सामग्री पर जाएँ

ऋग्वेदः सूक्तं ६.३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ६.३ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ६.२ ऋग्वेदः - मण्डल ६
सूक्तं ६.३
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.४ →
दे. अग्निः। त्रिष्टुप्।


अग्ने स क्षेषदृतपा ऋतेजा उरु ज्योतिर्नशते देवयुष्टे ।
यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तमंहः ॥१॥
ईजे यज्ञेभिः शशमे शमीभिरृधद्वारायाग्नये ददाश ।
एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न प्रदृप्तिः ॥२॥
सूरो न यस्य दृशतिररेपा भीमा यदेति शुचतस्त आ धीः ।
हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद्रण्वो वसतिर्वनेजाः ॥३॥
तिग्मं चिदेम महि वर्पो अस्य भसदश्वो न यमसान आसा ।
विजेहमानः परशुर्न जिह्वां द्रविर्न द्रावयति दारु धक्षत् ॥४॥
स इदस्तेव प्रति धादसिष्यञ्छिशीत तेजोऽयसो न धाराम् ।
चित्रध्रजतिररतिर्यो अक्तोर्वेर्न द्रुषद्वा रघुपत्मजंहाः ॥५॥
स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः ।
नक्तं य ईमरुषो यो दिवा नॄनमर्त्यो अरुषो यो दिवा नॄन् ॥६॥
दिवो न यस्य विधतो नवीनोद्वृषा रुक्ष ओषधीषु नूनोत् ।
घृणा न यो ध्रजसा पत्मना यन्ना रोदसी वसुना दं सुपत्नी ॥७॥
धायोभिर्वा यो युज्येभिरर्कैर्विद्युन्न दविद्योत्स्वेभिः शुष्मैः ।
शर्धो वा यो मरुतां ततक्ष ऋभुर्न त्वेषो रभसानो अद्यौत् ॥८॥

सायणभाष्यम्

‘ अग्ने स क्षेषत्' इत्यष्टर्चं तृतीयं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम् । अनुक्रान्तं च----‘अग्नेऽष्टौ' इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥


अग्ने॒ स क्षे॑षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति॑र्नशते देव॒युष्टे॑ ।

यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ॥१

अग्ने॑ । सः । क्षे॒ष॒त् । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः । उ॒रु । ज्योतिः॑ । न॒श॒ते॒ । दे॒व॒ऽयुः । ते॒ ।

यम् । त्वम् । मि॒त्रेण॑ । वरु॑णः । स॒ऽजोषाः॑ । देव॑ । पासि॑ । त्यज॑सा । मर्त॑म् । अंहः॑ ॥१

अग्ने । सः । क्षेषत् । ऋतऽपाः । ऋतेऽजाः । उरु । ज्योतिः । नशते । देवऽयुः । ते ।

यम् । त्वम् । मित्रेण । वरुणः । सऽजोषाः । देव । पासि । त्यजसा । मर्तम् । अंहः ॥१

हे अग्ने “सः यजमानः “क्षेषत् क्षियति निवसति । चिरकालं जीवेदित्यर्थः । कीदृशो यजमानः । “ऋतपाः ऋतस्य यज्ञस्य पालकः “ऋतेजाः यज्ञनिमित्तं जातः । उषित्वा च “ते त्वदीयं “देवयुः देवानात्मन इच्छन् स यजमानः “उरु विस्तीर्णं “ज्योतिः सूर्याख्यं “नशते प्राप्नोति । हे “देव द्योतमानाग्ने “यं “मर्तं मनुष्यं यजमानं “मित्रेण “वरुणः । तृतीयार्थे प्रथमा । वरुणेन च “सजोषाः सह प्रीयमाणः “त्वं “त्यजसा त्याजनसाधनेनायुधेन “अंहः अंहसः पापात् "पासि रक्षसि स यजमानः इति पूर्वत्र संबन्धः ।।


ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी॑भिर्ऋ॒धद्वा॑राया॒ग्नये॑ ददाश ।

ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं॑ नशते॒ न प्रदृ॑प्तिः ॥२

ई॒जे । य॒ज्ञेभिः॑ । श॒श॒मे । शमी॑भिः । ऋ॒धत्ऽवा॑राय । अ॒ग्नये॑ । द॒दा॒श॒ ।

ए॒व । च॒न । तम् । य॒शसा॑म् । अजु॑ष्टिः । न । अंहः॑ । मर्त॑म् । न॒श॒ते॒ । न । प्रऽदृ॑प्तिः ॥२

ईजे । यज्ञेभिः । शशमे । शमीभिः । ऋधत्ऽवाराय । अग्नये । ददाश ।

एव । चन । तम् । यशसाम् । अजुष्टिः । न । अंहः । मर्तम् । नशते । न । प्रऽदृप्तिः ॥२

यः यजमानः “ऋधद्वाराय ऋधत्समृद्धं वारं वरणीयं धनं यस्य तादृशाय “अग्नये “ददाश हवींषि ददाति स यजमानः “यज्ञेभिः सवैर्यज्ञैः “ईजे इष्टवान् भवति । तथा “शमीभिः कर्मभिः कृच्छ्रचान्द्रायणादिभिः “शशमे शान्तश्च भवति । आग्नेयेन यागेन सर्वं फलं लभत इत्यर्थः। अपि च “तं यजमानं “यशसां यशस्विनां पुत्राणाम् “अजुष्टिः अप्राप्तिः न “एव “नशते नैव प्राप्नोति । पुत्रवान् भवत्येवेत्यर्थः । तथा “मर्तं मनुष्यं तम् “अंहः पापं “न नशते । तथा “प्रदृप्तिः अनर्थहेतुः प्रदर्पश्च तं “न प्राप्नोति ।।


सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः ।

हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा॑ चिद्र॒ण्वो व॑स॒तिर्व॑ने॒जाः ॥३

सूरः॑ । न । यस्य॑ । दृ॒श॒तिः । अ॒रे॒पाः । भी॒मा । यत् । एति॑ । शु॒च॒तः । ते॒ । आ । धीः ।

हेष॑स्वतः । शु॒रुधः॑ । न । अ॒यम् । अ॒क्तोः । कुत्र॑ । चि॒त् । र॒ण्वः । व॒स॒तिः । व॒ने॒ऽजाः ॥३

सूरः । न । यस्य । दृशतिः । अरेपाः । भीमा । यत् । एति । शुचतः । ते । आ । धीः ।

हेषस्वतः । शुरुधः । न । अयम् । अक्तोः । कुत्र । चित् । रण्वः । वसतिः । वनेऽजाः ॥३

“सूरो “न सूर्यस्येव “यस्य अग्नेः “दृशतिः दर्शनम् "अरेपाः पापरहितम् । हे अग्ने “यत् यस्य “ते तव “शुचतः ज्वलतः “धीः धारयित्री ज्वाला “भीमा भयंकरा सती “आ समन्तात् “एति गच्छति । यः "अयम् अग्निः “हेषस्वतः शब्दयुक्ता: “शुरुधो “न शुचः शोकस्य रोधयित्रीर्गाश्च “अक्तोः । अक्तुरिति रात्रिनाम । तेन च तंत्र संचारी राक्षसादिर्लक्ष्यते । राक्षसादेः स्वभूता ददातीति शेषः । सोऽयं “वसतिः सर्वेषामावासभूतः “वनेजाः अरण्ये जायमानः “कुत्रा “चित् क्वचिदेव स्थाने पर्वताग्रादौ रण्वः रमणीयो भवति ॥


ति॒ग्मं चि॒देम॒ महि॒ वर्पो॑ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा ।

वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा॑वयति॒ दारु॒ धक्ष॑त् ॥४

ति॒ग्मम् । चि॒त् । एम॑ । महि॑ । वर्पः॑ । अ॒स्य॒ । भस॑त् । अश्वः॑ । न । य॒म॒सा॒नः । आ॒सा ।

वि॒ऽजेह॑मानः । प॒र॒शुः । न । जि॒ह्वाम् । द्र॒विः । न । द्र॒व॒य॒ति॒ । दारु॑ । धक्ष॑त् ॥४

तिग्मम् । चित् । एम । महि । वर्पः । अस्य । भसत् । अश्वः । न । यमसानः । आसा ।

विऽजेहमानः । परशुः । न । जिह्वाम् । द्रविः । न । द्रवयति । दारु । धक्षत् ॥४

“अस्य अग्नेः “एम गमनसाधनभूतो मार्गः “तिग्मं तीक्ष्णं स्प्रष्टुमशक्यत्वात् । अस्य च "वर्पः रूपं “महि महत् प्रभूतं “भसत् दीप्यते ॥ ' भस भर्स्।नदीप्त्योः' इति धातुः । कीदृशोऽग्निः । “अश्वो “न अश्व इव “आसा आस्येन “यमसानः तृणादिकं नियच्छन् । तथा “परशुर्न । यथा परशुः स्वकीयां धारां काष्ठे प्रक्षिपति तथा स्वकीयां “जिह्वां ज्वालां “विजेहमानः तरुगुल्मादौ प्रक्षिपन् । तथा “दारु काष्ठं “धक्षत् दहन् “द्रविर्न। द्राविर्राथावयिता स्वर्णकारः। स यथा स्वर्णादिकं द्रावयति तथा सर्वं वनं “द्रावयति । मूर्तभूतं सर्वं भस्मसात्करोतीत्यर्थः ।।


स इदस्ते॑व॒ प्रति॑ धादसि॒ष्यंछिशी॑त॒ तेजोऽय॑सो॒ न धारां॑ ।

चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा॑ रघु॒पत्म॑जंहाः ॥५

सः । इत् । अस्ता॑ऽइव । प्रति॑ । धा॒त् । अ॒सि॒ष्यन् । शिशी॑त । तेजः॑ । अय॑सः । न । धारा॑म् ।

चि॒त्रऽध्र॑जतिः । अ॒र॒तिः । यः । अ॒क्तोः । वेः । न । द्रु॒ऽसद्वा॑ । र॒घु॒पत्म॑ऽजंहाः ॥५

सः । इत् । अस्ताऽइव । प्रति । धात् । असिष्यन् । शिशीत । तेजः । अयसः । न । धाराम् ।

चित्रऽध्रजतिः । अरतिः । यः । अक्तोः । वेः । न । द्रुऽसद्वा । रघुपत्मऽजंहाः ॥५

“स “इत् स खल्वग्निः “अस्तेव बाणादेः क्षेप्तेव “प्रति “धात् स्वकीयज्वालां प्रतिधत्ते । यथा धन्वी लक्ष्याभिमुख्येन बाणं संधत्ते तथा ज्वालां संधत्त इत्यर्थः । प्रतिधाय च “असिष्यन् ज्वालां प्रक्षेप्स्यन् "तेजः स्वकीयं “शिशीत निश्यति तीक्ष्णीकरोति । तत्र दृष्टान्तः । “अयसो “न “धाराम् । यथा अयोमयस्य परश्वादेर्धारां प्रक्षेप्तुकामस्तीक्ष्णीकरोति तद्वत् । तीक्ष्णीकृत्य च “चित्रध्रजतिः विचित्रगतिः “अक्तोः रात्रेः “अरतिः अभिगन्ता "वेर्न पक्षीव “द्रुषद्वा वृक्षेषु सीदन् “रघुपत्मजंहाः लघुपतनसमर्थपादः । एवंभूतः सन् “यः अग्निर्वर्तते स इति पूर्वत्रान्वयः ॥ ॥ ३ ॥


स ईं॑ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा॑ रारपीति मि॒त्रम॑हाः ।

नक्तं॒ य ई॑मरु॒षो यो दिवा॒ नॄनम॑र्त्यो अरु॒षो यो दिवा॒ नॄन् ॥६

सः । ई॒म् । रे॒भः । न । प्रति॑ । व॒स्ते॒ । उ॒स्राः । शो॒चिषा॑ । र॒र॒पी॒ति॒ । मि॒त्रऽम॑हाः ।

नक्त॑म् । यः । ई॒म् । अ॒रु॒षः । यः । दिवा॑ । नॄन् । अम॑र्त्यः । अ॒रु॒षः । यः । दिवा॑ । नॄन् ॥६

सः । ईम् । रेभः । न । प्रति । वस्ते । उस्राः । शोचिषा । ररपीति । मित्रऽमहाः ।

नक्तम् । यः । ईम् । अरुषः । यः । दिवा । नॄन् । अमर्त्यः । अरुषः । यः । दिवा । नॄन् ॥६

“स “ईं सोऽयमग्निः “रेभो “न स्तुत्यः सूर्य इव “उस्राः दीप्ता ज्वालाः “प्रति “वस्ते आच्छादयति । तथा “मित्रमहाः सर्वेषामनुकूलप्रकाशः सन् “शोचिषा तेजसा “रारपीति भृशं शब्दं करोति । “यः “ईं योऽयमग्निः “नक्तं रात्रौ “अरुषः आरोचमानः सन् “दिवा अहनीव “नॄन् मनुष्यान् स्वस्वकार्ये प्रेरयति । पुनर्यच्छब्दः पूरकः । तथा “अमर्त्यः अमरणधर्मा “अरुषः आरोचमानो रोषरहितो वा “यः अग्निः “दिवा द्योतमानेन तेजसा “नॄन् नेतॄनात्मीयान् रश्मीन् प्रेरयति स इति पूर्वत्र संबन्धः । यद्वा । नक्तं रात्रौ योऽयमग्निररुष आरोचमानो यश्च मरणरहितोऽग्निर्दिवा अह्नि नॄन् नेतॄन् देवान् हविर्भिः संयोजयति । यः दिवा नॄनिति पुनरुक्तिरादरार्था ।


दि॒वो न यस्य॑ विध॒तो नवी॑नो॒द्वृषा॑ रु॒क्ष ओष॑धीषु नूनोत् ।

घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी॑ ॥७

दि॒वः । न । यस्य॑ । वि॒ध॒तः । नवी॑नोत् । वृषा॑ । रु॒क्षः । ओष॑धीषु । नू॒नो॒त् ।

घृणा॑ । न । यः । ध्रज॑सा । पत्म॑ना । यन् । आ । रोद॑सी॒ इति॑ । वसु॑ना । दम् । सु॒पत्नी॒ इति॑ सु॒ऽपत्नी॑ ॥७

दिवः । न । यस्य । विधतः । नवीनोत् । वृषा । रुक्षः । ओषधीषु । नूनोत् ।

घृणा । न । यः । ध्रजसा । पत्मना । यन् । आ । रोदसी इति । वसुना । दम् । सुपत्नी इति सुऽपत्नी ॥७

“दिवो “न दीप्तस्य सूर्यस्येव “विधतः विधातू रश्मीकुर्वतः “यस्य अग्नेः “नवीनोत् भृशं शब्दोऽभूत् । एतदेव व्याचष्टे । “वृषा कामानां वर्षिता “रुक्षः दीप्तः सोऽग्निः “ओषधीषु दह्यमानासु "नूनोत् भृशं शब्दमकरोत् । “यः च “घृणा “न संचलनशीलेन दीप्तेनेव “ध्रजसा गमनशीलेन तेजसा “पत्मना इतस्तत उत्पतता “यन् गच्छन् वर्तते सोऽग्निः “दम् अस्मच्छत्रून् दमयन् “सुपत्नी शोभनपतिके “रोदसी द्यावापृथिव्यौ "वसुना धनेन “आ पूरयति ।


धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः॑ ।

शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ॥८

धायः॑ऽभिः । वा॒ । यः । युज्ये॑भिः । अ॒र्कैः । वि॒ऽद्युत् । न । द॒वि॒द्यो॒त् । स्वेभिः॑ । शुष्मैः॑ ।

शर्धः॑ । वा॒ । यः । म॒रुता॑म् । त॒तक्ष॑ । ऋ॒भुः । न । त्वे॒षः । र॒भ॒सा॒नः । अ॒द्यौ॒त् ॥८

धायःऽभिः । वा । यः । युज्येभिः । अर्कैः । विऽद्युत् । न । दविद्योत् । स्वेभिः । शुष्मैः ।

शर्धः । वा । यः । मरुताम् । ततक्ष । ऋभुः । न । त्वेषः । रभसानः । अद्यौत् ॥८

“यः अग्निः “धायोभिर्वा धारकैरश्वैरिव "युज्येभिः युज्यैः स्वयमेव युज्यमानैः “अर्कैः अर्चनीयैः दीप्तिभिर्गच्छति सोऽग्निः “विद्युन्न विद्युदिव “स्वेभिः स्वकीयैः “शुष्मैः शोषकैस्तेजोभिः "दविद्योत् विद्योतते । “यः च "मरुताम् एतत्संज्ञकानां देवानां “शर्धो “वा बलमिव “ततक्ष तनूकरोति सर्वं तीक्ष्णीकरोति । शोषयतीति यावत् । सोऽयम् “ऋभुर्न उरु भासमानः सूर्य इव “त्वेषः दीप्तः “रभसानः वेगं कुर्वन् “अद्यौत् विद्योतते प्रकाशते ॥ ॥ ४ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.३&oldid=209198" इत्यस्माद् प्रतिप्राप्तम्