ऋग्वेदः सूक्तं ६.५१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.५० ऋग्वेदः - मण्डल ६
सूक्तं ६.५१
ऋजिश्वा भारद्वाजः
सूक्तं ६.५२ →
दे. विश्वे देवाः। त्रिष्टुप्, १३-१५ उष्णिक्, १६ अनुष्टुप् ।


उदु त्यच्चक्षुर्महि मित्रयोराँ एति प्रियं वरुणयोरदब्धम् ।
ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिता व्यद्यौत् ॥१॥
वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः ।
ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान् ॥२॥
स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान् ।
अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान् ॥३॥
रिशादसः सत्पतीँरदब्धान्महो राज्ञः सुवसनस्य दातॄन् ।
यूनः सुक्षत्रान्क्षयतो दिवो नॄनादित्यान्याम्यदितिं दुवोयु ॥४॥
द्यौष्पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः ।
विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥५॥
मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः ।
यूयं हि ष्ठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव ॥६॥
मा व एनो अन्यकृतं भुजेम मा तत्कर्म वसवो यच्चयध्वे ।
विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट ॥७॥
नम इदुग्रं नम आ विवासे नमो दाधार पृथिवीमुत द्याम् ।
नमो देवेभ्यो नम ईश एषां कृतं चिदेनो नमसा विवासे ॥८॥
ऋतस्य वो रथ्यः पूतदक्षानृतस्य पस्त्यसदो अदब्धान् ।
ताँ आ नमोभिरुरुचक्षसो नॄन्विश्वान्व आ नमे महो यजत्राः ॥९॥
ते हि श्रेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति ।
सुक्षत्रासो वरुणो मित्रो अग्निरृतधीतयो वक्मराजसत्याः ॥१०॥
ते न इन्द्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पञ्च जनाः ।
सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः ॥११॥
नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता ।
आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द ॥१२॥
अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् ।
दविष्ठमस्य सत्पते कृधी सुगम् ॥१३॥
ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः ।
जही न्यत्रिणं पणिं वृको हि षः ॥१४॥
यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
कर्ता नो अध्वन्ना सुगं गोपा अमा ॥१५॥
अपि पन्थामगन्महि स्वस्तिगामनेहसम् ।
येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥१६॥


सायणभाष्यम्

‘उदु त्यत्' इति षोडशर्चं द्वितीयं सूक्तमृजिश्वन आर्षं वैश्वदेवम् । त्रयोदश्याद्यास्तिस्र उष्णिहः षोडश्यनुष्टुप् शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तम्- उदु त्यत्षोळश त्र्युष्णिगनुष्टुबन्तम् ' इति । गतः सूक्तविनियोगः ॥


उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् ।

ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी॑कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ॥१

उत् । ऊं॒ इति॑ । त्यत् । चक्षुः॑ । महि॑ । मि॒त्रयोः॑ । आ । एति॑ । प्रि॒यम् । वरु॑णयोः । अद॑ब्धम् ।

ऋ॒तस्य॑ । शुचि॑ । द॒र्श॒तम् । अनी॑कम् । रु॒क्मः । न । दि॒वः । उत्ऽइ॑ता । वि । अ॒द्यौ॒त् ॥१

उत् । ऊं इति । त्यत् । चक्षुः । महि । मित्रयोः । आ । एति । प्रियम् । वरुणयोः । अदब्धम् ।

ऋतस्य । शुचि । दर्शतम् । अनीकम् । रुक्मः । न । दिवः । उत्ऽइता । वि । अद्यौत् ॥१

“त्यत् तत् प्रसिद्धं "चक्षुः प्रकाशकं "महि महत् विस्तृतं “मित्रयोः ”वरुणयो: ”प्रियं । मित्रशब्दो वरुणशब्दश्च इतरेतरयोगात् मित्रावरुणावुभावप्याचष्टे। मित्रावरुणयोः प्रियम् “अदब्धं रक्षोभिरहिंसितं “शुचि शुद्धं निर्मलं “दर्शतं दर्शनीयम् । एवंभूतम् “ऋतस्य आदित्यस्य “अनीकं तेजः “आ सर्वेषामभिमुखम् “उत् “एति उद्गच्छति । “उदिता उदितौ सूर्यस्योदये सति उदितं तत्तेजः “दिवः अन्तरिक्षस्य “रुक्मो “न भूषणमिव “व्यद्यौत् विद्योतते । प्रकाशते ॥


वेद॒ यस्त्रीणि॑ वि॒दथा॑न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्र॑ः ।

ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न्न॒भि च॑ष्टे॒ सूरो॑ अ॒र्य एवा॑न् ॥२

वेद॑ । यः । त्रीणि॑ । वि॒दथा॑नि । ए॒षा॒म् । दे॒वाना॑म् । जन्म॑ । स॒नु॒तः । आ । च॒ । विप्रः॑ ।

ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् । अ॒भि । च॒ष्टे॒ । सूरः॑ । अ॒र्यः । एवा॑न् ॥२

वेद । यः । त्रीणि । विदथानि । एषाम् । देवानाम् । जन्म । सनुतः । आ । च । विप्रः ।

ऋजु । मर्तेषु । वृजिना । च । पश्यन् । अभि । चष्टे । सूरः । अर्यः । एवान् ॥२

“यः सूर्यः “त्रीणि त्रिसंख्यानि “विदथानि वेदितव्यानि स्थानानि त्रीँल्लोकान् “वेद वेत्ति जानाति । “एषाम् एतल्लोकत्रयवर्तिनां “देवानां वसुरुद्रादित्यात्मनां “सनुतः । अन्तर्हितनामैतत् । अन्तर्हितमप्रज्ञायमानं “जन्म जननं “च यः “विप्रः मेधावी सूर्यो वेत्ति । आकारः पूरकः । सः “सूरः सूर्यः “मर्तेषु मनुष्येषु विद्यमानानि “ऋजु ऋजूनि शोभनानि कर्माणि "वृजिना वृजिनान्यशोभनानि कर्माणि “च “पश्यन् साक्षितया जानन् "अभि “चष्टे अभितः सर्वं जगत् प्रकाशयति । तथा “अर्यः स्वामी भूत्वा “एवान् प्राप्तव्यान् कामांश्च मनुष्येषु प्रकाशयति ॥


स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् ।

अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्य॑ः पाव॒कान् ॥३

स्तु॒षे । ऊं॒ इति॑ । वः॒ । म॒हः । ऋ॒तस्य॑ । गो॒पान् । अदि॑तिम् । मि॒त्रम् । वरु॑णम् । सु॒ऽजा॒तान् ।

अ॒र्य॒मण॑म् । भग॑म् । अद॑ब्धऽधीतीन् । अच्छ॑ । वो॒चे॒ । स॒ऽध॒न्यः॑ । पा॒व॒कान् ॥३

स्तुषे । ऊं इति । वः । महः । ऋतस्य । गोपान् । अदितिम् । मित्रम् । वरुणम् । सुऽजातान् ।

अर्यमणम् । भगम् । अदब्धऽधीतीन् । अच्छ । वोचे । सऽधन्यः । पावकान् ॥३

हे देवाः “महः महतः “ऋतस्य यज्ञस्य “गोपान रक्षकान् “वः युष्मान् “स्तुषे स्तुवे । “उ इति पूरणः । तानेव देवानाह । “अदितिम् अदीनां देवमातरं “मित्रं “वरुणं चैतान् “सुजातान् शोभनजननान् “अर्यमणं "भगं च “अदब्धधीतीन् अहिंसितकर्मणः “सधन्यः धनसहितान् 'पावकान् विश्वस्य शोधकान् । ईदृशान् सर्वान् देवान् "अच्छ “वोचे अभिप्रब्रवीमीत्यर्थः ॥


रि॒शाद॑स॒ः सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञ॑ः सुवस॒नस्य॑ दा॒तॄन् ।

यून॑ः सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ॥४

रि॒शाद॑सः । सत्ऽप॑तीन् । अद॑ब्धान् । म॒हः । राज्ञः॑ । सु॒ऽव॒स॒नस्य॑ । दा॒तॄन् ।

यूनः॑ । सु॒ऽक्ष॒त्रान् । क्षय॑तः । दि॒वः । नॄन् । आ॒दि॒त्यान् । या॒मि॒ । अदि॑तिम् । दु॒वः॒ऽयु ॥४

रिशादसः । सत्ऽपतीन् । अदब्धान् । महः । राज्ञः । सुऽवसनस्य । दातॄन् ।

यूनः । सुऽक्षत्रान् । क्षयतः । दिवः । नॄन् । आदित्यान् । यामि । अदितिम् । दुवःऽयु ॥४

"रिशादसः रिशतां हिंसकानामसितॄन् क्षेप्तॄन् यद्वा रिशानां हिंसकानामत्तॄन् भक्षयितॄन् "सत्पतीन् सतां पालयितॄन् “अदब्धान् अहिंसितान् "महः महतः “राज्ञः राजमानानीश्वरान् वा "सुवसनस्य शोभननिवासस्य “दातॄन् “यूनः नित्यतरुणान् “सुक्षत्रान् शोभनधनान् शोभनबलान् वा “क्षयतः सर्वत्र निवसतः। यद्वा । क्षयतिरैश्वर्यकर्मा । ईशानान् "दिवः द्युलोकस्य "नॄन् नेतॄन् “आदित्यान् अदितेः पुत्रान् । ईदृशान् सर्वान् देवान् “दुवोयु । लुप्तविभक्तिकमेतत् । दुवोयुं दुवोऽस्मदीयं परिचरणं कामयमानाम् “अदितिं देवमातरं च “यामि प्राप्नोमि । यद्वा । यामि याचामि ॥


द्यौ॒३॒॑ष्पित॒ः पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः ।

विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्त ॥५

द्यौः॑ । पित॒रिति॑ । पृथि॑वि । मातः॑ । अध्रु॑क् । अग्ने॑ । भ्रा॒तः॒ । व॒स॒वः॒ । मृ॒ळत॑ । नः॒ ।

विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । स॒ऽजोषाः॑ । अ॒स्मभ्य॑म् । शर्म॑ । ब॒हु॒लम् । वि । य॒न्त॒ ॥५

द्यौः । पितरिति । पृथिवि । मातः । अध्रुक् । अग्ने । भ्रातः । वसवः । मृळत । नः ।

विश्वे । आदित्याः । अदिते । सऽजोषाः । अस्मभ्यम् । शर्म । बहुलम् । वि । यन्त ॥५

हे "पितः पितृस्थानीय “द्यौः द्युलोक हे “मातः मातृस्थानीये "अध्रुक् अद्रोग्ध्रि “पृथिवि हे “भ्रातः भ्रातृस्थानीय “अग्ने हे “वसवः वासयितारो देवाः ते सर्वे यूयं “नः अस्मान् “मृळत सुखयत । हे “विश्वे "आदित्याः सर्वेऽदितिपुत्रा देवा हे “अदिते यूयं “सजोषाः संगता भूत्वा “अस्मभ्यं “बहुलम् अधिकं “शर्म सुखं विस्तृतं वा गृहं “वि "यन्त प्रयच्छत ॥ ॥ ११ ॥


मा नो॒ वृका॑य वृ॒क्ये॑ समस्मा अघाय॒ते री॑रधता यजत्राः ।

यू॒यं हि ष्ठा र॒थ्यो॑ नस्त॒नूनां॑ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ॥६

मा । नः॒ । वृका॑य । वृ॒क्ये॑ । स॒म॒स्मै॒ । अ॒घ॒ऽय॒ते । री॒र॒ध॒त॒ । य॒ज॒त्राः॒ ।

यू॒यम् । हि । स्थ । र॒थ्यः॑ । नः॒ । त॒नूना॑म् । यू॒यम् । दक्ष॑स्य । वच॑सः । ब॒भू॒व ॥६

मा । नः । वृकाय । वृक्ये । समस्मै । अघऽयते । रीरधत । यजत्राः ।

यूयम् । हि । स्थ । रथ्यः । नः । तनूनाम् । यूयम् । दक्षस्य । वचसः । बभूव ॥६

हे “यजत्राः यष्टव्या देवाः “नः अस्मान् “वृकाय हिंसकाय स्तेनाय “वृक्ये तस्य स्त्रियै च “मा “रीरधत मा वशं नैष्ट । मी वशीकुरुत । यद्वा । वृकोऽरण्यश्वा तस्य स्त्री वृकी । अपि च “समस्मै सर्वस्मै “अघायते अघमनर्थमस्माकमिच्छते शत्रुजनायास्मान् मा वशं नयत । “यूयं “हि यूयं खलु “नः अस्माकं “तनूनां शरीराणां “रथ्यः नेतारः “स्थ भवथ। “यूयम् एव “दक्षस्य अस्मदीयस्य बलस्य “वचसः वाक्यस्य च नेतारः “बभूव । अतः कारणात् अस्मान् मा रीरधतेत्यन्वयः ॥


मा व॒ एनो॑ अ॒न्यकृ॑तं भुजेम॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ।

विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं॑ रीरिषीष्ट ॥७

मा । वः॒ । एनः॑ । अ॒न्यऽकृ॑तम् । भु॒जे॒म॒ । मा । तत् । क॒र्म॒ । व॒स॒वः॒ । यत् । चय॑ध्वे ।

विश्व॑स्य । हि । क्षय॑थ । वि॒श्व॒ऽदे॒वाः॒ । स्व॒यम् । रि॒पुः । त॒न्व॑म् । रि॒रि॒षी॒ष्ट॒ ॥७

मा । वः । एनः । अन्यऽकृतम् । भुजेम । मा । तत् । कर्म । वसवः । यत् । चयध्वे ।

विश्वस्य । हि । क्षयथ । विश्वऽदेवाः । स्वयम् । रिपुः । तन्वम् । रिरिषीष्ट ॥७

हे देवाः “वः युष्माकं स्वभूता वयम् “अन्यकृतम् अन्यैः शत्रुभिः कृतमुत्पादितम् “एनः पापं “मा “भुजेम मा भुंक्ष्महि । हे “वसवः वासयितारो देवाः “यत् येन कृतेन पापेन “चयध्वे अस्मान् बाधध्वे । चयतिर्हिंसाकर्मा । “तत् च पापं “मा “कर्म मा कार्ष्म ॥ करोतेर्माङि लुङि ‘मन्त्रे घस' इति च्लेर्लुक् ॥ हे “विश्वदेवाः सर्वे देवाः "विश्वस्य सर्वस्य जगतो यूयं हि “क्षयथ ईश्वरा भवथ । अतः कारणात् अस्मदीयः “रिपुः शत्रुः “तन्वं स्वशरीरं "स्वयम् एव “रिरिषीष्ट हिंस्यात् । यथैवं भवति तथा कुरुतेति भावः ॥


नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्याम् ।

नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ॥८

नमः॑ । इत् । उ॒ग्रम् । नमः॑ । आ । वि॒वा॒से॒ । नमः॑ । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।

नमः॑ । दे॒वेभ्यः॑ । नमः॑ । ई॒शे॒ । ए॒षा॒म् । कृ॒तम् । चि॒त् । एनः॑ । नम॑सा । आ । वि॒वा॒से॒ ॥८

नमः । इत् । उग्रम् । नमः । आ । विवासे । नमः । दाधार । पृथिवीम् । उत । द्याम् ।

नमः । देवेभ्यः । नमः । ईशे । एषाम् । कृतम् । चित् । एनः । नमसा । आ । विवासे ॥८

आस्तां तावद्देवानां माहात्म्यं तदीयो नमस्कारोऽपीत्थंमहाभाग इति ब्रुवाणः कैमुतिकन्यायेन देवान् स्तौति । “नम “इत् नमस्कार एव “उग्रम् उद्गूर्णबलं सर्वोत्कृष्टम् । तेन हि सर्वं लभ्यते । अतः “नमः नमस्कारम् “आ “विवासे परिचरामि । “नमः नमस्कार एव “पृथिवीमुत “द्यां द्युलोकं च “दाधार धारयति । द्यावापृथिव्यौ प्राणिभिर्नमस्क्रियमाणे सत्यौ तदुपभोगाय चिरकालमवतिष्ठेते । अतः “देवेभ्यः ईदृशं “नमः करोमि। “एषां देवानां “नमः नमस्कारः “ईशे ईष्टे । यतस्तेन ते वशीकृताः । “कृतं “चित् कृतमप्याचरितमपि “एनः पापं “नमसा नमस्कारेण “आ “विवासे । विवासो वर्जनम् । वर्जयामि । विनाशयामि ॥


ऋ॒तस्य॑ वो र॒थ्य॑ः पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒ अद॑ब्धान् ।

ताँ आ नमो॑भिरुरु॒चक्ष॑सो॒ नॄन्विश्वा॑न्व॒ आ न॑मे म॒हो य॑जत्राः ॥९

ऋ॒तस्य॑ । वः॒ । र॒थ्यः॑ । पू॒तऽद॑क्षान् । ऋ॒तस्य॑ । प॒स्त्य॒ऽसदः॑ । अद॑ब्धान् ।

तान् । आ । नमः॑ऽभिः । उ॒रु॒ऽचक्ष॑सः । नॄन् । विश्वा॑न् । वः॒ । आ । न॒मे॒ । म॒हः । य॒ज॒त्राः॒ ॥९

ऋतस्य । वः । रथ्यः । पूतऽदक्षान् । ऋतस्य । पस्त्यऽसदः । अदब्धान् ।

तान् । आ । नमःऽभिः । उरुऽचक्षसः । नॄन् । विश्वान् । वः । आ । नमे । महः । यजत्राः ॥९

हे "यजत्राः यष्टव्या देवाः “वः युष्मदीयस्य “ऋतस्य यज्ञस्य “रथ्यः रंहितॄन् नेतॄन् "पूतदक्षान् शुद्धबलान् “ऋतस्य यज्ञस्य “पस्त्यसदः यज्ञसंबन्धिनि पस्त्ये देवयजनलक्षणे गृहे सीदतो निषण्णान् “अदब्धान् रक्षःप्रभृतिभिरहिंसितान् “उरुचक्षसः बहुद्रष्टॄन् “नॄन् नेतॄन् “महः महतः “तान् “विश्वान सर्वान् “वः युष्मान् "आ आभिमुख्येन क्रियमाणैः “नमोभिः नमस्कारैः “आ “नमे आनतोऽस्मि ॥


ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा॑नि दुरि॒ता नय॑न्ति ।

सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निरृ॒तधी॑तयो वक्म॒राज॑सत्याः ॥१०

ते । हि । श्रेष्ठ॑ऽवर्चसः । ते । ऊं॒ इति॑ । नः॒ । ति॒रः । विश्वा॑नि । दुः॒ऽइ॒ता । नय॑न्ति ।

सु॒ऽक्ष॒त्रासः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । ऋ॒तऽधी॑तयः । व॒क्म॒राज॑ऽसत्याः ॥१०

ते । हि । श्रेष्ठऽवर्चसः । ते । ऊं इति । नः । तिरः । विश्वानि । दुःऽइता । नयन्ति ।

सुऽक्षत्रासः । वरुणः । मित्रः । अग्निः । ऋतऽधीतयः । वक्मराजऽसत्याः ॥१०

ये देवा वक्ष्यमाणगुणाः “ते “हि ते खलु “श्रेष्ठवर्चसः प्रशस्यतमदीप्तयो भवन्ति । अतः “त “उ त एव “नः अस्माकं “विश्वानि सर्वाणि “दुरिता पापानि “तिरः तिरोहितानि यथा भवन्ति तथा "नयन्ति नयन्तु । विनाशयन्त्वित्यर्थः । ये वरुणादयो देवाः “सुक्षत्रासः शोभनबलाः शोभनधना वा “ऋतधीतयः सत्यकर्माणः “वक्मराजसत्याः । वक्म वचनं स्तोत्रम् । तस्य राजान ईशाना वक्मराजाः स्तोतारः । तेषु सत्या अवितथाः । एवंभूतास्ते हीत्यन्वयः ॥ ॥ १२ ॥


ते न॒ इन्द्र॑ः पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑ति॒ः पञ्च॒ जना॑ः ।

सु॒शर्मा॑ण॒ः स्वव॑सः सुनी॒था भव॑न्तु नः सुत्रा॒त्रास॑ः सुगो॒पाः ॥११

ते । नः॒ । इन्द्रः॑ । पृ॒थि॒वी । क्षाम॑ । व॒र्ध॒न् । पू॒षा । भगः॑ । अदि॑तिः । पञ्च॑ । जनाः॑ ।

सु॒ऽशर्मा॑णः । सु॒ऽअव॑सः । सु॒ऽनी॒थाः । भव॑न्तु । नः॒ । सु॒ऽत्रा॒त्रासः॑ । सु॒ऽगो॒पाः ॥११

ते । नः । इन्द्रः । पृथिवी । क्षाम । वर्धन् । पूषा । भगः । अदितिः । पञ्च । जनाः ।

सुऽशर्माणः । सुऽअवसः । सुऽनीथाः । भवन्तु । नः । सुऽत्रात्रासः । सुऽगोपाः ॥११

“ते देवाः “नः अस्माकं “क्षाम निवासभूमिं “वर्धन् वर्धयन्तु । के ते। “इन्द्रः “पृथिवी च "पूषा च "भगः च “अदितिः अदीना देवमाता च “पञ्च “जनाः ‘देवमनुष्याणां गन्धर्वाप्सरसाम्' ( ऐ. ब्रा. ३. ३१ ) इत्यादिब्राह्मणोक्ता देवमनुष्यादयश्च ते च “नः अस्मदर्थं “सुशर्माणः सुसुखाः “स्ववसः शोभनान्नाः “सुनीथाः सुप्रापणाश्च “भवन्तु । अस्मभ्यं शोभनसुखादिकं प्रयच्छन्त्विति भावः। तथा “सुत्रात्रासः सुष्ठु त्रातारः “सुगोपाः शोभनगोपायितारश्च भवन्तु । उपस्थितेभ्यः शत्रुभ्यो रक्षणं त्राणम् । तेषामुत्पत्तिनिरोधेन रक्षणं गोपनम् ॥


नू स॒द्मानं॑ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या॑ति॒ होता॑ ।

आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै॑र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द ॥१२

नु । स॒द्मान॑म् । दि॒व्यम् । नंशि॑ । दे॒वाः॒ । भार॑त्ऽवाजः । सु॒ऽम॒तिम् । या॒ति॒ । होता॑ ।

आ॒सा॒नेभिः॑ । यज॑मानः । मि॒येधैः॑ । दे॒वाना॑म् । जन्म॑ । व॒सु॒ऽयुः । व॒व॒न्द॒ ॥१२

नु । सद्मानम् । दिव्यम् । नंशि । देवाः । भारत्ऽवाजः । सुऽमतिम् । याति । होता ।

आसानेभिः । यजमानः । मियेधैः । देवानाम् । जन्म । वसुऽयुः । ववन्द ॥१२

अनया ऋषिरात्मानं परोक्षवदाह । हे “देवाः “भारद्वाजः भरद्वाजगोत्रजः “होता स्तोता अयमृषिः “दिव्यं दिवि भवं “सद्मानं सदनं स्थानं “नु क्षिप्रं "नंशि व्याप्नोतु । तथा “सुमतिं शोभनां मतिं युष्मदीयामनुग्रहबुद्धिं च “याति याचते । यातिर्याञ्चाकर्मा । तदर्थम् “आसानेभिः आसीनैः सत्रासनं कुर्वद्भिः “मियेधैः मेध्यैर्मेधार्हैः अन्ययजमानैः सार्धं “यजमानः यागं कुर्वन्नयमृषिः “वसूयुः वसूनि धनान्यात्मन इच्छन् “देवानां “जन्म जनं संघं “ववन्द वन्दते । स्तौति ।।


दशरात्रस्य चतुर्थेऽहनि प्रउगशस्त्रे ‘अप त्यं वृजिनम्' इत्येष वैश्वदेवस्तृचः । सूत्रितं च -- ‘अप त्यं वृजिनं रिपुमम्बितमे नदीतम इत्यानुष्टुभं प्रउगम्' (आश्व. श्रौ. ७.११) इति ॥

अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य॑म् ।

द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम् ॥१३

अप॑ । त्यम् । वृ॒जि॒नम् । रि॒पुम् । स्ते॒नम् । अ॒ग्ने॒ । दुः॒ऽआ॒ध्य॑म् ।

द॒वि॒ष्ठम् । अ॒स्य॒ । स॒त्ऽप॒ते॒ । कृ॒धि । सु॒ऽगम् ॥१३

अप । त्यम् । वृजिनम् । रिपुम् । स्तेनम् । अग्ने । दुःऽआध्यम् ।

दविष्ठम् । अस्य । सत्ऽपते । कृधि । सुऽगम् ॥१३

हे “अग्ने त्वं “त्यं तं प्रसिद्धं “वृजिनं कुटिलं “रिपुं 'पापकारिणं “दुराध्यं दुःखस्याध्यातारं दुष्टाभिप्रायमेवंभूतं “स्तेनं हिंसकं “दविष्ठं दूरतमम् “अप “अस्य अपक्षिप । “असु क्षेपणे ' इति धातुः । हे “सत्पते सतां पालयितरग्ने अस्माकं “सुगं शोभनेन गन्तव्यं सुखं “कृधि कुरु । अत्र सर्वदेवात्मकस्याग्नेः स्तवनाद्वैश्वदेवत्वम् ॥


ग्रावा॑णः सोम नो॒ हि कं॑ सखित्व॒नाय॑ वाव॒शुः ।

ज॒ही न्य१॒॑त्रिणं॑ प॒णिं वृको॒ हि षः ॥१४

ग्रावा॑णः । सो॒म॒ । नः॒ । हि । क॒म् । स॒खि॒ऽत्व॒नाय॑ । वा॒व॒शुः ।

ज॒हि । नि । अ॒त्रिण॑म् । प॒णिम् । वृकः॑ । हि । सः ॥१४

ग्रावाणः । सोम । नः । हि । कम् । सखिऽत्वनाय । वावशुः ।

जहि । नि । अत्रिणम् । पणिम् । वृकः । हि । सः ॥१४

हे “सोम “नः अस्मदीया इमे “ग्रावाणः अभिषवार्थाः पाषाणाः तव “सखित्वनाय सख्यार्थं “वावशुः कामयन्ते । “कम् इति पूरकः । “हि यस्मादर्थे । यस्मादेवं तस्मात्त्वं “पणिं वणिजमदातारम् “अत्रिणम् अदनशीलं राक्षसादिकं “नि “जहि विनाशय । “सः पणिः “वृको “हि आदानपरः खलु । सर्वदास्मत्तोऽपहरणशीलः । अतस्त्वं जहीत्यर्थः ॥ ‘ कुक वृक आदाने' इति धातुः ॥


यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः ।

कर्ता॑ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा ॥१५

यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । इन्द्र॑ऽज्येष्ठाः । अ॒भिऽद्य॑वः ।

कर्त॑ । नः॒ । अध्व॑न् । आ । सु॒ऽगम् । गो॒पाः । अ॒मा ॥१५

यूयम् । हि । स्थ । सुऽदानवः । इन्द्रऽज्येष्ठाः । अभिऽद्यवः ।

कर्त । नः । अध्वन् । आ । सुऽगम् । गोपाः । अमा ॥१५

हे "सुदानवः शोभनदाना देवाः “यूयं हि “ष्ठ यूयं खलु प्रभवथ । सन्नद्धाः स्थ । “इन्द्रज्येष्ठाः । इन्द्रो ज्येष्ठो मुख्यो येषां ते । “अभिद्यवः अभिगतदीप्यस्ते यूयम् “अध्वन् अध्वनि मार्गे “नः अस्माकम् "अमा सहैव “गोपाः गोपायितारो रक्षितारः सन्तः “सुगं सुखम् । आकारः समुच्चये । सुखं च “कर्त कुरुत ।।


प्रवासादागमने 'अपि पन्थाम्' इत्येषा यजमानेन जप्या । सूत्रितं च - अपि पन्थामगन्महीति प्रत्येत्य समित्पाणिः ' ( आश्व. श्रौ. २.५ ) इति ॥

अपि॒ पन्था॑मगन्महि स्वस्ति॒गाम॑ने॒हस॑म् ।

येन॒ विश्वा॒ः परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ॥१६

अपि॑ । पन्था॑म् । अ॒ग॒न्म॒हि॒ । स्व॒स्ति॒ऽगाम् । अ॒ने॒हस॑म् ।

येन॑ । विश्वाः॑ । परि॑ । द्विषः॑ । वृ॒णक्ति॑ । वि॒न्दते॑ । वसु॑ ॥१६

अपि । पन्थाम् । अगन्महि । स्वस्तिऽगाम् । अनेहसम् ।

येन । विश्वाः । परि । द्विषः । वृणक्ति । विन्दते । वसु ॥१६

“पन्थां पन्थानं मार्गम् “अपि “अगन्महि । अपिगताः प्राप्ताः स्मः । कीदृशम् । स्वस्तिगां सुलेन गन्तव्यम् “अनेहसं पापरहितम्। "येन पथा गच्छन् “विश्वाः सर्वाः “द्विषः द्वेष्ट्रीः प्रजाः “परि “वृणक्ति परिवर्जयति बाधते “वसु धनं च “विन्दते लभते । तादृशं पन्थानमित्यर्थः ॥ ॥१३॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.५१&oldid=200162" इत्यस्माद् पुनः प्राप्तिः