ऋग्वेदः सूक्तं ६.२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.१ ऋग्वेदः - मण्डल ६
सूक्तं ६.२
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.३ →
दे. अग्निः। अनुष्टुप्, ११ शक्वरी


त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे ।
त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥१॥
त्वां हि ष्मा चर्षणयो यज्ञेभिर्गीर्भिरीळते ।
त्वां वाजी यात्यवृको रजस्तूर्विश्वचर्षणिः ॥२॥
सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते ।
यद्ध स्य मानुषो जनः सुम्नायुर्जुह्वे अध्वरे ॥३॥
ऋधद्यस्ते सुदानवे धिया मर्तः शशमते ।
ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥४॥
समिधा यस्त आहुतिं निशितिं मर्त्यो नशत् ।
वयावन्तं स पुष्यति क्षयमग्ने शतायुषम् ॥५॥
त्वेषस्ते धूम ऋण्वति दिवि षञ्छुक्र आततः ।
सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥६॥
अधा हि विक्ष्वीड्योऽसि प्रियो नो अतिथिः ।
रण्वः पुरीव जूर्यः सूनुर्न त्रययाय्यः ॥७॥
क्रत्वा हि द्रोणे अज्यसेऽग्ने वाजी न कृत्व्यः ।
परिज्मेव स्वधा गयोऽत्यो न ह्वार्यः शिशुः ॥८॥
त्वं त्या चिदच्युताग्ने पशुर्न यवसे ।
धामा ह यत्ते अजर वना वृश्चन्ति शिक्वसः ॥९॥
वेषि ह्यध्वरीयतामग्ने होता दमे विशाम् ।
समृधो विश्पते कृणु जुषस्व हव्यमङ्गिरः ॥१०॥
अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः ।
वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥११॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ पञ्चमाध्याय आरभ्यते । षष्ठमण्डलस्य षडनुवाकात्मकस्य प्रथमेऽनुवाके पश्चदश सूक्तानि । तत्र ‘त्वं हि' इत्येकादशर्चं द्वितीयं सूक्तं भरद्वाजस्यार्षमाग्नेयम् । अन्त्या षट्पञ्चाशदक्षरा शक्वरी आदितो दशानुष्टुभः । अनुक्रम्यते हि- त्वं ह्येकादशानुष्टुभं शक्वर्यन्तम्' इति । प्रातरनुवाक आग्नये क्रतौ आनुष्टुभे छन्दसीदं सूक्तमुत्तमावर्जं विनियुक्तम् । सूत्र्यते हि-- त्वं हि क्षैतवदग्ना यो होताजनिष्ट' ( आश्व. श्रौ. ४. १३) इति । आश्विनशस्त्रे चैतत् शंसनीयं प्रातरनुवाकन्यायेनेत्यतिदिष्टत्वात् । अङ्गिरसां द्विरात्रे द्वितीयेऽहनीदमेव सूक्तमाज्यशस्त्रम् । सूत्रितं च--- त्वं हि क्षैतवदिति चाज्यम्' (आश्व. श्रौ. १०. २) इति ॥


त्वं हि क्षैत॑व॒द्यशोऽग्ने॑ मि॒त्रो न पत्य॑से ।

त्वं वि॑चर्षणे॒ श्रवो॒ वसो॑ पु॒ष्टिं न पु॑ष्यसि ॥१

त्वम् । हि । क्षैत॑ऽवत् । यशः॑ । अग्ने॑ । मि॒त्रः । न । पत्य॑से ।

त्वम् । वि॒ऽच॒र्ष॒णे॒ । श्रवः॑ । वसो॒ इति॑ । पु॒ष्टिम् । न । पु॒ष्य॒सि॒ ॥१

त्वम् । हि । क्षैतऽवत् । यशः । अग्ने । मित्रः । न । पत्यसे ।

त्वम् । विऽचर्षणे । श्रवः । वसो इति । पुष्टिम् । न । पुष्यसि ।। १ ।।

हे अग्ने त्वं हि त्वं खलु "क्षैतवत् । क्षितिः क्षयोऽपचयः । तत्संबन्धि क्षैतं शुष्कं काष्ठम् । तद्युक्तं यशः अन्नं हविर्लक्षणं “पत्यसे अभिपतसि गच्छसि । तत्र दृष्टान्तः । मित्रो न । अहरभिमानी देवो मित्रः । स इव । यद्वा यश इति गृहनाम । क्षैतवत् । क्षैतं निवासकं हविर्लक्षणमन्नम् । तद्युक्तं यजमानगृहं मित्रभूतः पुरुष इवाभिपतसि । यद्वा पत्यतिरैश्वर्यकर्मा । ईदृशमन्नं पत्यसे ईशिषे । अतः कारणात् हे “विचर्षणे विशेषेण सर्वस्य द्रष्टः “वसो वासकाग्ने “त्वं “श्रवः श्रवणीयमन्नं यजमानगृहस्थं “न । अयं नशब्दश्चार्थे । अन्नकार्यभूतां पुष्टिं च पुष्यसि वर्धयसि ॥


त्वां हि ष्मा॑ चर्ष॒णयो॑ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते ।

त्वां वा॒जी या॑त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ॥२

त्वाम् । हि । स्म॒ । च॒र्ष॒णयः॑ । य॒ज्ञेभिः॑ । गीः॒ऽभिः । ईळ॑ते ।

त्वाम् । वा॒जी । या॒ति॒ । अ॒वृ॒कः । र॒जः॒ऽतूः । वि॒श्वऽच॑र्षणिः ॥२

त्वाम् । हि । स्म । चर्षणयः । यज्ञेभिः । गीःऽभिः । ईळते ।

त्वाम् । वाजी । याति । अवृकः । रजःऽतूः । विश्वऽचर्षणिः ॥२

हे अग्ने “त्वां हि "स्म त्वामेव खलु “चर्षणयः मनुष्याः “यज्ञेभिः यज्ञसाधनैर्हविभिः “गीर्भिः स्तुतिभिः “ईळते स्तुवन्ति । अपि च “वाजी । वाजो गमनम् । तद्वान् सूर्यः “त्वां “याति गच्छति । प्रविशतीत्यर्थः । तथा च श्रूयते – 'अग्निं वावादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे ' (तै. ब्रा. २.१.२.९ ) इति । वाजिशब्दश्च सूर्यवाचकत्वेन क्वचित् श्रूयते - अग्निर्वायुः सूर्यस्ते वै वाजिनः' (तै.. ब्रा. १. ६. ३. ९) इति ‘वायुः सप्तिरादित्यो वाजी' ( तै. ब्रा, १.३.६ ) इति च । कीदृशो वाजी । “अवृकः हिंसकरहितः “रजस्तूः । उदकमत्र रज उच्यते । तस्य वृष्टिलक्षणस्य प्रेरयिता । यद्वा । रजसां लोकानां तरिता गन्ता “विश्वचर्षणिः सर्वस्य द्रष्टा ।।


स॒जोष॑स्त्वा दि॒वो नरो॑ य॒ज्ञस्य॑ के॒तुमि॑न्धते ।

यद्ध॒ स्य मानु॑षो॒ जनः॑ सुम्ना॒युर्जु॒ह्वे अ॑ध्व॒रे ॥३

स॒ऽजोषः॑ । त्वा॒ । दि॒वः । नरः॑ । य॒ज्ञस्य॑ । के॒तुम् । इ॒न्ध॒ते॒ ।

यत् । ह॒ । स्यः । मानु॑षः । जनः॑ । सु॒म्न॒ऽयुः । जु॒ह्वे । अ॒ध्व॒रे ॥३

सऽजोषः । त्वा । दिवः । नरः । यज्ञस्य । केतुम् । इन्धते ।

यत् । ह । स्यः । मानुषः । जनः । सुम्नऽयुः । जुह्वे । अध्वरे ॥३

हे अग्ने “सजोषः सजोषसः सह प्रीयमाणाः “दिवः स्तुतेः “नरः नेतार ऋत्विजः “यज्ञस्य “केतुं प्रज्ञापकं “त्वा त्वाम् “इन्धते समिद्धं कुर्वन्ति । कदेति चेदुच्यते । “यद्ध यदा खलु “स्यः सः “मानुषः मनोरपत्यभूतः “जनः जातो यजमानो होता वा “सुम्नायुः सुम्नं सुखमात्मन इच्छन् “अध्वरे हिंसाप्रत्यवायरहिते यज्ञे “जुह्वे त्वामाह्वयति तदेत्यर्थः ॥


ऋध॒द्यस्ते॑ सु॒दान॑वे धि॒या मर्तः॑ श॒शम॑ते ।

ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो अंहो॒ न त॑रति ॥४

ऋध॑त् । यः । ते॒ । सु॒ऽदान॑वे । धि॒या । मर्तः॑ । श॒शम॑ते ।

ऊ॒ती । सः । बृ॒ह॒तः । दि॒वः । द्वि॒षः । अंहः॑ । न । त॒र॒ति॒ ॥४

ऋधत् । यः । ते । सुऽदानवे । धिया । मर्तः । शशमते ।

ऊती । सः । बृहतः । दिवः । द्विषः । अंहः । न । तरति ॥४

“ऋधत् । स यजमान ऋध्नुयात् हे अग्ने “सुदानवे शोभनदानाय तुभ्यम् ॥ षष्ठ्यर्थं चतुर्थी ॥ तव संबन्धिना “धिया कर्मणा “यः “मर्तः मरणधर्मा यजमानः “शशमते शाम्यति । यद्वा । शमतिः स्तुतिकर्मा । त्वदर्थं कर्मणा युक्तः सन् स्तौति । “सः यजमानः “बृहतः महतः “दिवः दीप्तस्य तव संबन्धिन्या “ऊती ऊत्या रक्षया “द्विषः द्वेष्टॄन् “अंहो “न आहननशीलं पापमिव “तरति अतिक्रामति ॥


स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् ।

व॒याव॑न्तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षम् ॥५

स॒म्ऽइधा॑ । यः । ते॒ । आऽहु॑तिम् । निऽशि॑तिम् । मर्त्यः॑ । नश॑त् ।

व॒याऽव॑न्तम् । सः । पु॒ष्य॒ति॒ । क्षय॑म् । अ॒ग्ने॒ । श॒तऽआ॑युषम् ॥५

सम्ऽइधा । यः । ते । आऽहुतिम् । निऽशितिम् । मर्त्यः । नशत् ।

वयाऽवन्तम् । सः । पुष्यति । क्षयम् । अग्ने । शतऽआयुषम् ॥५

हे “अग्ने, “समिधा समिन्धनहेतुभूतेनेध्मेन सह “ते त्वदीयां “निशितिं निशितां तनूकृतां मन्त्रसंस्कृताम् “आहुतिं “यः “मर्त्यः मनुष्यः “नशत् व्याप्नुयात् । नशतिर्व्याप्तिकर्मा । “सः मनुष्यो यजमानः “वयावन्तम् । वयाः शाखाः पुत्रपौत्रादिलक्षणाः । तद्युक्तं “शतायुषं बहुविधान्नं चिरकालजीवनं वा “क्षयं गृहं “पुष्यति पोषयति वर्धयति । तत्र चिरकालमवतिष्ठत इत्यर्थः ॥ ॥ १ ॥


त्वे॒षस्ते॑ धू॒म ऋ॑ण्वति दि॒वि षञ्छु॒क्र आत॑तः ।

सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा॑वक॒ रोच॑से ॥६

त्वे॒षः । ते॒ । धू॒मः । ऋ॒ण्व॒ति॒ । दि॒वि । सन् । शु॒क्रः । आऽत॑तः ।

सूरः॑ । न । हि । द्यु॒ता । त्वम् । कृ॒पा । पा॒व॒क॒ । रोच॑से ॥६

त्वेषः । ते । धूमः । ऋण्वति । दिवि । सन् । शुक्रः । आऽततः ।

सूरः । न । हि । द्युता । त्वम् । कृपा । पावक । रोचसे ॥६

हे अग्ने “त्वेषः दीप्तस्य “ते तव “शुक्रः निर्मलः शुभ्रवर्णो वा “धूमः "दिवि अन्तरिक्षे “आततः विस्तीर्णः “सन् “ऋण्वति मेघात्मना परिणतो गच्छति । अपि च हे “पावक शोधकाग्ने “सूरो “न सूर्य इव “कृपा अभिमुखीकरणसमर्थया स्तुत्या स्तूयमानः “त्वं “द्युता दीप्त्या "रोचसे “हि दीप्यसे खलु ॥


अधा॒ हि वि॒क्ष्वीड्योऽसि॑ प्रि॒यो नो॒ अति॑थिः ।

र॒ण्वः पु॒री॑व॒ जूर्यः॑ सू॒नुर्न त्र॑य॒याय्यः॑ ॥७

अध॑ । हि । वि॒क्षु । ईड्यः॑ । असि॑ । प्रि॒यः । नः॒ । अति॑थिः ।

र॒ण्वः । पु॒रिऽइ॑व । जूर्यः॑ । सू॒नुः । न । त्र॒य॒याय्यः॑ ॥७

अध । हि । विक्षु । ईड्यः । असि । प्रियः । नः । अतिथिः ।

रण्वः । पुरिऽइव । जूर्यः । सूनुः । न । त्रययाय्यः ॥७

“अध अपि च "विक्षु प्रजासु हे अग्ने त्वम् “ईड्यः स्तुत्यः “असि भवसि । “हि यस्मादर्थे । यस्मादेवं तस्मात् “नः अस्माकम् 'अतिथिः । लुप्तोपममेतत् । अतिथिरिव “प्रियः असि । यद्वा । हविर्वहनाय सततगामी भूत्वास्माकं प्रियोऽसि । तथा “पुरीव नगर्यां "जूर्यः जीर्णो वृद्धो हितोपदेष्टा राजेव “रण्वः रमणीयो गन्तव्यो वा भवसि । तथा “सूनुर्न पुत्र इव “त्रययाय्यः यजमानैः त्रातव्यः पालयितव्यो भवसि । त्रायतेरेतद्रूपम् । यद्वैतत्सूनोर्विशेषणम् । विघातपःकर्मलक्षणं त्रयं यातीति त्रययाय्यः । यातेरौणादिक आय्यप्रत्ययः । स्पृहयाय्य इति यथा । अथवा त्रययाय्यो जन्मत्रयं प्राप्तः । जन्मत्रयं स्मर्यते-’ मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धनात् । तृतीयं यज्ञदीक्षाया इति जन्मत्रयं स्मृतम्' (मनु. २. १६९) इति । तादृशः पुत्र इव रण्वो रमणीयोऽसि ॥


क्रत्वा॒ हि द्रोणे॑ अ॒ज्यसेऽग्ने॑ वा॒जी न कृत्व्यः॑ ।

परि॑ज्मेव स्व॒धा गयोऽत्यो॒ न ह्वा॒र्यः शिशुः॑ ॥८

क्रत्वा॑ । हि । द्रोणे॑ । अ॒ज्यसे॑ । अग्ने॑ । वा॒जी । न । कृत्व्यः॑ ।

परि॑ज्माऽइव । स्व॒धा । गयः॑ । अत्यः॑ । न । ह्वा॒र्यः । शिशुः॑ ॥८

क्रत्वा । हि । द्रोणे । अज्यसे । अग्ने । वाजी । न । कृत्व्यः ।

परिज्माऽइव । स्वधा । गयः । अत्यः । न । ह्वार्यः । शिशुः ॥८

हे “अग्ने “क्रत्वा कर्मणा मन्थनरूपेण “द्रोणे द्रुमे काष्ठेऽरण्यां विद्यमानस्त्वम् “अज्यसे “हि व्यज्यसे खलु । तथा “वाजी “न वेजनवानश्व इव “कृत्व्यः । कृत्वीति कर्मनाम । हविर्वहनादीनां कर्मणां कर्ता । स यथा पुरुषं वहति तद्वद्धविर्वहनमग्नेरश्वसादृश्यम् । तथा “परिज्मेव परितः सर्वत्र गन्ता वायुरिव दावानलादिरूपेण सर्वत्र गन्ता त्वं “स्वधा । अन्ननामैतत् । अन्नं “गयः गृहं च भवसि । उभयोर्दातेत्यर्थः । अपि च “शिशुः जातमात्रो बालोऽपि त्वम् “अत्यो “न सततगामी जात्यश्व इव "ह्वार्यः कुटिलमितस्ततो गन्तासि । ‘ह्वृ कौटिल्ये' इत्यस्यैतद्रूपम् ।।।


कारीर्यामग्नेर्धामच्छदो वैकल्पिक्यनुवाक्या ‘ त्वं त्या' इति । सूत्रितं च - त्वं त्या चिदच्युता धामन्ते विश्वं भुवनमधिश्रितमिति वा ' (आश्व. श्रौ. २. १३) इति ॥

त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से ।

धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ॥९

त्वम् । त्या । चि॒त् । अच्यु॑ता । अग्ने॑ । प॒शुः । न । यव॑से ।

धाम॑ । ह॒ । यत् । ते॒ । अ॒ज॒र॒ । वना॑ । वृ॒श्चन्ति॑ । शिक्व॑सः ॥९

त्वम् । त्या । चित् । अच्युता । अग्ने । पशुः । न । यवसे ।

धाम । ह । यत् । ते । अजर । वना । वृश्चन्ति । शिक्वसः ॥९

हे “अग्ने “त्वं “त्या तानि काष्ठानि । चिच्छब्दोऽपिशब्दसमानार्थो भिन्नक्रमः। “अच्युता अच्युतानि च्यावयितुमशक्यान्यपि । अत्सीति शेषः । तत्र दृष्टान्तः । “यवसे घासे विसृष्टः “पशुर्न पशुरिव । स यथा सर्वं भक्षयति तथा त्वं प्रौढकाष्ठादीनि क्षणमात्रेण दहसीत्यर्थः । हे “अजर जरारहिताग्ने “यत् यस्य ॥ ‘ सुपां सुलुक्° ' इति षष्ठ्या लुक् ॥ “शिक्वसः दीप्तस्य “ते तव “धाम धामानि तेजांसि “वना वननीयानि संभजनीयान्यरण्यानि “वृश्चन्ति छिन्दन्ति भक्षयन्ति स त्वमिति पूर्वत्रान्वयः। “ह इत्येतत्पादपूरणम् ॥


वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे॑ वि॒शाम् ।

स॒मृधो॑ विश्पते कृणु जु॒षस्व॑ ह॒व्यम॑ङ्गिरः ॥१०

वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । अग्ने॑ । होता॑ । दमे॑ । वि॒शाम् ।

स॒म्ऽऋधः॑ । वि॒श्प॒ते॒ । कृ॒णु॒ । जु॒षस्व॑ । ह॒व्यम् । अ॒ङ्गि॒रः॒ ॥१०

वेषि । हि । अध्वरिऽयताम् । अग्ने । होता । दमे । विशाम् ।

सम्ऽऋधः । विश्पते । कृणु । जुषस्व । हव्यम् । अङ्गिरः ॥१०

हे “अग्ने “अध्वरीयताम् अध्वरं यज्ञमात्मन इच्छतां “विशां यजमानानां “दमे गृहे त्वं “होता देवानामाह्वाता सन् “वेषि “हि स्तुतिं हवींषि वा यतः कामयसे अतः कारणात् “विश्पते विशां पालकाग्ने “समृधः समृद्धानस्मान् यजमानान् “कृणु कुरु । कृत्वा च हे “अङ्गिरः अङ्गनादिगुणयुक्त अङ्गाररूप वाग्ने “हव्यम् अस्मदीयं हविः "जुषस्व सेवस्व ।।।


अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः ।

वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥११

अच्छ॑ । नः॒ । मि॒त्र॒ऽम॒हः॒ । दे॒व॒ । दे॒वान् । अग्ने॑ । वोचः॑ । सु॒ऽम॒तिम् । रोद॑स्योः ।

वी॒हि । स्व॒स्तिम् । सु॒ऽक्षि॒तिम् । दि॒वः । नॄन् । द्वि॒षः । अंहां॑सि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥११

अच्छ । नः । मित्रऽमहः । देव । देवान् । अग्ने । वोचः । सुऽमतिम् । रोदस्योः ।

वीहि । स्वस्तिम् । सुऽक्षितिम् । दिवः । नॄन् । द्विषः । अंहांसि । दुःऽइता । तरेम । ता । तरेम । तव । अवसा । तरेम ॥११

हे “मित्रमहः अनुकूलदीप्ते “देव दानादिगुणयुक्त “अग्ने “रोदस्योः द्यावापृथिव्योर्वर्तमानस्त्वं “देवान् यष्टव्यानिन्द्रादीन् “अच्छ आभिमुख्येन "नः अस्माकं “सुमतिं स्तुतिं “वोचः ब्रूहि । “दिवः स्तुतेः “नॄन् नेतॄनस्मान् “सुक्षितिं शोभननिवासयुक्तं “स्वस्तिम् अविनाशं “वीहि गमय ॥ वेतिरत्र अन्तर्भावितण्यर्थो द्रष्टव्यः । वयं च “द्विषः द्वेष्टॄन शत्रून् “अंहांसि पापानि "दुरिता तत्फलरूपाणि दुर्गमनानि च “तरेम अतिक्रामेम । तथा “ता तानि व्यवहितानि जन्मान्तरकृतानि च पापादीनि “तरेम । उक्त एवार्थो दार्ढ्याय पुनरुच्यते । हे अग्ने “तव “अवसा रक्षणेन द्वेष्टृप्रभृतीनत्यन्तं “तरेम ॥ ॥ २ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.२&oldid=209197" इत्यस्माद् प्रतिप्राप्तम्