ऋग्वेदः सूक्तं ६.५६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.५५ ऋग्वेदः - मण्डल ६
सूक्तं ६.५६
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.५७ →
दे. पूषा। गायत्री, ६ अनुष्टुप् ।


य एनमादिदेशति करम्भादिति पूषणम् ।
न तेन देव आदिशे ॥१॥
उत घा स रथीतमः सख्या सत्पतिर्युजा ।
इन्द्रो वृत्राणि जिघ्नते ॥२॥
उतादः परुषे गवि सूरश्चक्रं हिरण्ययम् ।
न्यैरयद्रथीतमः ॥३॥
यदद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः ।
तत्सु नो मन्म साधय ॥४॥
इमं च नो गवेषणं सातये सीषधो गणम् ।
आरात्पूषन्नसि श्रुतः ॥५॥
आ ते स्वस्तिमीमह आरेअघामुपावसुम् ।
अद्या च सर्वतातये श्वश्च सर्वतातये ॥६॥


सायणभाष्यम्

‘य एनम् ' इति षड़ृचं सप्तमं सूक्तं भरद्वाजस्यार्षं पौष्णम् । अन्त्यानुष्टुप् आदौ पञ्च गायत्र्यः । तथा चानुक्रांतं - ‘ य एनमन्त्यानुष्टुप्' इति । गतो विनियोगः ॥


य ए॑नमा॒दिदे॑शति कर॒म्भादिति॑ पू॒षण॑म् ।

न तेन॑ दे॒व आ॒दिशे॑ ॥१

यः । ए॒न॒म् । आ॒ऽदिदे॑शति । क॒र॒म्भ॒ऽअत् । इति॑ । पू॒षण॑म् ।

न । तेन॑ । दे॒वः । आ॒ऽदिशे॑ ॥१

यः । एनम् । आऽदिदेशति । करम्भऽअत् । इति । पूषणम् ।

न । तेन । देवः । आऽदिशे ॥१

“यः स्तोता “एनं “पूषणं पोषकं “करम्भात् करम्भाणां घृतमिश्राणां यवसक्तूनाम् अत्ता “इति “आदिदेशति अभिष्टौति “तेन पुरुषेण अन्यः “देवः “न “आदिशे आदेष्टव्यः स्तोतव्यो न भवति । पूष्ण एव सर्वस्याभिमतस्य धनस्य लाभात् देवतान्तरं न स्तौतीत्यर्थः ॥


उ॒त घा॒ स र॒थीत॑म॒ः सख्या॒ सत्प॑तिर्यु॒जा ।

इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥२

उ॒त । घ॒ । सः । र॒थिऽत॑मः । सख्या॑ । सत्ऽप॑तिः । यु॒जा ।

इन्द्रः॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥२

उत । घ । सः । रथिऽतमः । सख्या । सत्ऽपतिः । युजा ।

इन्द्रः । वृत्राणि । जिघ्नते ॥२

“उत “घ अपि च “सः यः शत्रूणां हन्तृत्वेन प्रसिद्धस्तादृशः रथीतमः अतिशयेन रथी महारथः “सत्पतिः सतां पालयिता एवंगुणः “इन्द्रः “सख्या मित्रभूतेन पूष्णा “युजा सहायभूतेन युक्तः सन् "वृत्राणि शत्रून् "जिघ्नते हन्ति । इन्द्रस्यापि अयमेव साहाय्यकारीत्यर्थः ॥


उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्यय॑म् ।

न्यै॑रयद्र॒थीत॑मः ॥३

उ॒त । अ॒दः । प॒रु॒षे । गवि॑ । सूरः॑ । च॒क्रम् । हि॒र॒ण्यय॑म् ।

नि । ऐ॒र॒य॒त् । र॒थिऽत॑मः ॥३

उत । अदः । परुषे । गवि । सूरः । चक्रम् । हिरण्ययम् ।

नि । ऐरयत् । रथिऽतमः ॥३

“उत अपि च “सूरः प्रेरकः “रथीतमः अतिशयेन रथी नेतृतमो वा पूषा “परुषे परुष्मति पर्ववति भास्वति वा “गवि । गच्छतीति गौरादित्य: । तस्मिन् “हिरण्ययं हिरण्मयं सुवर्णनिर्मितम् “अदः तत् रथस्य “चक्रं “न्यैरयत् नितरां प्रेरयति स्म ॥


यद॒द्य त्वा॑ पुरुष्टुत॒ ब्रवा॑म दस्र मन्तुमः ।

तत्सु नो॒ मन्म॑ साधय ॥४

यत् । अ॒द्य । त्वा॒ । पु॒रु॒ऽस्तु॒त॒ । ब्रवा॑म । द॒स्र॒ । म॒न्तु॒ऽमः॒ ।

तत् । सु । नः॒ । मन्म॑ । सा॒ध॒य॒ ॥४

यत् । अद्य । त्वा । पुरुऽस्तुत । ब्रवाम । दस्र । मन्तुऽमः ।

तत् । सु । नः । मन्म । साधय ॥४

हे “पुरुष्टुत बहुभिर्यजमानैः स्तुत “दस्र दर्शनीय “मन्तुमः ज्ञानवन् पूषन् “अद्य इदानीं “यत् उद्दिश्य “त्वा त्वां “ब्रवाम स्तवाम “नः अस्माकं “मन्म मननीयं “तत् धनं "सु “साधय उत्पादय ।।


इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णम् ।

आ॒रात्पू॑षन्नसि श्रु॒तः ॥५

इ॒मम् । च॒ । नः॒ । गो॒ऽएष॑णम् । सा॒तये॑ । सी॒स॒धः॒ । ग॒णम् ।

आ॒रात् । पू॒ष॒न् । अ॒सि॒ । श्रु॒तः ॥५

इमम् । च । नः । गोऽएषणम् । सातये । सीसधः । गणम् ।

आरात् । पूषन् । असि । श्रुतः ॥५

हे पूषन् “नः अस्माकं “सातये लाभाय “इमं “च "गणं मनुष्यसंघं “गवेषणं गवा मेषयितारं “सीषधः साधय । हे “पूषन् “आरात् दूरदेशेऽपि त्वं “श्रुतः विश्रुतः प्रख्यातः “असि भवसि ।।


आ ते॑ स्व॒स्तिमी॑मह आ॒रेअ॑घा॒मुपा॑वसुम् ।

अ॒द्या च॑ स॒र्वता॑तये॒ श्वश्च॑ स॒र्वता॑तये ॥६

आ । ते॒ । स्व॒स्तिम् । ई॒म॒हे॒ । आ॒रेऽअ॑घाम् । उप॑ऽवसुम् ।

अ॒द्य । च॒ । स॒र्वऽता॑तये । श्वः । च॒ । स॒र्वऽता॑तये ॥६

आ । ते । स्वस्तिम् । ईमहे । आरेऽअघाम् । उपऽवसुम् ।

अद्य । च । सर्वऽतातये । श्वः । च । सर्वऽतातये ॥६

हे पूषन् 'ते त्वदीयां त्वया देयां “स्वस्तिं कल्याणीं रक्षाम् “आरेअघाम् । आरे दूरे अघं पापं यस्यास्तादृशम् । “उपावसुम् उपगतधनाम् । ईदृशीं स्वस्तिम् “अद्य “च अस्मिंश्च काले “सर्वतातये। सर्वैर्ऋत्विग्भिस्तायते इति सर्वतातिर्यज्ञः । तदर्थम् । यद्वा । सर्वेषां भोगानां विस्ताराय। “श्वश्च परस्मिन्नपि दिने “सर्वतातये सर्वदा सर्वतात्यर्थम् “आ “ईमहे अभियाचामहे ॥ ॥ २२ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.५६&oldid=200349" इत्यस्माद् पुनः प्राप्तिः