ऋग्वेदः सूक्तं ६.२६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.२५ ऋग्वेदः - मण्डल ६
सूक्तं ६.२६
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.२७ →
दे. इन्द्रः। त्रिष्टुप्।


श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः ।
सं यद्विशोऽयन्त शूरसाता उग्रं नोऽवः पार्ये अहन्दाः ॥१॥
त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ ।
त्वां वृत्रेष्विन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥२॥
त्वं कविं चोदयोऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् ।
त्वं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन् ॥३॥
त्वं रथं प्र भरो योधमृष्वमावो युध्यन्तं वृषभं दशद्युम् ।
त्वं तुग्रं वेतसवे सचाहन्त्वं तुजिं गृणन्तमिन्द्र तूतोः ॥४॥
त्वं तदुक्थमिन्द्र बर्हणा कः प्र यच्छता सहस्रा शूर दर्षि ।
अव गिरेर्दासं शम्बरं हन्प्रावो दिवोदासं चित्राभिरूती ॥५॥
त्वं श्रद्धाभिर्मन्दसानः सोमैर्दभीतये चुमुरिमिन्द्र सिष्वप् ।
त्वं रजिं पिठीनसे दशस्यन्षष्टिं सहस्रा शच्या सचाहन् ॥६॥
अहं चन तत्सूरिभिरानश्यां तव ज्याय इन्द्र सुम्नमोजः ।
त्वया यत्स्तवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ ॥७॥
वयं ते अस्यामिन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः ।
प्रातर्दनिः क्षत्रश्रीरस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् ॥८॥


सायणभाष्यम्

‘श्रुधी न इन्द्र' इत्यष्टर्चं तृतीयं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रम्यते- श्रुधी नोऽष्टौ ' इति । विनियोगो लैङ्गिकः ।।


श्रु॒धी न॑ इन्द्र॒ ह्वया॑मसि त्वा म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः ।

सं यद्विशोऽय॑न्त॒ शूर॑साता उ॒ग्रं नोऽव॒ः पार्ये॒ अह॑न्दाः ॥१

श्रु॒धि । नः॒ । इ॒न्द्र॒ । ह्वया॑मसि । त्वा॒ । म॒हः । वाज॑स्य । सा॒तौ । व॒वृ॒षा॒णाः ।

सम् । यत् । विशः॑ । अय॑न्त । शूर॑ऽसातौ । उ॒ग्रम् । नः॒ । अवः॑ । पार्ये॑ । अह॑न् । दाः॒ ॥१

श्रुधि । नः । इन्द्र । ह्वयामसि । त्वा । महः । वाजस्य । सातौ । ववृषाणाः ।

सम् । यत् । विशः । अयन्त । शूरऽसातौ । उग्रम् । नः । अवः । पार्ये । अहन् । दाः ॥१

हे “इन्द्र “ववृषाणाः सोमैस्त्वां सिञ्चन्तो वयं स्तोतारः “महः महतः “वाजस्य अन्नस्य “सातौ लाभार्थं “त्वा त्वां “ह्वयामसि आह्वयामः । हे इन्द्र त्वं “नः अस्माकं तदाह्वानं “श्रुधि शृणु । “यत् यदा “विशः जनाः “शूरसातौ युद्धे “सम् “अयन्त संगच्छन्ते तदा “पार्ये अन्तिमे “अहन् अहनि दिवसे “नः अस्मभ्यम् “उग्रम् उद्गूर्णम् “अवः रक्षणं "दाः अदाः प्रयच्छ ॥


त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ ।

त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ॥२

त्वाम् । वा॒जी । ह॒व॒ते॒ । वा॒जि॒ने॒यः । म॒हः । वाज॑स्य । गध्य॑स्य । सा॒तौ ।

त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । तरु॑त्रम् । त्वाम् । च॒ष्टे॒ । मु॒ष्टि॒ऽहा । गोषु॑ । युध्य॑न् ॥२

त्वाम् । वाजी । हवते । वाजिनेयः । महः । वाजस्य । गध्यस्य । सातौ ।

त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । तरुत्रम् । त्वाम् । चष्टे । मुष्टिऽहा । गोषु । युध्यन् ॥२

“वाजी हविर्लक्षणान्नवान् “वाजिनेयः वाजिन्याः पुत्रो भरद्वाजो हे इन्द्र “त्वां “गध्यस्य सर्वैः प्राप्यस्य “महः महतः “वाजस्य अन्नस्य “सातौ लाभे निमित्ते “हवते स्तौति । अपि च हे “इन्द्र “सत्पतिं सज्जनानां पालकं “तरुत्रं दुर्जनानां तारकं “त्वां “वृत्रेषु उपद्रवेषु निमित्तेषु भरद्वाजो हवते । “मुष्टिहा मुष्टिबलेन शत्रूणां हन्ता “गोषु निमित्तभूतासु "युध्यन् शत्रुभिः सह युद्धं कुर्वन् भरद्वाजः “त्वां “चष्टे पश्यति । प्रतिपालयते ॥


त्वं क॒विं चो॑दयो॒ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क् ।

त्वं शिरो॑ अम॒र्मण॒ः परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥३

त्वम् । क॒विम् । चो॒द॒यः॒ । अ॒र्कऽसा॑तौ । त्वम् । कुत्सा॑य । शुष्ण॑म् । दा॒शुषे॑ । व॒र्क् ।

त्वम् । शिरः॑ । अ॒म॒र्मणः॑ । परा॑ । अ॒ह॒न् । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥३

त्वम् । कविम् । चोदयः । अर्कऽसातौ । त्वम् । कुत्साय । शुष्णम् । दाशुषे । वर्क् ।

त्वम् । शिरः । अमर्मणः । परा । अहन् । अतिथिऽग्वाय । शंस्यम् । करिष्यन् ॥३

हे इन्द्र “त्वम् “अर्कसातौ अन्नलाभार्थं “कविं भार्गवमृषिं “चोदयः अचोदयः । प्रैरयः । किंच हे इन्द्र “त्वं “दाशुषे हविर्दत्तवते “कुत्साय “शुष्णम् असुरं “वर्क् छेदितवानसि ॥ वर्क् इति वृणक्छेदनार्थस्य लुङि रूपम् ॥ तथा “त्वम् “अतिथिग्वाय अतिथीनामभिगन्त्रे दिवोदासाय “शंस्यं स्तुत्यं सुखं “करिष्यन् “अमर्मणः मर्महीनमात्मानं मन्यमानस्य शम्बरस्थ “शिरः शीर्षं “पराहन् अवधीः ॥


त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् ।

त्वं तुग्रं॑ वेत॒सवे॒ सचा॑ह॒न्त्वं तुजिं॑ गृ॒णन्त॑मिन्द्र तूतोः ॥४

त्वम् । रथ॑म् । प्र । भ॒रः॒ । यो॒धम् । ऋ॒ष्वम् । आवः॑ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑ऽद्युम् ।

त्वम् । तुग्र॑म् । वे॒त॒सवे॑ । सचा॑ । अ॒ह॒न् । त्वम् । तुजि॑म् । गृ॒णन्त॑म् । इ॒न्द्र॒ । तू॒तो॒रिति॑ तूतोः ॥४

त्वम् । रथम् । प्र । भरः । योधम् । ऋष्वम् । आवः । युध्यन्तम् । वृषभम् । दशऽद्युम् ।

त्वम् । तुग्रम् । वेतसवे । सचा । अहन् । त्वम् । तुजिम् । गृणन्तम् । इन्द्र । तूतोरिति तूतोः ॥४

हे इन्द्र “त्वं वृषभसंज्ञकाय राज्ञे “योधं युद्धसाधनम् “ऋष्वं महान्तं “रथं “प्र “भरः प्रापयः । अपि च “युध्यन्तं शत्रुभिः सह युद्धं कुर्वन्तं “दशद्युं दश दिवसा युध्यतो यस्य गताः तं “वृषभम् एतदाख्यं राजानम् “आवः युद्धादपीपलः । किंच “त्वं “वेतसवे एतान्नाम्ने राज्ञे “सचा सहायभूतः सन् “तुग्रम् असुरम् “अहन् हतवानसि । वेतसुर्नाम कश्चिदसुरः । अत्र तस्मादन्योऽसावुच्यते । यद्वा । वेतसव इति तृतीयार्थे चतुर्थी । वेतसुनासुरेण सहितं तुग्रं हतवानसि । तथा च मन्त्रं .....यते--- ‘ अहं पितेव वेतसूँरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम्' (ऋ. सं. १०. ४९. ३) इति । हे “इन्द्र “त्वं “गृणन्तं त्वां स्तुवन्तं “तुजिम् एतदाख्यं राजानं “तूतोः अवर्धयः ॥


त्वं तदु॒क्थमि॑न्द्र ब॒र्हणा॑ क॒ः प्र यच्छ॒ता स॒हस्रा॑ शूर॒ दर्षि॑ ।

अव॑ गि॒रेर्दासं॒ शम्ब॑रं ह॒न्प्रावो॒ दिवो॑दासं चि॒त्राभि॑रू॒ती ॥५

त्वम् । तत् । उ॒क्थम् । इ॒न्द्र॒ । ब॒र्हणा॑ । क॒रिति॑ कः । प्र । यत् । श॒ता । स॒हस्रा॑ । शू॒र॒ । दर्षि॑ ।

अव॑ । गि॒रेः । दास॑म् । शम्ब॑रम् । ह॒न् । प्र । आ॒वः॒ । दिवः॑ऽदासम् । चि॒त्राभिः॑ । ऊ॒ती ॥५

त्वम् । तत् । उक्थम् । इन्द्र । बर्हणा । करिति कः । प्र । यत् । शता । सहस्रा । शूर । दर्षि ।

अव । गिरेः । दासम् । शम्बरम् । हन् । प्र । आवः । दिवःऽदासम् । चित्राभिः । ऊती ॥५

हे “इन्द्र “बर्हणा बर्हणः शत्रूणां हिंसकः “त्वम् “उक्थं प्रशस्यं “तत् कर्म “कः अकरोः । किं तत्कर्मेत्युच्यते । हे “शूर वीरेन्द्र त्वं “शता शतानि “सहस्रा सहस्राणि च शम्बरस्य अनुचरान् भटान् “प्र “दर्षि विदारितवानसि । तथा च निगमान्तरे-‘अध्वर्यवो यः शतं शम्बरस्य' (ऋ. सं. २. १४, ६) इति । तथा त्वं “दासं यज्ञादिकर्मणामुपक्षपयितारं “गिरेः पर्वतान्निर्गतं “शम्बरम् असुरम् “अव “हन् अवावधीः । तथापि श्रूयते– “यः शम्बरं पर्वतेषु क्षियन्तम्' (ऋ. सं. २. १२. ११ ) इति । किंच “चित्राभिः विचित्राभिः “ऊती ऊतिभिः रक्षाभिः “दिवोदासं राजानं “प्रावः प्रकर्षेण पालयसि स्म ॥ ॥ २१ ॥


त्वं श्र॒द्धाभि॑र्मन्दसा॒नः सोमै॑र्द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप् ।

त्वं र॒जिं पिठी॑नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा॑हन् ॥६

त्वम् । श्र॒द्धाभिः॑ । म॒न्द॒सा॒नः । सोमैः॑ । द॒भीत॑ये । चुमु॑रिम् । इ॒न्द्र॒ । सि॒स्व॒प् ।

त्वम् । र॒जिम् । पिठी॑नसे । द॒श॒स्यन् । ष॒ष्टिम् । स॒हस्रा॑ । शच्या॑ । सचा॑ । अ॒ह॒न् ॥६

त्वम् । श्रद्धाभिः । मन्दसानः । सोमैः । दभीतये । चुमुरिम् । इन्द्र । सिस्वप् ।

त्वम् । रजिम् । पिठीनसे । दशस्यन् । षष्टिम् । सहस्रा । शच्या । सचा । अहन् ॥६

हे “इन्द्र “श्रद्धाभिः श्रद्धापुरःसरमादरातिशयेनानुष्ठितैः कर्मभिः मन्दसानः मोदमानः । यच्छ्रद्धया युक्तं कर्म तत्सारवत् भवति । तथा च श्रूयते–' यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' ( छ. उ. १. १. १० ) इति । “सोमैः च मन्दसानः “त्वं “दभीतये एतन्नामकाय राजर्षये “चुमुरिम् एतदाख्यमसुरं “सिष्वप् अस्वापयः । अवधीरित्यर्थः । किंच हे इन्द्र “त्वं “पिठीनसे एतन्नामकाय “रजिम् एतदाख्यां कन्यां वा राज्यं वा “दशस्यन् प्रयच्छन् “शच्या प्रज्ञया “षष्टिं षष्टिसंख्याकानि "सहस्रा भटानां सहस्राणि "सचा सह युगपदेव "अहन अवधीः ॥


अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोज॑ः ।

त्वया॒ यत्स्तव॑न्ते सधवीर वी॒रास्त्रि॒वरू॑थेन॒ नहु॑षा शविष्ठ ॥७

अ॒हम् । च॒न । तत् । सू॒रिऽभिः॑ । आ॒न॒श्या॒न् । तव॑ । ज्यायः॑ । इ॒न्द्र॒ । सु॒म्नम् । ओजः॑ ।

त्वया॑ । यत् । स्तव॑न्ते । स॒ध॒ऽवी॒र॒ । वी॒राः । त्रि॒ऽवरू॑थेन । नहु॑षा । श॒वि॒ष्ठ॒ ॥७

अहम् । चन । तत् । सूरिऽभिः । आनश्यान् । तव । ज्यायः । इन्द्र । सुम्नम् । ओजः ।

त्वया । यत् । स्तवन्ते । सधऽवीर । वीराः । त्रिऽवरूथेन । नहुषा । शविष्ठ ॥७

हे “सधवीर वीरैः सहित “शविष्ठ बलवत्तमेन्द्र “वीराः स्तोतारः “त्रिवरूथेन । त्रीणि वरूथान्यावरकाणि भुवनानि यस्य तेन । “नहुषा शत्रूणां बन्धकेन “त्वया दत्तं “यत् “सुम्नं सुखम् “ओजः बलं च “स्तवन्ते स्तुवन्ति हे “इन्द्र “तव त्वया दत्तं “ज्यायः अतिशयेन प्रशस्यं “तत् सुम्नमोजः “अहं "चन अहमपि भरद्वाजः “सूरिभिः मदीयैः स्तोतृभिः सह "आनश्यां प्राप्नुयाम् ॥


व॒यं ते॑ अ॒स्यामि॑न्द्र द्यु॒म्नहू॑तौ॒ सखा॑यः स्याम महिन॒ प्रेष्ठा॑ः ।

प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो॑ घ॒ने वृ॒त्राणां॑ स॒नये॒ धना॑नाम् ॥८

व॒यम् । ते॒ । अ॒स्याम् । इ॒न्द्र॒ । द्यु॒म्नऽहू॑तौ । सखा॑यः । स्या॒म॒ । म॒हि॒न॒ । प्रेष्ठाः॑ ।

प्रात॑र्दनिः । क्ष॒त्र॒ऽश्रीः । अ॒स्तु॒ । श्रेष्ठः॑ । घ॒ने । वृ॒त्राणा॑म् । स॒नये॑ । धना॑नाम् ॥८

वयम् । ते । अस्याम् । इन्द्र । द्युम्नऽहूतौ । सखायः । स्याम । महिन । प्रेष्ठाः ।

प्रातर्दनिः । क्षत्रऽश्रीः । अस्तु । श्रेष्ठः । घने । वृत्राणाम् । सनये । धनानाम् ॥८

हे "महिन पूजनीय “इन्द्र "ते त्वदर्थं “सखायः स्तोतारः “वयम् “अस्यां “द्युम्नहूतौ अस्मिन् धननिमित्ते स्तोत्रे "प्रेष्ठाः अतिशयेन प्रियाः “स्याम भवेम । “प्रातर्दनिः प्रतर्दनो नाम राजा । तस्य पुत्रः “क्षत्रश्रीः एतन्नामको मम याज्यो राजा “श्रेष्ठः “अस्तु सर्वेषामुत्कृष्टो भवतु । किमर्थम् । “वृत्राणां शत्रूणां “घने वधाय च “धनानां वसूनां “सनये संभजनाय च श्रेष्ठोऽस्त्विति संबन्धः ॥ ॥२२॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.२६&oldid=187856" इत्यस्माद् पुनः प्राप्तिः