ऋग्वेदः सूक्तं ६.३७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.३६ ऋग्वेदः - मण्डल ६
सूक्तं ६.३७
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.३८ →
दे. इन्द्रः। त्रिष्टुप्


अर्वाग्रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु ।
कीरिश्चिद्धि त्वा हवते स्वर्वानृधीमहि सधमादस्ते अद्य ॥१॥
प्रो द्रोणे हरयः कर्माग्मन्पुनानास ऋज्यन्तो अभूवन् ।
इन्द्रो नो अस्य पूर्व्यः पपीयाद्द्युक्षो मदस्य सोम्यस्य राजा ॥२॥
आसस्राणासः शवसानमच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः ।
अभि श्रव ऋज्यन्तो वहेयुर्नू चिन्नु वायोरमृतं वि दस्येत् ॥३॥
वरिष्ठो अस्य दक्षिणामियर्तीन्द्रो मघोनां तुविकूर्मितमः ।
यया वज्रिवः परियास्यंहो मघा च धृष्णो दयसे वि सूरीन् ॥४॥
इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर्वर्धतां वृद्धमहाः ।
इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः ॥५॥


सायणभाष्यम्

' अर्वाग्रथम्' इति पञ्चर्चं चतुर्दशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । ‘अर्वाग्रथम्' इत्यनुक्रान्तम् । महाव्रते निप्केवल्ये उक्तो विनियोगः ॥


अ॒र्वाग्रथं॑ वि॒श्ववा॑रं त उ॒ग्रेन्द्र॑ यु॒क्तासो॒ हर॑यो वहन्तु ।

की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व॑र्वानृधी॒महि॑ सध॒माद॑स्ते अ॒द्य ॥१

अ॒र्वाक् । रथ॑म् । वि॒श्वऽवा॑रम् । ते॒ । उ॒ग्र॒ । इन्द्र॑ । यु॒क्तासः॑ । हर॑यः । व॒ह॒न्तु॒ ।

की॒रिः । चि॒त् । हि । त्वा॒ । हव॑ते । स्वः॑ऽवान् । ऋ॒धी॒महि॑ । स॒ध॒ऽमादः॑ । ते॒ । अ॒द्य ॥१

अर्वाक् । रथम् । विश्वऽवारम् । ते । उग्र । इन्द्र । युक्तासः । हरयः । वहन्तु ।

कीरिः । चित् । हि । त्वा । हवते । स्वःऽवान् । ऋधीमहि । सधऽमादः । ते । अद्य ॥१

हे “उग्र उद्गूर्णबल “इन्द्र "युक्तासः रथेन युक्ताः “हरयः अश्वा: “ते त्वदीयं “विश्ववारं विश्वैर्वरणीयं “रथम् “अर्वाक् अस्मदभिमुखं “वहन्तु आनयन्तु । “हि यस्मात् “स्वर्वान्। स्वः सुष्ठु अरणीयं गुणजातम् । तद्वान् “कीरिश्चित् स्तोता भरद्वाज ऋषिः “त्वा त्वां “हवते आह्वयति तस्मात् कारणात् त्वदीयं रथमभिमुखं वहन्त्वित्यर्थः । वयं च "अद्य इदानीं “ते त्वया “सधमादः सह माद्यन्तः “ऋधीमहि समृद्धा भवेम ॥


तृतीये पर्यायेऽच्छावाकस्य ‘प्रो द्रोणे' इत्येषा शस्त्रयाज्या । सूत्रितं च-’ प्रो द्रोणे हरयः कर्माग्मन्निति याज्या' ( आश्व. श्रौ. ६. ४ ) इति ॥

प्रो द्रोणे॒ हर॑य॒ः कर्मा॑ग्मन्पुना॒नास॒ ऋज्य॑न्तो अभूवन् ।

इन्द्रो॑ नो अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा॑ ॥२

प्रो इति॑ । द्रोणे॑ । हर॑यः । कर्म॑ । अ॒ग्म॒न् । पु॒ना॒नासः॑ । ऋज्य॑न्तः । अ॒भू॒व॒न् ।

इन्द्रः॑ । नः॒ । अ॒स्य । पू॒र्व्यः । प॒पी॒या॒त् । द्यु॒क्षः । मद॑स्य । सो॒म्यस्य॑ । राजा॑ ॥२

प्रो इति । द्रोणे । हरयः । कर्म । अग्मन् । पुनानासः । ऋज्यन्तः । अभूवन् ।

इन्द्रः । नः । अस्य । पूर्व्यः । पपीयात् । द्युक्षः । मदस्य । सोम्यस्य । राजा ॥२

“हरयः हरितवर्णाः सोमाः “नः “कर्म अस्मदीयं यज्ञं “प्रो “अग्मन् प्रकर्षेण गच्छन्ति प्राप्नुवन्ति । प्राप्य च “पुनानासः पूयमानाः “द्रोणे द्रोणकलशे “ऋज्यन्तः ऋजु गच्छन्तः “अभूवन् भवन्ति । “पूर्व्यः पुरातनः “द्युक्षः दीप्तेर्निवासभूतो द्युस्थानो वा “मदस्य मदकरस्य “सोम्यस्य सोमस्य “राजा ईश्वर एवंभूतः “इन्द्रः च “अस्य इमं सोमं “पपीयात् पिबतु ॥


आ॒स॒स्रा॒णास॑ः शवसा॒नमच्छेन्द्रं॑ सुच॒क्रे र॒थ्या॑सो॒ अश्वा॑ः ।

अ॒भि श्रव॒ ऋज्य॑न्तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत् ॥३

आ॒ऽस॒स्रा॒णासः॑ । श॒व॒सा॒नम् । अच्छ॑ । इन्द्र॑म् । सु॒ऽच॒क्रे । र॒थ्या॑सः । अश्वाः॑ ।

अ॒भि । श्रवः॑ । ऋज्य॑न्तः । व॒हे॒युः॒ । नु । चि॒त् । नु । वा॒योः । अ॒मृत॑म् । वि । द॒स्ये॒त् ॥३

आऽसस्राणासः । शवसानम् । अच्छ । इन्द्रम् । सुऽचक्रे । रथ्यासः । अश्वाः ।

अभि । श्रवः । ऋज्यन्तः । वहेयुः । नु । चित् । नु । वायोः । अमृतम् । वि । दस्येत् ॥३

“आसस्राणासः परितो गच्छन्तः “रथ्यासः रथे युक्ता: “अश्वाः “ऋज्यन्तः ऋजुगमनाः सन्तः “सुचक्रे शोभनचक्रे रथेऽवस्थितं “शवसानं बलमिवाचरन्तम् “इन्द्रं “श्रवः श्रवणीयमस्मदीयं हविः “अच्छ आभिमुख्येन “अभि “वहेयुः अवहेयुः । नू चित् इति निपातो निषेधेऽत्र वर्तते । “अमृतम् अमरणहेतुभूतं सोमलक्षणं हविः “वायोः हेतोः “नु इदानीं 'नू “चित् नैव “वि “दस्येत् क्षयं न प्राप्नुयात् । पात्रे गृहीतः सोमो वायुना शुष्यति ततः पुरैव तत्पानार्थमश्वा इन्द्रमभिवहेयुरित्यर्थः ॥


वरि॑ष्ठो अस्य॒ दक्षि॑णामिय॒र्तीन्द्रो॑ म॒घोनां॑ तुविकू॒र्मित॑मः ।

यया॑ वज्रिवः परि॒यास्यंहो॑ म॒घा च॑ धृष्णो॒ दय॑से॒ वि सू॒रीन् ॥४

वरि॑ष्ठः । अ॒स्य॒ । दक्षि॑णाम् । इ॒य॒र्ति॒ । इन्द्रः॑ । म॒घोना॑म् । तु॒वि॒कू॒र्मिऽत॑मः ।

यया॑ । व॒ज्रि॒ऽवः॒ । प॒रि॒ऽयासि॑ । अंहः॑ । म॒घा । च॒ । धृ॒ष्णो॒ इति॑ । दय॑से । वि । सू॒रीन् ॥४

वरिष्ठः । अस्य । दक्षिणाम् । इयर्ति । इन्द्रः । मघोनाम् । तुविकूर्मिऽतमः ।

यया । वज्रिऽवः । परिऽयासि । अंहः । मघा । च । धृष्णो इति । दयसे । वि । सूरीन् ॥४

“वरिष्ठः उरुतमः “तुविकूर्मितमः अतिशयेन बहुविधकर्मा “इन्द्रो “मघोनां मघवतां हविर्लक्षणधनोपेतानां मध्ये "अस्य यजमानस्य “दक्षिणां यज्ञे दातव्याम् “इयर्ति प्रेरयति । यद्वा । मघोनामिति अस्येत्यनेन समानाधिकरणम् ॥ वचनव्यत्ययः । मघोनो हविष्मतोऽस्य यजमानस्येत्यर्थः । शेषः प्रत्यक्षकृतः । हे “वज्रिवः वज्रवन्निन्द्र “यया दक्षिणया दत्तया “अंहः पापं यज्ञसंबन्धि “परियासि विनाशयसि हे “धृष्णो धर्षक “मघा मघानि धनानि “सूरीन् स्तोतॄन पुत्रांश्च यया च दक्षिणया "वि “दयसे प्रयच्छसि तादृशीं दक्षिणां प्रेरयसीत्यर्थः ॥


इन्द्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेन्द्रो॑ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः ।

इन्द्रो॑ वृ॒त्रं हनि॑ष्ठो अस्तु॒ सत्वा ता सू॒रिः पृ॑णति॒ तूतु॑जानः ॥५

इन्द्रः॑ । वाज॑स्य । स्थवि॑रस्य । दा॒ता । इन्द्रः॑ । गीः॒ऽभिः । व॒र्ध॒ता॒म् । वृ॒द्धऽम॑हाः ।

इन्द्रः॑ । वृ॒त्रम् । हनि॑ष्ठः । अ॒स्तु॒ । सत्वा॑ । आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु॑जानः ॥५

इन्द्रः । वाजस्य । स्थविरस्य । दाता । इन्द्रः । गीःऽभिः । वर्धताम् । वृद्धऽमहाः ।

इन्द्रः । वृत्रम् । हनिष्ठः । अस्तु । सत्वा । आ । ता । सूरिः । पृणति । तूतुजानः ॥५

अयम् “इन्द्रः “स्थविरस्य “वाजस्य अन्नस्य बलस्य वा "दाता भवतु । स च “इन्द्रः “वृद्धमहा: प्रवृद्धतेजस्कः सन् “गीर्भिः अस्मदीयाभिः स्तुतिभिः “वर्धताम् । “सत्वा शत्रूणां शातयिता सः इन्द्रः “वृत्रम् आवरकं शत्रुं “हनिष्ठः हन्तृतमः “अस्तु भवतु । अपि च “सूरिः प्रेरकः स इन्द्रः “तूतुजानः त्वरमाणः “ता तानि धनानि “आ “पृणति अस्मभ्यं प्रयच्छतु ॥ ॥ ९ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.३७&oldid=188498" इत्यस्माद् प्रतिप्राप्तम्