ऋग्वेदः सूक्तं ६.४१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.४० ऋग्वेदः - मण्डल ६
सूक्तं ६.४१
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.४२ →
दे. इन्द्रः। त्रिष्टुप् ।


अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः ।
गावो न वज्रिन्स्वमोको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम् ॥१॥
या ते काकुत्सुकृता या वरिष्ठा यया शश्वत्पिबसि मध्व ऊर्मिम् ।
तया पाहि प्र ते अध्वर्युरस्थात्सं ते वज्रो वर्ततामिन्द्र गव्युः ॥२॥
एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे समकारि सोमः ।
एतं पिब हरिव स्थातरुग्र यस्येशिषे प्रदिवि यस्ते अन्नम् ॥३॥
सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय ।
एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व ॥४॥
ह्वयामसि त्वेन्द्र याह्यर्वाङरं ते सोमस्तन्वे भवाति ।
शतक्रतो मादयस्वा सुतेषु प्रास्माँ अव पृतनासु प्र विक्षु ॥५॥


सायणभाष्यम्

‘ अहेळमानः' इति पञ्चर्चमष्टादशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम्। अनुक्रान्तं च-- ‘ अहेळमानः' इति । गतो विनियोगः ।।


अहे॑ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं॑ पवन्त॒ इन्द॑वः सु॒तास॑ः ।

गावो॒ न व॑ज्रि॒न्स्वमोको॒ अच्छेन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नाम् ॥१

अहे॑ळमानः । उप॑ । या॒हि॒ । य॒ज्ञम् । तुभ्य॑म् । प॒व॒न्ते॒ । इन्द॑वः । सु॒तासः॑ ।

गावः॑ । न । व॒ज्रि॒न् । स्वम् । ओकः॑ । अच्छ॑ । इन्द्र॑ । आ । ग॒हि॒ । प्र॒थ॒मः । य॒ज्ञिया॑नाम् ॥१

अहेळमानः । उप । याहि । यज्ञम् । तुभ्यम् । पवन्ते । इन्दवः । सुतासः ।

गावः । न । वज्रिन् । स्वम् । ओकः । अच्छ । इन्द्र । आ । गहि । प्रथमः । यज्ञियानाम् ॥१

हे इन्द्र “अहेळमानः अक्रुध्यंस्त्वं “यज्ञम् अस्मदीयम् “उप “याहि उपगच्छ । यतः कारणात “तुभ्यं त्वदर्थ “सुतासः अभिषुता: “इन्दवः सोमा: “पवन्ते पूयन्ते दशपवित्रेण शोध्यन्ते । हे “वज्रिन् वज्रवन् इन्द्र ”गावो “न गावः स्वकीयं गोष्ठमिव “स्वं स्वकीय “ओकः स्थानं द्रोणकलशादिलक्षणम् “अच्छ आभिमुख्येन प्राप्नुवन्तीति शेषः । अतः कारणात् हे “इन्द्र “यज्ञियानां यज्ञार्हाणां देवानां मध्ये “प्रथमः मुख्यत्वं “आ “गहि आगच्छ ।।


या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् ।

तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः ॥२

या । ते॒ । का॒कुत् । सुऽकृ॑ता । या । वरि॑ष्ठा । यया॑ । शश्व॑त् । पिब॑सि । मध्वः॑ । ऊ॒र्मिम् ।

तया॑ । पा॒हि॒ । प्र । ते॒ । अ॒ध्व॒र्युः । अ॒स्था॒त् । सम् । ते॒ । वज्रः॑ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । ग॒व्युः ॥२

या । ते । काकुत् । सुऽकृता । या । वरिष्ठा । यया । शश्वत् । पिबसि । मध्वः । ऊर्मिम् ।

तया । पाहि । प्र । ते । अध्वर्युः । अस्थात् । सम् । ते । वज्रः । वर्तताम् । इन्द्र । गव्युः ॥२

हे इन्द्र “या “ते तव “काकुत् जिह्वा “सुकृता सुष्ठु धात्रा निर्मिता। “या च “वरिष्ठा उरुतमा विस्तीर्णतमा। “यया च “मध्वः मधुनः सोमस्य “ऊर्मिं रसं “शश्वत् बहुकृत्वः “पिबसि “तया जिह्वयास्मदीयं सोमं “पाहि पिब। तदर्थम् “अध्वर्युः अध्वरस्य नेता ऋत्विग्गृहीतसोमः सन् “प्र “अस्थात् हविर्धानादुत्तरवेदिदेशं प्रत्यगमत् । अपि च हे “इन्द्र “गव्युः शत्रुसंबन्धिनीर्गा आत्मन इच्छन् "ते त्वदीयः “वज्रः “सं "वर्ततां शत्रुभिः संगतो भवतु । तान् हन्त्वित्यर्थः ॥


ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू॑प॒ इन्द्रा॑य॒ वृष्णे॒ सम॑कारि॒ सोम॑ः ।

ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒ अन्न॑म् ॥३

ए॒षः । द्र॒प्सः । वृ॒ष॒भः । वि॒श्वऽरू॑पः । इन्द्रा॑य । वृष्णे॑ । सम् । अ॒का॒रि॒ । सोमः॑ ।

ए॒तम् । पि॒ब॒ । ह॒रि॒ऽवः॒ । स्था॒तः॒ । उ॒ग्र॒ । यस्य॑ । ईशि॑षे । प्र॒ऽदिवि॑ । यः । ते॒ । अन्न॑म् ॥३

एषः । द्रप्सः । वृषभः । विश्वऽरूपः । इन्द्राय । वृष्णे । सम् । अकारि । सोमः ।

एतम् । पिब । हरिऽवः । स्थातः । उग्र । यस्य । ईशिषे । प्रऽदिवि । यः । ते । अन्नम् ॥३

“द्रप्सः द्रवणशील: “वृषभः कामानां वर्षिता “विश्वरूपः बहुविधरूपोपेत ईदृग्विधः “एषः “सोमः “वृष्णे कामानां वर्षित्रे “इन्द्राय इन्द्रस्य पानार्थं “समकारि अभिषवादिभिः संस्कृतोऽभूत् । हे "हरिवः । हरी अश्वौ । तद्वन् हे "स्थातः सर्वेषामधिष्ठातः “उग्र उद्गूर्णबलेन्द्र “एतम् ईदृशं सोमं “पिब । “यस्य सोमस्य "प्रदिवि । जातावेकवचनम् । प्रभूतेषु दिवसेषु प्रगतेष्वहःसु वा “ईशिषे त्वमेवेश्वरो भवसि । “यः च सोमः “ते तव “अन्नम् अन्नत्वेन परिकल्पित एतं पिबेत्यन्वयः ॥


सु॒तः सोमो॒ असु॑तादिन्द्र॒ वस्या॑न॒यं श्रेया॑ञ्चिकि॒तुषे॒ रणा॑य ।

ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ॥४

सु॒तः । सोमः॑ । असु॑तात् । इ॒न्द्र॒ । वस्या॑न् । अ॒यम् । श्रेया॑न् । चि॒कि॒तुषे॑ । रणा॑य ।

ए॒तम् । ति॒ति॒र्वः॒ । उप॑ । या॒हि॒ । य॒ज्ञम् । तेन॑ । विश्वाः॑ । तवि॑षीः । आ । पृ॒ण॒स्व॒ ॥४

सुतः । सोमः । असुतात् । इन्द्र । वस्यान् । अयम् । श्रेयान् । चिकितुषे । रणाय ।

एतम् । तितिर्वः । उप । याहि । यज्ञम् । तेन । विश्वाः । तविषीः । आ । पृणस्व ॥४

हे “इन्द्र “सुतः अभिषुतः “अयं “सोमः "असुतात् अकृताभिषवात् सोमादन्यदीयात् "वस्यान् वसीयान् वसुमत्तरः प्रशस्यतरः। तथा “चिकितुषे विदुषेऽभिज्ञाय तुभ्यं “रणाय रमणीयाय तदर्थं “श्रेयान् श्रेष्ठश्च भवति । त्वामतिशयेन रमयितेत्यर्थः। हे “तितिर्वः शत्रूणां तरितरिन्द्र “यज्ञं यजनसाधनम् “एतं सोमम् “उप “याहि उपागच्छ । “तेन च सोमेन “विश्वास्तविषीः सर्वाणि बलानि “आ “पृणस्व आपूरय ॥


ह्वया॑मसि॒ त्वेन्द्र॑ याह्य॒र्वाङरं॑ ते॒ सोम॑स्त॒न्वे॑ भवाति ।

शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु ॥५

ह्वया॑मसि । त्वा॒ । आ । इ॒न्द्र॒ । या॒हि॒ । अ॒र्वाङ् । अर॑म् । ते॒ । सोमः॑ । त॒न्वे॑ । भ॒वा॒ति॒ ।

शत॑क्रतो॒ इति॒ शत॑ऽक्रतो । मा॒दय॑स्व । सु॒तेषु॑ । प्र । अ॒स्मान् । अ॒व॒ । पृत॑नासु । प्र । वि॒क्षु ॥५

ह्वयामसि । त्वा । आ । इन्द्र । याहि । अर्वाङ् । अरम् । ते । सोमः । तन्वे । भवाति ।

शतक्रतो इति शतऽक्रतो । मादयस्व । सुतेषु । प्र । अस्मान् । अव । पृतनासु । प्र । विक्षु ॥५

हे “इन्द्र “त्वा त्वां “ह्वयामसि आह्वयामः । अतः कारणात् त्वम् “अर्वाङ् अस्मदभिमुखः सन् “आ “याहि आगच्छ । अस्मदीयः “सोमः च “ते “तन्वे तव शरीराय “अरं पर्याप्तं भवाति भवतु । त्वदीयं शरीरं यथाभिलाषं, तर्पयत्वित्यर्थः । हे “शतक्रतो बहुविधकर्मन्निन्द्र त्वं च “सुतेषु अभिषुतेषु अस्मदीयेषु सोमेषु “मादयस्व तृप्यस्व । ‘मद तृप्तियोगे'। तदनन्तरं “पृतनासु संग्रामेषु “अस्मान् “प्र “अव प्रकर्षेण रक्ष । न केवलं पृतनासु किंतु “विक्षु सर्वासु प्रजास्वस्मान् “प्र अव प्ररक्ष ॥ ॥१३॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.४१&oldid=188605" इत्यस्माद् पुनः प्राप्तिः