ऋग्वेदः सूक्तं ६.४८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.४७ ऋग्वेदः - मण्डल ६
सूक्तं ६.४८
शंयुर्बार्हस्पत्यः (तृणपाणिः)
सूक्तं ६.४९ →
दे. १-१० अग्निः, ११-१५, २०-२१ मरुतः (१३-१५ लिंगोक्ता वा), १६-१९ पूषा, २२ द्यवाभूमी वा पृश्निर्वा। प्रगाथः - ( ), - - - - -
यज्ञायज्ञीयम्


यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।
प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥१॥
ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये ।
भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् ॥२॥
वृषा ह्यग्ने अजरो महान्विभास्यर्चिषा ।
अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि ॥३॥
महो देवान्यजसि यक्ष्यानुषक्तव क्रत्वोत दंसना ।
अर्वाचः सीं कृणुह्यग्नेऽवसे रास्व वाजोत वंस्व ॥४॥
यमापो अद्रयो वना गर्भमृतस्य पिप्रति ।
सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि ॥५॥
आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि ।
तिरस्तमो ददृश ऊर्म्यास्वा श्यावास्वरुषो वृषा श्यावा अरुषो वृषा ॥६॥
बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा ।
भरद्वाजे समिधानो यविष्ठ्य रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥७॥
विश्वासां गृहपतिर्विशामसि त्वमग्ने मानुषीणाम् ।
शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमा स्तोतृभ्यो ये च ददति ॥८॥
त्वं नश्चित्र ऊत्या वसो राधांसि चोदय ।
अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥९॥
पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः ।
अग्ने हेळांसि दैव्या युयोधि नोऽदेवानि ह्वरांसि च ॥१०॥
आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः ।
सृजध्वमनपस्फुराम् ॥११॥
या शर्धाय मारुताय स्वभानवे श्रवोऽमृत्यु धुक्षत ।
या मृळीके मरुतां तुराणां या सुम्नैरेवयावरी ॥१२॥
भरद्वाजायाव धुक्षत द्विता ।
धेनुं च विश्वदोहसमिषं च विश्वभोजसम् ॥१३॥
तं व इन्द्रं न सुक्रतुं वरुणमिव मायिनम् ।
अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे ॥१४॥
त्वेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता ।
सं सहस्रा कारिषच्चर्षणिभ्य आँ आविर्गूळ्हा वसू करत्सुवेदा नो वसू करत् ॥१५॥
आ मा पूषन्नुप द्रव शंसिषं नु ते अपिकर्ण आघृणे ।
अघा अर्यो अरातयः ॥१६॥
मा काकम्बीरमुद्वृहो वनस्पतिमशस्तीर्वि हि नीनशः ।
मोत सूरो अह एवा चन ग्रीवा आदधते वेः ॥१७॥
दृतेरिव तेऽवृकमस्तु सख्यम् ।
अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ॥१८॥
परो हि मर्त्यैरसि समो देवैरुत श्रिया ।
अभि ख्यः पूषन्पृतनासु नस्त्वमवा नूनं यथा पुरा ॥१९॥
वामी वामस्य धूतयः प्रणीतिरस्तु सूनृता ।
देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः ॥२०॥
सद्यश्चिद्यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः ।
त्वेषं शवो दधिरे नाम यज्ञियं मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः ॥२१॥
सकृद्ध द्यौरजायत सकृद्भूमिरजायत ।
पृश्न्या दुग्धं सकृत्पयस्तदन्यो नानु जायते ॥२२॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथाष्टमोऽध्याय आरभ्यते । षष्ठमण्डलस्य चतुर्थेऽनुवाके चत्वारि सूक्तानि व्याख्यातानि । ‘ यज्ञायज्ञा' इति द्वाविंशत्यृचं पञ्चमं सूक्तं बृहस्पतिपुत्रस्य शंयोरार्षम् । अत्रानुक्रम्यते -- ‘यज्ञायज्ञा द्वयधिका शंयुस्तृणपाणिकं पृश्निसूक्तं प्रगाथौ बृहती महासतोबृहती महाबार्हतबार्हतौ प्रगाथावित्याग्नेय्यः काकुभः प्रगाथः पुरउष्णिग्बृहत्यतिजगतीति मारुत्योऽन्त्यास्तिस्रो वासां लिङ्गोक्तदेवताः काकुभः प्रगाथः पुरउष्णिग्बृहतीति पौष्ण्यो बृहती महाबृहती यवमध्यान्त्यानुष्टुप् द्यावाभूम्योर्वा पृश्नेर्वा' इति । ‘ यज्ञायज्ञा वः' इत्येषा बृहती ।“ तृतीयो द्वादशकः' इति तल्लक्षणसद्भावात् । द्वितीया सतोबृहती । ‘ अयुजौ जागतौ सतोबृहती' इत्युक्तलक्षणोपेतत्वात् । तृतीयाचतुथ्यौं बृहतीसतोबृहत्यौ पञ्चमी बृहती षष्ठी महासतोबृहती । अष्टाक्षरास्त्रयः पादा द्वादशाक्षरौ द्वौ पादौ सा महासतोबृहती । सप्तमी महाबृहती । अष्टाक्षराश्चत्वारः पादा एको द्वादशाक्षरः सा महाबृहती । अष्टमी महासतोबृहती । अष्टिनस्त्रयो द्वौ जागतौ सा महासतोबृहती । नवमी बृहती दशमी सतोबृहती । एता दश अग्निदेवत्याः । एकादशी ककुप् । मध्यमो यदि द्वादशाक्षर उभयतोऽष्टकौ द्वौ पादौ सा ककुप् । द्वादशी सतोबृहती त्रयोदशी पुरउष्णिक् । आद्यो जागतो द्वितीयतृतीयौ गायत्रौ सा पुरउष्णिक् । चतुर्दशी बृहती पञ्चदशी अतिजगती द्वापञ्चाशदक्षरा । एकादश्याद्याः पञ्च मरुद्देवताकाः । त्रयोदश्यादीनां तिसृणां लिङ्गोक्ता इन्द्रादयो वा देवताः । षोड्शी ककुप् सप्तदशी सतोबृहती अष्टादशी पुरउष्णिक् एकोनविंशी बृहती । षोडश्यादीनां चतसृणां पूषा देवता । विंशी बृहती एकविंशी यवमध्या महाबृहती । आद्यौ द्वावष्टकौ तृतीयो द्वादशकश्चतुर्थपञ्चमावष्टकौ सा यवमध्या महाबृहती । विंश्येकविंश्योः ‘ पृश्निसूक्तम् इत्युक्तत्वात् मरुतां माता पृश्निर्देवता । द्वाविंशी अनुष्टुप् । सा चापि पृश्निदेवत्या द्यावाभूमिदेवत्या वा । सूक्तविनियोगो लैङ्गिकः । आग्निमारुते यज्ञायज्ञा वः' इत्ययं स्तोत्रियप्रगाथः । सूत्रितं च -- यज्ञायज्ञो वो अग्नये देवो वो द्रविणोदा इति प्रगाथौ स्तोत्रियानुरूपौ' (आश्व. श्रौ. ५. २०) इति ॥


य॒ज्ञाय॑ज्ञा वो अ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से ।

प्रप्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न शं॑सिषं ॥१

य॒ज्ञाऽय॑ज्ञा । वः॒ । अ॒ग्नये॑ । गि॒राऽगि॑रा । च॒ । दक्ष॑से ।

प्रऽप्र॑ । व॒यम् । अ॒मृत॑म् । जा॒तऽवे॑दसम् । प्रि॒यम् । मि॒त्रम् । न । शं॒सि॒ष॒म् ॥१

यज्ञाऽयज्ञा । वः । अग्नये । गिराऽगिरा । च । दक्षसे ।

प्रऽप्र । वयम् । अमृतम् । जातऽवेदसम् । प्रियम् । मित्रम् । न । शंसिषम् ॥१

हे स्तोतार: “वः यूयं “यज्ञायज्ञा यज्ञेयज्ञे सर्वेषु यागेषु “दक्षसे प्रवृद्धाय “अग्नये “गिरागिरा स्तुतिरूपया वाचावाचा स्तोत्रं कुरुतेति शेषः । चशब्दो भिन्नक्रमो व इत्यस्मात् परो द्रष्टव्यः । यूयं च स्तोत्रं कुरुत । “वयम् अपि तमग्निं “प्र “शंसिषम् ॥ ‘ प्रसमुपोद: पादपूरणे' इति प्रशब्दस्य द्विरुक्तिः पादपूरणार्था । व्यत्ययेनैकवचनम् । छान्दसो लुङ् ॥ प्रशंसाम । कीदृशम् । “अमृतं मरणरहितं “जातवेदसं जातानां वेदितारं जातप्रज्ञं जातधनं वा “मित्रं “न सखिभूतमिव “प्रियम् अनुकूलम् ॥ यद्वा । व्यत्ययेन त्वमित्यस्य वसादेशः । अग्नये इति च कर्मणि चतुर्थी । क्रियाग्रहणमपि कर्तव्यमिति कर्मणः संप्रदानत्वात् । चशब्दः ‘चण्' इति निपातश्चेदर्थे वर्तते । दक्षसे इति च दक्षेर्वृद्धिकर्मणोऽन्तर्भावितण्यर्थात् लटि रूपम् । चणा योगात् ' निपातैर्यद्यदिहन्त' इति निघातप्रतिषेधः ॥ तत्रायमर्थः । हे स्तोतस्त्वं यज्ञेयज्ञे इममग्निं गिरागिरा स्तुत्या दक्षसे च वर्धयसि चेत् वयमपि अमृतत्वादिगुणकं तं प्रशंसाम ॥


ऊ॒र्जो नपा॑तं॒ स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये ।

भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूनां॑ ॥२

ऊ॒र्जः । नपा॑तम् । सः । हि॒न । अ॒यम् । अ॒स्म॒ऽयुः । दाशे॑म । ह॒व्यऽदा॑तये ।

भुव॑त् । वाजे॑षु । अ॒वि॒ता । भुव॑त् । वृ॒धः । उ॒त । त्रा॒ता । त॒नूना॑म् ॥२

ऊर्जः । नपातम् । सः । हिन । अयम् । अस्मऽयुः । दाशेम । हव्यऽदातये ।

भुवत् । वाजेषु । अविता । भुवत् । वृधः । उत । त्राता । तनूनाम् ॥२

“ऊर्जः अन्नस्य बलस्य वा “नपातं पुत्रं प्र शंसिषमित्यनुषङ्गात् प्रशंसामेत्यर्थः । “हिन इति निपातद्वयसमुदायो हीत्यस्यार्थे । “सः खलु “अयम् अग्निः “अस्मयुः अस्मान् कामयमानो भवति । वयं च “हव्यदातये हव्यानां हविषां देवेभ्यो दात्रे तस्मा अग्नये “दाशेम हवींषि दद्याम् । स चाग्निः “वाजेषु संग्रामेषु “अविता रक्षिता “वृधः वर्धकश्चास्माकं “भुवत् भवतु । “उत अपि च “तनूनां तनयानामस्मत्पुत्राणां च “त्राता रक्षिता भवतु ॥


वृषा॒ ह्य॑ग्ने अ॒जरो॑ म॒हान्वि॒भास्य॒र्चिषा॑ ।

अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी॑दिहि ॥३

वृषा॑ । हि । अ॒ग्ने॒ । अ॒जरः॑ । म॒हान् । वि॒ऽभासि॑ । अ॒र्चिषा॑ ।

अज॑स्रेण । शो॒चिषा॑ । शोशु॑चत् । शु॒चे॒ । सु॒दी॒तिऽभिः॑ । सु । दी॒दि॒हि॒ ॥३

वृषा । हि । अग्ने । अजरः । महान् । विऽभासि । अर्चिषा ।

अजस्रेण । शोचिषा । शोशुचत् । शुचे । सुदीतिऽभिः । सु । दीदिहि ॥३

हे “अग्ने “वृषा वर्षिता कामानां वृष्टेः कर्ता वा “अजरः जरारहितः “महान् गुणैरधिकः एवंभूतस्त्वम् “अर्चिषा दीप्त्या “विभासि “हि विशेषेण प्रकाशसे खलु । हे “शुचे दीप्ताग्ने “अजस्रेण अविच्छिन्नेन “शोचिषा तेजसा “शोशुचत् भृशं दीप्यमानस्त्वं “सुदीतिभिः सुदीप्तिभिः “सु “दीदिहि सुष्ठु अस्मान् दीपय । प्रकाशय ॥


म॒हो दे॒वान्यज॑सि॒ यक्ष्या॑नु॒षक्तव॒ क्रत्वो॒त दं॒सना॑ ।

अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं॑स्व ॥४

म॒हः । दे॒वान् । यज॑सि । यक्षि॑ । आ॒नु॒षक् । तव॑ । क्रत्वा॑ । उ॒त । दं॒सना॑ ।

अ॒र्वाचः॑ । सी॒म् । कृ॒णु॒हि॒ । अ॒ग्ने॒ । अव॑से । रास्व॑ । वाजा॑ । उ॒त । वं॒स्व॒ ॥४

महः । देवान् । यजसि । यक्षि । आनुषक् । तव । क्रत्वा । उत । दंसना ।

अर्वाचः । सीम् । कृणुहि । अग्ने । अवसे । रास्व । वाजा । उत । वंस्व ॥४

हे “अग्ने त्वं “महः महतः "देवान् “यजसि । यजमानानां यज्ञे हविर्भिः पूजयसि । अतोऽस्माकमपि यज्ञे “आनुषक् अनुषक्तं संततं यथा भवति तथा “यक्षि तान् देवान् यज । तदर्थं “तव “क्रत्वा प्रज्ञया “उत अपि च "दंसना कर्मणा च । “सीम् इति परिग्रहार्थीयः । तान् सर्वान् देवान् “अर्वाचः अस्मदभिमुखान् “कृणुहि कुरु "अवसे अस्मद्रक्षणार्थम् । तथा “वाजा वाजान् हविर्लक्षणान्यन्नानि "रास्व । तेभ्यो देवेभ्यो देहि । "उत अपि च त्वमपि “वंस्व । तुभ्यं प्रत्तानि हवींषि संभजस्व ॥


यमापो॒ अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति ।

सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभिः॑ पृथि॒व्या अधि॒ सान॑वि ॥५

यम् । आपः॑ । अद्र॑यः । वना॑ । गर्भ॑म् । ऋ॒तस्य॑ । पिप्र॑ति ।

सह॑सा । यः । म॒थि॒तः । जाय॑ते । नृऽभिः॑ । पृ॒थि॒व्याः । अधि॑ । सान॑वि ॥५

यम् । आपः । अद्रयः । वना । गर्भम् । ऋतस्य । पिप्रति ।

सहसा । यः । मथितः । जायते । नृऽभिः । पृथिव्याः । अधि । सानवि ॥५

“आपः वसतीवर्याख्याः “अद्रयः ग्रावाणः "वना वनानि काष्ठानि च “ऋतस्य यज्ञस्योदकस्य वा “गर्भं गर्भवदन्तर्वर्तमानं “यम् अग्निं “पिप्रति पूरयन्ति । यद्वा । आपः समुद्रिया अद्रयो मेघा वनान्यरण्यानि च ऋतस्य गर्भं वाडववैद्युतदावरूपेण वर्तमानं यमग्निं पिप्रति पूरयन्ति । “यः चाग्निः “नृभिः नेतृभिर्ऋत्विग्भिः “सहसा बलेन “मथितः सन् “पृथिव्या “अधि भूमेरुपरि “सानवि समुच्छ्रिते उत्कृष्टे देवयजनदेशे “जायते प्रादुर्भवति स त्वं वंस्वेत्यन्वयः । यद्वा । ‘ यः पप्रौ' इत्यनया संबन्धः ॥ ॥ १ ॥


आ यः प॒प्रौ भा॒नुना॒ रोद॑सी उ॒भे धू॒मेन॑ धावते दि॒वि ।

ति॒रस्तमो॑ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा अ॑रु॒षो वृषा॑ ॥६

आ । यः । प॒प्रौ । भा॒नुना॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । धू॒मेन॑ । धा॒व॒ते॒ । दि॒वि ।

ति॒रः । तमः॑ । द॒दृ॒शे॒ । ऊर्म्या॑सु । आ । श्या॒वासु॑ । अ॒रु॒षः । वृषा॑ । आ । श्या॒वाः । अ॒रु॒षः । वृषा॑ ॥६

आ । यः । पप्रौ । भानुना । रोदसी इति । उभे इति । धूमेन । धावते । दिवि ।

तिरः । तमः । ददृशे । ऊर्म्यासु । आ । श्यावासु । अरुषः । वृषा । आ । श्यावाः । अरुषः । वृषा ॥६

"यः अग्निः “भानुना दीप्त्या “उभे “रोदसी द्यावापृथिव्यौ “आ “पप्रौ आपूरयति सः “धूमेन “दिवि अन्तरिक्षे “धावते गच्छति । धूमो हि मेघात्मना परिणतः सन् अन्तरिक्षे गच्छति । कार्यकारणयोरभेदविवक्षया तद्गमनमग्नावुपचर्यते । अपि चायम् "अरुषः आरोचमानः “वृषा वर्षिता कामानामेवंगुणकोऽग्निः “श्यावासु श्याववर्णासु कृष्णासु “ऊर्म्यासु । रात्रिनामैतत् । निशासु “तमः अन्धकारं तिरस्कृत्य “आ समन्तात् “ददृशे दृश्यते । “श्यावाः श्याववर्णा रात्रीश्च “आ तिष्ठति । “अरुषो “वृषा इति पुनरुक्तिरादरार्था पादपूरणार्था वा।।


बृ॒हद्भि॑रग्ने अ॒र्चिभिः॑ शु॒क्रेण॑ देव शो॒चिषा॑ ।

भ॒रद्वा॑जे समिधा॒नो य॑विष्ठ्य रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥७

बृ॒हत्ऽभिः॑ । अ॒ग्ने॒ । अ॒र्चिऽभिः॑ । शु॒क्रेण॑ । दे॒व॒ । शो॒चिषा॑ ।

भ॒रत्ऽवा॑जे । स॒म्ऽइ॒धा॒नः । य॒वि॒ष्ठ्य॒ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥७

बृहत्ऽभिः । अग्ने । अर्चिऽभिः । शुक्रेण । देव । शोचिषा ।

भरत्ऽवाजे । सम्ऽइधानः । यविष्ठ्य । रेवत् । नः । शुक्र । दीदिहि । द्युऽमत् । पावक । दीदिहि ॥७

हे “देव दानादिगुणयुक्त “यविष्ठ्य युवतम “शुक्र दीप्त “अग्ने “शुक्रेण निर्मलेन “शोचिषा तेजसा “भरद्वाजे अस्मद्भ्रातरि “समिधानः समिध्यमानस्त्वं “बृहद्भिः महद्भिः “अर्चिभिः तेजोभिः “नः अस्मदर्थं "रेवत् धनयुक्तं यथा भवति तथा “दीदिहि दीप्यस्व । तथा “पावक हे शोधकाग्ने “द्युमत् द्योतमानेन च युक्तं यथा भवति तथा “दीदिहि दीप्यस्व ॥


विश्वा॑सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणां ।

श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं॑ श॒तं हिमाः॑ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ॥८

विश्वा॑साम् । गृ॒हऽप॑तिः । वि॒शाम् । असि॑ । त्वम् । अ॒ग्ने॒ । मानु॑षीणाम् ।

श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ॒ । पा॒हि॒ । अंह॑सः । स॒म्ऽए॒द्धार॑म् । श॒तम् । हिमाः॑ । स्तो॒तृऽभ्यः॑ । ये । च॒ । दद॑ति ॥८

विश्वासाम् । गृहऽपतिः । विशाम् । असि । त्वम् । अग्ने । मानुषीणाम् ।

शतम् । पूःऽभिः । यविष्ठ । पाहि । अंहसः । सम्ऽएद्धारम् । शतम् । हिमाः । स्तोतृऽभ्यः । ये । च । ददति ॥८

हे “अग्ने “त्वं “मानुषीणां मनोरपत्यभूतानां “विश्वासां सर्वासां “विशां प्रजानां “गृहपतिः “असि गृहस्वामी भवसि । हे "यविष्ठ युवतमाग्ने अतस्त्वं “शतं "हिमाः शतं हेमन्तान् संवत्सरान् “समेद्धारं त्वां सम्यगिद्धं कृतवन्तं मां “शतं शतेन शतसंख्याकैः “पूर्भिः पालनैः “अंहसः पापात् आहन्तुः शत्रोर्वा "पाहि रक्ष । “ये “च “स्तोतृभ्यः “ददति धनं तव समिन्धनस्य कर्तरि प्रयच्छन्ति तांश्च पाहि ॥


वाजपेये आग्निमारुते त्वं नश्चित्र इति प्रगाथः स्तोत्रियः। चित्रवतीषु चेत्स्तुवीरंस्त्वं नश्चित्र ऊत्याग्ने विवस्वदुषस इत्यग्निष्टोमसाम्नः स्तोत्रियानुरूपौ ( आश्व. श्रौ. ९.९ ) इति हि सूत्रितम्

त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां॑सि चोदय ।

अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑ ॥९

त्वम् । नः॒ । चि॒त्रः । ऊ॒त्या । वसो॒ इति॑ । राधां॑सि । चो॒द॒य॒ ।

अ॒स्य । रा॒यः । त्वम् । अ॒ग्ने॒ । र॒थीः । अ॒सि॒ । वि॒दाः । गा॒धम् । तु॒चे । तु । नः॒ ॥९

त्वम् । नः । चित्रः । ऊत्या । वसो इति । राधांसि । चोदय ।

अस्य । रायः । त्वम् । अग्ने । रथीः । असि । विदाः । गाधम् । तुचे । तु । नः ॥९

हे “वसो वासक “अग्ने “चित्रः दर्शनीयः “त्वम् “ऊत्या रक्षया सह “राधांसि धनानि “नः अस्मभ्यं “चोदय प्रेरय । “अस्य सर्वत्र लोके परिदृश्यमानस्य “रायः धनस्य “त्वं रथीरसि रंहिता नेता भवसि । अतः कारणात् अस्मभ्यं धनानि प्रेरयेत्यर्थः । अपि च “नः अस्माकं “तुचे । अपत्यनामैतत् । अपत्यायापतनहेतुभूताय पुत्रादये “गाधं प्रतिष्ठां “तु क्षिप्रं “विदाः लम्भय ॥


पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः ।

अग्ने॒ हेळां॑सि॒ दैव्या॑ युयोधि॒ नोऽदे॑वानि॒ ह्वरां॑सि च ॥१०

पर्षि॑ । तो॒कम् । तन॑यम् । प॒र्तृऽभिः॑ । त्वम् । अद॑ब्धैः । अप्र॑युत्वऽभिः ।

अग्ने॑ । हेळां॑सि । दैव्या॑ । यु॒यो॒धि॒ । नः॒ । अदे॑वानि । ह्वरां॑सि । च॒ ॥१०

पर्षि । तोकम् । तनयम् । पर्तृऽभिः । त्वम् । अदब्धैः । अप्रयुत्वऽभिः ।

अग्ने । हेळांसि । दैव्या । युयोधि । नः । अदेवानि । ह्वरांसि । च ॥१०

हे “अग्ने “त्वम् “अदब्धैः केनाप्यहिंसितैः “अप्रयुत्वभिः । यौतिरत्र पृथग्भावार्थः । अपृथग्भूतैः संहतैः “पर्तृभिः पालनसाधनैः “तोकं पुत्रं “तनयं पौत्रं च "पर्षि पालय । "दैव्या देवसंबन्धीनि च “हेळांसि क्रोधान् “नः अस्मत्तः “युयोधि पृथक्कुरु । “अदेवानि मनुष्यसंबन्धीनि “च "ह्वरांसि हिंसनानि चास्मत्तः पृथक्कुरु ॥ ॥ २ ॥


आ स॑खायः सब॒र्दुघां॑ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑ ।

सृ॒जध्व॒मन॑पस्फुरां ॥११

आ । स॒खा॒यः॒ । स॒बः॒ऽदुघा॑म् । धे॒नुम् । अ॒ज॒ध्व॒म् । उप॑ । नव्य॑सा । वचः॑ ।

सृ॒जध्व॑म् । अन॑पऽस्फुराम् ॥११

आ । सखायः । सबःऽदुघाम् । धेनुम् । अजध्वम् । उप । नव्यसा । वचः ।

सृजध्वम् । अनपऽस्फुराम् ॥११

हे “सखायः समानख्याना अध्वर्यवः “सबर्दुघाम् । सबरिति पयसो नाम । अमरणहेतुभूतस्य पयसो दोग्ध्रीं “धेनुं गाम् “आ “अजध्वम् अभिगच्छत । प्राप्नुत । केन साधनेन । "नव्यसा नवीयसा नवतरेण “वचः वचसाह्वानरूपेण शब्देन । तदनन्तरम् "अनपस्फुराम् । स्फुरतिर्वधकर्मा । अनपबाध्यां तां धेनुम् “उप "सृजध्वम् । वत्सेनोपसृष्टां कुरुत । मरुद्देवत्यत्वात् मरुतां यागाय पयो दोग्धुमिति शेषः । अथवा मरुतां माता पृश्न्याख्या माध्यमिका वाक् धेनुः । हे सखायः स्तोतारः सबर्दुघां मरुज्जनहेतुभूतस्य पयसो दोग्ध्रीं धेनुं पृश्निं नव्यसा नवतरेण वचसा स्तोत्रेणोपाजध्वम् उपागच्छत । अनपस्फुरामनपबाधनीयां तां सृजध्वम् । बन्धनात् विसृजत । मुञ्चत । ईदृशी महती धेनुर्मरुतां माता किमु वक्तव्यं तेषां माहात्म्यमिति मरुत्स्तुतिः ॥


या शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त ।

या मृ॑ळी॒के म॒रुतां॑ तु॒राणां॒ या सु॒म्नैरे॑व॒याव॑री ॥१२

या । शर्धा॑य । मारु॑ताय । स्वऽभा॑नवे । श्रवः॑ । अमृ॑त्यु । धुक्ष॑त ।

या । मृ॒ळी॒के । म॒रुता॑म् । तु॒राणा॑म् । या । सु॒म्नैः । ए॒व॒ऽयाव॑री ॥१२

या । शर्धाय । मारुताय । स्वऽभानवे । श्रवः । अमृत्यु । धुक्षत ।

या । मृळीके । मरुताम् । तुराणाम् । या । सुम्नैः । एवऽयावरी ॥१२

"या धेनुः "अमृत्यु अमरणहेतु “श्रवः अन्नं पयोलक्षणं “मारुताय मरुत्संघाय “धुक्षत अधुक्षत् । कीदृशाय । “शर्धाय प्रसहनशीलाय “स्वभानवे स्वायत्तदीप्तये । “या च “तुराणां क्षिप्रकारिणां “मरुतां “मृळीके सुखे तत्परा वर्तते । "या च "सुम्नैः सुखैर्हेतुभूतैः “एवयावरी एवैर्गन्तृभिरश्वैर्मध्यमस्थानैरुदकैर्वा सह यान्ती अन्येषामपि सुखार्थं वृष्टिजलैः सहागच्छन्ती तां धेनुमुपाजध्वमिति पूर्वत्रान्वयः । अत्रापि पूर्ववत् मरुत्स्तुतिरधिगन्तव्या ।।


भ॒रद्वा॑जा॒याव॑ धुक्षत द्वि॒ता ।

धे॒नुं च॑ वि॒श्वदो॑हस॒मिषं॑ च वि॒श्वभो॑जसं ॥१३

भ॒रत्ऽवा॑जाय । अव॑ । धु॒क्ष॒त॒ । द्वि॒ता ।

धे॒नुम् । च॒ । वि॒श्वऽदो॑हसम् । इष॑म् । च॒ । वि॒श्वऽभो॑जसम् ॥१३

भरत्ऽवाजाय । अव । धुक्षत । द्विता ।

धेनुम् । च । विश्वऽदोहसम् । इषम् । च । विश्वऽभोजसम् ॥१३

हे मरुतः “भरद्वाजाय अस्मद्भ्रात्रे “द्विता द्वितयम् अव “धुक्षत । किं तत् द्वितयम् । “धेनुं “च गां च “इषं “च अन्नं च । कीदृशीं धेनुम् । “विश्वदोहसं विश्वस्य व्याप्तस्य बहुलस्य दोग्ध्रीम् । कीदृशमन्नम् । “विश्वभोजसं सर्वेषां भोगपर्याप्तम् ॥


तं व॒ इंद्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिनं॑ ।

अ॒र्य॒मणं॒ न मं॒द्रं सृ॒प्रभो॑जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे॑ ॥१४

तम् । वः॒ । इन्द्र॑म् । न । सु॒ऽक्रतु॑म् । वरु॑णम्ऽइव । मा॒यिन॑म् ।

अ॒र्य॒मण॑म् । न । म॒न्द्रम् । सृ॒प्रऽभो॑जसम् । विष्णु॑म् । न । स्तु॒षे॒ । आ॒ऽदिशे॑ ॥१४

तम् । वः । इन्द्रम् । न । सुऽक्रतुम् । वरुणम्ऽइव । मायिनम् ।

अर्यमणम् । न । मन्द्रम् । सृप्रऽभोजसम् । विष्णुम् । न । स्तुषे । आऽदिशे ॥१४

हे मरुद्गण “तं तादृशं “वः त्वां “स्तुषे स्तौमि । किमर्थम् । “आदिशे आदेशनाय धनानामतिसर्जनाय प्रदानाय । कीदृशं त्वाम् । “इन्द्रं न इन्द्रमिव “सुक्रतुं सुकर्माणं “वरुणमिव “मायिनं मायावन्तं प्रज्ञावन्तम् “अर्यमणं “न अर्यमणमिव मन्द्रं स्तुत्यं “विष्णुं “न विष्णुमिव “सृप्रभोजसं प्रसृप्तधनम् । यदा त्वस्या लिङ्गोक्तदेवतास्तदानीं नेवशब्दौ चशब्दार्थे द्रष्टव्यौ ।


त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं॑ पू॒षणं॒ सं यथा॑ श॒ता ।

सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ आ॒विर्गू॒ळ्हा वसू॑ करत्सु॒वेदा॑ नो॒ वसू॑ करत् ॥१५

त्वे॒षम् । शर्धः॑ । न । मारु॑तम् । तु॒वि॒ऽस्वनि॑ । अ॒न॒र्वाण॑म् । पू॒षण॑म् । सम् । यथा॑ । श॒ता ।

सम् । स॒हस्रा॑ । कारि॑षत् । च॒र्ष॒णिऽभ्यः॑ । आ । आ॒विः । गू॒ळ्हा । वसु॑ । क॒र॒त् । सु॒ऽवेदा॑ । नः॒ । वसु॑ । क॒र॒त् ॥१५

त्वेषम् । शर्धः । न । मारुतम् । तुविऽस्वनि । अनर्वाणम् । पूषणम् । सम् । यथा । शता ।

सम् । सहस्रा । कारिषत् । चर्षणिऽभ्यः । आ । आविः । गूळ्हा । वसु । करत् । सुऽवेदा । नः । वसु । करत् ॥१५

नेति संप्रत्यर्थे । “न संप्रति इदानीं “त्वेषं दीप्तं “तुविष्वणि बहुस्वनम् “अनर्वाणम् अप्रत्यृतं शत्रुभिरनभिगतं “पूषणं पोषकं “मारुतं मरुत्संघरूपमीदृशं “शर्धः बलं स्तौमीति शेषः । स च मरुद्गणः “यथा येन प्रकारेण “शता शतसंख्याकानि धनानि “सं सहैव “चर्षणिभ्यः मनुष्येभ्योऽस्मभ्यं “कारिषत् कुर्यात् । आकारः समुच्चये । यथा वा “सहस्रा सहस्रसंख्याकानि धनानि च “सं सहैव कारिषत् कुर्यात् तथा स्तौमीति पूर्वत्रान्वयः । अपि च स मरुद्गणः “गूळ्हा गूढानि संवृतानि “वसु वसूनि धनानि "आविः “करत् अस्मभ्यमाविष्करोतु । तथा “वसु वसूनि धनानि "सुवेदा सुलभानि च “नः अस्माकं “करत् करोतु । यदा तु लिङ्गादियं पौष्णी तदा मारुतं शर्ध इव त्वेषं पूषणं पोषकमेतत्संज्ञं देवं स्तौमीति योजनीयम् ॥


आ मा॑ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते॑ अपिक॒र्ण आ॑घृणे ।

अ॒घा अ॒र्यो अरा॑तयः ॥१६

आ । मा॒ । पू॒ष॒न् । उप॑ । द्र॒व॒ । शंसि॑षम् । नु । ते॒ । अ॒पि॒ऽक॒र्णे । आ॒घृ॒णे॒ ।

अ॒घाः । अ॒र्यः । अरा॑तयः ॥१६

आ । मा । पूषन् । उप । द्रव । शंसिषम् । नु । ते । अपिऽकर्णे । आघृणे ।

अघाः । अर्यः । अरातयः ॥१६

हे पूषन् “मा माम् “आ “द्रव रक्षणार्थमभिगच्छ । हे “आघृणे आगतदीप्ते “अघाः आहन्त्रीः “अर्यः अरीरभिगन्त्रीः “अरातयः शत्रुभूताः प्रजाः “उप द्रव बाधस्व ॥ उपपूर्वो द्रवतिः बाधायां वर्तते । यथा “प्रजां पशून्यजमानस्योप दोद्राव' ( तै. सं. १. ५. १. ४ ) इति ॥ अहं च “ते तव अपिकर्णे कर्णावपिगते समीपदेशे स्थितः सन् नु क्षिप्रं “शंसिषं प्रशंसामि ॥ ॥ ३ ॥


मा का॑कं॒बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः ।

मोत सूरो॒ अह॑ ए॒वा च॒न ग्री॒वा आ॒दध॑ते॒ वेः ॥१७

मा । का॒क॒म्बीर॑म् । उत् । वृ॒हः॒ । वन॒स्पति॑म् । अश॑स्तीः । वि । हि । नीन॑शः ।

मा । उ॒त । सूरः॑ । अह॒रिति॑ । ए॒व । च॒न । ग्री॒वाः । आ॒ऽदध॑ते । वेरिति॒ वेः ॥१७

मा । काकम्बीरम् । उत् । वृहः । वनस्पतिम् । अशस्तीः । वि । हि । नीनशः ।

मा । उत । सूरः । अहरिति । एव । चन । ग्रीवाः । आऽदधते । वेरिति वेः ॥१७

ऋषिः पुत्रपौत्रसहितमात्मानं बहुपक्ष्याश्रयवनस्पतित्वेन रूपयन् तस्यानुद्धारमाशास्ते । हे पूषन् “काकम्बीरं काकानां भर्तारं “वनस्पतिं वृक्षं “मा “उद्वृहः उद्धर । मा बाधस्व । पुत्रपौत्रादिभिः सखीभूतैरुपेतमन्यैश्च बहुभिराश्रितं मां मा हिंसीरित्यर्थः । हिशब्दश्चार्थे । “अशस्तीः अशंसनीया अशंसनीयस्य दुःखस्य कीर्तयित्रीर्वा शत्रुभूताः प्रजाः “वि “नीनशः “हि विनाशय च । "उत अपि च “सूरः प्रेरकः शत्रुः “एव एवं “मा “अहः अस्मान् मा हार्षीत् ॥ एवमित्यभिसंबन्धात् आख्यातस्योदात्तवत्त्वाच्च अश्रुतोऽपि यथेत्येतद्वाक्ये अध्याह्रियते ॥ “ग्रीवाः । गिरन्त्यन्तरवस्थापयन्ति बध्नन्तीति ग्रीवा दामानि । यथा व्याधाः "वेः पक्षिणो हरणार्थं ग्रीवा दामानि जालरूपाणि "आदधते भूम्यां निदधते तैश्च निहितैः पक्षिणो हरन्ति एवमस्मान् बन्धनोपायैः शत्रुर्मा हार्षीदित्यर्थः ॥


दृते॑रिव तेऽवृ॒कम॑स्तु स॒ख्यं ।

अच्छि॑द्रस्य दध॒न्वतः॒ सुपू॑र्णस्य दध॒न्वतः॑ ॥१८

दृतेः॑ऽइव । ते॒ । अ॒वृ॒कम् । अ॒स्तु॒ । स॒ख्यम् ।

अच्छि॑द्रस्य । द॒ध॒न्ऽवतः॑ । सुऽपू॑र्णस्य । द॒ध॒न्ऽवतः॑ ॥१८

दृतेःऽइव । ते । अवृकम् । अस्तु । सख्यम् ।

अच्छिद्रस्य । दधन्ऽवतः । सुऽपूर्णस्य । दधन्ऽवतः ॥१८

हे पूषन् “ते तव “सख्यं सखित्वम् “अवृकं बाधकरहितं सर्वदा ऐकरूप्येण वर्तमानमस्माकम् “अस्तु सर्वदा भवतु । “दृतेरिव । यथा दृतेस्त्वदीयं सख्यमविच्छिन्नं तद्वत् । कीदृशो दृतिः । “अच्छिद्रस्य छिद्ररहितस्य संश्लिष्टस्य “दधन्वतः दधिमतः “सुपूर्णस्य दध्ना सुष्ठु पूरितस्य । पुनर्दधन्वत इति दध्नोऽधिकत्वद्योतनार्थः । ईदृशो दृतिः सर्वदा पूष्णो रथे वर्तते । स इव वयमपि तव सखायो भवेमेत्यृषिराशास्ते ॥


प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या ।

अ॒भि ख्यः॑ पूष॒न्पृत॑नासु न॒स्त्वमवा॑ नू॒नं यथा॑ पु॒रा ॥१९

प॒रः । हि । मर्त्यैः॑ । असि॑ । स॒मः । दे॒वैः । उ॒त । श्रि॒या ।

अ॒भि । ख्यः॒ । पू॒ष॒न् । पृत॑नासु । नः॒ । त्वम् । अव॑ । नू॒नम् । यथा॑ । पु॒रा ॥१९

परः । हि । मर्त्यैः । असि । समः । देवैः । उत । श्रिया ।

अभि । ख्यः । पूषन् । पृतनासु । नः । त्वम् । अव । नूनम् । यथा । पुरा ॥१९

हे “पूषन् “मर्त्यैः मर्त्येभ्यो मनुष्येभ्यः “परः परस्तात् स्थितः “असि । “श्रिया संपदा “देवैरुत सर्वैर्देवैश्च “समः समानोऽसि । अतः “त्वं “पृतनासु संग्रामेषु “नः अस्मान् “अभि “ख्यः अभिपश्य अनुग्रहदृष्ट्या विलोकय । "यथा “पुरा येन प्रकारेण पूर्वकालीनान् पुरुषान् ररक्षिथ एवं "नूनम् अद्येदानीम् “अव अस्मान् रक्ष ॥


वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी॑तिरस्तु सू॒नृता॑ ।

दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ॥२०

वा॒मी । वा॒मस्य॑ । धू॒त॒यः॒ । प्रऽनी॑तिः । अ॒स्तु॒ । सू॒नृता॑ ।

दे॒वस्य॑ । वा॒ । म॒रु॒तः॒ । मर्त्य॑स्य । वा॒ । ई॒जा॒नस्य॑ । प्र॒ऽय॒ज्य॒वः॒ ॥२०

वामी । वामस्य । धूतयः । प्रऽनीतिः । अस्तु । सूनृता ।

देवस्य । वा । मरुतः । मर्त्यस्य । वा । ईजानस्य । प्रऽयज्यवः ॥२०

हे “धूतयः कम्पयितारः “प्रयज्यवः प्रकर्षेण यष्टव्याः “मरुतः सा “सूनृता प्रियसत्यात्मिका माध्यमिका युष्मदीया वाक् “प्रणीतिरस्तु । अस्मदर्थं धनानां प्रणेत्री भवतु । "देवस्य “वा “मर्त्यस्य मनुष्यस्य “वा “ईजानस्य इष्टवतः उभयविधस्य पुरुषस्य “वामी प्रशस्ता या वाक् “वामस्य वननीयस्य धनस्य प्रणीतिः प्रणेत्री सा सूनृतेत्यन्वयः। प्रणीतिरस्त्वस्मदर्थम् ॥


स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्यः॑ ।

त्वे॒षं शवो॑ दधिरे॒ नाम॑ य॒ज्ञियं॑ म॒रुतो॑ वृत्र॒हं शवो॒ ज्येष्ठं॑ वृत्र॒हं शवः॑ ॥२१

स॒द्यः । चि॒त् । यस्य॑ । च॒र्कृ॒तिः । परि॑ । द्याम् । दे॒वः । न । एति॑ । सूर्यः॑ ।

त्वे॒षम् । शवः॑ । द॒धि॒रे॒ । नाम॑ । य॒ज्ञिय॑म् । म॒रुतः॑ । वृत्र॒ऽहम् । शवः॑ । ज्येष्ठ॑म् । वृत्र॒ऽहम् । शवः॑ ॥२१

सद्यः । चित् । यस्य । चर्कृतिः । परि । द्याम् । देवः । न । एति । सूर्यः ।

त्वेषम् । शवः । दधिरे । नाम । यज्ञियम् । मरुतः । वृत्रऽहम् । शवः । ज्येष्ठम् । वृत्रऽहम् । शवः ॥२१

“यस्य च मरुद्गणस्य “चर्कृतिः कर्म “सद्यश्चित् सद्य एव “द्यां “परि “एति परिगच्छति दिव्यन्तरिक्षे परितो वर्तते "देवो “न देवो द्योतमानः “सूर्यः इव तादृशगणात्मका: “मरुतः “त्वेषं दीप्तं “नाम शत्रूणां नमयितृ “यज्ञियं यज्ञार्हं “शवः बलं “दधिरे अधारयन्। तच्च “शवः बलं वृत्रहं वृत्रादेरसुरस्य हन्तृ भवति । तच्च “वृत्रहं “शवः “ज्येष्ठं सर्वेभ्यः प्रशस्ततमं भवति ॥


स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत ।

पृश्न्या॑ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ॥२२

स॒कृत् । ह॒ । द्यौः । अ॒जा॒य॒त॒ । स॒कृत् । भूमिः॑ । अ॒जा॒य॒त॒ ।

पृश्न्याः॑ । दु॒ग्धम् । स॒कृत् । पयः॑ । तत् । अ॒न्यः । न । अनु॑ । जा॒य॒ते॒ ॥२२

सकृत् । ह । द्यौः । अजायत । सकृत् । भूमिः । अजायत ।

पृश्न्याः । दुग्धम् । सकृत् । पयः । तत् । अन्यः । न । अनु । जायते ॥२२

“सकृद्ध सकृदेव “द्यौरजायत उदपद्यत । सकृदुत्पन्नैव स्थिता भवति । न पुनस्तस्यां नष्टायामन्या तत्सदृशी द्यौर्जायते । “भूमिः च “सकृत् एव “अजायत । पृश्न्याः मरुतां मातुर्गोः “पयः च “सकृत् एकवारमेव “दुग्धं यस्मात् पयसो मरुतो जज्ञिरे । ‘ पृश्नियै वै पयसो मरुतो जाताः' (तै. सं. २. २. ११. ४ ) इति तैत्तिरीयकम् । यथा द्यावापृथिव्यौ सकृदेवोत्पद्येते एवं पृश्निरपि सकृद्दुग्धेनैव पयसा मरुतोऽजीजनत् । “तत् ततः परम् “अन्यः पदार्थः “नानु “जायते तत्सदृशो नोत्पद्यते ॥ ॥ ४ ॥


[सम्पाद्यताम्]

टिप्पणी

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.४८&oldid=209207" इत्यस्माद् पुनः प्राप्तिः