ऋग्वेदः सूक्तं ६.६३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ६.६३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ६.६२ ऋग्वेदः - मण्डल ६
सूक्तं ६.६३
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.६४ →
दे. अश्विनौ। त्रिष्टुप्, १ विराट्, ११ एकपदा त्रिष्टुप्।


क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान् ।
आ यो अर्वाङ्नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन् ॥१॥
अरं मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः ।
परि ह त्यद्वर्तिर्याथो रिषो न यत्परो नान्तरस्तुतुर्यात् ॥२॥
अकारि वामन्धसो वरीमन्नस्तारि बर्हिः सुप्रायणतमम् ।
उत्तानहस्तो युवयुर्ववन्दा वां नक्षन्तो अद्रय आञ्जन् ॥३॥
ऊर्ध्वो वामग्निरध्वरेष्वस्थात्प्र रातिरेति जूर्णिनी घृताची ।
प्र होता गूर्तमना उराणोऽयुक्त यो नासत्या हवीमन् ॥४॥
अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् ।
प्र मायाभिर्मायिना भूतमत्र नरा नृतू जनिमन्यज्ञियानाम् ॥५॥
युवं श्रीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुः सूर्यायाः ।
प्र वां वयो वपुषेऽनु पप्तन्नक्षद्वाणी सुष्टुता धिष्ण्या वाम् ॥६॥
आ वां वयोऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु ।
प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः ॥७॥
पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम् ।
स्तुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन् ॥८॥
उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा ।
शाण्डो दाद्धिरणिनः स्मद्दिष्टीन्दश वशासो अभिषाच ऋष्वान् ॥९॥
सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात् ।
भरद्वाजाय वीर नू गिरे दाद्धता रक्षांसि पुरुदंससा स्युः ॥१०॥
आ वां सुम्ने वरिमन्सूरिभिः ष्याम् ॥११॥


सायणभाष्यम्

'क्व त्या ' इत्येकादशर्चं द्वितीयं सूक्तं भरद्वाजस्यार्षम् । अत्रेयमनुक्रमणिका - 'क्व त्यैकपदान्तं त्रैष्टुभम् ' इति । ‘ आ वां सुम्ने ' इत्येकादशी एकपदा त्रिष्टुप् शिष्टास्त्रिष्टुभः । 'आश्विनं तु ' इत्युक्तत्वादस्यापि सूक्तस्याश्विनौ देवता । प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दस्युक्तो विनियोगः ॥


क्व१॒॑ त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो॑ऽविद॒न्नम॑स्वान् ।

आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो अस्य॒ मन्म॑न् ॥१

क्व॑ । त्या । व॒ल्गू इति॑ । पु॒रु॒ऽहू॒ता । अ॒द्य । दू॒तः । न । स्तोमः॑ । अ॒वि॒द॒त् । नम॑स्वान् ।

आ । यः । अ॒र्वाक् । नास॑त्या । व॒वर्त॑ । प्रेष्ठा॑ । हि । अस॑थः । अ॒स्य॒ । मन्म॑न् ॥१

क्व । त्या । वल्गू इति । पुरुऽहूता । अद्य । दूतः । न । स्तोमः । अविदत् । नमस्वान् ।

आ । यः । अर्वाक् । नासत्या । ववर्त । प्रेष्ठा । हि । असथः । अस्य । मन्मन् ॥१

“क्व कुत्र स्थितौ "वल्गू रुचिरौ "पुरुहूता बहुभिराहूतौ “त्या तावश्विनौ "नमस्वान् हविषा युक्तः । ‘नमः आयुः' इत्यन्ननामसु पाठात् । "स्तोमः पञ्चदशादिस्तोमः "अद्य "दूतो "न प्रेरितो दूत इव "अविदत् विन्देत् । "यः स्तोमः "अर्वाक् अस्मदभिमुखं "नासत्या अश्विनौ “आ “ववर्त आवर्तयत् । हे अश्विनौ युवाम् "अस्य स्तोतुः "मन्मन् स्तोत्रे "प्रेष्ठा "हि प्रियतमौ हि "असथः भवथः॥


अरं॑ मे गन्तं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा॑थो॒ अन्ध॑ः ।

परि॑ ह॒ त्यद्व॒र्तिर्या॑थो रि॒षो न यत्परो॒ नान्त॑रस्तुतु॒र्यात् ॥२

अर॑म् । मे॒ । ग॒न्त॒म् । हव॑नाय । अ॒स्मै । गृ॒णा॒ना । यथा॑ । पिबा॑थः । अन्धः॑ ।

परि॑ । ह॒ । त्यत् । व॒र्तिः । या॒थः॒ । रि॒षः । न । यत् । परः॑ । न । अन्त॑रः । तु॒तु॒र्यात् ॥२

अरम् । मे । गन्तम् । हवनाय । अस्मै । गृणाना । यथा । पिबाथः । अन्धः ।

परि । ह । त्यत् । वर्तिः । याथः । रिषः । न । यत् । परः । न । अन्तरः । तुतुर्यात् ॥२

हे अश्विनौ युवां "मे मदीयाय "अस्मै "हवनाय आह्वानाय "अरं पर्याप्तं "गन्तं गच्छतम् । “गृणाना स्तूयमानौ "अन्धः सोमं "यथा “पिबाथः पिबतम् । “रिषः हिंसकस्य शत्रोः "त्यद्वर्तिः तद्गृहं “परि “याथः परितो याथः "यत् वर्तिः "परः विप्रकृष्टः “न “तुतुर्यात् न हिंस्यात् । “अन्तरः संनिकृष्टोऽपि "न तुतुर्यात् । यद्वा । त्यद्वर्तिस्तदस्मदीयं गृहं रिषो हिंसकात् परि याथः । त्यद्वर्तिः परो विप्रकृष्टोऽन्तरः संनिकृष्टोऽपि न तुतुर्यात् । अयं भावः । यथास्मदीयं गृहं दूरस्थः संनिकृष्टोऽपि न हिंस्यात्तथा रक्षां कुरुथ इति ॥


अका॑रि वा॒मन्ध॑सो॒ वरी॑म॒न्नस्ता॑रि ब॒र्हिः सु॑प्राय॒णत॑मम् ।

उ॒त्ता॒नह॑स्तो युव॒युर्व॑व॒न्दा वां॒ नक्ष॑न्तो॒ अद्र॑य आञ्जन् ॥३

अका॑रि । वा॒म् । अन्ध॑सः । वरी॑मन् । अस्ता॑रि । ब॒र्हिः । सु॒प्र॒ऽअ॒य॒नत॑मम् ।

उ॒त्ता॒नऽह॑स्तः । यु॒व॒युः । व॒व॒न्द॒ । आ । वा॒म् । नक्ष॑न्तः । अद्र॑यः । आ॒ञ्ज॒न् ॥३

अकारि । वाम् । अन्धसः । वरीमन् । अस्तारि । बर्हिः । सुप्रऽअयनतमम् ।

उत्तानऽहस्तः । युवयुः । ववन्द । आ । वाम् । नक्षन्तः । अद्रयः । आञ्जन् ॥३

“वां युवयोरर्थे "अन्धसः सोमस्य “वरीमन् विस्तृतेऽभिषवादौ यत् कृत्यमस्ति तत् "अकारि कृतम् । “सुप्रायणतमं मृदुतमं “बर्हिः "अस्तारि स्तीर्णम् । "उत्तानहस्तः कृताञ्जलिः "युवयुः युवां कामयमानो होता “ववन्द स्तौति । “वां युवां “नक्षन्तः व्याप्नुवन्तः ॥ ‘ तृक्ष पृक्ष नक्ष गतौ ' इति धातुः ॥ “अद्रयः ग्रावाणः "आ “आञ्जन सोमरसम् आ समन्तात् व्यक्तीकृतवन्तः ॥


ऊ॒र्ध्वो वा॑म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्र रा॒तिरे॑ति जू॒र्णिनी॑ घृ॒ताची॑ ।

प्र होता॑ गू॒र्तम॑ना उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी॑मन् ॥४

ऊ॒र्ध्वः । वा॒म् । अ॒ग्निः । अ॒ध्व॒रेषु॑ । अ॒स्था॒त् । प्र । रा॒तिः । ए॒ति॒ । जू॒र्णिनी॑ । घृ॒ताची॑ ।

प्र । होता॑ । गू॒र्तऽम॑नाः । उ॒रा॒णः । अयु॑क्त । यः । नास॑त्या । हवी॑मन् ॥४

ऊर्ध्वः । वाम् । अग्निः । अध्वरेषु । अस्थात् । प्र । रातिः । एति । जूर्णिनी । घृताची ।

प्र । होता । गूर्तऽमनाः । उराणः । अयुक्त । यः । नासत्या । हवीमन् ॥४

“अग्निः “वां युवयोर्यज्ञार्थम् “ऊर्ध्वः "अस्थात् उदतिष्ठत् । “अध्वरेषु यज्ञेषु “प्र "एति समिद्ध आहवनीयं गच्छति च । "रातिः धनं हविः "जूर्णिनी प्रगामिनी । ‘ जूर्णिर्जवतेर्वा ( निरु. ६. ४ । इत्ति यास्केनोक्तत्वात् । “घृताची घृतेनाक्ता ! उपस्तीर्णाभिघारितेत्यर्थः । किंच "होता “उराणः उरु कुर्वाणः “प्र “गूर्तमनाः प्रकर्षेणोद्युक्तमनाः भवति "यः होता नासत्या अश्विनौ “हवीमन् आह्वाने स्तोत्रे वा "अयुक्त योजयति ।।


अधि॑ श्रि॒ये दु॑हि॒ता सूर्य॑स्य॒ रथं॑ तस्थौ पुरुभुजा श॒तोति॑म् ।

प्र मा॒याभि॑र्मायिना भूत॒मत्र॒ नरा॑ नृतू॒ जनि॑मन्य॒ज्ञिया॑नाम् ॥५

अधि॑ । श्रि॒ये । दु॒हि॒ता । सूर्य॑स्य । रथ॑म् । त॒स्थौ॒ । पु॒रु॒ऽभु॒जा॒ । श॒तऽऊ॑तिम् ।

प्र । मा॒याभिः॑ । मा॒यि॒ना॒ । भू॒त॒म् । अत्र॑ । नरा॑ । नृ॒तू॒ इति॑ । जनि॑मन् । य॒ज्ञिया॑नाम् ॥५

अधि । श्रिये । दुहिता । सूर्यस्य । रथम् । तस्थौ । पुरुऽभुजा । शतऽऊतिम् ।

प्र । मायाभिः । मायिना । भूतम् । अत्र । नरा । नृतू इति । जनिमन् । यज्ञियानाम् ॥५

“पुरुभुजा हे पूर्णभुजौ बहूनां रक्षकौ वाश्विनौ युवयोः “शतोतिं बहुरक्षाकं बहुगमनं वा “रथं "सूर्यस्य “दुहिता सूर्या “श्रिये श्रयितुम् "अधि “तस्थौ अध्यतिष्ठत् । अपि च "यज्ञियानां देवानाम् "अत्र “जनिमन् अस्मिन् जन्मनि प्रादुर्भावे "मायाभिः प्रज्ञानैः। शची माया ' इति प्रज्ञानामसु पाठात् । मायिनौ प्रज्ञावन्तौ "नरा नेतारौ नृतू नृत्यन्तौ “भूतं भवतम् । यद्वा । हे मायिनौ प्राज्ञौ नरौ नेतारौ नृतू नृत्यन्तावश्विनौ यज्ञियानां देवानामत्र जनिमन् जन्मनि प्रादुर्भावे प्रभूतं प्राज्ञतममग्न्यादिकं देवं मायाभिः प्रज्ञानैः कौशलैर्वा जितवन्तौ स्थ इत्यर्थः । अयमर्थः ‘ प्रजापतिर्वे सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीम्' ( ऐ. ब्रा. ४.७ ) इत्यादिना स्पष्टीकृतः ॥ ॥ ३ ॥


यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू॑हथुः सू॒र्याया॑ः ।

प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वाम् ॥६

यु॒वम् । श्री॒भिः । द॒र्श॒ताभिः॑ । आ॒भिः । शु॒भे । पु॒ष्टिम् । ऊ॒ह॒थुः॒ । सू॒र्यायाः॑ ।

प्र । वा॒म् । वयः॑ । वपु॑षे । अनु॑ । प॒प्त॒न् । नक्ष॑त् । वाणी॑ । सुऽस्तु॑ता । धि॒ष्ण्या॒ । वा॒म् ॥६

युवम् । श्रीभिः । दर्शताभिः । आभिः । शुभे । पुष्टिम् । ऊहथुः । सूर्यायाः ।

प्र । वाम् । वयः । वपुषे । अनु । पप्तन् । नक्षत् । वाणी । सुऽस्तुता । धिष्ण्या । वाम् ॥६

हे अश्विनौ "युवं युवां "दर्शताभिः दर्शनीयाभिः “आभिः श्रीमतां परिदृश्यमानाभिः “श्रीभिः लक्ष्मीभिः कान्तिभिर्वा "सूर्यायाः युवयोः पत्न्याः “शुभे शोभनार्थं "पुष्टिं पूर्तिम् "ऊहथुः प्रापयथः । किंच “वां युवां "वयः अश्वा: "वपुषे शोभायै "प्र "अनु "पप्तन् प्रकर्षेणान्वपतन् । अपि च हे "धिष्ण्या स्तुत्यर्हावश्विनौ “वां युवां “सुष्टुता "वाणी ऋषीणां स्तुतिः "नक्षत् व्याप्नोति ॥


आ वां॒ वयोऽश्वा॑सो॒ वहि॑ष्ठा अ॒भि प्रयो॑ नासत्या वहन्तु ।

प्र वां॒ रथो॒ मनो॑जवा असर्जी॒षः पृ॒क्ष इ॒षिधो॒ अनु॑ पू॒र्वीः ॥७

आ । वा॒म् । वयः॑ । अश्वा॑सः । वहि॑ष्ठाः । अ॒भि । प्रयः॑ । ना॒स॒त्या॒ । व॒ह॒न्तु॒ ।

प्र । वा॒म् । रथः॑ । मनः॑ऽजवाः । अ॒स॒र्जि॒ । इ॒षः । पृ॒क्षः । इ॒षिधः॑ । अनु॑ । पू॒र्वीः ॥७

आ । वाम् । वयः । अश्वासः । वहिष्ठाः । अभि । प्रयः । नासत्या । वहन्तु ।

प्र । वाम् । रथः । मनःऽजवाः । असर्जि । इषः । पृक्षः । इषिधः । अनु । पूर्वीः ॥७

हे नासत्यौ “वां युवां "वयः गन्तारः "वहिष्ठाः वोढ़ृतमाः "अश्वासः अश्वाः "प्रयः सोमरूपमन्नम् "अभि “आ "वहन्तु प्रापयन्तु । "वां युवयोः "मनोजवाः मनोवेगः "रथः "पृक्षः संपर्चनीयाः "इषिधः एषणीयाः "पूर्वीः बह्वीः "इषः अन्नानि सोमान् "अनु “प्र “असर्जि विसृष्टः ॥


पु॒रु हि वां॑ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं॑ पिन्वत॒मस॑क्राम् ।

स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा॑श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ॥८

पु॒रु । हि । वा॒म् । पु॒रु॒ऽभु॒जा॒ । दे॒ष्णम् । धे॒नुम् । नः॒ । इष॑म् । पि॒न्व॒त॒म् । अस॑क्राम् ।

स्तुतः॑ । च॒ । वा॒म् । मा॒ध्वी॒ इति॑ । सु॒ऽस्तु॒तिः । च॒ । रसाः॑ । च॒ । ये । वा॒म् । अनु॑ । रा॒तिम् । अग्म॑न् ॥८

पुरु । हि । वाम् । पुरुऽभुजा । देष्णम् । धेनुम् । नः । इषम् । पिन्वतम् । असक्राम् ।

स्तुतः । च । वाम् । माध्वी इति । सुऽस्तुतिः । च । रसाः । च । ये । वाम् । अनु । रातिम् । अग्मन् ॥८

“पुरुभुजा हे पूर्णभुजौ बहुपालकौ वा “वां युवयोः “देष्णं दातव्यं धनं "पुरु बहु "हि भवति । अतः कारणात् "नः अस्मभ्यं “धेनुं प्रीणयित्रीम् “असक्रां मत्तोऽन्यत्रासंक्रमणीम् । असक्रामसंक्रमणीम् ' ( निरु. ६. २९) इति यास्केनोक्तत्वात् । "इषम् अन्नं “पिन्वतं प्रयच्छतम् । यद्वा । इषमेषणीयां धेनुमित्यन्वयः । किंच "वां "स्तुतः । स्तुवन्तीति स्तुतः स्तोतारः । सन्ति । "माध्वी मदयितारावश्विनौ "सुष्टुतिः शोभना स्तुतिः "च स्तोतृषु भवति । "रसाः सोमरसाः "च सन्ति । “ये रसाः “वां युवयोः "रातिं दानम् "अनु उद्दिश्य "अग्मन् देवयजनं प्राप्ताः । अयं भावः । सुष्टुतिं श्रुत्वा देवयजनं प्राप्तान् सोमरसान् पीत्वा स्तोतृभ्यः कामान् प्रयच्छतमिति शेषः ॥


उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे॑रु॒के च॑ प॒क्वा ।

शा॒ण्डो दा॑द्धिर॒णिन॒ः स्मद्दि॑ष्टी॒न्दश॑ व॒शासो॑ अभि॒षाच॑ ऋ॒ष्वान् ॥९

उ॒त । मे॒ । ऋ॒ज्रे इति॑ । पुर॑यस्य । र॒घ्वी इति॑ । सु॒ऽमी॒ळ्हे । श॒तम् । पे॒रु॒के । च॒ । प॒क्वा ।

शा॒ण्डः । दा॒त् । हि॒र॒णिनः॑ । स्मत्ऽदि॑ष्टीन् । दश॑ । व॒शासः॑ । अ॒भि॒ऽसाचः॑ । ऋ॒ष्वान् ॥९

उत । मे । ऋज्रे इति । पुरयस्य । रघ्वी इति । सुऽमीळ्हे । शतम् । पेरुके । च । पक्वा ।

शाण्डः । दात् । हिरणिनः । स्मत्ऽदिष्टीन् । दश । वशासः । अभिऽसाचः । ऋष्वान् ॥९

“उत अपि च "पुरयस्य पुरयनामकस्य स्वभूते "ऋज्रे ऋजुगमने "रघ्वी क्षिप्रगामिन्यौ वडवे "मे अश्विनोः स्तुतिं कुर्वतो मम अभूताम् । "सुमीळ्हे राज्ञि विद्यमानाः सन्तः "शतं गावो ममाभूवन् । "पेरुके राज्ञि विद्यमानानि "पक्वा पक्वान्यन्नानि ममासन् । “शाण्डः च राजा "हिरणिनः हिरण्यवतः "स्मद्दिष्टीन् प्रशस्तदर्शनान् रथान् अश्वान् वा "दश दशसंख्याकान् “वशासः अनुगुणान् “अभिषाचः शत्रूणामभिभावुकान् “ऋष्वान् दर्शनीयान् पुरुषान् अश्विनोः स्तोतृभ्यः "दात् ददातु ॥


सं वां॑ श॒ता ना॑सत्या स॒हस्राश्वा॑नां पुरु॒पन्था॑ गि॒रे दा॑त् ।

भ॒रद्वा॑जाय वीर॒ नू गि॒रे दा॑द्ध॒ता रक्षां॑सि पुरुदंससा स्युः ॥१०

सम् । वा॒म् । श॒ता । ना॒स॒त्या॒ । स॒हस्रा॑ । अश्वा॑नाम् । पु॒रु॒ऽपन्थाः॑ । गि॒रे । दा॒त् ।

भ॒रत्ऽवा॑जाय । वी॒र॒ । नु । गि॒रे । दा॒त् । ह॒ता । रक्षां॑सि । पु॒रु॒ऽदं॒स॒सा॒ । स्यु॒रिति॑ स्युः ॥१०

सम् । वाम् । शता । नासत्या । सहस्रा । अश्वानाम् । पुरुऽपन्थाः । गिरे । दात् ।

भरत्ऽवाजाय । वीर । नु । गिरे । दात् । हता । रक्षांसि । पुरुऽदंससा । स्युरिति स्युः ॥१०

“नासत्या हे अश्विनौ “वां युवयोः “fगरे । गृणातीति गीः स्तोता । तस्मै "अश्वानां “शता शतानि “सहस्रा सहस्राणि च “पुरुपन्थाः पुरुपन्था नाम राजा “सं “दात् संददाति । “वीर हे वीरावश्विनौ ॥ द्विवचनस्य लुक् ॥ “गिरे युवयोः स्तोत्रे “भरद्वाजाय मह्यमपि “नु क्षिप्रं "दात् ददातु । किंच हे "पुरुदंससा बहुकर्माणावश्विनौ युवयोरनुग्रहात् "रक्षांसि “हता हतानि "स्युः ॥


आ वां॑ सु॒म्ने वरि॑मन्सू॒रिभि॑ः ष्याम् ॥११

आ । वा॒म् । सु॒म्ने । वरि॑मन् । सू॒रिऽभिः॑ । स्या॒म् ॥११

आ । वाम् । सुम्ने । वरिमन् । सूरिऽभिः । स्याम् ॥११

हे अश्विनौ "वरिमन् विस्तृते "सुम्ने "वां युवाभ्यां दत्ते सुखावहे धने । ‘ जलाषं सुम्नम् इति सुखनामसु पाठात् । "सूरिभिः विद्वद्भिः पुत्रादिभिः सह "आ समन्तात् "स्यां भवेयम् ॥ ॥४॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.६३&oldid=200402" इत्यस्माद् पुनः प्राप्तिः