ऋग्वेदः सूक्तं ६.५०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.४९ ऋग्वेदः - मण्डल ६
सूक्तं ६.५०
ऋजिश्वा भारद्वाजः
सूक्तं ६.५१ →
दे. विश्वे देवाः। त्रिष्टुप्।


हुवे वो देवीमदितिं नमोभिर्मृळीकाय वरुणं मित्रमग्निम् ।
अभिक्षदामर्यमणं सुशेवं त्रातॄन्देवान्सवितारं भगं च ॥१॥
सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान् ।
द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः ॥२॥
उत द्यावापृथिवी क्षत्रमुरु बृहद्रोदसी शरणं सुषुम्ने ।
महस्करथो वरिवो यथा नोऽस्मे क्षयाय धिषणे अनेहः ॥३॥
आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवोऽधृष्टाः ।
यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ॥४॥
मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा ।
श्रुत्वा हवं मरुतो यद्ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते ॥५॥
अभि त्यं वीरं गिर्वणसमर्चेन्द्रं ब्रह्मणा जरितर्नवेन ।
श्रवदिद्धवमुप च स्तवानो रासद्वाजाँ उप महो गृणानः ॥६॥
ओमानमापो मानुषीरमृक्तं धात तोकाय तनयाय शं योः ।
यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर्जगतो जनित्रीः ॥७॥
आ नो देवः सविता त्रायमाणो हिरण्यपाणिर्यजतो जगम्यात् ।
यो दत्रवाँ उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि ॥८॥
उत त्वं सूनो सहसो नो अद्या देवाँ अस्मिन्नध्वरे ववृत्याः ।
स्यामहं ते सदमिद्रातौ तव स्यामग्नेऽवसा सुवीरः ॥९॥
उत त्या मे हवमा जग्म्यातं नासत्या धीभिर्युवमङ्ग विप्रा ।
अत्रिं न महस्तमसोऽमुमुक्तं तूर्वतं नरा दुरितादभीके ॥१०॥
ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः ।
दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः ॥११॥
ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्मृळन्तु वायुः ।
ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः ॥१२॥
उत स्य देवः सविता भगो नोऽपां नपादवतु दानु पप्रिः ।
त्वष्टा देवेभिर्जनिभिः सजोषा द्यौर्देवेभिः पृथिवी समुद्रैः ॥१३॥
उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः ।
विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता अवन्तु ॥१४॥
एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः ।
ग्ना हुतासो वसवोऽधृष्टा विश्वे स्तुतासो भूता यजत्राः ॥१५॥


सायणभाष्यम्

पञ्चमेऽनुवाके द्वादश सूक्तानि । तत्र ‘हुवे वः' इति पञ्चदशर्चं प्रथमं सूक्तमृजिश्वन आर्षं बहुदेवताकं त्रैष्टुभम् । ‘हुवे वः' इत्यनुक्रान्तम् । गतः सूक्तविनियोगः ॥


हु॒वे वो॑ दे॒वीमदि॑तिं॒ नमो॑भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम् ।

अ॒भि॒क्ष॒दाम॑र्य॒मणं॑ सु॒शेवं॑ त्रा॒तॄन्दे॒वान्स॑वि॒तारं॒ भगं॑ च ॥१

हु॒वे । वः॒ । दे॒वीम् । अदि॑तिम् । नमः॑ऽभिः । मृ॒ळी॒काय॑ । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् ।

अ॒भि॒ऽक्ष॒दाम् । अ॒र्य॒मण॑म् । सु॒ऽशेव॑म् । त्रा॒तॄन् । दे॒वान् । स॒वि॒तार॑म् । भग॑म् । च॒ ॥१

हुवे । वः । देवीम् । अदितिम् । नमःऽभिः । मृळीकाय । वरुणम् । मित्रम् । अग्निम् ।

अभिऽक्षदाम् । अर्यमणम् । सुऽशेवम् । त्रातॄन् । देवान् । सवितारम् । भगम् । च ॥१

हे देवाः “वः युष्माकं मातरं “देवीं द्योतमानाम् “अदितिम् अखण्डनीयामदीनां वा एतत्संज्ञां देवतां “मृळीकाय सुखार्थं “नमोभिः नमस्कारैः स्तोत्रैर्वा “हुवे ह्वयामि । स्तौमि । तथा “वरुणं वारकं “मित्रं प्रमीतेस्त्रायकं देवम् “अग्निं चैतांश्च देवान् नमोभिर्हुवे । तथा “अभिक्षदाम् । क्षदिर्हिंसाकर्मा । अभिक्षत्तारं शत्रूणां हिंसितारं “सुशेवं सुसुखम् “अर्यमणं च नमोभिर्हुवे । “सवितारं “भगं “च नमोभिर्हुवे । किं बहुना “त्रातॄन् पालयितॄन् सर्वान् "देवान् नमोभिः स्तोत्रैर्हुवे स्तौमि ॥


सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् ।

द्वि॒जन्मा॑नो॒ य ऋ॑त॒साप॑ः स॒त्याः स्व॑र्वन्तो यज॒ता अ॑ग्निजि॒ह्वाः ॥२

सु॒ऽज्योति॑षः । सू॒र्य॒ । दक्ष॑ऽपितॄन् । अ॒ना॒गाः॒ऽत्वे । सु॒ऽम॒हः॒ । वी॒हि॒ । दे॒वान् ।

द्वि॒ऽजन्मा॑नः । ये । ऋ॒त॒ऽसापः॑ । स॒त्याः । स्वः॑ऽवन्तः । य॒ज॒ताः । अ॒ग्नि॒ऽजि॒ह्वाः ॥२

सुऽज्योतिषः । सूर्य । दक्षऽपितॄन् । अनागाःऽत्वे । सुऽमहः । वीहि । देवान् ।

द्विऽजन्मानः । ये । ऋतऽसापः । सत्याः । स्वःऽवन्तः । यजताः । अग्निऽजिह्वाः ॥२

हे “सुमहः शोभनदीप्ते "सूर्य सर्वस्य प्रेरक “दक्षपितॄन् । दक्षः पितामहो येषां ते दक्षपितरः । पितृशब्दो हि सामान्येन पूर्वपुरुषत्वमात्रं ब्रूते । यथा - ' अहं पितॄन्त्सुविदत्राँ अवित्सि' (ऋ. सं. १०. १५. ३) इति । एषां दक्षपितृत्वं च ‘ अदितिर्ह्यजनिष्ट ' (ऋ. सं. १०. ७२. ५) इति मन्त्रादवगम्यते । ईदृशान् “सुज्योतिषः शोभनज्योतिष्कान् “देवान् "अनागास्त्वे अनपराधत्वे “वीहि कामयस्व । यथास्माकमपराधं ते न कुर्वन्ति तथा कुर्या इत्यर्थः । “ये देवाः '“द्विजन्मानः द्वयोर्लोकयोर्जायमानाः प्रादुर्भवन्तः “ऋतसापः ऋतं यज्ञं स्पृशन्तः “सत्याः अवितथाः सत्यवादिनो वा “स्वर्वन्तः धनवन्तः “यजताः यष्टव्याः “अग्निजिह्वाः । अग्निर्जिह्वास्थानीयो येषां ते। एवंभूता ये देवाः सन्ति तान् देवान् वीहीत्यन्वयः ॥


उ॒त द्या॑वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो॑दसी शर॒णं सु॑षुम्ने ।

म॒हस्क॑रथो॒ वरि॑वो॒ यथा॑ नो॒ऽस्मे क्षया॑य धिषणे अने॒हः ॥३

उ॒त । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । क्ष॒त्रम् । उ॒रु । बृ॒हत् । रो॒द॒सी॒ इति॑ । श॒र॒णम् । सु॒सु॒म्ने॒ इति॑ सुऽसुम्ने ।

म॒हः । क॒र॒थः॒ । वरि॑वः । यथा॑ । नः॒ । अ॒स्मे इति॑ । क्षया॑य । धि॒ष॒णे॒ इति॑ । अ॒ने॒हः ॥३

उत । द्यावापृथिवी इति । क्षत्रम् । उरु । बृहत् । रोदसी इति । शरणम् । सुसुम्ने इति सुऽसुम्ने ।

महः । करथः । वरिवः । यथा । नः । अस्मे इति । क्षयाय । धिषणे इति । अनेहः ॥३

“उत अपि च हे “द्यावापृथिवी द्यावापृथिव्यौ "उरु विस्तीर्णं “क्षत्रं बलं “करथः कुरुतम् । तथा हे “रोदसी द्यावापृथिव्यौ “सुसुम्ने सुसुखे युवां “बृहत् महत् “शरणं गृहं च करथः कुरुतम् । “महः महत् “वरिवः धनं "नः अस्माकं “यथा स्यात्तथा कुरुतमित्यर्थः । अपि च हे “धिषणे धारयित्र्यौ द्यावापृथिव्यौ "अनेहः पापराहित्यं च "अस्मे अस्माकं “क्षयाय निवासार्थं कुरुतम् ॥


आ नो॑ रु॒द्रस्य॑ सू॒नवो॑ नमन्ताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः ।

यदी॒मर्भे॑ मह॒ति वा॑ हि॒तासो॑ बा॒धे म॒रुतो॒ अह्वा॑म दे॒वान् ॥४

आ । नः॒ । रु॒द्रस्य॑ । सू॒नवः॑ । न॒म॒न्ता॒म् । अ॒द्य । हू॒तासः॑ । वस॑वः । अधृ॑ष्टाः ।

यत् । ई॒म् । अर्भे॑ । म॒ह॒ति । वा॒ । हि॒तासः॑ । बा॒धे । म॒रुतः॑ । अह्वा॑म । दे॒वान् ॥४

आ । नः । रुद्रस्य । सूनवः । नमन्ताम् । अद्य । हूतासः । वसवः । अधृष्टाः ।

यत् । ईम् । अर्भे । महति । वा । हितासः । बाधे । मरुतः । अह्वाम । देवान् ॥४

“रुद्रस्य “सूनवः पुत्रा मरुतः “अद्य अस्मिन् काले “हूतासः आहूताः सन्तः “नः अस्मान् प्रति “आ “नमन्ताम् आनता भवन्तु । आगच्छन्तु । कीदृशाः । “वसवः वासयितारः “अधृष्टाः अन्यैरहिंसिताः। “यत् यदा “ईम् एनान् “मरुतः "देवान् “अर्भे अल्पे “महति प्रभूते “वा “बाधे संग्रामे “हितासः निहिताः स्थिताः सन्तो वयम् "अह्वाम आह्वयाम तदानीमद्येत्यन्वयः ॥


मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा अ॑भ्यर्ध॒यज्वा॑ ।

श्रु॒त्वा हवं॑ मरुतो॒ यद्ध॑ या॒थ भूमा॑ रेजन्ते॒ अध्व॑नि॒ प्रवि॑क्ते ॥५

मि॒म्यक्ष॑ । येषु॑ । रो॒द॒सी । नु । दे॒वी । सिस॑क्ति । पू॒षा । अ॒भ्य॒र्ध॒ऽयज्वा॑ ।

श्रु॒त्वा । हव॑म् । म॒रु॒तः॒ । यत् । ह॒ । या॒थ । भूम॑ । रे॒ज॒न्ते॒ । अध्व॑नि । प्रऽवि॑क्ते ॥५

मिम्यक्ष । येषु । रोदसी । नु । देवी । सिसक्ति । पूषा । अभ्यर्धऽयज्वा ।

श्रुत्वा । हवम् । मरुतः । यत् । ह । याथ । भूम । रेजन्ते । अध्वनि । प्रऽविक्ते ॥५

“येषु मरुत्सु “रोदसी रुद्रस्य पत्नी "देवी द्योतमाना माध्यमिका वाक् “मिम्यक्ष “नु क्षिप्रं संगच्छते । तथा “अभ्यर्धयज्वा स्तोतॄनभ्यर्धयन् समृद्धान् कुर्वन् यो यजति धनेन पूजयति तादृशः “पूषा पोषको देवश्च “सिषक्ति यान् मरुतः सेवते । ‘ अभ्यर्धयज्वाभ्यर्धयन्यजति ' (निरु. ६.६ ) इति यास्कः । हे “मरुतः ते यूयं “हवम् अस्मदीयमाह्वानं “श्रुत्वा "यद्ध यदा खलु “याथ आगच्छथ तदानीम् “अध्वनि मार्गे “प्रविक्ते गमनार्थं पृथक्कृते सति तत्र विद्यमानानि “भूम भूतजातानि “रेजन्ते कम्पन्ते । तथा च मन्त्रान्तरं - प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन्' (ऋ. सं. १. ३९.५) इति ॥ ॥ ८ ॥


अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेन्द्रं॒ ब्रह्म॑णा जरित॒र्नवे॑न ।

श्रव॒दिद्धव॒मुप॑ च॒ स्तवा॑नो॒ रास॒द्वाजाँ॒ उप॑ म॒हो गृ॑णा॒नः ॥६

अ॒भि । त्यम् । वी॒रम् । गिर्व॑णसम् । अ॒र्च॒ । इन्द्र॑म् । ब्रह्म॑णा । ज॒रि॒तः॒ । नवे॑न ।

श्रव॑त् । इत् । हव॑म् । उप॑ । च॒ । स्तवा॑नः । रास॑त् । वाजा॑न् । उप॑ । म॒हः । गृ॒णा॒नः ॥६

अभि । त्यम् । वीरम् । गिर्वणसम् । अर्च । इन्द्रम् । ब्रह्मणा । जरितः । नवेन ।

श्रवत् । इत् । हवम् । उप । च । स्तवानः । रासत् । वाजान् । उप । महः । गृणानः ॥६

हे “जरितः स्तोतः “त्यं तं प्रसिद्धं “वीरं वीर्यवन्तं विशेषेण शत्रूणामीरकं वा “गिर्वणसं गिरां संभक्तारमेवंविधम् “इन्द्रं “नवेन अभिनवेन शोभनेन “ब्रह्मणा स्तोत्रेण "अभि "अर्च अभिष्टुहि । स च "स्तवानः स्तूयमानः सन् "हवम् अस्मदीयं स्तोत्रम् “उप “श्रवदित् उपशृणुयादेव । अपि च “गृणानः स्तूयमान इन्द्रः “महः महतः प्रभूतान् "वाजान् अन्नानि “च “उप “रासत प्रदेयात् । यत एवमतः स्तुहीत्यर्थः ॥


ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः ।

यू॒यं हि ष्ठा भि॒षजो॑ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ॥७

ओ॒मान॑म् । आ॒पः॒ । मा॒नु॒षीः॒ । अमृ॑क्तम् । धात॑ । तो॒काय॑ । तन॑याय । शम् । योः ।

यू॒यम् । हि । स्थ । भि॒षजः॑ । मा॒तृऽत॑माः । विश्व॑स्य । स्था॒तुः । जग॑तः । जनि॑त्रीः ॥७

ओमानम् । आपः । मानुषीः । अमृक्तम् । धात । तोकाय । तनयाय । शम् । योः ।

यूयम् । हि । स्थ । भिषजः । मातृऽतमाः । विश्वस्य । स्थातुः । जगतः । जनित्रीः ॥७

हे “आपः “मानुषीः मनुष्यहिता यूयम् "अमृक्तम् अहिंसितम् “ओमानम् । अवति रक्षतीत्योमा रक्षकमन्नम्। “तोकाय पुत्राय “तनयाय तत्पुत्राय च “धात धत्त । प्रयच्छत । तथा “शं शमनमुपद्रवाणां "योः यावनं पृथक्करणं च पृथक्कर्तव्यानां धत्त प्रयच्छत । कुत इत्यत आह । “हि यस्मात् "यूयं “मातृतमाः मातृभ्योऽप्यधिकाः “भिषजः “स्थ भवथ तस्मात् धातेत्यन्वयः । कथं मातृभ्योऽप्यधिकं भैषज्यमस्तीत्यत आह । “विश्वस्य सर्वस्य “स्थातुः स्थावरस्य “जगतः जङ्गमस्य “जनित्रीः जनयित्र्यो भवथ । अतो यूयं भिषजः स्थ ॥ ।


आ नो॑ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर॑ण्यपाणिर्यज॒तो ज॑गम्यात् ।

यो दत्र॑वाँ उ॒षसो॒ न प्रती॑कं व्यूर्णु॒ते दा॒शुषे॒ वार्या॑णि ॥८

आ । नः॒ । दे॒वः । स॒वि॒ता । त्राय॑माणः । हिर॑ण्यऽपाणिः । य॒ज॒तः । ज॒ग॒म्या॒त् ।

यः । दत्र॑ऽवान् । उ॒षसः॑ । न । प्रती॑कम् । वि॒ऽऊ॒र्णु॒ते । दा॒शुषे॑ । वार्या॑णि ॥८

आ । नः । देवः । सविता । त्रायमाणः । हिरण्यऽपाणिः । यजतः । जगम्यात् ।

यः । दत्रऽवान् । उषसः । न । प्रतीकम् । विऽऊर्णुते । दाशुषे । वार्याणि ॥८

“त्रायमाणः रक्षन् 'हिरण्यपाणिः सुवर्णहस्तो हितरमणीयपाणिर्वा “यजतः यष्टव्यः एवंभूतः “सविता प्रेरकः “देवः “नः अस्मान् “आ “जगम्यात् आगच्छतु । “यः देवः “दत्रवान् धनवान् “उषसो “न “प्रतीकम् उषसः प्रमुखमिव “दाशुषे हवींषि दत्तवते यजमानाय “वार्याणि वरणीयानि धनानि “व्यूर्णुते विवृणोति प्रकाशयति स सवितेत्यन्वयः ॥


उ॒त त्वं सू॑नो सहसो नो अ॒द्या दे॒वाँ अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः ।

स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीर॑ः ॥९

उ॒त । त्वम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । आ । दे॒वान् । अ॒स्मिन् । अ॒ध्व॒रे । व॒वृ॒त्याः॒ ।

स्याम् । अ॒हम् । ते॒ । सद॑म् । इत् । रा॒तौ । तव॑ । स्या॒म् । अ॒ग्ने॒ । अव॑सा । सु॒ऽवीरः॑ ॥९

उत । त्वम् । सूनो इति । सहसः । नः । अद्य । आ । देवान् । अस्मिन् । अध्वरे । ववृत्याः ।

स्याम् । अहम् । ते । सदम् । इत् । रातौ । तव । स्याम् । अग्ने । अवसा । सुऽवीरः ॥९

“उत अपि च हे “सहसः “सूनो बलस्य पुत्राग्ने “त्वम् “अद्य अस्मिन् काले “नः अस्मदीये “अस्मिन्नध्वरे यागे “देवान् यष्टव्यानिन्द्रादीन् “आ “ववृत्याः आवर्तय । आगमय । अपि च "अहं “ते तव “रातौ धनस्य दाने “सदमित् सर्वदैव वर्तमानः “स्यां भवेयम् । तथा हे “अग्ने “तव “अवसा त्वदीयेन रक्षणेन “सुवीरः शोभनैर्वीरैः पुत्रपौत्रादिभिरुपेतश्च "स्यां भवेयम् ॥


उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वम॒ङ्ग वि॑प्रा ।

अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके॑ ॥१०

उ॒त । त्या । मे॒ । हव॑म् । आ । ज॒ग्म्या॒त॒म् । नास॑त्या । धी॒भिः । यु॒वम् । अ॒ङ्ग । वि॒प्रा॒ ।

अत्रि॑म् । न । म॒हः । तम॑सः । अ॒मु॒मु॒क्त॒म् । तूर्व॑तम् । न॒रा॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ॥१०

उत । त्या । मे । हवम् । आ । जग्म्यातम् । नासत्या । धीभिः । युवम् । अङ्ग । विप्रा ।

अत्रिम् । न । महः । तमसः । अमुमुक्तम् । तूर्वतम् । नरा । दुःऽइतात् । अभीके ॥१०

“उत अपि च हे “विप्रा प्राज्ञौ “नासत्या सत्यस्वभावौ सत्यस्य नेतारौ वा हे अश्विनौ “त्या तौ प्रसिद्धौ “युवं युवां “धीभिः परिचरणकैः कर्मभिरुपेतं “मे मदीयं “हवं स्तोत्रम् "अङ्ग क्षिप्रम् “आ “जग्म्यातम् आगच्छतम् । आगत्य च “महः महतः “तमसः असुरकृतादन्धकारात् “अत्रिं "न यथात्रिमृषिम् "अमुमुक्तं मोचितवन्तौ स्थः हे “नरा नेतारावश्विनौ तथास्मानपि “अभीके अभ्यक्ते प्राप्ते संग्रामे "दुरितात् दुःखात् शत्रुकृतात् "तूर्वतम् अस्मांस्तारयतम् ॥ ॥९॥


ते नो॑ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो॑ भूत नृ॒वत॑ः पुरु॒क्षोः ।

द॒श॒स्यन्तो॑ दि॒व्याः पार्थि॑वासो॒ गोजा॑ता॒ अप्या॑ मृ॒ळता॑ च देवाः ॥११

ते । नः॒ । रा॒यः । द्यु॒ऽमतः॑ । वाज॑ऽवतः । दा॒तारः॑ । भू॒त॒ । नृ॒ऽवतः॑ । पु॒रु॒ऽक्षोः ।

द॒श॒स्यन्तः॑ । दि॒व्याः । पार्थि॑वासः । गोऽजा॑ताः । अप्याः॑ । मृ॒ळत॑ । च॒ । दे॒वाः॒ ॥११

ते । नः । रायः । द्युऽमतः । वाजऽवतः । दातारः । भूत । नृऽवतः । पुरुऽक्षोः ।

दशस्यन्तः । दिव्याः । पार्थिवासः । गोऽजाताः । अप्याः । मृळत । च । देवाः ॥११

हे “देवाः “ते यूयं “द्युमतः दीप्तिमतः "वाजवतः बलयुक्तस्य “नृवतः नृभिः पुत्रादिभिरुपेतस्य “पुरूक्षोः बहुभिः कीर्तनीयस्य “रायः धनस्य “नः अस्मभ्यं “दातारो “भूत भवत । अपि च “दशस्यन्तः कामान् प्रयच्छन्तः “दिव्याः दिवि भवा आदित्याः “पार्थिवासः पृथिव्यां भवा वसवः “गोजाताः । गौः पृश्निर्माध्यमिका वाक् । तत उत्पन्ना मरुतः "अप्याः अप्सु अन्तरिक्षे भवा रुद्राः “च ते सर्वे यूयम् अस्मान् “मृळत सुखयत ॥


ते नो॑ रु॒द्रः सर॑स्वती स॒जोषा॑ मी॒ळ्हुष्म॑न्तो॒ विष्णु॑र्मृळन्तु वा॒युः ।

ऋ॒भु॒क्षा वाजो॒ दैव्यो॑ विधा॒ता प॒र्जन्या॒वाता॑ पिप्यता॒मिषं॑ नः ॥१२

ते । नः॒ । रु॒द्रः । सर॑स्वती । स॒ऽजोषाः॑ । मी॒ळ्हुष्म॑न्तः । विष्णुः॑ । मृ॒ळ॒न्तु॒ । वा॒युः ।

ऋ॒भु॒क्षाः । वाजः॑ । दैव्यः॑ । वि॒ऽधा॒ता । प॒र्जन्या॒वाता॑ । पि॒प्य॒ता॒म् । इष॑म् । नः॒ ॥१२

ते । नः । रुद्रः । सरस्वती । सऽजोषाः । मीळ्हुष्मन्तः । विष्णुः । मृळन्तु । वायुः ।

ऋभुक्षाः । वाजः । दैव्यः । विऽधाता । पर्जन्यावाता । पिप्यताम् । इषम् । नः ॥१२

“मीळ्हुष्मन्तः वर्षणवन्तः “ते देवाः “नः अस्मान् “मृळन्तु मृळयन्तु सुखयन्तु । के त इति चेदुच्यते । “रुद्रः “सरस्वती च "सजोषाः सह प्रीयमाणाः “विष्णुः “वायुः च “ऋभुक्षाः। ऋभुर्विभ्वा वाज इति त्रयः सौधन्वनाः । तेषामाद्यो ऋभुश्च “वाजः अन्तिमश्च । उपलक्षणमेतत् । विभ्वा च । “दैव्यः देवेभ्यो हितः “विधाता प्रजापतिश्च । अपि च “पर्जन्यावाता पर्जन्यश्च वायुश्चोभौ “नः अस्मभ्यम् “इषम् अन्नं "पिप्यतां वर्धयताम् ॥


उ॒त स्य दे॒वः स॑वि॒ता भगो॑ नो॒ऽपां नपा॑दवतु॒ दानु॒ पप्रि॑ः ।

त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभि॑ः पृथि॒वी स॑मु॒द्रैः ॥१३

उ॒त । स्यः । दे॒वः । स॒वि॒ता । भगः॑ । नः॒ । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । दानु॑ । पप्रिः॑ ।

त्वष्टा॑ । दे॒वेभिः॑ । जनि॑ऽभिः । स॒ऽजोषाः॑ । द्यौः । दे॒वेभिः॑ । पृ॒थि॒वी । स॒मु॒द्रैः ॥१३

उत । स्यः । देवः । सविता । भगः । नः । अपाम् । नपात् । अवतु । दानु । पप्रिः ।

त्वष्टा । देवेभिः । जनिऽभिः । सऽजोषाः । द्यौः । देवेभिः । पृथिवी । समुद्रैः ॥१३

“उत अपि च “स्यः स यः प्रेरकतया सर्वत्र प्रख्यातः सः “सविता "देवः “भगः च “अपां “नपात् च अपां मेघस्थानां पुत्रो माध्यमिकोऽग्निः स च “नः अस्मान् “अवतु रक्षतु । कीदृशोऽपां नपात् । “दानु दातव्यं धनं “पप्रिः प्राता पूरयिता ॥ ‘प्रा पूरणे' इत्यस्मात् ‘ आदृगमहन०' इति किनो लिड्वद्भावात् ‘न लोकाव्यय' इति षष्ठीप्रतिषेधः ॥ तथा “देवेभिः देवैः “जनिभिः तत्पत्नीभिश्च “सजोषाः सहप्रीतिः “त्वष्टा च "देवेभिः देवैः सह प्रीयमाणा “द्यौः च “समुद्रैः सह प्रीयमाणा “पृथिवी चैताश्च सर्वा देवता अस्मानवन्तु ॥


अग्निमारुते ‘उत नोऽहिः' इत्येषा । सूत्रितं च--- उत नोऽहिर्बुध्न्यः शृणोतु देवानां पत्नीरुशतीरवन्तु नः' ( आश्व. श्रौ. ५, २०) इति ॥

उ॒त नोऽहि॑र्बु॒ध्न्य॑ः शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः ।

विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मन्त्रा॑ः कविश॒स्ता अ॑वन्तु ॥१४

उ॒त । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । शृ॒णो॒तु॒ । अ॒जः । एक॑ऽपात् । पृ॒थि॒वी । स॒मु॒द्रः ।

विश्वे॑ । दे॒वाः । ऋ॒त॒ऽवृधः॑ । हु॒वा॒नाः । स्तु॒ताः । मन्त्राः॑ । क॒वि॒ऽश॒स्ताः । अ॒व॒न्तु॒ ॥१४

उत । नः । अहिः । बुध्न्यः । शृणोतु । अजः । एकऽपात् । पृथिवी । समुद्रः ।

विश्वे । देवाः । ऋतऽवृधः । हुवानाः । स्तुताः । मन्त्राः । कविऽशस्ताः । अवन्तु ॥१४

“उत अपि च "अहिर्बुध्न्यः “नः अस्माकं स्तोत्रं “शृणोतु । “अजः जन्मरहितः । एकः असहाय एव पद्यते गच्छतीति “एकपात्। एतत्पदद्वयाभिधेयो देवश्च “पृथिवी “समुद्रः च अस्मदीयं स्तोत्रं शृणोतु । अपि च “ऋतावृधः ऋतस्य यज्ञस्य सत्यस्य वा वर्धयितारः “हुवानाः अस्माभिराहूयमानाः पूर्वैर्ऋषिभिश्च स्तोत्रैः “स्तुता “मन्त्राः मन्त्रणीया गुप्तं भाषितव्या मन्त्रप्रतिपाद्या वा “कविशस्ताः कविभिर्मेधाविभिः ऋषिभिः शस्त्रैः शंसिता ईदृशाः “विश्वे “देवाः “अवन्तु अस्मान् रक्षन्तु ॥


ए॒वा नपा॑तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा॑जा अ॒भ्य॑र्चन्त्य॒र्कैः ।

ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे॑ स्तु॒तासो॑ भूता यजत्राः ॥१५

ए॒व । नपा॑तः । मम॑ । तस्य॑ । धी॒भिः । भ॒रत्ऽवा॑जाः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।

ग्नाः । हु॒तासः॑ । वस॑वः । अधृ॑ष्टाः । विश्वे॑ । स्तु॒तासः॑ । भू॒त॒ । य॒ज॒त्राः॒ ॥१५

एव । नपातः । मम । तस्य । धीभिः । भरत्ऽवाजाः । अभि । अर्चन्ति । अर्कैः ।

ग्नाः । हुतासः । वसवः । अधृष्टाः । विश्वे । स्तुतासः । भूत । यजत्राः ॥१५

“एव एवं योऽहं देवान् स्तुतवान् “तस्य “मम ऋजिश्वनः “नपातः पुत्राः “भरद्वाजाः भरद्वाजगोत्रजाः सुहोत्रादयः “धीभिः स्तोत्रैः “अर्कैः अर्चनसाधनैः "अभ्यर्चन्ति अभिष्टुवन्ति । हे “यजत्राः यष्टव्या देवाः "हुतासः पुरोडाशादिभिर्हविर्भिः हुतास्तर्पिताः “वसवः निवासयितारः “अधृष्टाः कैरप्यहिंसिताः। एवंभूताः “विश्वे ते सर्वे यूयं “ग्नाः देवपत्न्यश्च “स्तुतासो “भूत । तैः सुहोत्रादिभिः स्तुता भवत ॥ ॥ १० ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.५०&oldid=200161" इत्यस्माद् पुनः प्राप्तिः