सामग्री पर जाएँ

ऋग्वेदः सूक्तं ६.३५

विकिस्रोतः तः
← सूक्तं ६.३४ ऋग्वेदः - मण्डल ६
सूक्तं ६.३५
नरो भरद्वाजः
सूक्तं ६.३६ →
दे. इन्द्रः। त्रिष्टुप्।


कदा भुवन्रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः ।
कदा स्तोमं वासयोऽस्य राया कदा धियः करसि वाजरत्नाः ॥१॥
कर्हि स्वित्तदिन्द्र यन्नृभिर्नॄन्वीरैर्वीरान्नीळयासे जयाजीन् ।
त्रिधातु गा अधि जयासि गोष्विन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥२॥
कर्हि स्वित्तदिन्द्र यज्जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ ।
कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः ॥३॥
स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः ।
पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः ॥४॥
तमा नूनं वृजनमन्यथा चिच्छूरो यच्छक्र वि दुरो गृणीषे ।
मा निररं शुक्रदुघस्य धेनोराङ्गिरसान्ब्रह्मणा विप्र जिन्व ॥५॥


सायणभाष्यम्

‘कदा भुवन्' इति पञ्चर्चं द्वादशं सूक्तं नरस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं----- कदा नरस्तु' इति । तृतीये छन्दोमे महाव्रते च निष्केवल्य उक्तो विनियोगः ॥


क॒दा भु॑व॒न्रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं॑ दाः ।

क॒दा स्तोमं॑ वासयोऽस्य रा॒या क॒दा धिय॑ः करसि॒ वाज॑रत्नाः ॥१

क॒दा । भु॒व॒न् । रथ॑ऽक्षयाणि । ब्रह्म॑ । क॒दा । स्तो॒त्रे । स॒ह॒स्र॒ऽपो॒ष्य॑म् । दाः॒ ।

क॒दा । स्तोम॑म् । वा॒स॒यः॒ । अ॒स्य॒ । रा॒या । क॒दा । धियः॑ । क॒र॒सि॒ । वाज॑ऽरत्नाः ॥१

कदा । भुवन् । रथऽक्षयाणि । ब्रह्म । कदा । स्तोत्रे । सहस्रऽपोष्यम् । दाः ।

कदा । स्तोमम् । वासयः । अस्य । राया । कदा । धियः । करसि । वाजऽरत्नाः ॥१

हे इन्द्र “ब्रह्म ब्रह्माणि स्तोत्राण्यस्मदीयानि “रथक्षयाणि रथनिवासानि “कदा कस्मिन्काले “भुवन् भवेयुः । रथेऽवस्थितं त्वां कदा प्राप्नुवन्तीत्यर्थः । “कदा कस्मिन् काले “स्तोत्रे स्तुवते मह्यं “सहस्रपोष्यं सहस्रसंख्याकपुरुषपोषकं गोसमूहं पुत्रं वा “दाः दद्याः । "कदा च “अस्य मम स्तोतुः “स्तोमं स्तोत्रं “राया धनेन् “वासयः व्यापयेः । “धियः कर्माणि चाग्निहोत्रादीनि “वाजरत्ना: वाजैरन्नैः रमणीयाः “कदा कस्मिन् काले “करसि कुर्याः । एवं स्तोता फलस्य विलम्बमसहमान:' इन्द्रमनया पृष्टवान् ॥


कर्हि॑ स्वि॒त्तदि॑न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया॑से॒ जया॒जीन् ।

त्रि॒धातु॒ गा अधि॑ जयासि॒ गोष्विन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥२

कर्हि॑ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । नृऽभिः॑ । नॄन् । वी॒रैः । वी॒रान् । नी॒ळया॑से । जय॑ । आ॒जीन् ।

त्रि॒ऽधातु॑ । गाः । अधि॑ । ज॒या॒सि॒ । गोषु॑ । इन्द्र॑ । द्यु॒म्नम् । स्वः॑ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥२

कर्हि । स्वित् । तत् । इन्द्र । यत् । नृऽभिः । नॄन् । वीरैः । वीरान् । नीळयासे । जय । आजीन् ।

त्रिऽधातु । गाः । अधि । जयासि । गोषु । इन्द्र । द्युम्नम् । स्वःऽवत् । धेहि । अस्मे इति ॥२

फलस्य विलम्बमसहमान ऋषिरनयापीन्द्रं पृच्छति । हे “इन्द्र “कर्हि “स्वित् कदा खलु “तत् भवेत् । “नृभिः अस्मदीयैः पुरुषैः “नॄन् शत्रुपुरुषान् तथा “वीरैः अस्मदीयैः पुत्रैः “वीरान् शत्रुपुत्रांश्च “यत् “नीळयासे त्वं संश्लेषयेः संयोजयेः ॥ नीळयतिः संश्लेषणकर्मा ॥ ईदृशं युद्धे यत्संश्लेषणं तत्कदा भवेदिति वितर्कः । अपि चास्मदर्थं त्वम् "आजीन् संग्रामान् कदा “जय जयेः । कदा च “गोषु अभिगन्तृषु शत्रुषु विद्यमाना: “त्रिधातु त्रिधातूः क्षीरदधिघृतानां त्रयाणां धारयित्रीः “गा: “अधि “जयासि अधिकं जयेः । हे “इन्द्र त्वं “स्वर्वत् व्याप्तिमत् “द्युम्नं धनम् “अस्मे अस्मासु कदा “धेहि धारयेः ॥


कर्हि॑ स्वि॒त्तदि॑न्द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णव॑ः शविष्ठ ।

क॒दा धियो॒ न नि॒युतो॑ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः ॥३

कर्हि॑ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । ज॒रि॒त्रे । वि॒श्वऽप्सु॑ । ब्रह्म॑ । कृ॒णवः॑ । श॒वि॒ष्ठ॒ ।

क॒दा । धियः॑ । न । नि॒ऽयुतः॑ । यु॒वा॒से॒ । क॒दा । गोऽम॑घा । हव॑नानि । ग॒च्छाः॒ ॥३

कर्हि । स्वित् । तत् । इन्द्र । यत् । जरित्रे । विश्वऽप्सु । ब्रह्म । कृणवः । शविष्ठ ।

कदा । धियः । न । निऽयुतः । युवासे । कदा । गोऽमघा । हवनानि । गच्छाः ॥३

अनयापि कतिचित् प्रश्नाः क्रियन्ते । हे “इन्द्र “कर्हि “स्वित् कदा खलु “तत् भवेत् । हे “शविष्ठ बलवत्तमेन्द्र त्वं “जरित्रे स्तोत्रे “विश्वप्सु बहुविधरूपं “ब्रह्म अन्नं “कृणवः करोषीति “यत् तत्कदा भवेदिति वितर्कः। “कदा च “धियः कर्माणि । “न इति समुच्चये । “नियुतः स्तुतीश्च “युवासे आत्मनि योजये: । “कदा च त्वं “गोमघा गोमघानि गवां दातॄणि ॥ मंहतेर्दानार्थस्य रूपमुत्तरपदम् ॥ “हवनानि स्तोत्राणि “गच्छाः अभिगच्छेः ॥


स गोम॑घा जरि॒त्रे अश्व॑श्चन्द्रा॒ वाज॑श्रवसो॒ अधि॑ धेहि॒ पृक्ष॑ः ।

पी॒पि॒हीष॑ः सु॒दुघा॑मिन्द्र धे॒नुं भ॒रद्वा॑जेषु सु॒रुचो॑ रुरुच्याः ॥४

सः । गोऽम॑घाः । ज॒रि॒त्रे । अश्व॑ऽचन्द्राः । वाज॑ऽश्रवसः । अधि॑ । धे॒हि॒ । पृक्षः॑ ।

पी॒पि॒हि । इषः॑ । सु॒ऽदुघा॑म् । इ॒न्द्र॒ । धे॒नुम् । भ॒रत्ऽवा॑जेषु । सु॒ऽरुचः॑ । रु॒रु॒च्याः॒ ॥४

सः । गोऽमघाः । जरित्रे । अश्वऽचन्द्राः । वाजऽश्रवसः । अधि । धेहि । पृक्षः ।

पीपिहि । इषः । सुऽदुघाम् । इन्द्र । धेनुम् । भरत्ऽवाजेषु । सुऽरुचः । रुरुच्याः ॥४

हे इन्द्र “सः त्वं “जरित्रे स्तोत्रे “गोमघाः गवां दात्री: “अश्वश्चन्द्राः अश्वैराह्लादयन्तीः “वाजश्रवसः वाजैर्बलैः प्रसिद्धा एवंभूताः “पृक्षः अन्नानि “भरद्वाजेषु भरद्वाजपुत्रेष्वस्मासु “अधि “धेहि धारय । तथा “इषः तान्यन्नानि “सुदुघां शोभनदोग्ध्रीं “धेनुं गां च हे “इन्द्र “पीपिहि प्यायय । अपि च ता इषो गौश्च “सुरुचः शोभनदीप्तयो यथा भवन्ति तथा त्वं “रुरुच्याः दीपयेः । शोभनदीप्तियुक्ताश्च ताः सन्त्वित्यर्थः ।।


तमा नू॒नं वृ॒जन॑म॒न्यथा॑ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो॑ गृणी॒षे ।

मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरा॑ङ्गिर॒सान्ब्रह्म॑णा विप्र जिन्व ॥५

तम् । आ । नू॒नम् । वृ॒जन॑म् । अ॒न्यथा॑ । चि॒त् । शूरः॑ । यत् । श॒क्र॒ । वि । दुरः॑ । गृ॒णी॒षे ।

मा । निः । अ॒र॒म् । शु॒क्र॒ऽदुघ॑स्य । धे॒नोः । आ॒ङ्गि॒र॒सान् । ब्रह्म॑णा । वि॒प्र॒ । जि॒न्व॒ ॥५

तम् । आ । नूनम् । वृजनम् । अन्यथा । चित् । शूरः । यत् । शक्र । वि । दुरः । गृणीषे ।

मा । निः । अरम् । शुक्रऽदुघस्य । धेनोः । आङ्गिरसान् । ब्रह्मणा । विप्र । जिन्व ॥५

हे इन्द्र त्वं “नूनम् अद्यतनं “वृजनं बाधकमस्मदीयं शत्रुम् “अन्यथा “चित् अन्येनैव प्रकारेण योजय । येन प्रकारेण सर्वे जीवन्ति तद्विलक्षणं प्रकार मरणाख्यं प्रापयेत्यर्थः । आकारः पूरकः । हे “शक्र सर्वकार्येषु शक्तेन्द्र “शूरः शौर्यापेतः “वि “दुरः विशेषेण दारयिता शत्रूणाम् । यद्वा । दुरो द्वाराणि शत्रुसंबन्धीनि विघटयंस्त्वं “यत् यस्मात् “गृणीषे अस्माभिः स्तूयसे तस्मात् कारणात् “शुक्रदुघस्य शुक्राणां निर्मलानां दोग्धुरिन्द्रस्य “धेनोः वाचः स्तोत्रात् “मा “निररं मा निर्गच्छेयम् । यद्वा । शुक्रस्य पयसो दोग्ध्र्या धेनोस्त्वया दत्ताया गोः सकाशात् मा निर्गच्छेयम् ॥ अरमित्याख्यातम् ‘ऋ ‘ गतौ ' इत्यस्य रूपम् ॥ सा सर्वदास्मासु निवसत्वित्यर्थः । हे “विप्र प्राज्ञेन्द्र “आङ्गिरसान् अङ्गिरोगोत्रजानस्मान् “ब्रह्मणा अन्नेन “जिन्व प्रीणय ॥ ॥ ७ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.३५&oldid=188372" इत्यस्माद् प्रतिप्राप्तम्