ऋग्वेदः सूक्तं ६.७४
← सूक्तं ६.७३ | ऋग्वेदः - मण्डल ६ सूक्तं ६.७४ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.७५ → |
दे. सोमारुद्रौ। त्रिष्टुप्। |
सोमारुद्रा धारयेथामसुर्यं प्र वामिष्टयोऽरमश्नुवन्तु ।
दमेदमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥१॥
सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश ।
आरे बाधेथां निरृतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु ॥२॥
सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् ।
अव स्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ॥३॥
तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृळतं नः ।
प्र नो मुञ्चतं वरुणस्य पाशाद्गोपायतं नः सुमनस्यमाना ॥४॥
सायणभाष्यम्
‘सोमारुद्रा' इति चतुर्ऋचं त्रयोदशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं सोमारुद्रदेवताकम् । अनुक्रम्यते च - सोमारुद्रा चतुष्कं सोमारौद्रम् ' इति । विनियोगो लैङ्गिकः ॥
सोमा॑रुद्रा धा॒रये॑थामसु॒र्यं१॒॑ प्र वा॑मि॒ष्टयोऽर॑मश्नुवन्तु ।
दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ शं नो॑ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ॥१
सोमा॑रुद्रा । धा॒रये॑थाम् । अ॒सु॒र्य॑म् । प्र । वा॒म् । इ॒ष्टयः॑ । अर॑म् । अ॒श्नु॒व॒न्तु॒ ।
दमे॑ऽदमे । स॒प्त । रत्ना॑ । दधा॑ना । शम् । नः॒ । भू॒त॒म् । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥१
सोमारुद्रा । धारयेथाम् । असुर्यम् । प्र । वाम् । इष्टयः । अरम् । अश्नुवन्तु ।
दमेऽदमे । सप्त । रत्ना । दधाना । शम् । नः । भूतम् । द्विऽपदे । शम् । चतुःऽपदे ॥१
“सोमारुद्रा हे सोमारुद्रौ "असुर्यम् असुरसंबन्धि बलमस्मासु “धारयेथाम् । किंच “दमेदमे सर्वेष्वस्मद्गृहेषु “इष्टयः यज्ञाः “वां युवाम् "अरम् अलं पर्याप्तं “प्र “अश्नुवन्तु प्रकर्षेण व्याप्नुवन्तु । अपि च युवां “सप्त “रत्ना रत्नानि “दधाना धारयन्तौ “नः अस्मभ्यं "शं सुखकरौ सुखरूपौ वा “भूतं भवतम् । “द्विपदे अस्मदीयाय पुत्रादये “चतुष्पदे पश्वादये च “शं भूतं भवतम् ॥
सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ ।
आ॒रे बा॑धेथां॒ निरृ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ॥२
सोमा॑रुद्रा । वि । वृ॒ह॒त॒म् । विषू॑चीम् । अमी॑वा । या । नः॒ । गय॑म् । आ॒ऽवि॒वेश॑ ।
आ॒रे । बा॒धे॒था॒म् । निःऽऋ॑तिम् । प॒रा॒चैः । अ॒स्मे इति॑ । भ॒द्रा । सौ॒श्र॒व॒सानि॑ । स॒न्तु॒ ॥२
सोमारुद्रा । वि । वृहतम् । विषूचीम् । अमीवा । या । नः । गयम् । आऽविवेश ।
आरे । बाधेथाम् । निःऽऋतिम् । पराचैः । अस्मे इति । भद्रा । सौश्रवसानि । सन्तु ॥२
“सोमारुद्रा हे सोमारुद्रौ “नः अस्माकं “गयं गृहं गृहगतं प्राणिजातं वा "या "अमीवा यो रोगः “आविवेश तां “विषूचीं विष्वक् सर्वतो गच्छन्तीममीवां “वि “वृहतं वियोजयतम् । अपि च “निर्ऋतिम् अलक्ष्मीं “पराचैः पराग्यथा भवति तथा “आरे दूरे “बाधेथां निवारयतम् । “अस्मे अस्माकं “भद्रा भद्राणि “सौश्रवसानि अन्नानि यशांसि च "सन्तु भवन्तु । सुश्रवसो भावः सौश्रवसम् । श्रवोऽन्नं यशश्च ॥
सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् ।
अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥३
सोमा॑रुद्रा । यु॒वम् । ए॒तानि॑ । अ॒स्मे इति॑ । विश्वा॑ । त॒नूषु॑ । भे॒ष॒जानि॑ । ध॒त्त॒म् ।
अव॑ । स्य॒त॒म् । मु॒ञ्चत॑म् । यत् । नः॒ । अस्ति॑ । त॒नूषु॑ । ब॒द्धम् । कृ॒तम् । एनः॑ । अ॒स्मत् ॥३
सोमारुद्रा । युवम् । एतानि । अस्मे इति । विश्वा । तनूषु । भेषजानि । धत्तम् ।
अव । स्यतम् । मुञ्चतम् । यत् । नः । अस्ति । तनूषु । बद्धम् । कृतम् । एनः । अस्मत् ॥३
हे "सोमारुद्रा सोमारुद्रौ “युवं युवाम् “अस्मे अस्माकं “तनूषु अङ्गेषु “एतानि प्रसिद्धानि “विश्वा सर्वाणि "भेषजानि “धत्तं धारयतम् । किंच “नः अस्माकं “तनूषु अङ्गेषु अस्माभिः “कृतं “बद्धं च “यत् “एनः पापम् “अस्ति विद्यते तत् पापम् “अव "स्यतं क्षपयतं श्लथयतम् । शिथिलबन्धं कुरुतमित्यर्थः । “अस्मत् अस्मत्तः “मुञ्चतं च ॥
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒शेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑ळतं नः ।
प्र नो॑ मुञ्चतं॒ वरु॑णस्य॒ पाशा॑द्गोपा॒यतं॑ नः सुमन॒स्यमा॑ना ॥४
ति॒ग्मऽआ॑युधौ । ति॒ग्महे॑ती॒ इति॑ ति॒ग्मऽहे॑ती । सु॒ऽशेवौ॑ । सोमा॑रुद्रौ । इ॒ह । सु । मृ॒ळ॒त॒म् । नः॒ ।
प्र । नः॒ । मु॒ञ्च॒त॒म् । वरु॑णस्य । पाशा॑त् । गो॒पा॒यत॑म् । नः॒ । सु॒ऽम॒न॒स्यमा॑ना ॥४
तिग्मऽआयुधौ । तिग्महेती इति तिग्मऽहेती । सुऽशेवौ । सोमारुद्रौ । इह । सु । मृळतम् । नः ।
प्र । नः । मुञ्चतम् । वरुणस्य । पाशात् । गोपायतम् । नः । सुऽमनस्यमाना ॥४
हे सोमारुद्रौ “तिग्मायुधौ दीप्तधनुष्को “तिग्महेती तीक्ष्णशरौ “सुशेवौ शोभनसुखप्रदौ “सुमनस्यमाना शोभनं मनः स्तोत्रमिच्छन्तौ सुमनस्यमानौ स्तूयमानौ सुमनसो वा सन्तौ युवाम् “इह लोके “नः अस्मान् “सु अत्यन्तं "मृळतं सुखयतम् । “नः अस्मान् “वरुणस्य “पाशात् “प्र “मुञ्चतम् । “नः अस्मान् “गोपायतम् आपद्भ्यो रक्षतं च ॥ ॥ १८ ॥
मण्डल ६ | ||||
---|---|---|---|---|