ऋग्वेदः सूक्तं ६.६४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ६.६४ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ६.६३ ऋग्वेदः - मण्डल ६
सूक्तं ६.६४
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.६५ →
दे. उषाः। त्रिष्टुप्।


उदु श्रिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः ।
कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणा मघोनी ॥१॥
भद्रा ददृक्ष उर्विया वि भास्युत्ते शोचिर्भानवो द्यामपप्तन् ।
आविर्वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः ॥२॥
वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया प्रथानाम् ।
अपेजते शूरो अस्तेव शत्रून्बाधते तमो अजिरो न वोळ्हा ॥३॥
सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि स्वभानो ।
सा न आ वह पृथुयामन्नृष्वे रयिं दिवो दुहितरिषयध्यै ॥४॥
सा वह योक्षभिरवातोषो वरं वहसि जोषमनु ।
त्वं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः ॥५॥
उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ ।
अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥६॥


सायणभाष्यम्

'उदु श्रिये' इति षड़ृचं तृतीयं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमुषोदेवताकम् । अनुक्रम्यते च - ‘ उदु श्रिये षळुषस्यं तु ' इति । प्रातरनुवाक उषस्ये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चैतदादिके द्वे सूक्ते । सूत्र्यते हि -- उदु श्रिय इति सूक्ते ' ( आश्व. श्रौ. ४.१४ ) इति ॥


उदु॑ श्रि॒य उ॒षसो॒ रोच॑माना॒ अस्थु॑र॒पां नोर्मयो॒ रुश॑न्तः ।

कृ॒णोति॒ विश्वा॑ सु॒पथा॑ सु॒गान्यभू॑दु॒ वस्वी॒ दक्षि॑णा म॒घोनी॑ ॥१

उत् । ऊं॒ इति॑ । श्रि॒ये । उ॒षसः॑ । रोच॑मानाः । अस्थुः॑ । अ॒पाम् । न । ऊ॒र्मयः॑ । रुश॑न्तः ।

कृ॒णोति॑ । विश्वा॑ । सु॒ऽपथा॑ । सु॒ऽगानि॑ । अभू॑त् । ऊं॒ इति॑ । वस्वी॑ । दक्षि॑णा । म॒घोनी॑ ॥१

उत् । ऊं इति । श्रिये । उषसः । रोचमानाः । अस्थुः । अपाम् । न । ऊर्मयः । रुशन्तः ।

कृणोति । विश्वा । सुऽपथा । सुऽगानि । अभूत् । ऊं इति । वस्वी । दक्षिणा । मघोनी ॥१

"रोचमानाः दीप्यमानाः "रुशन्तः शुक्लवर्णाः । रुशदिति वर्णनाम' ( निरु. २.२० ) इति यास्कः । "उषसः "श्रिये जगतः शोभायै जगद्व्याप्तुं वा "अपाम् "ऊर्मयः “न उदकसंबन्धिनस्तरङ्गा इव “उत् “अस्थुः उत्तिष्ठन्ति । अनन्तरमेकवन्निगमः । उषाः "विश्वा विश्वानि स्थानानि "सुपथा सुमार्गाणि "सुगानि सुखेन गम्यानि "कृणोति करोति । अपि च "मघोनी धनवत्युषाः “वस्वी प्रशस्ता "दक्षिणा समर्धयित्री च "अभूत् ॥


भ॒द्रा द॑दृक्ष उर्वि॒या वि भा॒स्युत्ते॑ शो॒चिर्भा॒नवो॒ द्याम॑पप्तन् ।

आ॒विर्वक्ष॑ः कृणुषे शु॒म्भमा॒नोषो॑ देवि॒ रोच॑माना॒ महो॑भिः ॥२

भ॒द्रा । द॒दृ॒क्षे॒ । उ॒र्वि॒या । वि । भा॒सि॒ । उत् । ते॒ । शो॒चिः । भा॒नवः॑ । द्याम् । अ॒प॒प्त॒न् ।

आ॒विः । वक्षः॑ । कृ॒णु॒षे॒ । शु॒म्भमा॑ना । उषः॑ । दे॒वि॒ । रोच॑माना । महः॑ऽभिः ॥२

भद्रा । ददृक्षे । उर्विया । वि । भासि । उत् । ते । शोचिः । भानवः । द्याम् । अपप्तन् ।

आविः । वक्षः । कृणुषे । शुम्भमाना । उषः । देवि । रोचमाना । महःऽभिः ॥२

हे उषो देवि “भद्रा कल्याणी "ददृक्षे दृश्यसे । "उर्विया विस्तीर्णा च "वि "भासि। "ते तव “शोचिः शोचिषः ॥ जसो लुक् ॥ दीप्यमानाः "भानवः रश्मयः "द्याम् अन्तरिक्षम् “उत् “अपप्तन् उत्पतन्ति । किंच हे “उषो “देवि "महोभिः तेजोभिः "शुम्भमाना शोभमाना “रोचमाना दीप्यमाना “वक्षः त्वदीयं रूपम् "आविः "कृणुषे प्रकटीकरोषि ॥


वह॑न्ति सीमरु॒णासो॒ रुश॑न्तो॒ गाव॑ः सु॒भगा॑मुर्वि॒या प्र॑था॒नाम् ।

अपे॑जते॒ शूरो॒ अस्ते॑व॒ शत्रू॒न्बाध॑ते॒ तमो॑ अजि॒रो न वोळ्हा॑ ॥३

वह॑न्ति । सी॒म् । अ॒रु॒णासः॑ । रुश॑न्तः । गावः॑ । सु॒ऽभगा॑म् । उ॒र्वि॒या । प्र॒था॒नाम् ।

अप॑ । ई॒ज॒ते॒ । शूरः॑ । अस्ता॑ऽइव । शत्रू॑न् । बाध॑ते । तमः॑ । अ॒जि॒रः । न । वोळ्हा॑ ॥३

वहन्ति । सीम् । अरुणासः । रुशन्तः । गावः । सुऽभगाम् । उर्विया । प्रथानाम् ।

अप । ईजते । शूरः । अस्ताऽइव । शत्रून् । बाधते । तमः । अजिरः । न । वोळ्हा ॥३

“अरुणासः लोहितवर्णाः “रुशन्तः दीप्यमानाः "गावः रश्मयः । ‘ किरणा गावः । इति रश्मिनामसु पाठात् । "सुभगाम् "उर्विया उर्वीं विस्तीर्णां "प्रथानां प्रथमानां "सीम् एनामुषोदेवतां “वहन्ति । सेयमुषोदेवता “शूरो "अस्तेव वीरः क्षेप्तेव “शत्रून् “तमः "अपेजते अपगमयति । “वोळ्हा सेनायाः "अजिरो "न क्षिप्रगामी शत्रून् यथा बाधते तथा तमांसि “बाधते च ॥


सु॒गोत ते॑ सु॒पथा॒ पर्व॑तेष्ववा॒ते अ॒पस्त॑रसि स्वभानो ।

सा न॒ आ व॑ह पृथुयामन्नृष्वे र॒यिं दि॑वो दुहितरिष॒यध्यै॑ ॥४

सु॒ऽगा । उ॒त । ते॒ । सु॒ऽपथा॑ । पर्व॑तेषु । अ॒वा॒ते । अ॒पः । त॒र॒सि॒ । स्व॒भा॒नो॒ इति॑ स्वऽभानो ।

सा । नः॒ । आ । व॒ह॒ । पृ॒थु॒ऽया॒म॒न् । ऋ॒ष्वे॒ । र॒यिम् । दि॒वः॒ । दु॒हि॒तः॒ । इ॒ष॒यध्यै॑ ॥४

सुऽगा । उत । ते । सुऽपथा । पर्वतेषु । अवाते । अपः । तरसि । स्वभानो इति स्वऽभानो ।

सा । नः । आ । वह । पृथुऽयामन् । ऋष्वे । रयिम् । दिवः । दुहितः । इषयध्यै ॥४

हे उषो देवि “पर्वतेषु "उत दुर्गेष्वपि "अवाते गमनसाधनरहिते देशे "सुपथा सुपथानि मार्गाणि “सुगा सुगानि सुखेन गम्यानि "ते तव भवन्ति । "स्वभानो हे स्वप्रकाशे "अपः अन्तरिक्षमाकाशम् । ‘ आपः ' इत्यन्तरिक्षनामसु पाठात् । सामुद्रिकीरपो वा “तरसि । "पृथुयामन् पृथुरथे “ऋष्वे दर्शनीये “दिवो "दुहितः अन्तरिक्षसुते हे उषो देवि "सा त्वम् "इषयध्यै एषणीयं "रयिं धनं “नः अस्मभ्यम् "आ "वह ॥


सा व॑ह॒ योक्षभि॒रवा॒तोषो॒ वरं॒ वह॑सि॒ जोष॒मनु॑ ।

त्वं दि॑वो दुहित॒र्या ह॑ दे॒वी पू॒र्वहू॑तौ मं॒हना॑ दर्श॒ता भू॑ः ॥५

सा । आ । व॒ह॒ । या । उ॒क्षऽभिः॑ । अवा॑ता । उषः॑ । वर॑म् । वह॑सि । जोष॑म् । अनु॑ ।

त्वम् । दि॒वः॒ । दु॒हि॒तः॒ । या । ह॒ । दे॒वी । पू॒र्वऽहू॑तौ । मं॒हना॑ । द॒र्श॒ता । भूः॒ ॥५

सा । आ । वह । या । उक्षऽभिः । अवाता । उषः । वरम् । वहसि । जोषम् । अनु ।

त्वम् । दिवः । दुहितः । या । ह । देवी । पूर्वऽहूतौ । मंहना । दर्शता । भूः ॥५

हे उषः “सा त्वं "वरं धनं मह्यम् "आ "वह । "या त्वम् "अवाता अप्रतिगता “जोषं प्रीतिम् "अनु “उक्षभिः अनडुद्भिरश्वैर्वा स्तोतृभ्यो वरं "वहसि । किंच हे "दिवो "दुहितः अन्तरिक्षसुते "या “त्वं "देवी द्योतमाना “पूर्वहूतौ प्रथमाह्वाने प्रातरनुवाके "मंहना पूजनीया भवसि सा त्वं "दर्शता दर्शनीया “भूः इति योजना । या दर्शता भूरित्यन्वये यद्वृत्तेन सामानाधिकरण्यात् भूरित्यस्य निघातो न स्यात् ॥


उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ ।

अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥६

उत् । ते॒ । वयः॑ । चि॒त् । व॒स॒तेः । अ॒प॒प्त॒न् । नरः॑ । च॒ । ये । पि॒तु॒ऽभाजः॑ । विऽउ॑ष्टौ ।

अ॒मा । स॒ते । व॒ह॒सि॒ । भूरि॑ । वा॒मम् । उषः॑ । दे॒वि॒ । दा॒शुषे॑ । मर्त्या॑य ॥६

उत् । ते । वयः । चित् । वसतेः । अपप्तन् । नरः । च । ये । पितुऽभाजः । विऽउष्टौ ।

अमा । सते । वहसि । भूरि । वामम् । उषः । देवि । दाशुषे । मर्त्याय ॥६

हे उषो देवि “ते तव “व्युष्टौ सत्यां “वयश्चित् पक्षिणोऽपि “वसतेः निवासस्थानात् “उत् “अपप्तन् उत्पतन्ति । "ये “पितुभाजः हविषां संभक्तारः अन्नस्योपार्जका वा । ‘ पितुः । इत्यन्ननामसु पाठात् । "नरः तेऽपि च उत्पतन्ति । किं च हे "उषो “देवि त्वम् "अमा समीप “सते वर्तमानाय "दाशुषे हविषां प्रदात्रे “मर्त्याय “भूरि प्रभूतं “वामं धनं "वहसि ॥ ॥ ५ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.६४&oldid=200403" इत्यस्माद् पुनः प्राप्तिः