ऋग्वेदः सूक्तं ६.६१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.६० ऋग्वेदः - मण्डल ६
सूक्तं ६.६१
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.६२ →
दे. सरस्वती। गायत्री, १-३, १३ जगती, १४ त्रिष्टुप् ।
वराहमुखे स्थिता सरस्वतीदेवी


इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे ।
या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥१॥
इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः ।
पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः ॥२॥
सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः ।
उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ॥३॥
प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती ।
धीनामवित्र्यवतु ॥४॥
यस्त्वा देवि सरस्वत्युपब्रूते धने हिते ।
इन्द्रं न वृत्रतूर्ये ॥५॥
त्वं देवि सरस्वत्यवा वाजेषु वाजिनि ।
रदा पूषेव नः सनिम् ॥६॥
उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः ।
वृत्रघ्नी वष्टि सुष्टुतिम् ॥७॥
यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः ।
अमश्चरति रोरुवत् ॥८॥
सा नो विश्वा अति द्विषः स्वसॄरन्या ऋतावरी ।
अतन्नहेव सूर्यः ॥९॥
उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।
सरस्वती स्तोम्या भूत् ॥१०॥
आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् ।
सरस्वती निदस्पातु ॥११॥
त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती ।
वाजेवाजे हव्या भूत् ॥१२॥
प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा ।
रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥१३॥
सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् ।
जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥१४॥

सायणभाष्यम्

‘इयमददात्' इति चतुर्दशर्चं द्वादशं सूक्तं भरद्वाजस्यार्षं सरस्वतीदेवताकम् । आदितस्तिस्रो जगत्यः त्रयोदश्यपि जगती चतुर्दशी त्रिष्टुप् शिष्टा गायत्र्यः । तथा चानुक्रान्तम्--- इयं षळूना सारस्वतं त्रिजगत्यादि जगतीत्रिष्टुबन्तम्' इति । अत्र शौनकः-- इयमित्येतदाद्यं तु सूक्तं सारस्वतं जपेत् । द्विजः प्रातः शुचिर्भूत्वा वाग्मी भवति बुद्धिमान्' (ऋग्वि. २. २९५) इति । पार्ष्ठिके षष्ठेऽहनि प्रउगे ' इयमददात्' इति सारस्वतस्तृचः । सूत्रितं च--- इयमददाद्रभसमृणच्युतमिति प्रउगम्' (आश्व. श्रौ. ८. १) इति ॥


इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो॑दासं वध्र्य॒श्वाय॑ दा॒शुषे॑ ।

या शश्व॑न्तमाच॒खादा॑व॒सं प॒णिं ता ते॑ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥

इयम् । अददात् । रभसम् । ऋणऽच्युतम् । दिवःऽदासम् । वध्रिऽअश्वाय । दाशुषे ।

या। शश्वन्तम् । आऽचखादं । अवसम् । पणिम् । ता । ते। दात्राणि । तविषा। सरस्वति ॥१॥

“इयं सरस्वती “रभसं वेगवन्तम् “ऋणच्युतं वैदिकस्य देवर्षिपितृसंबन्धिनो लौकिकस्य च ऋणस्य च्यावयितारं “दिवोदासम् एतत्संज्ञं पुत्रं “दाशुषे हवींषि दत्तवते “वध्र्यश्वाय एतत्संज्ञाय ऋषये अददात् दत्तवती । “या सरस्वती “शश्वन्तं बहुलं “पणिं पणनशीलं वणिजमदातृजनम् “अवसं केवलं स्वात्मन एव तर्पकम् “आचखाद आजघान सेयमददादित्यन्वयः । अथ प्रत्यक्षीकृत्य स्तौति । हे “सरस्वति देवि “ता तानि पुत्रदानादीनि “ते त्वदीयानि “दात्राणि दानानि "तविषा तविषाणि महान्ति भवन्ति ॥


इ॒यं शुष्मे॑भिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ ।

पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभि॒ः सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ॥

इयम् । शुष्मेभिः । बिसखाःऽइव । अरुजत् । सानु । गिरीणाम् । तविषेभिः । ऊर्मिऽर्भिः ।

पारावतऽघ्नीम् । अवसे । सुवृक्तिऽभिः । सरस्वतीम् । आ । विवासेम । धीतिऽभिः ॥२॥

सरस्वती देवतारूपेण नदीरूपेण च वर्तते । देवतारूपा स्तुता । अधुनानया नदीरूपां सरस्वतीं स्तौति । "इयं नदीरूपा सरस्वती शुष्मैः शोषकैरात्मीयैर्बलैः “तविषेभिः महद्भिः “ऊर्मिभिः तरङ्गैः। “गिरीणां पर्वतानां तीरसंबद्धानां "सानु सानूनि "अरुजत् भनक्ति । “बिसखाइव । बिसं खनतीति बिसखाः । स यथा बिसार्थं पङ्कं रुजति तद्वत् । तां “सरस्वतीं पारावतघ्नीं परावति दूरदेशे विद्यमानस्यापि वृक्षादेर्हन्त्रीं “सुवृक्तिभिः स्तुतिभिः “धीतिभिः कर्मभिश्च “अवसे रक्षणार्थम् “आ “विवासेम परिचरेम । यद्वा । पारावतघ्नीं पारावारे परार्वाची तीरे । तयोर्घातिनीम् । उक्तं च--- ‘पारावतघ्नीं पारावारघातिनीम् ' ( निरु. २. २४) इति ॥


सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ ।

उ॒त क्षि॒तिभ्यो॒ऽवनी॑रविन्दो वि॒षमे॑भ्यो अस्रवो वाजिनीवति ॥

सरस्वति । देवऽनिदः । नि । बर्हय । प्रऽजाम् । विश्वस्य । बृसयस्य । मायिनः ।।

उत । क्षितिऽभ्यः । अवनीः । अविन्दः । विषम् । एभ्यः । अस्रवः । वाजिनीऽवति ॥३॥

हे "सरस्वति “देवनिदः देवानां निन्दकानसुरान् “नि बर्हय न्यबर्हयः । अवधीः । तथा “विश्वस्य व्याप्तस्य “मायिनः मायाविनः “बृसयस्य । बृसय इति त्वष्टुर्नामधेयम् । त्वष्टुः “प्रजां पुत्रं वृत्रासुरं च न्यवधीः । त्वत्साहाय्यादेवेन्द्रो हतवानित्यर्थः । "उत अपि च हे “वाजिनीवति अन्नवति सरस्वति त्वं “क्षितिभ्यः मनुष्येभ्यः “अवनीः असुरैरपहृता भूमीः "अविन्दः अलम्भयः । “एभ्यः मनुष्येभ्यः “विषम् उदकं च "अस्रवः अक्षारयः । यद्वा । क्षितयोऽसुरजनाः। तेभ्यः सकाशात् अवनीर्भूमीरविन्दः लब्धवत्यसि । तान् हत्वैभ्यश्चासुरेभ्यो विषं मृतिहेतुभूतं गरलमस्रवः ॥


प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।

धी॒नाम॑वि॒त्र्य॑वतु ॥

प्र । नः । देवी । सरस्वती । वाजेभिः । वाजिनीऽवती ।

धीनाम् । अवित्री । अवतु ॥ ४ ॥

“देवी दानादिगुणयुक्ता “वाजिनीवती । वाजोऽनं यस्यां क्रियायां सा वाजिनी । तद्युक्ता । “धीनां ध्यातॄणां स्तोतॄणाम् "अवित्री रक्षित्री । एवंभूता "सरस्वती “वाजेभिः अन्नैः "नः अस्मान् “प्र "अवतु प्रकर्षेण तर्पयतु ॥


यस्त्वा॑ देवि सरस्वत्युपब्रू॒ते धने॑ हि॒ते ।

इन्द्रं॒ न वृ॑त्र॒तूर्ये॑ ॥

यः । त्वा । देवि । सरस्वति । उपऽब्रूते । धने । हिते।

इन्द्रम् । न । वृत्रऽतूर्ये ॥ ५ ॥

हे "देवि सरस्वति "यः स्तोता "वृत्रतूर्ये संग्रामे “धने “हिते निहिते निमित्तभूते सति "इन्द्रं “न इन्द्रमिव त्वाम् "उपब्रूते स्तौति तं रक्षेति शेषः ॥ ॥ ३० ।।


त्वं दे॑वि सरस्व॒त्यवा॒ वाजे॑षु वाजिनि ।

रदा॑ पू॒षेव॑ नः स॒निम् ॥

त्वम् । देवि । सरस्वति । अव । वाजेषु । वाजिनि ।

रद। पूषाऽइव । नः । सनिम् ॥ ६ ॥

हे "देवि दानादिगुणयुक्ते हे "वाजिनि । वाजो बलमन्नं वा । तद्युक्ते हे "सरस्वति "त्वं "वाजेषु संग्रामेषु "अव अस्मान् रक्ष । अपि च "नः अस्मभ्यं "पूषेव पोषको देव इव "सनिं संभजनीयं धनं “रद विलिख । प्रयच्छेति यावत् ॥


उ॒त स्या न॒ः सर॑स्वती घो॒रा हिर॑ण्यवर्तनिः ।

वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ॥

उत । स्या । नः । सरस्वती । घोरा । हिरण्यऽवर्तनिः ।

वृत्रऽघ्नी । वष्टि । सुऽस्तुतिम् ॥७॥

"उत अपि च "स्या सा प्रसिद्धा "सरस्वती “घोरा शत्रूणां भयकारिणी “हिरण्यवर्तनिः । वर्ततेऽनेनेति वर्तनी रथः । हिरण्यमयो वर्तनिर्यस्याः सा तथोक्ता । वृत्रघ्नी वृत्राणां शत्रूणां हन्त्री । एवंभूता सा सरस्वती "नः अस्मदीयां सुष्टुतिं शोभनां स्तुतिं "वष्टि कामयताम् ।


यस्या॑ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर॑र्ण॒वः ।

अम॒श्चर॑ति॒ रोरु॑वत् ॥

यस्याः । अनन्तः । अह्रुतः । त्वेषः । चरिष्णुः । अर्णवः ।

अमः । चरति । रोरुवत् ॥ ८ ॥

"यस्याः सरस्वत्याः "अमः बलम् "अनन्तः अपर्यन्तोऽपरिमितः "अह्रुतः अहिंसितोऽकुटिलो वा "त्वेषः दीप्तः “चरिष्णुः चरणशीलः । सर्वत्राप्रतिहतगतिरित्यर्थः । "अर्णवः उदकवान् । उदकप्रद इत्यर्थः । एवंभूतः सन् "रोरुवत् भृशं शब्दं कुर्वन् "चरति वर्तते सा नो विश्व इत्युत्तरत्र संबन्धः ॥


सा नो॒ विश्वा॒ अति॒ द्विष॒ः स्वसॄ॑र॒न्या ऋ॒ताव॑री ।

अत॒न्नहे॑व॒ सूर्यः॑ ॥

सा। नः । विश्वाः । अति । द्विषः । स्वसॄः। अन्याः । ऋतऽवरी ।

अतन् । अहाऽइव । सूर्यः॥९॥

"सा सरस्वती “नः अस्मान् "विश्वाः सर्वाः द्विषः द्वेष्ट्रीः प्रजाः "अति नयतु अतितारयतु । तथा "स्वसॄः स्वयं सारिणीः सहोत्पन्ना वा “ऋतावरीः । ऋतमित्युदकनाम । तद्युक्ताः "अन्याः च नदीरस्मानतिनयतु । यद्वा । जस्येव ‘वा छन्दसि इति पूर्वसवर्णदीर्घः । उदकवत्यः स्वसारो भगिन्योऽन्या गङ्गाद्या नद्यश्चास्मान् शत्रून् अतिनयन्तु। तत्र दृष्टान्तः । "सूर्यः सर्वस्य प्रेरक आदित्यः "अतन् सततं गच्छन् "अहेव अहानीव । यथाहानि शीघ्रमतिनयति तद्वत् ॥ दशरात्रे तृतीयेऽहनि प्रउगे 'उत नः प्रिया' इति सारस्वतस्तृचः । सूत्रितं च--'उत नः प्रिया प्रियास्वित्यौष्णिहं प्रउगम्' ( आश्व. श्रौ. ७. १०) इति । पवित्रेष्ट्याम् ‘उत नः प्रिया' इति सारस्वतस्य हविषोऽनुवाक्या । सूत्रितं च--’उत नः प्रिया प्रियास्विमा जुह्वाना युष्मदा नमोभिः' ( आश्व. श्रौ. २. १२ ) इति ॥


उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा ।

सर॑स्वती॒ स्तोम्या॑ भूत् ॥

उत । नः । प्रिया । प्रियासु । सप्तऽस्वसा सुऽजुष्टा ।

सरस्वती । स्तोम्या । भूत् ॥ १० ॥

“उत अपि च “नः अस्माकं “प्रियासु प्रियाणां मध्ये "प्रिया प्रियतमा “सप्तस्वसा। गायत्र्यादीनि सप्त छन्दांसि स्वसारो यस्यास्तादृशी । नदरूपायास्तु गङ्गाद्याः सप्त नद्यः स्वसारः । “सुजुष्टा सुष्ठु पुरातनैर्ऋषिभिः सेविता । एवंभूता “सरस्वती देवी “स्तोम्या "भूत् स्तोतव्या भवतु ॥ ॥ ३१ ॥


आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो॑ अ॒न्तरि॑क्षम् ।

सर॑स्वती नि॒दस्पा॑तु ॥

आऽपप्रुषी । पार्थिवानि । उरु । रजः । अन्तरिक्षम् ।

सरस्वती । निदः । पातु ॥ ११ ॥

"पार्थिवानि पृथिव्याः संबन्धीनि “उरु उरूणि विस्तीर्णानि “रजः रजांसि लोकान् “अन्तरिक्षम् अन्तरा क्षान्तं नभश्च “आपप्रुषी स्वतेजसा पूरितवती “सरस्वती देवी “निदः निन्दकाच्छत्रोः “पातु अस्मान् रक्षतु ॥


त्रि॒ष॒धस्था॑ स॒प्तधा॑तु॒ः पञ्च॑ जा॒ता व॒र्धय॑न्ती ।

वाजे॑वाजे॒ हव्या॑ भूत् ॥

त्रिऽसधस्था । सप्तऽधातुः । पञ्च । जाता । वर्धयन्ती ।

वाजेऽवाजे । हव्या । भूत् ॥ १२ ॥

“त्रिषधस्था त्रिषु लोकेषु सहावतिष्ठमाना त्रिलोकव्यापिनी “सप्तधातुः । सप्त धातवोऽवयवा गायत्र्याद्या गङ्गाद्या वा यस्याः सा तथोक्ता । “पञ्च “जाता जातानि निषादपञ्चमांश्चतुरो वर्णान् गन्धर्वादीन् वा “वर्धयन्ती अभिवृद्धान् कुर्वती । ईदृशी सरस्वती “वाजेवाजे युद्धे युद्धे सर्वेषु युद्धेषु “हव्या “भूत् ह्वातव्या भवति ॥


प्र या म॑हि॒म्ना म॒हिना॑सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा॑म॒पस्त॑मा ।

रथ॑ इव बृह॒ती वि॒भ्वने॑ कृ॒तोप॒स्तुत्या॑ चिकि॒तुषा॒ सर॑स्वती ॥

प्र । या । महिम्ना । महिना । आसु । चेकिते । द्युम्नेभिः । अन्याः । अपसाम् । अपःऽतमा ।

रथःऽइव । बृहती । विऽभ्वने । कृता । उपऽस्तुत्या । चिकितुषा । सरस्वती ॥ १३ ॥

"महिम्ना माहात्म्येन “महिना महती “द्युम्नेभिः शुभैर्द्योतमानैर्यशोभिरन्नैर्वा युक्ता सती “आसु आसां नदीनां देवतानां वा मध्ये “या सरस्वती “प्र “चेकिते प्रकर्षेण ज्ञायते । या च "अन्याः अन्यासाम् ।। ' सुपां सुलुक्' इति षष्ठीबहुवचनस्य जस् ॥ “अपसां वेगवतीनां नदीनां मध्ये “अपस्तमा वेगवत्तमा । या च “रथइव “विभ्वने विभुत्वाय “बृहती परिवृढा गुणैरधिका “कृता प्रजापतिना निर्मिता सा “सरस्वती “चिकितुषा जानता स्तोत्रा “उपस्तुत्या उपस्तोतव्या भवति ॥


सर॑स्वत्य॒भि नो॑ नेषि॒ वस्यो॒ माप॑ स्फरी॒ः पय॑सा॒ मा न॒ आ ध॑क् ।

जु॒षस्व॑ नः स॒ख्या वे॒श्या॑ च॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि गन्म ॥

सरस्वति । अभि । नः । नेषि । वस्यः । मा । अप । स्फरीः । पयसा । मा । नः। आ । धक् ।।

जुषस्व । नः । सख्या । वेश्या । च । मा। त्वत् । क्षेत्राणि । अरणानि । गन्म ॥ १४ ॥

हे सरस्वति “नः अस्मान् “वस्यः वसीयः प्रशस्तं स्फारो वसु धनम् अभि नेषि अभिप्रापय । “माप “स्फरीः अप्रवृद्धान् मा कार्षीः । वृद्धिः । उपसर्गवशात् तद्विपरीते वर्तते । तथा “पयसा उदकेनाधिकेन “नः अस्मान् “मा “आ “धक् नाभिदह । ने बाधस्व । अपि च “नः अस्माकं “सख्या सख्यानि सखिकर्माणि “वेश्या प्रवेशनानि “च जुषस्व सेवस्व । वयं च त्वत्सकाशात् “अरणानि अरमणानि निकृष्टानि “क्षेत्राणि "मा “गन्म मा प्राप्नवाम । अपि तु रमणीयान्येव ॥ ॥ ३२ ॥ ॥ ५ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये चतुर्थाष्टकेऽष्टमोऽध्यायः समाप्तः।।

[सम्पाद्यताम्]

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.६१&oldid=200401" इत्यस्माद् पुनः प्राप्तिः