ऋग्वेदः सूक्तं ६.६२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.६१ ऋग्वेदः - मण्डल ६
सूक्तं ६.६२
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.६३ →
दे. अश्विनौ। त्रिष्टुप् ।


स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः ।
या सद्य उस्रा व्युषि ज्मो अन्तान्युयूषतः पर्युरू वरांसि ॥१॥
ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचू रजोभिः ।
पुरू वरांस्यमिता मिमानापो धन्वान्यति याथो अज्रान् ॥२॥
ता ह त्यद्वर्तिर्यदरध्रमुग्रेत्था धिय ऊहथुः शश्वदश्वैः ।
मनोजवेभिरिषिरैः शयध्यै परि व्यथिर्दाशुषो मर्त्यस्य ॥३॥
ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती ।
शुभं पृक्षमिषमूर्जं वहन्ता होता यक्षत्प्रत्नो अध्रुग्युवाना ॥४॥
ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे ।
या शंसते स्तुवते शम्भविष्ठा बभूवतुर्गृणते चित्रराती ॥५॥
ता भुज्युं विभिरद्भ्यः समुद्रात्तुग्रस्य सूनुमूहथू रजोभिः ।
अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसो निरुपस्थात् ॥६॥
वि जयुषा रथ्या यातमद्रिं श्रुतं हवं वृषणा वध्रिमत्याः ।
दशस्यन्ता शयवे पिप्यथुर्गामिति च्यवाना सुमतिं भुरण्यू ॥७॥
यद्रोदसी प्रदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा ।
तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात ॥८॥
य ईं राजानावृतुथा विदधद्रजसो मित्रो वरुणश्चिकेतत् ।
गम्भीराय रक्षसे हेतिमस्य द्रोघाय चिद्वचस आनवाय ॥९॥
अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नृवता रथेन ।
सनुत्येन त्यजसा मर्त्यस्य वनुष्यतामपि शीर्षा ववृक्तम् ॥१०॥
आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक् ।
दृळ्हस्य चिद्गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ॥११॥

[सम्पाद्यताम्]

सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।

यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ पञ्चमाष्टके प्रथमोऽध्याय आरभ्यते । षष्ठमण्डलस्य षष्ठेऽनुवाके चतुर्दश सूक्तानि । तत्र ‘स्तुषे नरा' इत्येकादशर्चं प्रथम सूक्तम् । अत्रेयमनुक्रमणिका- स्तुष एकादशाश्विनं तु' इति । मण्डलद्रष्टा बार्हस्पत्यो भरद्वाज ऋषिः । अनुक्तत्वात् त्रिष्टुप् । अश्विनौ देवता । प्रातरनुवाक आश्विने क्रतौ इदमादिके द्वे सूक्ते । आश्विनशस्त्रे चैते एव । सूत्रितं च- स्तुषे नरेति सूक्ते' ( आश्व. श्रौ. ४. १५ ) इति ॥


स्तु॒षे नरा॑ दि॒वो अ॒स्य प्र॒सन्ता॒श्विना॑ हुवे॒ जर॑माणो अ॒र्कैः ।

या स॒द्य उ॒स्रा व्युषि॒ ज्मो अन्ता॒न्युयू॑षत॒ः पर्यु॒रू वरां॑सि ॥१

स्तु॒षे । नरा॑ । दि॒वः । अ॒स्य । प्र॒ऽसन्ता॑ । अ॒श्विना॑ । हु॒वे॒ । जर॑माणः । अ॒र्कैः ।

या । स॒द्यः । उ॒स्रा । वि॒ऽउषि॑ । ज्मः । अन्ता॑न् । युयू॑षतः । परि॑ । उ॒रु । वरां॑सि ॥१

स्तुषे । नरा । दिवः । अस्य । प्रऽसन्त । अश्विना । हुवे । जरमाणः । अर्कैः ।

या । सद्यः । उस्रा । विऽउषि । ज्मः । अन्तान् । युयूषतः । परि । उरु । वरांसि ॥ १ ॥

“दिवः द्युलोकस्य “नरा नेतारौ “अस्य भुवनस्य “प्रसन्ता प्रसन्तौ प्रभवन्तावीश्वरौ "अश्विना अश्विनौ अश्वैरन्वितौ “स्तुषे प्रगीतमन्त्रसाध्यैः स्तोत्रैः स्तोतुम् “अर्कैः अप्रगीतमन्त्रसाध्यैः शस्त्रैः “जरमाणः स्तुतिं कुर्वन् “हुवे आह्वयामि । कीदृशावित्यपेक्षायाम् । "या यौ “सद्यः एव “उस्रा शत्रूणां निवारकौ “व्युषि व्युष्टौ निशायाः समाप्तौ “ज्मः पृथिव्याः “अन्तान् पर्यन्तान् “उरु उरूणि “वरांसि रूपस्यावरकाणि तमांसि च "परि परितः "युयूषतः पृथक्कुरुतः । अथवा वरांसि तेजांसि तमोनिवारणात् परि युयूषतः विस्तारयतः ॥


ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो॑भिः ।

पु॒रू वरां॒स्यमि॑ता॒ मिमा॑ना॒पो धन्वा॒न्यति॑ याथो॒ अज्रा॑न् ॥२

ता । य॒ज्ञम् । आ । शुचि॑ऽभिः । च॒क्र॒मा॒णा । रथ॑स्य । भा॒नुम् । रु॒रु॒चुः॒ । रजः॑ऽभिः ।

पु॒रु । वरां॑सि । अमि॑ता । मिमा॑ना । अ॒पः । धन्वा॑नि । अति॑ । या॒थः॒ । अज्रा॑न् ॥२

ता। यज्ञम् । आ । शुचिऽभिः । चक्रमाणा । रथस्य । भानुम् । रुरुचुः । रजःऽभिः ।।

पुरु । वरांसि । अमिता । मिमाना । अपः । धन्वानि । अति । याथः । अज्रान् ॥ २ ॥

किंच “ता तौ प्रसिद्धावश्विनौ “यज्ञम् अस्मदीयं यागम् “आ “चक्रमाणा अभिचक्रमाणौ “शुचिभिः निर्मलैः “रजोभिः स्वीयैस्तेजोभिः। ‘रजो रजतेर्ज्योती रज उच्यते' (निरु. ४. १९) इति यास्केनोक्तत्वात् । “रथस्य स्वकीयस्य रथस्य “भानुं दीप्तिं “रुरुचुः रोचयेते । अपि च “पुरु बहूनि “वरांसि तमोनिवारकाणि तेजांसि “अमिता अपरिमितानि “मिमाना निर्मिमाणौ “अपः उद्दिश्य “धन्वानि मरुप्रदेशान् “अज्रान् स्वकीयानश्वान् “अति “याथः अतिक्रामयथः ॥


ता ह॒ त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्था धिय॑ ऊहथु॒ः शश्व॒दश्वैः॑ ।

मनो॑जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि॑र्दा॒शुषो॒ मर्त्य॑स्य ॥३

ता । ह॒ । त्यत् । व॒र्तिः । यत् । अर॑ध्रम् । उ॒ग्रा॒ । इ॒त्था । धियः॑ । ऊ॒ह॒थुः॒ । शश्व॑त् । अश्वैः॑ ।

मनः॑ऽजवेभिः । इ॒षि॒रैः । श॒यध्यै॑ । परि॑ । व्यथिः॑ । दा॒शुषः॑ । मर्त्य॑स्य ॥३

ता । ह । त्यत् । वर्तिः । यत् । अरध्रम् । उग्रा । इत्था । धियः । ऊहथुः । शश्वत् । अश्वैः ।

मनःऽजवेभिः । इषिरैः । शयध्यै । परि । व्यथिः । दाशुषः । मर्त्यस्य ॥३

”ता “ह तौ खलु “उग्रा उग्रावश्विना युवां “यत् “अरध्रम् असमृद्धं “त्यत् “वर्तिः यजमानस्य तत् गृहं समर्धयितुं गच्छथः । किंच “इत्था इत्थं “धियः स्तोतॄन् “इषिरैः एषणीयैः काम्यैः “मनोजवेभिः मनोवेगैः “अश्वैः स्वीयैरश्वैः “शश्वत् सर्वदा “ऊहथुः स्वर्गं प्रापयथः । “मर्त्यस्य मनुष्यस्य “दाशुषः यजमानस्य “व्यथिः हिंसक: "परि "शयध्यै परिशयनाय दीर्घनिद्रायै युवाभ्यां क्रियताम् ॥


ता नव्य॑सो॒ जर॑माणस्य॒ मन्मोप॑ भूषतो युयुजा॒नस॑प्ती ।

शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वह॑न्ता॒ होता॑ यक्षत्प्र॒त्नो अ॒ध्रुग्युवा॑ना ॥४

ता । नव्य॑सः । जर॑माणस्य । मन्म॑ । उप॑ । भू॒ष॒तः॒ । यु॒यु॒जा॒नस॑प्ती॒ इति॑ यु॒यु॒जा॒नऽस॑प्ती ।

शुभ॑म् । पृक्ष॑म् । इष॑म् । ऊर्ज॑म् । वह॑न्ता । होता॑ । य॒क्ष॒त् । प्र॒त्नः । अ॒ध्रुक् । युवा॑ना ॥४

ता । नव्यसः । जरमाणस्य । मन्म । उप । भूषतः । युयुजानसप्ती इति युयुजानऽसप्ती ।

शुभम् । पृक्षम् । इषम् । ऊर्जम् । वहन्ता । होता । यक्षत् । प्रत्नः । अध्रुक् । युवाना ॥४

“ता तावश्विनौ "युयुजानसप्ती रथे युज्यमानाश्वौ "शुभं शोभनं “पृक्षम् अन्नम् । ‘पयः पृक्षः' इत्यन्ननामसु पाठात् । “इषं पुष्टिम् “ऊर्जं रसं च “वहन्ता वहन्तौ “नव्यसः नवतरस्य “जरमाणस्य स्तुतिं कुर्वतः “मन्म मननीयं स्तोत्रम् “उप “भूषतः उपगच्छतः । यद्वा । स्तोत्रसमीपे भवतः । किंच “युवाना नित्यतरुणौ तौ “होता देवानामाह्वाता “अध्रुक् अद्रोग्धा प्रियः “प्रत्नः पुराणोऽग्निः “यक्षत् यजतु ॥


ता व॒ल्गू द॒स्रा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ वच॒सा वि॑वासे ।

या शंस॑ते स्तुव॒ते शम्भ॑विष्ठा बभू॒वतु॑र्गृण॒ते चि॒त्ररा॑ती ॥५

ता । व॒ल्गू इति॑ । द॒स्रा । पु॒रु॒शाक॑ऽतमा । प्र॒त्ना । नव्य॑सा । वच॑सा । आ । वि॒वा॒से॒ ।

या । शंस॑ते । स्तु॒व॒ते । शम्ऽभ॑विष्ठा । ब॒भू॒वतुः॑ । गृ॒ण॒ते । चि॒त्ररा॑ती॒ इति॑ चि॒त्रऽरा॑ती ॥५

ता । वल्गू इति । दस्रा । पुरुशाकऽतमा । प्रत्ना । नव्यसा । वचसा । आ । विवासे ।

या । शंसते । स्तुवते । शम्ऽभविष्ठा । बभूवतुः । गृणते । चित्रराती इति चित्रऽराती ॥५

”या यौ “शंसते शस्त्रैः स्तुतिं कुर्वते “स्तुवते स्तोत्रैः स्तुतिं कुर्वते जनाय “शंभविष्ठा अतिशयेन सुखस्य भावयितारौ अतिशयेन सुखस्वरूपौ वा “गृणते स्तोत्रशस्त्रव्यतिरिक्तलौकिकस्तुतिभिः स्तुवते च “चित्रराती विचित्रदानौ “बभूवतुः “ता तौ “वल्गू वलनशीलौ रुचिरौ वा “पुरुशाकतमा अतिशयेन बहुकर्माणौ बहुसहायौ वा “प्रत्ना प्रत्नौ पुराणौ। 'प्रत्नं प्रदिवः' इति पुराणनामसु पाठात् । “दस्रा दर्शनीयौ अश्विनौ “नव्यसा नवतरेण वचसा स्तुत्या “आ “विवासे परिचरामि ॥ ॥१॥


ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू॑हथू॒ रजो॑भिः ।

अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता॑ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था॑त् ॥६

ता । भु॒ज्युम् । विऽभिः॑ । अ॒त्ऽभ्यः । स॒मु॒द्रात् । तुग्र॑स्य । सू॒नुम् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः ।

अ॒रे॒णुऽभिः॑ । योज॑नेभिः । भु॒जन्ता॑ । प॒त॒त्रिऽभिः॑ । अर्ण॑सः । निः । उ॒पऽस्था॑त् ॥६

ता । भुज्युम् । विऽभिः । अत्ऽभ्यः । समुद्रात् । तुग्रस्य । सूनुम् । ऊहथुः । रजःऽभिः ।

अरेणुऽभिः । योजनेभिः । भुजन्ता । पतत्रिऽभिः । अर्णसः । निः । उपऽस्थात् ॥६

”ता तावश्विनौ युवां “तुग्रस्य "सूनुं “भुज्युं भुज्युनामकं समुद्रमध्ये भग्ननावं “भुजन्ता रक्षन्तौ “अरेणुभिः रेणुरहितैः आन्तरिक्षैः “रजोभिः मार्गैः “योजनेभिः रथयुक्तैः “पतत्रिभिः पतनवद्भिः “विभिः अश्वैः “अर्णसः जलस्य “उपस्थात् योनेः समुद्रात् “अद्भ्यः “नि: “ऊहथुः निरगमयतम् । समुद्रादद्भ्य इति प्रयोगो मातुर्ग्रहाद्गच्छतीतिवत् ॥


वि ज॒युषा॑ रथ्या यात॒मद्रिं॑ श्रु॒तं हवं॑ वृषणा वध्रिम॒त्याः ।

द॒श॒स्यन्ता॑ श॒यवे॑ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ॥७

वि । ज॒युषा॑ । र॒थ्या॒ । या॒त॒म् । अद्रि॑म् । श्रु॒तम् । हव॑म् । वृ॒ष॒णा॒ । व॒ध्रि॒ऽम॒त्याः ।

द॒श॒स्यन्ता॑ । श॒यवे॑ । पि॒प्य॒थुः॒ । गाम् । इति॑ । च्य॒वा॒ना॒ । सु॒ऽम॒तिम् । भु॒र॒ण्यू॒ इति॑ ॥७

वि । जयुषा । रथ्या । यातम् । अद्रिम् । श्रुतम् । हवम् । वृषणा । वध्रिऽमत्याः ।

दशस्यन्ता । शयवे । पिप्यथुः । गाम् । इति । च्यवाना । सुऽमतिम् । भुरण्यू इति ॥७

“रथ्या हे रथारूढावश्विनौ “जयुषा जयशीलेन रथेन “अद्रिं मार्गे स्थितं पर्वतं वि “यातं व्यबाधेथाम् । यातिरत्र वधकर्मा । तथा च निगमान्तरं -- विभिन्दुना नासत्या रथेन वि पर्वताँ अजरयू अयातम्' (ऋ. सं. १. ११६. २०) इति । “वृषणा कामानां वर्षितारौ “वध्रिमत्याः पुत्रार्थिन्याः “हवम् आह्वानं “श्रुतं शृणुतम् । “दशस्यन्ता स्तोतृभ्यः कामान् प्रयच्छन्तौ “शयवे युवां स्तुवते “गां निवृत्तप्रसवां “पिप्यथुः क्षीरेणाप्याययतम् । तथा च निगमान्तरं - 'शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम्' (ऋ. सं. १.११६.२२) इति । “इति इत्थं “सुमतिं सुष्टुतिं “च्यवाना गच्छन्तौ “भुरण्यू सर्वत्र गन्तारौ यज्ञस्य भर्तारौ वा भवतम् ॥


यद्रो॑दसी प्र॒दिवो॒ अस्ति॒ भूमा॒ हेळो॑ दे॒वाना॑मु॒त म॑र्त्य॒त्रा ।

तदा॑दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ॥८

यत् । रो॒द॒सी॒ इति॑ । प्र॒ऽदिवः॑ । अस्ति॑ । भूम॑ । हेळः॑ । दे॒वाना॑म् । उ॒त । म॒र्त्य॒ऽत्रा ।

तत् । आ॒दि॒त्याः॒ । व॒स॒वः॒ । रु॒द्रि॒या॒सः॒ । र॒क्षः॒ऽयुजे॑ । तपुः॑ । अ॒घम् । द॒धा॒त॒ ॥८

यत् । रोदसी इति । प्रऽदिवः । अस्ति । भूम । हेळः । देवानाम् । उत । मर्त्यऽत्रा ।

तत् । आदित्याः । वसवः । रुद्रियासः । रक्षःऽयुजे । तपुः । अघम् । दधात ॥८

”रोदसी हे द्यावापृथिव्यौ हे “आदित्या: हे “वसवः “रुद्रियासः हे रुद्रपुत्रा मरुतः “मर्त्यत्रा मर्त्येषु अश्विनोः परिचारकेषु “देवानां “यत् “हेळ: क्रोधः “भूम महान् “अस्ति “तत् हेळ: “तपुः तापकं “रक्षोयुजे रक्षोभिर्युक्ताय रक्षसां स्वामिने प्रेरकाय वा “अघम् आहन्तृ “दधात कुरुत । अथवा रक्षोयुजे रक्षोभिर्युक्ताय यज्वने अघमाहन्तृ कुरुत ॥


य ईं॒ राजा॑नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके॑तत् ।

ग॒म्भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा॑य चि॒द्वच॑स॒ आन॑वाय ॥९

यः । ई॒म् । राजा॑नौ । ऋ॒तु॒ऽथा । वि॒ऽदध॑त् । रज॑सः । मि॒त्रः । वरु॑णः । चिके॑तत् ।

ग॒म्भी॒राय॑ । रक्ष॑से । हे॒तिम् । अ॒स्य॒ । द्रोघा॑य । चि॒त् । वच॑से । आन॑वाय ॥९

यः । ईम् । राजानौ । ऋतुऽथा । विऽदधत् । रजसः । मित्रः । वरुणः । चिकेतत् ।

गम्भीराय । रक्षसे । हेतिम् । अस्य । द्रोघाय । चित् । वचसे । आनवाय ॥९

"यः नरः “रजसः समस्तस्य लोकस्य । ‘लोका रजांस्युच्यन्ते' इति यास्केनोक्तत्वात् । “राजानौ “ईम् एतौ अश्विनौ “ऋतुथा काले काले “विदधत् परिचरति तं “मित्रो “वरुणः च “चिकेतत् जानीयात् । मित्रवरुणप्रभृतयो" देवा एनं विदुरित्यर्थः । किंचायं परिचारकः “गम्भीराय महाबलाय “रक्षसे राक्षसाय “हेतिं घातकमायुधम् “अस्य अस्यति । क्षिपति । प्रथमपुरुषस्य मध्यमपुरुषेण व्यत्ययः । “द्रोघाय अभिद्रोहात्मकाय “आनवाय मनुष्यसंबन्धिने “वचसे “चित् वचनायैव हेतिमस्यति । मनुष्याणामभिद्रोहाय एनम् आस्कन्दतीति ॥


अन्त॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या॑तं नृ॒वता॒ रथे॑न ।

सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तम् ॥१०

अन्त॑रैः । च॒क्रैः । तन॑याय । व॒र्तिः । द्यु॒ऽमता॑ । आ । या॒त॒म् । नृ॒ऽवता॑ । रथे॑न ।

सनु॑त्येन । त्यज॑सा । मर्त्य॑स्य । व॒नु॒ष्य॒ताम् । अपि॑ । शी॒र्षा । व॒वृ॒क्त॒म् ॥१०

अन्तरैः । चक्रैः । तनयाय । वर्तिः । द्युऽमता । आ । यातम् । नृऽवता । रथेन ।

सनुत्येन । त्यजसा । मर्त्यस्य । वनुष्यताम् । अपि । शीर्षा । ववृक्तम् ॥१०

हे अश्विनौ “अन्तरैः अनिकृष्टैः “चक्रैः युक्तेन “द्युमता दीप्तिमता "नृवता नेत्रा सारथिना युक्तेन । यद्वा । अश्वयुक्तेन । 'पतङ्गाः नरः' (नि. १. १४. २२ ) इत्यश्वनामसु पाठात् । “रथेन “वर्तिः अस्माकं गृहं “तनयाय तनयं दातुम् “आ “यातम् । अपि च “सनुत्येन तिरोहितेन “त्यजसा क्रोधेन । 'हृणिः त्यजः' इति क्रोधनामसु पाठात्। “मर्त्यस्य मनुष्यस्य “वनुष्यतां बाधमानानाम् । 'वनुष्यतिर्हन्तिकर्मा' इति यास्केनोक्तत्वात् । “शीर्षा शिरांसि “अपि “ववृक्तं प्रवृक्तम् ॥


आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि॑र्नि॒युद्भि॑र्यातमव॒माभि॑र॒र्वाक् ।

दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो॑ वर्तं गृण॒ते चि॑त्रराती ॥११

आ । प॒र॒माभिः॑ । उ॒त । म॒ध्य॒माभिः॑ । नि॒युत्ऽभिः॑ । या॒त॒म् । अ॒व॒माभिः॑ । अ॒र्वाक् ।

दृ॒ळ्हस्य॑ । चि॒त् । गोऽम॑तः । वि । व्र॒जस्य॑ । दुरः॑ । व॒र्त॒म् । गृ॒ण॒ते । चि॒त्र॒रा॒ती॒ इति॑ चित्रऽराती ॥११

आ । परमाभिः । उत । मध्यमाभिः । नियुत्ऽभिः । यातम् । अवमाभिः । अर्वाक् ।

दृळ्हस्य । चित् । गोऽमतः । वि । व्रजस्य । दुरः । वर्तम् । गृणते । चित्रराती इति चित्रऽराती ॥११

हे अश्विनौ “परमाभिः उत्कृष्टाभिः “उत अपि च “मध्यमाभिः अनुत्कृष्टाभिः “अवमाभिः निकृष्टाभिश्च नियुद्भिः वाहैः “अर्वाक् अस्मदभिमुखम् “आ “यातम् । “दृळ्हस्य “चित् दृढापिधानस्यापि “गोमतः गोयुक्तस्य “व्रजस्य गोष्ठस्य “दुरः द्वाराणि “वि “वर्तं विवृणुतम् । किंच “गृणते स्तुवते मह्यं “चित्रराती विचित्रदानौ भवतम् ॥ ॥२॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.६२&oldid=209212" इत्यस्माद् पुनः प्राप्तिः