ऋग्वेदः सूक्तं ६.४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.३ ऋग्वेदः - मण्डल ६
सूक्तं ६.४
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.५ →
दे. अग्निः। त्रिष्टुप्।


यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि ।
एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान् ॥१॥
स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात् ।
विश्वायुर्यो अमृतो मर्त्येषूषर्भुद्भूदतिथिर्जातवेदाः ॥२॥
द्यावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः ।
वि य इनोत्यजरः पावकोऽश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥३॥
वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम् ।
स त्वं न ऊर्जसन ऊर्जं धा राजेव जेरवृके क्षेष्यन्तः ॥४॥
नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून् ।
तुर्याम यस्त आदिशामरातीरत्यो न ह्रुतः पततः परिह्रुत् ॥५॥
आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा ।
चित्रो नयत्परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन् ॥६॥
त्वां हि मन्द्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने ।
इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥७॥
नू नो अग्नेऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्यंहः ।
ता सूरिभ्यो गृणते रासि सुम्नं मदेम शतहिमाः सुवीराः ॥८॥


सायणभाष्यम्

‘ यथा होतः' इत्यष्टर्चं चतुर्थं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम् । “यथा होतः' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।


यथा॑ होत॒र्मनु॑षो दे॒वता॑ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि ।

ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥१

यथा॑ । हो॒तः॒ । मनु॑षः । दे॒वऽता॑ता । य॒ज्ञेभिः॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यजा॑सि ।

ए॒व । नः॒ । अ॒द्य । स॒म॒ना । स॒मा॒नान् । उ॒शन् । अ॒ग्ने॒ । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥१

यथा । होतः । मनुषः । देवऽताता । यज्ञेभिः । सूनो इति । सहसः । यजासि ।

एव । नः । अद्य । समना । समानान् । उशन् । अग्ने । उशतः । यक्षि । देवान् ॥१

हे “होतः देवानामाह्वातः “सहसः “सूनो बलस्य पुत्राग्ने "यथा येन प्रकारेण “मनुषः मनोः प्रजापतेर्यजमानस्य “देवताता । यज्ञनामैतत् । देवतातौ यज्ञे “यज्ञेभिः यजमानसाधनैर्हविर्भिः "यजासि देवान् यजसि “एव' एवं' हे "अग्ने "नः अस्माकम् "अद्य अस्मिन् यज्ञे "समानान् त्वत्सद्दशानिन्द्रादीन “उशन् कामयमानस्त्वम् "उशतः कामयमानानु यष्टयान “देवान् "समना क्षिप्रं "यक्षि यज । यद्वा । समानं मन्यन्ते अस्मिन् देवानिति समनो यज्ञः । तस्मिन्निति योज्यम् ।।


स नो॑ वि॒भावा॑ च॒क्षणि॒र्न वस्तो॑र॒ग्निर्वं॒दारु॒ वेद्य॒श्चनो॑ धात् ।

वि॒श्वायु॒र्यो अ॒मृतो॒ मर्त्ये॑षूष॒र्भुद्भूदति॑थिर्जा॒तवे॑दाः ॥२

सः । नः॒ । वि॒भाऽवा॑ । च॒क्षणिः॑ । न । वस्तोः॑ । अ॒ग्निः । व॒न्दारु॑ । वेद्यः॑ । चनः॑ । धा॒त् ।

वि॒श्वऽआ॑युः । यः । अ॒मृतः॑ । मर्त्ये॑षु । उ॒षः॒ऽभुत् । भूत् । अति॑थिः । जा॒तऽवे॑दाः ॥२

सः । नः । विभाऽवा । चक्षणिः । न । वस्तोः । अग्निः । वन्दारु । वेद्यः । चनः । धात् ।

विश्वऽआयुः । यः । अमृतः । मर्त्येषु । उषःऽभुत् । भूत् । अतिथिः । जातऽवेदाः ॥२

"वस्तोः अहनि "चक्षणिर्न प्रकाशकः सूर्य इव "विभावा विशेषेण दीप्यमानः "वेद्यः सर्वैर्ज्ञातव्यो लम्भनीयो वा "सः “अग्निः "नः अस्मभ्यं "वन्दारु वन्दनीयं स्तुत्यं "चनः अन्नं “धात् दधातु प्रयच्छत्वित्यर्थः। "विश्वायुः सर्वान्नः सर्वेषां जीवनहेतुर्वा "अमृतः मरणरहितः “अतिथिः हविर्वहनाय सततगामी “जातवेदाः जातानां वेदिता जातधनो वा एवंभूतः "यः अग्निः "मर्त्येषु मनुष्येषु यजमानेषु "उषर्भुद्भूत् उषःकालेऽग्निहोत्रहोमार्थं प्रबुद्धो भवति स इति पूर्वत्रान्वयः ॥


द्यावो॒ न यस्य॑ प॒नयं॒त्यभ्वं॒ भासां॑सि वस्ते॒ सूर्यो॒ न शु॒क्रः ।

वि य इ॒नोत्य॒जरः॑ पाव॒कोऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥३

द्यावः॑ । न । यस्य॑ । प॒नय॑न्ति । अभ्व॑म् । भासां॑सि । व॒स्ते॒ । सूर्यः॑ । न । शु॒क्रः ।

वि । यः । इ॒नोति॑ । अ॒जरः॑ । पा॒व॒कः । अश्न॑स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि॑ ॥३

द्यावः । न । यस्य । पनयन्ति । अभ्वम् । भासांसि । वस्ते । सूर्यः । न । शुक्रः ।

वि । यः । इनोति । अजरः । पावकः । अश्नस्य । चित् । शिश्नथत् । पूर्व्याणि ॥३

“न इति संप्रत्यर्थे । उक्तं च- अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोगः' (निरु. ७. ३१ ) इति । “द्यावः स्तोतारः संप्रतीदानीं "यस्य अग्नेः "अभ्वं महत्कर्म “पनयन्ति स्तुवन्ति सोऽग्निः "सूर्यो "न सूर्य इव “शुक्रः शुक्लवर्णः सन् "भासांसि तेजांसि “वस्ते आच्छादयति । "यः च "अजरः जरारहितः “पावकः सर्वस्य शोधकोऽग्निः “वि “इनोति भासा सर्वं व्याप्नोति सोऽयम् "अश्नस्य “चित् व्यापनशीलस्यापि राक्षसादेः "पूर्व्याणि चिरंतनानि पुराणि “शिश्नथत् हिनस्ति । ' श्नथ क्नथ हिंसायाम् । इति धातुः ॥


व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्नं॑ ।

स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षे॑ष्यं॒तः ॥४

व॒द्मा । हि । सू॒नो॒ इति॑ । असि॑ । अ॒द्म॒ऽसद्वा॑ । च॒क्रे । अ॒ग्निः । ज॒नुषा॑ । अज्म॑ । अन्न॑म् ।

सः । त्वम् । नः॒ । ऊ॒र्ज॒ऽस॒ने॒ । ऊर्ज॑म् । धाः॒ । राजा॑ऽइव । जेः॒ । अ॒वृ॒के । क्षे॒षि॒ । अ॒न्तरिति॑ ॥४

वद्मा । हि । सूनो इति । असि । अद्मऽसद्वा । चक्रे । अग्निः । जनुषा । अज्म । अन्नम् ।

सः । त्वम् । नः । ऊर्जऽसने । ऊर्जम् । धाः । राजाऽइव । जेः । अवृके । क्षेषि । अन्तरिति ॥४

हे "सूनो सहसः पुत्र । यद्वा ‘षू प्रेरणे' । सर्वस्य प्रेरकाग्ने “वद्मा वदनीयः स्तुत्यः "असि “हि । परः पादः परोक्षकृतः । अद्मसद्वा अद्मसु अदनीयेषु हविःषु सीदन् हविःस्वीकरणायोपविशन् “अग्निः "जनुषा जन्मना स्वभावतः एव अज्म । गृहनामैतत् । गृहम् "अन्नं च यजमानानां “चक्रे करोति । “ऊर्जसने ऊर्जस्यान्नस्य दातरग्ने “नः अस्मभ्यं "सः तादृशः "त्वम् “ऊर्जम् अन्नं “धाः देहि । तथा "राजेव “जेः अस्मच्छत्रून् जय । एतत्सर्वार्थम् "अवृके राक्षसादिभिर्बाधकैर्वियुक्तेऽस्मदीयेऽग्न्यागारे "अन्तः मध्ये “क्षेषि निवस ॥


निति॑क्ति॒ यो वा॑र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये॑त्य॒क्तून् ।

तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा॑ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ॥५

निऽति॑क्ति । यः । वा॒र॒णम् । अन्न॑म् । अत्ति॑ । वा॒युः । न । राष्ट्री॑ । अति॑ । ए॒ति॒ । अ॒क्तून् ।

तु॒र्याम॑ । यः । ते॒ । आ॒ऽदिशा॑म् । अरा॑तीः । अत्यः॑ । न । ह्रुतः॑ । पत॑तः । प॒रि॒ऽह्रुत् ॥५

निऽतिक्ति । यः । वारणम् । अन्नम् । अत्ति । वायुः । न । राष्ट्री । अति । एति । अक्तून् ।

तुर्याम । यः । ते । आऽदिशाम् । अरातीः । अत्यः । न । ह्रुतः । पततः । परिऽह्रुत् ॥५

"यः अग्निः "वारणं तमसां निवारकं स्वकीयं तेजः "नितिक्ति निश्यति तीक्ष्णीकरोति । ‘ तिज निशाने' इति धातुः । यश्च "अन्नं यष्टृभिर्दीयमानं हविर्लक्षणम् "अत्ति भक्षयति । तथा च श्रूयते -- अन्नादो वा एषोऽन्नपतिर्यदग्निः' (ऐ. ब्रा. १. ८) इति। सोऽग्निः “वायुर्न वायुरिव "राष्ट्री । ईश्वरनामैतत् । राष्ट्रं राज्यम् । तद्वान् । वायुर्यथा स्वमाहात्म्येन सर्वमीष्टे तद्वत् । सर्वस्येश्वर इत्यर्थः । तादृशः सन् "अक्तून् रात्रीः "अत्येति अतिक्रामति । तद्गतमन्धकारं तिरस्करोतीत्यर्थः । वयं च त्वत्प्रसादात् “तुर्याम तं हिंस्याम "यः जनः “ते तुभ्यम् "आदिशाम् आदिश्यमानानां दीयमानानां हविषाम् "अरातीः अरातिरदाता । छान्दसो दीर्घः । यद्वा । अरातीर्धनस्य अदातॄन् ते त्वां प्रत्यादिशामादेष्टॄणामाचक्षाणानामस्माकं यो जनो विरोधी तं हिंस्याम । त्वं च "अत्यो "न शीघ्रगामी जात्यश्व इव “ह्रुतः हिंसकान् "पततः आभिमुख्येन गच्छतः शत्रून् “परिह्रुत् परिगत्य हन्ता भव ॥ ह्वरतेर्हिंसार्थस्यैतद्रूपम् ॥ ॥५॥


आ सूर्यो॒ न भा॑नु॒मद्भि॑र॒र्कैरग्ने॑ त॒तंथ॒ रोद॑सी॒ वि भा॒सा ।

चि॒त्रो न॑य॒त्परि॒ तमां॑स्य॒क्तः शो॒चिषा॒ पत्म॑न्नौशि॒जो न दीय॑न् ॥६

आ । सूर्यः॑ । न । भा॒नु॒मत्ऽभिः॑ । अ॒र्कैः । अग्ने॑ । त॒तन्थ॑ । रोद॑सी॒ इति॑ । वि । भा॒सा ।

चि॒त्रः । न॒य॒त् । परि॑ । तमां॑सि । अ॒क्तः । शो॒चिषा॑ । पत्म॑न् । औ॒शि॒जः । न । दीय॑न् ॥६

आ । सूर्यः । न । भानुमत्ऽभिः । अर्कैः । अग्ने । ततन्थ । रोदसी इति । वि । भासा ।

चित्रः । नयत् । परि । तमांसि । अक्तः । शोचिषा । पत्मन् । औशिजः । न । दीयन् ॥६

हे “अग्ने रोदसी द्यावापृथिव्यौ भासा दीप्त्या “वि “आ “ततन्थ विशेषणाच्छादयसि । सत्र दृष्टान्तः। “भानुमद्भिः प्रभवद्भिः अर्कैः अर्कनीयैः किरणैः सूर्यो “न । यथा सूर्य आतनोति तद्वत् । परोऽर्धर्चः परोक्षकृतः । पत्मन् । पतत्यस्मिन्निति पत्म मार्गः । तस्मिन औशिजो न । उशिजः स्तोतारः । स्तुत्यतया तत्संबन्ध्यौशिजः सूर्यः । स इव "दीयन् गच्छन् "शोचिषा तेजसा “अक्तः संश्लिष्टः अत एव “चित्रः चायनीयोऽग्निः “तमांसि नैशन्यन्धकाराणि "परि “णयत् परिणयति परितो गमयति । सर्वस्मादपि दिग्भागान्निवर्तयतीत्यर्थः ॥


त्वां हि मं॒द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने ।

इंद्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णंति॒ राध॑सा॒ नृत॑माः ॥७

त्वाम् । हि । म॒न्द्रऽत॑मम् । अ॒र्क॒ऽशो॒कैः । व॒वृ॒महे॑ । महि॑ । नः॒ । श्रोषि॑ । अ॒ग्ने॒ ।

इन्द्र॑म् । न । त्वा॒ । शव॑सा । दे॒वता॑ । वा॒युम् । पृ॒ण॒न्ति॒ । राध॑सा । नृऽत॑माः ॥७

त्वाम् । हि । मन्द्रऽतमम् । अर्कऽशोकैः । ववृमहे । महि । नः । श्रोषि । अग्ने ।

इन्द्रम् । न । त्वा । शवसा । देवता । वायुम् । पृणन्ति । राधसा । नृऽतमाः ॥७

हे “अग्ने मन्द्रतमं स्तुत्यतमं “त्वाम् अर्कशोकैः अर्चनीयैः पूजनीयैः शोकैर्दीप्तिभिर्युक्तं "हि यस्मात् "ववृमहे वृणीमहे संभजामहे । यद्वा । अर्कशोकैरर्चनीयैः प्रशस्यैर्दीप्तिकरणैः स्तोत्रैः साधनभूतैस्त्वां संभजामहे तस्मात् "महि महत् "नः अस्मदीयं स्तोत्रं “श्रोषि शृणु । हे अग्ने "नृतमाः स्तुतीनां नेतृतमा ऋत्विजः “शवसा बलेन "वायुं गन्तारम् । यद्वा । वायुमिव शवसा युक्तम् "इन्द्रं "न इन्द्रमिव “देवता देवतात्मानं त्वां "राधसा हविर्लक्षणेन धनेन “पृणन्ति प्रीणयन्ति । देवताशब्दात् द्वितीयायाः ‘सुपां सुलुक्' इति लुक् ॥


नू नो॑ अग्नेऽवृ॒केभिः॑ स्व॒स्ति वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑ ।

ता सू॒रिभ्यो॑ गृण॒ते रा॑सि सु॒म्नं मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥८

नु । नः॒ । अ॒ग्ने॒ । अ॒वृ॒केभिः॑ । स्व॒स्ति । वेषि॑ । रा॒यः । प॒थिऽभिः॑ । पर्षि॑ । अंहः॑ ।

ता । सू॒रिऽभ्यः॑ । गृ॒ण॒ते । रा॒सि॒ । सु॒म्नम् । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥८

नु । नः । अग्ने । अवृकेभिः । स्वस्ति । वेषि । रायः । पथिऽभिः । पर्षि । अंहः ।

ता । सूरिऽभ्यः । गृणते । रासि । सुम्नम् । मदेम । शतऽहिमाः । सुऽवीराः ॥८

हे "अग्ने “नः अस्मान् "अवृकेभिः । वृकाः स्तेनाः । तद्रहितैः "पथिभिः मार्गैः "रायः धनानि “नु क्षिप्रं "स्वस्ति क्षेमेण "वेषि गमय प्रापय । “अंहः अंहसः पापात् "पर्षि । उक्तलक्षणैर्मार्गैः पारय चास्मान् । यानि त्वया "सूरिभ्यः स्तोतृभ्यो देयानि सुम्नानि “ता तानि “सुम्नं सुम्नानि सुखानि “गृणते स्तुवते मह्यं "रासि देहि । वयं च "शतहिमाः शतं हेमन्तान् संवत्सरान् "सुवीराः । वीर्याज्जायन्त इति वीराः पुत्रादयः । शोभनपुत्रपौत्रादिसहिताः सन्तः "मदेम हृष्याम ॥ ॥ ६ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.४&oldid=209199" इत्यस्माद् पुनः प्राप्तिः