूया कवयो अन्वविन्दन्नामायत्ता समतृप्यञ्च्छृतेऽधि इति । यस्मिन्नामा समतृप्यञ्च्छृतेऽधि तत्र देवाः सर्वयुजो भवन्ति । तेन पाप्मानमपहत्य ब्रह्मणा स्वर्गं लोकमप्येति विद्वान्, इति । नैनं वाचा स्त्रियं ब्रुवन्नैनमस्त्रीपुमान्ब्रुवन् । पुमांसं न ब्रुवन्नेनं वदन्वदति कश्चन, इति । अः इति ब्रह्म तत्राऽऽगतमहमिति, इति । तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति जीवाक्षरेणैव जीवाहराप्नोति जीवाह्ना जीवाक्षरमिति, इति । अनकाममारोऽथ देवरथस्तस्य वागुद्धिः श्रोत्रे पक्षसी चक्षुषी युक्ते मनः संग्रहीता तदयं प्राणोऽधितिष्ठति, इति । तदुक्तमृषिणा, इति । आ तेन यातं मनसो जवीयसा निमिषश्चिज्जवीयसेति जवीयसेति, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्यायेऽष्टमः खण्डः ।। ८ ।। ( २०)
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयोऽध्यायः ।। ३ ।।

2.4.1

अथ द्वितीयारण्यके चतुर्थोऽध्यायः । तत्र प्रथमः खण्डः । (एकविंशः)
आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्, इति । स ईक्षत लोकान्नु सृजा इति स इमाँल्लोकानसृजत, इति ।
अम्भो मरीचीर्मरमापः, इति । अदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आपः, इति ।
स ईक्षतेमे लोका लोकपालान्नु सृजा इति । सोऽद्य एव पुरुषं समुद्धृत्यामूर्छयत्, इति । तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येतामक्षीभ्यां चक्षुश्चक्षुष आदित्यः कर्णो निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ्निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये प्रथमः खण्डः ।। १ ।। ( २१)

2.4.2

ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनापिपासाभ्यामन्ववार्जत्, इति । ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति ताभ्योऽश्वमानयत्ता अब्रुवन्न् वै नोऽयमलमिति ताभ्यः पुरुषमानयत्ता अब्रुवन्त्सुकृतं बतेति पुरुषो वाव सुकृतम्, इति । ता अब्रवीद्यथायतनं प्रविशतेति, इति । अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद्दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन्, इति । तमशनापिपासे अब्रूतामावाभ्यामभि प्रजानीहीति ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति तस्माद्यस्य कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनापिपासे भवतः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये द्वितीयः खण्डः ।। २ ।। ( २२)

2.4.3

स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो मूर्तिरजायत या वै सा मूर्तिरजायतान्नं वै तत्, इति । तदेनत्सृष्टं पराङत्यजिघांसत्तद्वाचाऽजिघृक्षत्तन्नाशक्नोद्वाचा ग्रहीतुं स यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत्तत्प्राणेनाजिघृक्षत्तन्नाशक्रोत्प्राणेन ग्रहीतुं स यद्धै नत्प्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमत्रप्स्यच्चक्षुषाऽजिघृक्षत्तन्नाशक्नोच्चक्षुषा ग्रहीतुं स यद्धैनच्चक्षुषाऽग्रहैष्यद्दृष्ट्वा हैवान्नमत्रप्स्यत्तच्छ्रोत्रेणाजिघृक्षत्तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुं स यद्धैनच्छ्रोत्रेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत्तत्त्वचाऽजिघृक्षत्तन्नाशक्नोत्त्वचा ग्रहीतुं स यद्धैनत्त्वचाऽग्रहैष्यत्स्पृष्ट्वा हैवान्नमत्रप्स्यत्तन्मनसाऽजिघृक्षत्तन्नाशक्नोन्मनसा ग्रहीतुं स यद्धै नन्मनसाऽग्रहैष्यद्ध्यात्वा हैवान्नमत्रप्स्यत्तच्छिश्नेनाजिघृक्षत्तन्नाशक्नोच्छिश्नेन ग्रहीतुं स यद्धैनच्छिश्नेनाग्रहैष्यद्विसृज्य हैवान्नमत्रप्स्यत्तदपानेनाजिघृक्षत्तदावयत्, इति । सैषोऽन्नस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः, इति । स ईक्षत कथं न्विदं मदृते स्यादिति, इति । स ईक्षत कतरेण प्रपद्या इति, इति । स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणेनाभि प्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति, इति ।
स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत, इति । सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनम्, इति । तस्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ इति, इति । स जातो भूतान्यभिव्यैख्यत्किमिहान्यं वावदिषदिति स एतमेव पुरुषं ब्रह्मततममपश्यत्, इति । इदमदर्शमितीँ३ तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः, इति ।।

इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये तृतीयः खण्डः ।। ३ ।। (२३)
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थोऽध्यायः ।। ४ ।।

2.5.1

पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः, इति । तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभृतमात्मन्येवाऽऽत्मानं बिभर्ति तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म, इति । तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा तस्मादेनां न हिनस्ति, इति । साऽस्यैतमात्मानमत्र गतं भावयति सा भावयित्री भावयितव्या भवति, इति । तं स्त्री गर्भे बिभर्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति, इति । स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयति, इति । एषां लोकानां संतत्या एवं संतता हीमे लोकाः, इति । तदस्य द्वितीयं जन्म, इति । सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते, इति । अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति, इति । स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म, इति । तदुक्तमृषिणा, इति । गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा । शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति, इति । गर्भ एवैतच्छयानो वामदेव एवमुवाच स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन्त्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके पञ्चमाध्याये प्रथमः खण्डः ।। १ ।। (२४)
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके पञ्चमोऽध्यायः ।। ५ ।।

2.6.1

अथ द्वितीयारण्यके षष्ठोऽध्यायः । तत्र प्रथमः खण्डः ( पञ्चविंशः)

कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा, इति । येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति यदेतद्धृदयं मनश्चैतत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति, इति । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति, इति । एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीतानीमानि च क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिजानि चाश्वा गावः पुरुषा हस्तिनो यत्किंचेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रम्, इति । प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा, इति । प्रज्ञानं ब्रह्म, इति । स एतेन प्रज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्त्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके षष्ठाध्याये प्रथमः खण्डः ।। १ ।। ( २५)
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके षष्ठोऽध्यायः ।। ६ ।।

2.7.1

वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणी स्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्त्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके सप्तमाध्याये प्रथमः खण्डः ।। १ ।। ( २६)
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके सप्तमोऽध्यायः ।। ७ ।।
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यकं समाप्तम् ।। २ ।।