ऋग्वेदः सूक्तं ६.४९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ६.४९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ६.४८ ऋग्वेदः - मण्डल ६
सूक्तं ६.४९
ऋजिष्वा भारद्वाजः
सूक्तं ६.५० →
दे. विश्वे देवाः। त्रिष्टुप्, १५ शक्वरी।


स्तुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता ।
त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ॥१॥
विशोविश ईड्यमध्वरेष्वदृप्तक्रतुमरतिं युवत्योः ।
दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै ॥२॥
अरुषस्य दुहितरा विरूपे स्तृभिरन्या पिपिशे सूरो अन्या ।
मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ऋच्यमाने ॥३॥
प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् ।
द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो ॥४॥
स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान्मनसा युजानः ।
येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥५॥
पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि ।
सत्यश्रुतः कवयो यस्य गीर्भिर्जगत स्थातर्जगदा कृणुध्वम् ॥६॥
पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।
ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥७॥
पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्यानळर्कम् ।
स नो रासच्छुरुधश्चन्द्राग्रा धियंधियं सीषधाति प्र पूषा ॥८॥
प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिमृभ्वम् ।
होता यक्षद्यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा ॥९॥
भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ ।
बृहन्तमृष्वमजरं सुषुम्नमृधग्घुवेम कविनेषितासः ॥१०॥
आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम् ।
अचित्रं चिद्धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् ॥११॥
प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिरस्तम् ।
स पिस्पृशति तन्वि श्रुतस्य स्तृभिर्न नाकं वचनस्य विपः ॥१२॥
यो रजांसि विममे पार्थिवानि त्रिश्चिद्विष्णुर्मनवे बाधिताय ।
तस्य ते शर्मन्नुपदद्यमाने राया मदेम तन्वा तना च ॥१३॥
तन्नोऽहिर्बुध्न्यो अद्भिरर्कैस्तत्पर्वतस्तत्सविता चनो धात् ।
तदोषधीभिरभि रातिषाचो भगः पुरंधिर्जिन्वतु प्र राये ॥१४॥
नू नो रयिं रथ्यं चर्षणिप्रां पुरुवीरं मह ऋतस्य गोपाम् ।
क्षयं दाताजरं येन जनान्स्पृधो अदेवीरभि च क्रमाम विश आदेवीरभ्यश्नवाम ॥१५॥


सायणभाष्यम्

स्तुषे जनम्' इति पञ्चदशर्चं षष्ठं सूक्तं भारद्वाजस्य ऋजिश्वन आर्षं वैश्वदेवम् । अन्त्या षट्पञ्चाशदक्षरा शक्करी शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तं --- स्तुषे पच्चोन ऋजिश्वा ह वैश्वदेवं ह शक्वर्यन्तम् ' इति । व्यूळ्हे दशरात्रे पञ्चमेऽहनीदं वैश्वदेवनिविद्धानम् । सूत्रितं च - ऋभुर्विभ्वा स्तुषे जनमिति वैश्वदेवम् ' (आश्व. श्रौ. ८. ८) इति । आद्या महानाम्नीव्रते जप्या ॥


स्तु॒षे जनं॑ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता॑ ।

त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निः ॥१

स्तु॒षे । जन॑म् । सु॒ऽव्र॒तम् । नव्य॑सीभिः । गीः॒ऽभिः । मि॒त्रावरु॑णा । सु॒म्न॒ऽयन्ता॑ ।

ते । आ । ग॒म॒न्तु॒ । ते । इ॒ह । श्रु॒व॒न्तु॒ । सु॒ऽक्ष॒त्रासः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः ॥१

स्तुषे । जनम् । सुऽव्रतम् । नव्यसीभिः । गीःऽभिः । मित्रावरुणा । सुम्नऽयन्ता ।

ते । आ । गमन्तु । ते । इह । श्रुवन्तु । सुऽक्षत्रासः । वरुणः । मित्रः । अग्निः ॥१

"सुव्रतं सुकर्माणं “जनं दैव्यं जनं देवसंघ “नव्यसीभिः नवतराभिः “गीर्भिः स्तुतिभिः “स्तुषे अहं स्तुवे । तथा “मित्रावरुणा । मित्रः प्रमीतेस्त्रायको वरुणः पापन्निवारयिता। एतावपि देवौ स्तौमि । कीदृशौ । “सुम्नयन्ता सुम्नं सुखं स्तोतॄणामिच्छन्तौ । “सुक्षत्रासः शोभनबलाः “ते वरुणादयः सर्वे देवाः “इह अस्मिन् यज्ञे “आ “गमन्तु आगच्छन्तु । “ते तादृशाः “श्रुवन्तु । अस्मदीयाः स्तुतीः शृण्वन्तु च । अत्र मित्रादीनां परिगणनमुपलक्षणं सूक्तस्य सर्वदेवताप्रतिपादकत्वात्। अत एव पूर्वं जनमिति सामान्यनिर्देशः ।।


वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः ।

दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ॥२

वि॒शःऽवि॑शः । ईड्य॑म् । अ॒ध्व॒रेषु॑ । अदृ॑प्तऽक्रतुम् । अ॒र॒तिम् । यु॒व॒त्योः ।

दि॒वः । शिशु॑म् । सह॑सः । सू॒नुम् । अ॒ग्निम् । य॒ज्ञस्य॑ । के॒तुम् । अ॒रु॒षम् । यज॑ध्यै ॥२

विशःऽविशः । ईड्यम् । अध्वरेषु । अदृप्तऽक्रतुम् । अरतिम् । युवत्योः ।

दिवः । शिशुम् । सहसः । सूनुम् । अग्निम् । यज्ञस्य । केतुम् । अरुषम् । यजध्यै ॥२

“विशोविशः सर्वस्याः प्रजायाः “अध्वरेषु यज्ञेषु “ईड्यम् ऋत्विग्भिः स्तुत्यम् “अदृप्तक्रतुं दर्परहितकर्माणम् अमूढप्रज्ञं वा “युवत्योः द्यावापृथिव्योः “अरतिम् अभिगन्तारम् अर्यं स्वामिनं “दिवः द्युलोकस्य “शिशुं पुत्रम् । ' दिवस्परि प्रथमं जज्ञे अग्निः ' (ऋ. सं. १०.४५.१) इति निगमः । यद्वा । दिवः स्तोतुः पुत्रभूतम् । तथापि निगमो भवति - ‘ त्वं पुत्रो भवसि यस्तेऽविधत्' ( ऋ. सं. २. १. ९) इति । “सहसः बलस्य “सूनुं पुत्रं “यज्ञस्य यागस्य “केतुं प्रज्ञापकम् "अरुषम् आरोचमानम् एवंगुणकम् “अग्निं “यजध्यै यष्टुम् । स्तुषे इत्यनुषज्यते । स्तुषे स्तुवे ।।


अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू॑पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो॑ अ॒न्या ।

मि॒थ॒स्तुरा॑ वि॒चर॑न्ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा॑ने ॥३

अ॒रु॒षस्य॑ । दु॒हि॒तरा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । स्तृऽभिः॑ । अ॒न्या । पि॒पि॒शे । सूरः॑ । अ॒न्या ।

मि॒थः॒ऽतुरा॑ । वि॒चर॑न्ती॒ इति॑ वि॒ऽचर॑न्ती । पा॒व॒के इति॑ । मन्म॑ । श्रु॒तम् । न॒क्ष॒तः॒ । ऋ॒च्यमा॑ने॒ इति॑ ॥३

अरुषस्य । दुहितरा । विरूपे इति विऽरूपे । स्तृऽभिः । अन्या । पिपिशे । सूरः । अन्या ।

मिथःऽतुरा । विचरन्ती इति विऽचरन्ती । पावके इति । मन्म । श्रुतम् । नक्षतः । ऋच्यमाने इति ॥३

इयमहोरात्रयोः स्तुतिः । "अरुषस्य आरोचमानस्य सूर्यस्य "दुहितरा दुहितरौ । सूर्येण हि अहोरात्रयोर्विभागः क्रियते । अतस्तदधीनात्मलाभत्वात् तस्य दुहितरावित्युच्येते । “विरूपे शुक्लकृष्णतया नानारूपे । तयोः “अन्या एका रात्रिः “स्तृभिः नक्षत्रैः “पिपिशे पिश्यते संश्लिष्यते । ‘ पिश अवयवे' इति धातुः । “अन्या अहरात्मिका दुहिता “सूरः सूर्येण पिपिशे संश्लिष्यते । ते च नक्षत्रैः सूर्येण चालंकृते भवत इत्यर्थः । “मिथस्तुरा परस्परं बाधयन्त्यौ । अह्ना रात्रिर्निवर्त्यते रात्र्या चाहरिति परस्परं बाधः । अत एव “विचरन्ती विविधं पृथक् चरन्त्यौ "पावके सर्वस्य शोधयित्र्यौ । एवंभूते अहश्च रात्रिश्च “ऋच्यमाने अस्माभिः स्तूयमाने सत्यौ “श्रुतं श्रोतव्यं “मन्म मननीयं स्तोत्रमस्मत्कृतं “नक्षतः व्याप्नुताम् ॥


प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा॑रं रथ॒प्राम् ।

द्यु॒तद्या॑मा नि॒युत॒ः पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥४

प्र । वा॒युम् । अच्छ॑ । बृ॒ह॒ती । म॒नी॒षा । बृ॒हत्ऽर॑यिम् । वि॒श्वऽवा॑रम् । र॒थ॒ऽप्राम् ।

द्यु॒तत्ऽया॑मा । नि॒ऽयुतः॑ । पत्य॑मानः । क॒विः । क॒विम् । इ॒य॒क्ष॒सि॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ॥४

प्र । वायुम् । अच्छ । बृहती । मनीषा । बृहत्ऽरयिम् । विश्वऽवारम् । रथऽप्राम् ।

द्युतत्ऽयामा । निऽयुतः । पत्यमानः । कविः । कविम् । इयक्षसि । प्रयज्यो इति प्रऽयज्यो ॥४

”बृहती महती “मनीषा अस्मदीया स्तुतिः "वायुम् "अच्छ आभिमुख्येन “प्र गच्छतु ॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ कीदृशं वायुम् । “बृहद्रयिं महाधनं “विश्ववारं विश्वैर्वरणीयं संभजनीयं “रथप्रां रथस्यात्मीयस्य प्रातारं पूरयितारम् । यद्वा । स्तोतॄणां रथं धनैः पूरयितारम् । अथ प्रत्यक्षस्तुतिः । हे “प्रयज्यो प्रकर्षेण यष्टव्य वायो “द्युतद्यामा प्रदीप्तयानः “नियुतः आत्मीयरथयोज्याः वडवाः ताः “पत्यमानः अभिपतन्नभिगच्छन् । यद्वा । पत्यतिरैश्वर्यकर्मा। तासां वडवानामीश्वरः “कविः क्रान्तदर्शी। एवंभूतः त्वं “कविं मेधाविनं स्तोतारम् “इयक्षसि धनेन पूजय ॥


स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो॑ वि॒रुक्मा॒न्मन॑सा युजा॒नः ।

येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥५

सः । मे॒ । वपुः॑ । छ॒द॒य॒त् । अ॒श्विनोः॑ । यः । रथः॑ । वि॒रुक्मा॑न् । मन॑सा । यु॒जा॒नः ।

येन॑ । न॒रा॒ । ना॒स॒त्या॒ । इ॒ष॒यध्यै॑ । व॒र्तिः । या॒थः । तन॑याय । त्मने॑ । च॒ ॥५

सः । मे । वपुः । छदयत् । अश्विनोः । यः । रथः । विरुक्मान् । मनसा । युजानः ।

येन । नरा । नासत्या । इषयध्यै । वर्तिः । याथः । तनयाय । त्मने । च ॥५

“अश्विनोः स्वभूतः “सः रथः “मे मदीयं “वपुः शरीरं “छदयत् छादयतु । तेजसाच्छादयतु । “यो “रथो “विरुक्मान् विरोचनवान् विशेषेण दीप्यमानः “मनसा मनोव्यापारमात्रेण “युजानः अश्वैः संप्रयुज्यमानो भवति । हे “नरा नेतारौ हे “नासत्या सत्यस्वभावौ सत्यस्य नेतारौ नासिकाप्रभवौ वाश्विनौ “येन रथेन “वर्तिः स्तोतृगृहं “तनयाय पुत्राय “त्मने आत्मने तत्पित्रे स्तोत्रे “च “इषयध्यै कामान् प्रापयितुं “याथः गच्छथः स रथः इति पूर्वत्रान्वयः ॥ ॥ ५ ॥


पर्ज॑न्यवाता वृषभा पृथि॒व्याः पुरी॑षाणि जिन्वत॒मप्या॑नि ।

सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम् ॥६

पर्ज॑न्यवाता । वृ॒ष॒भा॒ । पृ॒थि॒व्याः । पुरी॑षाणि । जि॒न्व॒त॒म् । अप्या॑नि ।

सत्य॑ऽश्रुतः । क॒व॒यः॒ । यस्य॑ । गीः॒ऽभिः । जग॑तः । स्था॒तः॒ । जग॑त् । आ । कृ॒णु॒ध्व॒म् ॥६

पर्जन्यवाता । वृषभा । पृथिव्याः । पुरीषाणि । जिन्वतम् । अप्यानि ।

सत्यऽश्रुतः । कवयः । यस्य । गीःऽभिः । जगतः । स्थातः । जगत् । आ । कृणुध्वम् ॥६

हे “पर्जन्यवाता पर्जन्यवायू “वृषभा वृष्टेः कर्तारौ “पृथिव्याः । अन्तरिक्षनामैतत् । अन्तरिक्षात् “अप्यानि आप्तव्यानि “पुरीषाणि पूरकाण्युदकानि “जिन्वतं प्रेरयतम् । उत्तरोऽर्धर्चो मारुतः । हे “सत्यश्रुतः सत्यस्य स्तोत्रस्य श्रोतारः “कवयः मेधाविनो मरुतः “यस्य स्तोतुः “गीर्भिः स्तुतिभिः यूयं स्तुता भवथ तस्य स्तोतुः “जगत् स्थावरजङ्गमात्मकं सर्वं प्राणिजातम् “आ "कृणुध्वम् आभिमुख्येन कुरुत । हे "जगतः “स्थातः । गणाभिप्रायमेकवचनम्। स्थावरजङ्गमात्मकस्य जगतोऽवस्थापक हे मरुद्गण इति योज्यम् ॥


अन्वारम्भणीयायां सारस्वतस्य हविषो याज्या ‘पावीरवी' इत्येषा । सूत्रितं च ---- ‘ पावीरवी कन्या चित्रायुः पीपिवांसं सरस्वतः ' (आश्व. श्रौ. २. ८) इति । एकादशिने सारस्वते पशावेषैव पुरोडाशस्य याज्या । सूत्रितं च - ‘ पावीरवी कन्या चित्रायुर्यस्ते स्तनः शशयो यो मयोभूः ' ( आश्व. श्रौ. ३.७) इति । अग्निमारुते शस्त्रेऽप्येषा । सूत्रितं च - ‘ राकामहमिति द्वे पावीरवी कन्या चित्रायुः (आश्व. श्रौ. ५. २० ) इति ॥

पावी॑रवी क॒न्या॑ चि॒त्रायु॒ः सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् ।

ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा॑ दुरा॒धर्षं॑ गृण॒ते शर्म॑ यंसत् ॥७

पावी॑रवी । क॒न्या॑ । चि॒त्रऽआ॑युः । सर॑स्वती । वी॒रऽप॑त्नी । धिय॑म् । धा॒त् ।

ग्नाभिः॑ । अच्छि॑द्रम् । श॒र॒णम् । स॒ऽजोषाः॑ । दुः॒ऽआ॒धर्ष॑म् । गृ॒ण॒ते । शर्म॑ । यं॒स॒त् ॥७

पावीरवी । कन्या । चित्रऽआयुः । सरस्वती । वीरऽपत्नी । धियम् । धात् ।

ग्नाभिः । अच्छिद्रम् । शरणम् । सऽजोषाः । दुःऽआधर्षम् । गृणते । शर्म । यंसत् ॥७

“पावीरवी शोधयित्री “कन्या कमनीया “चित्रायुः चित्रगमना चित्रान्ना वा “वीरपत्नी । वीरः प्रजापतिः पतिर्यस्यास्तादृशी । यद्वा । वीराणां पालयित्री । एवंभूता “सरस्वती “धियम् अस्मदीयं कर्म यज्ञाख्यं “धात् दधातु । धारयतु । ददातु वा । शब्देन प्रतिपादितो ह्यर्थोऽनुष्ठीयते । अपि च “ग्नाभिः देवपत्नीभिः सजोषाः सह प्रीयमाणा । यद्वा । ग्नाः गायत्र्यादीनि छन्दांसि । ‘ छन्दांसि वै ग्नाः' ( तै. सं. ५. १. ७. २ ) इति श्रुतेः । तैः सह प्रीयमाणा “गृणते स्तुवते मह्यम् “अच्छिद्रं छिद्ररहितं "दुराधर्षं शत्रुभिः शीतवातादिभिश्च धर्षितुमशक्यं “शरणं गृहं “शर्म सुखं च "यंसत् प्रयच्छतु ॥


एकादशिने पौष्णे पशौ ‘पथस्पथः' इति हविषो याज्या । सूत्रितं च ---- ‘ पथस्पथः परिपतिं वचस्या बृहस्पते या परमा परावदिति द्वे' ( आश्व. श्रौ. ३. ७ ) इति ॥

प॒थस्प॑थ॒ः परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नळ॒र्कम् ।

स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑धियं सीषधाति॒ प्र पू॒षा ॥८

प॒थःऽप॑थः । परि॑ऽपतिम् । व॒च॒स्या । कामे॑न । कृ॒तः । अ॒भि । आ॒न॒ट् । अ॒र्कम् ।

सः । नः॒ । रा॒स॒त् । शु॒रुधः॑ । च॒न्द्रऽअ॑ग्राः । धिय॑म्ऽधियम् । सी॒स॒धा॒ति॒ । प्र । पू॒षा ॥८

पथःऽपथः । परिऽपतिम् । वचस्या । कामेन । कृतः । अभि । आनट् । अर्कम् ।

सः । नः । रासत् । शुरुधः । चन्द्रऽअग्राः । धियम्ऽधियम् । सीसधाति । प्र । पूषा ॥८

"पथस्पथः सर्वस्य मार्गस्य “परिपतिम् अधिपतिम् “अर्कम् अर्चनीयं पूषणं "कामेन काम्यमानेन फलेन “कृतः वशीकृतः स्तोता “वचस्या स्तुत्या “अभ्यानट् अभ्यश्नुताम् । प्राप्नोतु । “सः च “पूषा “नः अस्मभ्यं “शुरुधः शुचो रोधयित्रीः गाः “चन्द्राग्राः । चन्द्रमिति हिरण्यनाम । हिरण्यप्रमुखा यद्वा स्वर्णशृङ्गाः “रासत् ददातु ॥ ‘रा दाने ' । अस्माल्लेटि रूपम् ॥ तथा “धियंधियं सर्वमस्मदीयं कर्म स पूषा “प्र “सीषधाति प्रसाधयतु ।।


त्वाष्ट्रे पशौ ‘ प्रथमभाजम् ' इति हविषो याज्या । सूत्रितं च - ‘ प्रथमभाजं यशसं वयोधां सोमापूषणा जनना रयीणामिति सूक्तम् ' (आश्व. श्रौ. ३.८) इति ॥

प्र॒थ॒म॒भाजं॑ य॒शसं॑ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व॑म् ।

होता॑ यक्षद्यज॒तं प॒स्त्या॑नाम॒ग्निस्त्वष्टा॑रं सु॒हवं॑ वि॒भावा॑ ॥९

प्र॒थ॒म॒ऽभाज॑म् । य॒शस॑म् । व॒यः॒ऽधाम् । सु॒ऽपा॒णिम् । दे॒वम् । सु॒ऽगभ॑स्तिम् । ऋभ्व॑म् ।

होता॑ । य॒क्ष॒त् । य॒ज॒तम् । प॒स्त्या॑नाम् । अ॒ग्निः । त्वष्टा॑रम् । सु॒ऽहव॑म् । वि॒भाऽवा॑ ॥९

प्रथमऽभाजम् । यशसम् । वयःऽधाम् । सुऽपाणिम् । देवम् । सुऽगभस्तिम् । ऋभ्वम् ।

होता । यक्षत् । यजतम् । पस्त्यानाम् । अग्निः । त्वष्टारम् । सुऽहवम् । विभाऽवा ॥९

“प्रथमभाजं प्रथम उत्पत्तिकाल एव विभक्तारं जन्तूनाम् । यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति तावच्छो वै तत्प्र जायते ' ( तै. सं. १. ५. ९. १ ) इति श्रुतेः । “यशसं यशस्विनं “वयोधां वयसोऽन्नस्य हविर्लक्षणस्य धातारं धारयितारं यद्वा स्तोतृभ्योऽन्नप्रदं “सुपाणिम् । हस्तस्य मणिबन्धादूर्ध्वप्रदेशः पाणिः । शोभनपाणिकं “देवं दानादिगुणयुक्तं “सुगभस्तिम् । गभस्तिरिति बाहुनाम। शोभनदोर्दण्डम् “ऋभ्वम् उरु भासमानं महान्तं वा “पस्त्यानाम् । पस्त्यमिति गृहनाम। तत्स्थानां “यजतं यष्टव्यम् । गृहस्थैर्यजनीयमित्यर्थः । “सुहवं सुखेन ह्वातुं शक्यम् । एवंभूतं “त्वष्टारं “होता देवानामाह्वाता “विभावा दीप्यमानः “अग्निः “यक्षत् यजत् । अनेन हविषा यजतु ॥


भुव॑नस्य पि॒तरं॑ गी॒र्भिरा॒भी रु॒द्रं दिवा॑ व॒र्धया॑ रु॒द्रम॒क्तौ ।

बृ॒हन्त॑मृ॒ष्वम॒जरं॑ सुषु॒म्नमृध॑ग्घुवेम क॒विने॑षि॒तास॑ः ॥१०

भुव॑नस्य । पि॒तर॑म् । गीः॒ऽभिः । आ॒भिः । रु॒द्रम् । दिवा॑ । व॒र्धय॑ । रु॒द्रम् । अ॒क्तौ ।

बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । सु॒ऽसु॒म्नम् । ऋध॑क् । हु॒वे॒म॒ । क॒विना॑ । इ॒षि॒तासः॑ ॥१०

भुवनस्य । पितरम् । गीःऽभिः । आभिः । रुद्रम् । दिवा । वर्धय । रुद्रम् । अक्तौ ।

बृहन्तम् । ऋष्वम् । अजरम् । सुऽसुम्नम् । ऋधक् । हुवेम । कविना । इषितासः ॥१०

“भुवनस्य भूतजातस्य “पितरं पालयितारं “रुद्रम् । रुत् दुःखम् । तत् द्रावयितारमीश्वरम् “आभिः “गीर्भिः स्तुतिभिः "दिवा अहनि हे स्तोतः “वर्धय । “अक्तौ रात्र्यां च तमेव “रुद्रं स्तुतिभिर्वर्धय । वयं च “कविना प्राज्ञेन रुद्रेण “इषितासः प्रेरिताः सन्त: “बृहन्तं महान्तम् “ऋष्वं दर्शनीयम् “अजरं जरारहितं "सुषुम्नं शोभनसुखमेवंगुणविशिष्टं रुद्रम् “ऋधक् ऋद्धं समृद्धं यथा भवति तथा “हुवेम स्तवाम ॥ ॥ ६ ॥


आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम् ।

अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त॑ इ॒त्था नक्ष॑न्तो नरो अङ्गिर॒स्वत् ॥११

आ । यु॒वा॒नः॒ । क॒व॒यः॒ । य॒ज्ञि॒या॒सः॒ । मरु॑तः । ग॒न्त । गृ॒ण॒तः । व॒र॒स्याम् ।

अ॒चि॒त्रम् । चि॒त् । हि । जिन्व॑थ । वृ॒धन्तः॑ । इ॒त्था । नक्ष॑न्तः । न॒रः॒ । अ॒ङ्गि॒र॒स्वत् ॥११

आ । युवानः । कवयः । यज्ञियासः । मरुतः । गन्त । गृणतः । वरस्याम् ।

अचित्रम् । चित् । हि । जिन्वथ । वृधन्तः । इत्था । नक्षन्तः । नरः । अङ्गिरस्वत् ॥११

हे "युवानः नित्यतरुणाः “कवयः प्राज्ञाः “यज्ञियासः यज्ञार्हा एवंभूता हे “मरुतः “गृणतः स्तुवतः “वरस्यां वरणीयां स्तुतिं प्रति “आ “गन्त आगच्छत । अपि च हे “नरः नेतारो मरुतः “इत्था इत्थमनेन प्रकारेण “वृधन्तः वर्धमानाः । यद्वा इत्था अमुत्रान्तरिक्षे “नक्षन्तः व्याप्नुवन्तः “अङ्गिरस्वत् । अङ्गिरसो गमनशीला रश्मयः । ते यथा शीघ्रं नभस्तलं व्याप्नुवन्ति तद्वत् । यद्वा । ऋषय एवाङ्गिरसः । तद्वच्छीघ्रगामिनः । एवंभूता यूयम् “अचित्रं “चित् । ओषधिवनस्पतिभिर्निबिडो देशश्चित्रम् । तद्विलक्षणम् ओषध्यादिभिर्वियुक्तमपि देशं “जिन्वथ वृष्ट्या तर्पयथ। "हि इति पूरणः ॥


प्र वी॒राय॒ प्र त॒वसे॑ तु॒रायाजा॑ यू॒थेव॑ पशु॒रक्षि॒रस्त॑म् ।

स पि॑स्पृशति त॒न्वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं॑ वच॒नस्य॒ विप॑ः ॥१२

प्र । वी॒राय॑ । प्र । त॒वसे॑ । तु॒राय॑ । अज॑ । यू॒थाऽइ॑व । प॒शु॒ऽरक्षिः॑ । अस्त॑म् ।

सः । पि॒स्पृ॒श॒ति॒ । त॒न्वि॑ । श्रु॒तस्य॑ । स्तृऽभिः॑ । न । नाक॑म् । व॒च॒नस्य॑ । विपः॑ ॥१२

प्र । वीराय । प्र । तवसे । तुराय । अज । यूथाऽइव । पशुऽरक्षिः । अस्तम् ।

सः । पिस्पृशति । तन्वि । श्रुतस्य । स्तृऽभिः । न । नाकम् । वचनस्य । विपः ॥१२

“वीराय विक्रान्ताय विविधं शत्रूणामीरकाय वा मरुद्गणाय “प्र “अज हे स्तोतः स्तुतिं प्रगमय । तथा “तवसे बलिने “तुराय क्षिप्रगमनाय च तस्मै गणाय “प्र अज। तत्र दृष्टान्तः । “पशुरक्षिः पशुपालकः “यूथेव । स यथा गोयूथानि सायंकाले “अस्तं गृहं शीघ्रं गमयति तद्वत् शीघ्रं स्तुतिं प्रेरयेत्यर्थः। “सः च मरुद्गणः “वचनस्य वक्तुः “विपः विप्रस्य मेधाविनः स्तोतुः “श्रुतस्य । क्रियाग्रहणमपि कर्तव्यमिति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी ॥ श्रुतं श्रोतव्यं स्तोत्रं “तन्वि आत्मीये शरीरे “पिस्पृशति स्पर्शयतु । संश्लेषयतु । तत् स्तोत्रं हृद्गतं भवत्वित्यर्थः । स्पर्शने दृष्टान्तः । “स्तृभिर्न “नाकम् । यथा नक्षत्रैर्नाकमन्तरिक्षं स्पर्शयति संश्लेषयति तद्वत् ॥


यो रजां॑सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ ।

तस्य॑ ते॒ शर्म॑न्नुपद॒द्यमा॑ने रा॒या म॑देम त॒न्वा॒३॒॑ तना॑ च ॥१३

यः । रजां॑सि । वि॒ऽम॒मे । पार्थि॑वानि । त्रिः । चि॒त् । विष्णुः॑ । मन॑वे । बा॒धि॒ताय॑ ।

तस्य॑ । ते॒ । शर्म॑न् । उ॒प॒ऽद॒द्यमा॑ने । रा॒या । म॒दे॒म॒ । त॒न्वा॑ । तना॑ । च॒ ॥१३

यः । रजांसि । विऽममे । पार्थिवानि । त्रिः । चित् । विष्णुः । मनवे । बाधिताय ।

तस्य । ते । शर्मन् । उपऽदद्यमाने । राया । मदेम । तन्वा । तना । च ॥१३

"यः “विष्णुः “बाधिताय असुरैर्हिंसिताय “मनवे प्रजापतये तदर्थं “पार्थिवानि पृथिव्या संबद्धानि “रजांसि लोकान् । त्रींल्लोकानिति यावत् । “त्रिः “विममे। “चित् इत्यवधारणे । त्रिभिरेव विक्रमणैः परिमितवान् । हे विष्णो “तस्य तादृशस्य “ते तव । तृतीयार्थे षष्ठी । ईदृशेन त्वया “उपदद्यमाने अस्मभ्यं दीयमाने “शर्मन् शर्मणि गृहे सुखे वा वर्तमानाः सन्तो वयं “राया धनेन “तन्वा रोगादिरहितेन शरीरेण च “तना तनयेन पुत्रेण “च “मदेम मोदेम । हृष्टा भवेम ।।


तन्नोऽहि॑र्बु॒ध्न्यो॑ अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ता चनो॑ धात् ।

तदोष॑धीभिर॒भि रा॑ति॒षाचो॒ भग॒ः पुरं॑धिर्जिन्वतु॒ प्र रा॒ये ॥१४

तत् । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । अ॒त्ऽभिः । अ॒र्कैः । तत् । पर्व॑तः । तत् । स॒वि॒ता । चनः॑ । धा॒त् ।

तत् । ओष॑धीभिः । अ॒भि । रा॒ति॒ऽसाचः॑ । भगः॑ । पुर॑म्ऽधिः । जि॒न्व॒तु॒ । प्र । रा॒ये ॥१४

तत् । नः । अहिः । बुध्न्यः । अत्ऽभिः । अर्कैः । तत् । पर्वतः । तत् । सविता । चनः । धात् ।

तत् । ओषधीभिः । अभि । रातिऽसाचः । भगः । पुरम्ऽधिः । जिन्वतु । प्र । राये ॥१४

“बुध्न्यः । बुध्नमन्तरिक्षम् । तत्र भवः “अहिः । एत्यन्तरिक्ष इत्यहिः । उक्तं च –'अहिरयनादेत्यन्तरिक्षे ' ( निरु. २. १७) इति । एतत्पदद्वयाभिधेयो देवः “अर्कैः अर्चनसाधनैर्मन्त्रैः स्तूयमानः सन् “नः अस्मभ्यं “तत् लोके प्रसिद्धं “चनः अन्नम् “अद्भिः उदकैः सार्धं “धात् दधातु विदधातु । प्रयच्छतु । “पर्वतः पूरयिता । ' पर्व पूरणे ' इति धातुः । यद्वा । पर्ववद्वज्रं पर्वतः । तद्वान् । पर्वतस्य गिरेः शत्रुरिति वा पर्वतः । स च “तत् चनो दधातु । तथा “सविता प्रेरको देवश्च “तत् चनो दधातु । अपि च “रातिषाचः । रातिं दानं सचन्ते सेवन्ते इति रातिषाचो विश्वे देवाः । ते च “ओषधीभिः । ओषः पाकः आसु धीयते इत्योषधयस्तिलमाषाद्याः । ताभिः सार्धं “तत् अन्नम् “अभि प्रयच्छन्तु । तथा “पुरंधिः बहुधीर्बहुप्रज्ञो वा बहुकर्मा वा “भगः भजनीय एतत्संज्ञो देवश्च “राये धनार्थं “प्र जिन्वतु अस्मान् प्रेरयतु ॥


नू नो॑ र॒यिं र॒थ्यं॑ चर्षणि॒प्रां पु॑रु॒वीरं॑ म॒ह ऋ॒तस्य॑ गो॒पाम् ।

क्षयं॑ दाता॒जरं॒ येन॒ जना॒न्स्पृधो॒ अदे॑वीर॒भि च॒ क्रमा॑म॒ विश॒ आदे॑वीर॒भ्य१॒॑श्नवा॑म ॥१५

नु । नः॒ । र॒यिम् । र॒थ्य॑म् । च॒र्ष॒णि॒ऽप्राम् । पु॒रु॒ऽवीर॑म् । म॒हः । ऋ॒तस्य॑ । गो॒पाम् ।

क्षय॑म् । दा॒त॒ । अ॒जर॑म् । येन॑ । जना॑न् । स्पृधः॑ । अदे॑वीः । अ॒भि । च॒ । क्रमा॑म । विशः॑ । आऽदे॑वीः । अ॒भि । अ॒श्नवा॑म ॥१५

नु । नः । रयिम् । रथ्यम् । चर्षणिऽप्राम् । पुरुऽवीरम् । महः । ऋतस्य । गोपाम् ।

क्षयम् । दात । अजरम् । येन । जनान् । स्पृधः । अदेवीः । अभि । च । क्रमाम । विशः । आऽदेवीः । अभि । अश्नवाम ॥१५

हे सर्वे देवाः “नः अस्मभ्यं “रयिं धनं “क्षयं गृहं च “दात प्रयच्छत। कीदृशं रयिम् । “रथ्यं रथसंबन्धिनम् । रथयुक्तमित्यर्थः । “चर्षणिप्राम्। चर्षणयो मनुष्याः। तेषां पूरयितारं “पुरुवीरम् । वीर्याज्जायन्त इति वीराः पुत्रादयः । बहुभिर्वीरैरुपेतम् । “महः महतः “ऋतस्य यज्ञस्य “गोपां रक्षकम् । दक्षिणारूपेण धनेन हि यज्ञो रक्ष्यते । ‘मृतो यज्ञस्त्वदक्षिणः' इति वचनात् । कीदृशं क्षयम् । “अजरं जरारहितम् । “येन रयिणा क्षयेण च “जनान् शत्रून् “स्पृधः स्पर्धमानाः “अदेवीः अदेवसंबन्धिनीः आसुरीः सेनाः “च “अभि “क्रमाम अभिभवेम । तथा “आदेवीः । आगता देवा यासु हविः स्वीकारार्थं ता आदेव्यः । तादृशीश्च “विशः प्रजा यज्ञानुष्ठायिनीर्येन धनेन गृहेण च “अभ्यश्नवाम अभिप्राप्नवाम तादृशं धनं गृहं च दातेत्यन्वयः ॥ ॥ ७ ॥ ॥ ४ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.४९&oldid=345884" इत्यस्माद् प्रतिप्राप्तम्