ऋग्वेदः सूक्तं ६.९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.८ ऋग्वेदः - मण्डल ६
सूक्तं ६.९
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.१० →
दे. वैश्वानरोऽग्निः। त्रिष्टुप्, (७ प्रस्तारपंक्तिर्वा)


अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः ।
वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥१॥
नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः ।
कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा ॥२॥
स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति ।
य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन् ॥३॥
अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु ।
अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः ॥४॥
ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः ।
विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु ॥५॥
वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत् ।
वि मे मनश्चरति दूरआधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये ॥६॥
विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम् ।
वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः ॥७॥


सायणभाष्यम्

‘अहश्च' इति सप्तर्चं नवमं सूक्तं भरद्वाजस्यार्षं वैश्वानराग्निदेवताकम् । अनुक्रान्तं च- ‘अहश्च' इति । व्यूळहे दशरात्रे षष्ठेऽहन्याग्निमारुतशस्त्रे वैश्वानरनिविद्धानमिदम् । सूत्र्यते हि- अहश्च कृष्णं मध्वो वो नाम ' ( आश्व. श्रौ. ८. ८) इति ।।


अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑ ।

वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥१

अहः॑ । च॒ । कृ॒ष्णम् । अहः॑ । अर्जु॑नम् । च॒ । वि । व॒र्ते॒ते॒ इति॑ । रज॑सी॒ इति॑ । वे॒द्याभिः॑ ।

वै॒श्वा॒न॒रः । जाय॑मानः । न । राजा॑ । अव॑ । अ॒ति॒र॒त् । ज्योति॑षा । अ॒ग्निः । तमां॑सि ॥

अहः । च । कृष्णम् । अहः । अर्जुनम् । च । वि । वर्तेते इति । रजसी इति । वेद्याभिः ।

वैश्वानरः । जायमानः । न । राजा । अव । अतिरत् । ज्योतिषा । अग्निः । तमांसि ॥

आहरति पुरुषोऽस्मिन् कर्माणीति “अहः। “कृष्ण कृष्णवर्णम् । एतत्सामानाधिकरण्यादहःशब्दो रात्रिवचनः । तमसा कृष्णवर्णा रात्रिः “च "अर्जुनं “च सौरेण तेजसा शुक्लवर्णम् "अहः दिवसश्च “रजसी स्वस्वभासा सर्वं जगद्रञ्जयन्तौ “वेद्याभिः वेदितव्याभिरनुकूलतया ज्ञातव्याभिः स्वप्रवृत्तिभिः “वि “वर्तेते विविधं पर्यावर्तते । यद्वा । रजसी द्यावापृथिव्यौ । उपलक्षणमेतत् । लोकत्रयं प्रत्यावर्तेते । एतच्च वैश्वानराग्नेराज्ञया इति शेषः । स हि देवतात्वेनात्र प्रतिपाद्यः । स च "वैश्वानरः “अग्निः “जायमानो “न “राजा प्रादुर्भवन् प्रवर्धमानः राजेव “ज्योतिषा तेजसा “तमांसि “अवातिरत् अवतिरतिर्वधकर्मा । अवतिरति विनाशयति ।


नाहं तंतुं॒ न वि जा॑ना॒म्योतुं॒ न यं वयं॑ति सम॒रेऽत॑मानाः ।

कस्य॑ स्वित्पु॒त्र इ॒ह वक्त्वा॑नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ॥२

न । अ॒हम् । तन्तु॑म् । न । वि । जा॒ना॒मि॒ । ओतु॑म् । न । यम् । वय॑न्ति । स॒म्ऽअ॒रे । अत॑मानाः ।

कस्य॑ । स्वि॒त् । पु॒त्रः । इ॒ह । वक्त्वा॑नि । प॒रः । व॒दा॒ति॒ । अव॑रेण । पि॒त्रा ॥

न । अहम् । तन्तुम् । न । वि । जानामि । ओतुम् । न । यम् । वयन्ति । सम्ऽअरे । अतमानाः ।

कस्य । स्वित् । पुत्रः । इह । वक्त्वानि । परः । वदाति । अवरेण । पित्रा ॥

वैश्वानरस्य महत्त्वमाख्यास्यन्नृषिस्तदर्थं यज्ञं वस्त्रात्मकतया रूपयन् तस्य दुर्ज्ञानत्वमनया प्रतिपादयतीति यज्ञवादिनो मन्यन्ते । “तन्तुम् । तन्तवः पटस्य प्रागायतानि सूत्राणि । तानि च यज्ञात्मकस्य वस्त्रस्य गायत्र्यादीनि छन्दांसि स्तुतशस्त्राणि च । तानि "अहं “न “वि “जानामि । तथा “ओतुम् । ओतवस्तिरश्चीनानि सूत्राणि । तानि चात्र यजूंष्याध्वर्यवाणि कर्माणि च । तान्यहं “न वि जानामि । अपि चैतदुभयसाध्यं तं पटं यज्ञलक्षणं “न वि जानामि “यं पटं यज्ञलक्षणं “समरे संगमने देवयजने “अतमानाः सततं चेष्टमाना ऋत्विजः “वयन्ति तन्तूनोतूंश्च संतन्वन्ति । वस्त्ररूपेण निष्पादयन्ति इत्यर्थः । “इह अस्मिन् लोके “कस्य “स्वित् । स्विदिति वितर्के । कस्य खलु “पुत्रः मनुष्यः “वक्त्वानि वक्तव्यानि तानीमानि “परः परस्तादमुष्मिन् लोके वर्तमानो यः सूर्यस्तस्य “पित्रा “अवरेण अवस्तात् अस्मिन् लोके वर्तमानेन वैश्वानराग्निनानुशिष्टः सन् “वदाति वदेत्। न कश्चिदपि प्रवदितुं शक्नोतीत्यर्थः । एतच्च संप्रदायविद्भिरुक्तं- वैश्वानरस्य पुत्रोऽसौ परस्ताद्दिवि यः स्थितः । छन्दांस्यध्वरवस्त्रस्य स्तुतशस्त्राणि तन्तवः ॥ यजूंषि चेष्टाश्चौतुः स्याद्वस्त्रं वातव्यमध्वरः । परः परः स्थितः सूर्यः पिताग्निः पार्थिवो मतः' इति ।। रूपकतया जगत्सृष्टेर्दुर्ज्ञानत्वमनया प्रतिपादयतीत्यात्मविदो मन्यन्ते । तन्तुं तन्तून् तन्तुस्थानानि सूक्ष्माणि वियदादीन्यपञ्चीकृतानि भूतानि न विजानामि । ओतुमोतून् पञ्चीकृतानि स्थूलान्योतुस्थानीयान्यपि वियदादीनि न विजानामि । न च तत्कार्यं पटस्थानीयं प्रपञ्चं विजानामि यं प्रपञ्चं समरे तन्तुनामोतूनां च संगमनेऽतमानाः सततं चेष्टमानाः संसारिणो वयन्ति उत्पादयन्ति । तेषां भोगार्थमीश्वरः सृजतीति कर्तृत्वमुपचर्यते । इहास्मिन्विषये परः परस्ताद्बुद्धेरविषये वर्तमानानि वक्त्वानि वक्तव्यानीमान्यवरेणार्वाचीनेन सृष्ट्युत्तरकालमुत्पन्नेन पित्रा स्वजनकेनानुशिष्टः सन् कस्य खलु पुत्रो वदाति । वदेत् । स्वोत्पत्तेः प्राचीनं वृत्तान्तमजानानः कश्चिदपि न वदेदित्यर्थः ॥


स इत्तंतुं॒ स वि जा॑ना॒त्योतुं॒ स वक्त्वा॑न्यृतु॒था व॑दाति ।

य ईं॒ चिके॑तद॒मृत॑स्य गो॒पा अ॒वश्चर॑न्प॒रो अ॒न्येन॒ पश्य॑न् ॥३

सः । इत् । तन्तु॑म् । सः । वि । जा॒ना॒ति॒ । ओतु॑म् । सः । वक्त्वा॑नि । ऋ॒तु॒ऽथा । व॒दा॒ति॒ ।

यः । ई॒म् । चिके॑तत् । अ॒मृत॑स्य । गो॒पाः । अ॒वः । चर॑न् । प॒रः । अ॒न्येन॑ । पश्य॑न् ॥

सः । इत् । तन्तुम् । सः । वि । जानाति । ओतुम् । सः । वक्त्वानि । ऋतुऽथा । वदाति ।

यः । ईम् । चिकेतत् । अमृतस्य । गोपाः । अवः । चरन् । परः । अन्येन । पश्यन् ॥

यद्यपि उक्तेन प्रकारेण दुर्ज्ञानानि तथाप्येतानि वैश्वानरोऽग्निः जानाति वदति चेत्यनया प्रतिपादयति। “स “इत् स एव वैश्वानरोऽग्निः “तन्तुं तन्तुस्थानीयानि गायत्र्यादीनि छन्दांसि स्तुतशस्त्राणि “वि “जानाति तथा “सः एव “ओतुम् ओतुस्थानीयानि यजूंष्याध्वर्यवाणि च कर्माणि वि जानाति । “ऋतुथा काले काले तत्तदनुष्ठानसमये “वक्त्वानि वक्तव्यानि च तानि “वदाति वदेत् । “यः अयं वैश्वानरः “अमृतस्य “गोपाः उदकस्य गोपायिता रक्षिता “अवः अवस्तात् भूलोके “चरन् पार्थिवाग्निरूपेण संचरन् “परः परस्ताद्दिवि “अन्येन सूर्यात्मना “पश्यन् सर्वं जगत् प्रकाशयन् “ईम् इमानि परिदृश्यमानानि सर्वाणि भूतानि “चिकेतत् जानाति स एवेति पूर्वत्र संबन्धः । यद्वा । स इत् स एव तन्तुं तन्तुस्थानीयानि सूक्ष्मभूतानि वि जानाति नान्यः कश्चित् । तथौतुमोतुस्थानीयानि स्थूलभूतानि च स एव वि जानाति । स एव वक्त्वानि वक्तव्यान्युपदेष्टव्यानीमान्यृतुथा काले काले यदा यदा विद्यासंप्रदायोच्छेदस्तदा तदा वदाति वदेत् । कोऽसौ यो विजानीयाद्वदेच्चेत्यत आह । यो वैश्वानरो विश्वनरात्मकः परमात्मामृतस्यामृतत्वस्य विमोक्षणस्य गोपा रक्षितावोऽवस्तात् संसारदशायां चरन् अन्तःकरणोपेतः जीवात्मभावेन संचरन् परः परस्तादविद्याया ऊर्ध्वं वर्तमानेनान्येनोक्तविलक्षणेन निरुपाधिकेन सच्चिदादिलक्षणेन रूपेण पश्यन् सर्वं जगत् प्रकाशयन् ईमिमानि चिकेतत् जानाति । तथा च परमात्मानं प्रकृत्य श्रूयते - तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' ( श्वे. उ. ६.१४ ) इति ॥


अ॒यं होता॑ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये॑षु ।

अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॒॑ वर्ध॑मानः ॥४

अ॒यम् । होता॑ । प्र॒थ॒मः । पश्य॑त । इ॒मम् । इ॒दम् । ज्योतिः॑ । अ॒मृत॑म् । मर्त्ये॑षु ।

अ॒यम् । सः । ज॒ज्ञे॒ । ध्रु॒वः । आ । निऽस॑त्तः । अम॑र्त्यः । त॒न्वा॑ । वर्ध॑मानः ॥

अयम् । होता । प्रथमः । पश्यत । इमम् । इदम् । ज्योतिः । अमृतम् । मर्त्येषु ।

अयम् । सः । जज्ञे । ध्रुवः । आ । निऽसत्तः । अमर्त्यः । तन्वा । वर्धमानः ॥

“अयं वैश्वानरोऽग्निः “प्रथमः आद्यः “होता । मानुषो हि होता द्वितीयः । हे मनुष्यास्तम् “इमं “पश्यत भजतेत्यर्थः । “मर्त्येषु मरणस्वभावेषु शरीरेषु “अमृतं मरणरहितम् “इदं वैश्वानराख्यं “ज्योतिः जठररूपेण वर्तत इत्यर्थः । अपि च “सः “अयम् अग्निः “ध्रुवः निश्चलः “आ समन्तात् "निषत्तः निषण्णः सर्वव्यापी अत एव “अमर्त्यः मरणरहितोऽपि “तन्वा शरीरेण संबन्धात् जज्ञे जायते । “वर्धमानः च भवतीति उपचर्यते ।।।


ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्वं॒तः ।

विश्वे॑ दे॒वाः सम॑नसः॒ सके॑ता॒ एकं॒ क्रतु॑म॒भि वि यं॑ति सा॒धु ॥५

ध्रु॒वम् । ज्योतिः॑ । निऽहि॑तम् । दृ॒शये॑ । कम् । मनः॑ । जवि॑ष्ठम् । प॒तय॑त्ऽसु । अ॒न्तरिति॑ ।

विश्वे॑ । दे॒वाः । सऽम॑नसः । सऽके॑ताः । एक॑म् । क्रतु॑म् । अ॒भि । वि । या॒न्ति॒ । सा॒धु ॥

ध्रुवम् । ज्योतिः । निऽहितम् । दृशये । कम् । मनः । जविष्ठम् । पतयत्ऽसु । अन्तरिति ।

विश्वे । देवाः । सऽमनसः । सऽकेताः । एकम् । क्रतुम् । अभि । वि । यान्ति । साधु ॥

“ध्रुवं निश्चलं “मनः मनसः तस्मादपि “जविष्ठम् अतिशयेन वेगवत् ईदृशं वैश्वानराख्यं “ज्योतिः “पतयत्सु गच्छत्सु जङ्गमेषु प्राणिषु “अन्तः मध्ये “निहितं प्रजापतिना स्थापितम् । किमर्थम् । “दृशये "कम् । दर्शनार्थम् । किंच “विश्वे सर्वे “देवाः च “समनसः समानमनस्काः “सकेताः समानप्रज्ञाश्च सन्तः “एकं मुख्यं गन्तारं वा “क्रतुं कर्मणां कर्तारं “साधु सम्यक “अभि “वि "यन्ति आभिमुख्येन विविधं प्राप्नुवन्ति सेवन्त इत्यर्थः । यद्वा । पतयत्सु गच्छत्सु प्राणिष्वन्तर्मध्ये हृदये मनो जविष्ठं मनसोऽप्यतिशयेन वेगयुक्तं ध्रुवं निश्चलं निर्विकल्पम् । तथा च वाजसनेयकम्-- अनेजदेकं मनसो जवीयः' (वा. सं. ४०. ४ ) इति । ज्योतिर्ब्रह्म चैतन्यं निहितम् । न केनचित् स्थापितम् । “यो वेद निहितं गुहायां परमे व्योमन' (तै. आ. ८. १ ) इति हि श्रूयते । किमर्थम् । दृशये दर्शनार्थम् । ज्ञानेन हि सर्वं जानन्ति । अपि च । दीव्यन्तीति देवा इन्द्रियाणि । विश्व सर्वे देवाः सर्वाणीन्द्रियाणि चक्षुराद्याः समनसो मनसा सह वर्तमानाः सकेताः सतेजस्काः सन्त एकमद्वितीय क्रतुं सृष्टयादीनां कर्मणां कर्तारं विश्वनरात्मकं परमात्मानमभिलक्ष्य साधु सम्यक् वि यन्ति विविधं गच्छन्ति । देवा एव वेममभि वि यन्ति । आभिमुख्येन विविधमुपयन्ति । उपासत इत्यर्थः । तथा च श्रूयते -- तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्' (बृ. उ. ४. ४. १६) इति ।।


वि मे॒ कर्णा॑ पतयतो॒ वि चक्षु॒र्वी॒३॒॑दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् ।

वि मे॒ मन॑श्चरति दू॒रआ॑धीः॒ किं स्वि॑द्व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ॥६

वि । मे॒ । कर्णा॑ । प॒त॒य॒तः॒ । वि । चक्षुः॑ । वि । इ॒दम् । ज्योतिः॑ । हृद॑ये । आऽहि॑तम् । यत् ।

वि । मे॒ । मनः॑ । च॒र॒ति॒ । दू॒रेऽआ॑धीः । किम् । स्वि॒त् । व॒क्ष्यामि॑ । किम् । ऊं॒ इति॑ । नु । म॒नि॒ष्ये॒ ॥

वि । मे । कर्णा । पतयतः । वि । चक्षुः । वि । इदम् । ज्योतिः । हृदये । आऽहितम् । यत् ।

वि । मे । मनः । चरति । दूरेऽआधीः । किम् । स्वित् । वक्ष्यामि । किम् । ऊं इति । नु । मनिष्ये ॥

वैश्वानरं श्रोतुकामस्य “मे मम “कर्णा कर्णौ “वि “पतयतः विविधं गच्छतः । श्रोतव्यानां तदीयगुणानां बहुत्वात् । तथा वैश्वानरं दिदृक्षमाणस्य मम “चक्षुः इन्द्रियं “वि पतयति विविधं गच्छति । दृष्टव्यानां तदीयरूपाणां बहुत्वात् । तथा “ज्योतिः प्रकाशकं हृदये हृदयपुण्डरीके “आहितं निहितं “यत् बुद्ध्याख्यं तत्त्वम् “इदमपि “वि पतयति विविधं गच्छति वैश्वानरात्मानं ज्ञातुम् । अपि च “दूरआधीः । दूरे विप्रकृष्टे विषय अधीराध्यानं यस्य तादृशम् । छान्दसो लिङ्गव्यत्ययः । “मे मदीयं “मनः च “वि “चरति विविधं प्रवर्तते । एवमहमहमिकया सर्वेष्विन्द्रियेषु प्रवृत्तेषु “किं “स्वित् अहं वैश्वानरस्य रूपमिति “वक्ष्यामि । “किमु “नु किमु खलु संप्रति “मनिष्ये मनसा प्रपत्स्ये । वैश्वानरस्य गुणानामनन्तत्वात् मन्दप्रज्ञेन मया ज्ञातुं न शक्यत इत्यर्थः ॥


विश्वे॑ दे॒वा अ॑नमस्यन्भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांसं॑ ।

वै॒श्वा॒न॒रो॑ऽवतू॒तये॒ नोऽम॑र्त्योऽवतू॒तये॑ नः ॥७

विश्वे॑ । दे॒वाः । अ॒न॒म॒स्य॒न् । भि॒या॒नाः । त्वाम् । अ॒ग्ने॒ । तम॑सि । त॒स्थि॒ऽवांस॑म् ।

वै॒श्वा॒न॒रः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ । अम॑र्त्यः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ ॥

विश्वे । देवाः । अनमस्यन् । भियानाः । त्वाम् । अग्ने । तमसि । तस्थिऽवांसम् ।

वैश्वानरः । अवतु । ऊतये । नः । अमर्त्यः । अवतु । ऊतये । नः ॥

हे वैश्वानर “तमसि अन्धकारे “तस्थिवांसं स्थितवन्तं “त्वां “विश्वे सर्वे “देवाः "अनमस्यन् नमस्कुर्वन्ति । कुतो हेतोः । “भियानाः अन्धकाराद्भीताः । तादृशः “अमर्त्यः मरणरहितः “वैश्वानरः अग्निः “नः अस्मान् “ऊतये ऊत्या रक्षणेन “अवतु रक्षतु । पुनरुक्तिरादरार्था ॥ ॥ ११ ॥

[सम्पाद्यताम्]


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.९&oldid=167533" इत्यस्माद् पुनः प्राप्तिः