ऋग्वेदः सूक्तं ६.६१
← सूक्तं ६.६० | ऋग्वेदः - मण्डल ६ सूक्तं ६.६१ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.६२ → |
दे. सरस्वती। गायत्री, १-३, १३ जगती, १४ त्रिष्टुप् । |
इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे ।
या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥१॥
इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः ।
पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः ॥२॥
सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः ।
उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ॥३॥
प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती ।
धीनामवित्र्यवतु ॥४॥
यस्त्वा देवि सरस्वत्युपब्रूते धने हिते ।
इन्द्रं न वृत्रतूर्ये ॥५॥
त्वं देवि सरस्वत्यवा वाजेषु वाजिनि ।
रदा पूषेव नः सनिम् ॥६॥
उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः ।
वृत्रघ्नी वष्टि सुष्टुतिम् ॥७॥
यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः ।
अमश्चरति रोरुवत् ॥८॥
सा नो विश्वा अति द्विषः स्वसॄरन्या ऋतावरी ।
अतन्नहेव सूर्यः ॥९॥
उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।
सरस्वती स्तोम्या भूत् ॥१०॥
आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् ।
सरस्वती निदस्पातु ॥११॥
त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती ।
वाजेवाजे हव्या भूत् ॥१२॥
प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा ।
रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥१३॥
सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् ।
जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥१४॥
सायणभाष्यम्
‘इयमददात्' इति चतुर्दशर्चं द्वादशं सूक्तं भरद्वाजस्यार्षं सरस्वतीदेवताकम् । आदितस्तिस्रो जगत्यः त्रयोदश्यपि जगती चतुर्दशी त्रिष्टुप् शिष्टा गायत्र्यः । तथा चानुक्रान्तम्--- इयं षळूना सारस्वतं त्रिजगत्यादि जगतीत्रिष्टुबन्तम्' इति । अत्र शौनकः-- इयमित्येतदाद्यं तु सूक्तं सारस्वतं जपेत् । द्विजः प्रातः शुचिर्भूत्वा वाग्मी भवति बुद्धिमान्' (ऋग्वि. २. २९५) इति । पार्ष्ठिके षष्ठेऽहनि प्रउगे ' इयमददात्' इति सारस्वतस्तृचः । सूत्रितं च--- इयमददाद्रभसमृणच्युतमिति प्रउगम्' (आश्व. श्रौ. ८. १) इति ॥
इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो॑दासं वध्र्य॒श्वाय॑ दा॒शुषे॑ ।
या शश्व॑न्तमाच॒खादा॑व॒सं प॒णिं ता ते॑ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥१
इ॒यम् । अ॒द॒दा॒त् । र॒भ॒सम् । ऋ॒ण॒ऽच्युत॑म् । दिवः॑ऽदासम् । व॒ध्रि॒ऽअ॒श्वाय॑ । दा॒शुषे॑ ।
या । शश्व॑न्तम् । आ॒ऽच॒खाद॑ । अ॒व॒सम् । प॒णिम् । ता । ते॒ । दा॒त्राणि॑ । त॒वि॒षा । स॒र॒स्व॒ति॒ ॥१
इयम् । अददात् । रभसम् । ऋणऽच्युतम् । दिवःऽदासम् । वध्रिऽअश्वाय । दाशुषे ।
या। शश्वन्तम् । आऽचखादं । अवसम् । पणिम् । ता । ते। दात्राणि । तविषा। सरस्वति ॥१॥
“इयं सरस्वती “रभसं वेगवन्तम् “ऋणच्युतं वैदिकस्य देवर्षिपितृसंबन्धिनो लौकिकस्य च ऋणस्य च्यावयितारं “दिवोदासम् एतत्संज्ञं पुत्रं “दाशुषे हवींषि दत्तवते “वध्र्यश्वाय एतत्संज्ञाय ऋषये अददात् दत्तवती । “या सरस्वती “शश्वन्तं बहुलं “पणिं पणनशीलं वणिजमदातृजनम् “अवसं केवलं स्वात्मन एव तर्पकम् “आचखाद आजघान सेयमददादित्यन्वयः । अथ प्रत्यक्षीकृत्य स्तौति । हे “सरस्वति देवि “ता तानि पुत्रदानादीनि “ते त्वदीयानि “दात्राणि दानानि "तविषा तविषाणि महान्ति भवन्ति ॥
इ॒यं शुष्मे॑भिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ ।
पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभि॒ः सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ॥२
इ॒यम् । शुष्मे॑भिः । बि॒स॒खाःऽइ॑व । अ॒रु॒ज॒त् । सानु॑ । गि॒री॒णाम् । त॒वि॒षेभिः॑ । ऊ॒र्मिऽभिः॑ ।
पा॒रा॒व॒त॒ऽघ्नीम् । अव॑से । सु॒वृ॒क्तिऽभिः॑ । सर॑स्वतीम् । आ । वि॒वा॒से॒म॒ । धी॒तिऽभिः॑ ॥२
इयम् । शुष्मेभिः । बिसखाःऽइव । अरुजत् । सानु । गिरीणाम् । तविषेभिः । ऊर्मिऽर्भिः ।
पारावतऽघ्नीम् । अवसे । सुवृक्तिऽभिः । सरस्वतीम् । आ । विवासेम । धीतिऽभिः ॥२॥
सरस्वती देवतारूपेण नदीरूपेण च वर्तते । देवतारूपा स्तुता । अधुनानया नदीरूपां सरस्वतीं स्तौति । "इयं नदीरूपा सरस्वती शुष्मैः शोषकैरात्मीयैर्बलैः “तविषेभिः महद्भिः “ऊर्मिभिः तरङ्गैः। “गिरीणां पर्वतानां तीरसंबद्धानां "सानु सानूनि "अरुजत् भनक्ति । “बिसखाइव । बिसं खनतीति बिसखाः । स यथा बिसार्थं पङ्कं रुजति तद्वत् । तां “सरस्वतीं पारावतघ्नीं परावति दूरदेशे विद्यमानस्यापि वृक्षादेर्हन्त्रीं “सुवृक्तिभिः स्तुतिभिः “धीतिभिः कर्मभिश्च “अवसे रक्षणार्थम् “आ “विवासेम परिचरेम । यद्वा । पारावतघ्नीं पारावारे परार्वाची तीरे । तयोर्घातिनीम् । उक्तं च--- ‘पारावतघ्नीं पारावारघातिनीम् ' ( निरु. २. २४) इति ॥
सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ ।
उ॒त क्षि॒तिभ्यो॒ऽवनी॑रविन्दो वि॒षमे॑भ्यो अस्रवो वाजिनीवति ॥३
सर॑स्वति । दे॒व॒ऽनिदः॑ । नि । ब॒र्ह॒य॒ । प्र॒ऽजाम् । विश्व॑स्य । बृस॑यस्य । मा॒यिनः॑ ।
उ॒त । क्षि॒तिऽभ्यः॑ । अ॒वनीः॑ । अ॒वि॒न्दः॒ । वि॒षम् । ए॒भ्यः॒ । अ॒स्र॒वः॒ । वा॒जि॒नी॒ऽव॒ति॒ ॥३
सरस्वति । देवऽनिदः । नि । बर्हय । प्रऽजाम् । विश्वस्य । बृसयस्य । मायिनः ।।
उत । क्षितिऽभ्यः । अवनीः । अविन्दः । विषम् । एभ्यः । अस्रवः । वाजिनीऽवति ॥३॥
हे "सरस्वति “देवनिदः देवानां निन्दकानसुरान् “नि बर्हय न्यबर्हयः । अवधीः । तथा “विश्वस्य व्याप्तस्य “मायिनः मायाविनः “बृसयस्य । बृसय इति त्वष्टुर्नामधेयम् । त्वष्टुः “प्रजां पुत्रं वृत्रासुरं च न्यवधीः । त्वत्साहाय्यादेवेन्द्रो हतवानित्यर्थः । "उत अपि च हे “वाजिनीवति अन्नवति सरस्वति त्वं “क्षितिभ्यः मनुष्येभ्यः “अवनीः असुरैरपहृता भूमीः "अविन्दः अलम्भयः । “एभ्यः मनुष्येभ्यः “विषम् उदकं च "अस्रवः अक्षारयः । यद्वा । क्षितयोऽसुरजनाः। तेभ्यः सकाशात् अवनीर्भूमीरविन्दः लब्धवत्यसि । तान् हत्वैभ्यश्चासुरेभ्यो विषं मृतिहेतुभूतं गरलमस्रवः ॥
प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
धी॒नाम॑वि॒त्र्य॑वतु ॥४
प्र । नः॒ । दे॒वी । सर॑स्वती । वाजे॑भिः । वा॒जिनी॑ऽवती ।
धी॒नाम् । अ॒वि॒त्री । अ॒व॒तु॒ ॥४
प्र । नः । देवी । सरस्वती । वाजेभिः । वाजिनीऽवती ।
धीनाम् । अवित्री । अवतु ॥ ४ ॥
“देवी दानादिगुणयुक्ता “वाजिनीवती । वाजोऽनं यस्यां क्रियायां सा वाजिनी । तद्युक्ता । “धीनां ध्यातॄणां स्तोतॄणाम् "अवित्री रक्षित्री । एवंभूता "सरस्वती “वाजेभिः अन्नैः "नः अस्मान् “प्र "अवतु प्रकर्षेण तर्पयतु ॥
यस्त्वा॑ देवि सरस्वत्युपब्रू॒ते धने॑ हि॒ते ।
इन्द्रं॒ न वृ॑त्र॒तूर्ये॑ ॥५
यः । त्वा॒ । दे॒वि॒ । स॒र॒स्व॒ति॒ । उ॒प॒ऽब्रू॒ते । धने॑ । हि॒ते ।
इन्द्र॑म् । न । वृ॒त्र॒ऽतूर्ये॑ ॥५
यः । त्वा । देवि । सरस्वति । उपऽब्रूते । धने । हिते।
इन्द्रम् । न । वृत्रऽतूर्ये ॥ ५ ॥
हे "देवि सरस्वति "यः स्तोता "वृत्रतूर्ये संग्रामे “धने “हिते निहिते निमित्तभूते सति "इन्द्रं “न इन्द्रमिव त्वाम् "उपब्रूते स्तौति तं रक्षेति शेषः ॥ ॥ ३० ।।
त्वं दे॑वि सरस्व॒त्यवा॒ वाजे॑षु वाजिनि ।
रदा॑ पू॒षेव॑ नः स॒निम् ॥६
त्वम् । दे॒वि॒ । स॒र॒स्व॒ति॒ । अव॑ । वाजे॑षु । वा॒जि॒नि॒ ।
रद॑ । पू॒षाऽइ॑व । नः॒ । स॒निम् ॥६
त्वम् । देवि । सरस्वति । अव । वाजेषु । वाजिनि ।
रद। पूषाऽइव । नः । सनिम् ॥ ६ ॥
हे "देवि दानादिगुणयुक्ते हे "वाजिनि । वाजो बलमन्नं वा । तद्युक्ते हे "सरस्वति "त्वं "वाजेषु संग्रामेषु "अव अस्मान् रक्ष । अपि च "नः अस्मभ्यं "पूषेव पोषको देव इव "सनिं संभजनीयं धनं “रद विलिख । प्रयच्छेति यावत् ॥
उ॒त स्या न॒ः सर॑स्वती घो॒रा हिर॑ण्यवर्तनिः ।
वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ॥७
उ॒त । स्या । नः॒ । सर॑स्वती । घो॒रा । हिर॑ण्यऽवर्तनिः ।
वृ॒त्र॒ऽघ्नी । व॒ष्टि॒ । सु॒ऽस्तु॒तिम् ॥७
उत । स्या । नः । सरस्वती । घोरा । हिरण्यऽवर्तनिः ।
वृत्रऽघ्नी । वष्टि । सुऽस्तुतिम् ॥७॥
"उत अपि च "स्या सा प्रसिद्धा "सरस्वती “घोरा शत्रूणां भयकारिणी “हिरण्यवर्तनिः । वर्ततेऽनेनेति वर्तनी रथः । हिरण्यमयो वर्तनिर्यस्याः सा तथोक्ता । वृत्रघ्नी वृत्राणां शत्रूणां हन्त्री । एवंभूता सा सरस्वती "नः अस्मदीयां सुष्टुतिं शोभनां स्तुतिं "वष्टि कामयताम् ।
यस्या॑ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर॑र्ण॒वः ।
अम॒श्चर॑ति॒ रोरु॑वत् ॥८
यस्याः॑ । अ॒न॒न्तः । अह्रु॑तः । त्वे॒षः । च॒रि॒ष्णुः । अ॒र्ण॒वः ।
अमः॑ । चर॑ति । रोरु॑वत् ॥८
यस्याः । अनन्तः । अह्रुतः । त्वेषः । चरिष्णुः । अर्णवः ।
अमः । चरति । रोरुवत् ॥ ८ ॥
"यस्याः सरस्वत्याः "अमः बलम् "अनन्तः अपर्यन्तोऽपरिमितः "अह्रुतः अहिंसितोऽकुटिलो वा "त्वेषः दीप्तः “चरिष्णुः चरणशीलः । सर्वत्राप्रतिहतगतिरित्यर्थः । "अर्णवः उदकवान् । उदकप्रद इत्यर्थः । एवंभूतः सन् "रोरुवत् भृशं शब्दं कुर्वन् "चरति वर्तते सा नो विश्व इत्युत्तरत्र संबन्धः ॥
सा नो॒ विश्वा॒ अति॒ द्विष॒ः स्वसॄ॑र॒न्या ऋ॒ताव॑री ।
अत॒न्नहे॑व॒ सूर्यः॑ ॥९
सा । नः॒ । विश्वा॑ । अति॑ । द्विषः॑ । स्वसॄः॑ । अ॒न्याः । ऋ॒तऽव॑री ।
अत॑न् । अहा॑ऽइव । सूर्यः॑ ॥९
सा। नः । विश्वाः । अति । द्विषः । स्वसॄः। अन्याः । ऋतऽवरी ।
अतन् । अहाऽइव । सूर्यः॥९॥
"सा सरस्वती “नः अस्मान् "विश्वाः सर्वाः द्विषः द्वेष्ट्रीः प्रजाः "अति नयतु अतितारयतु । तथा "स्वसॄः स्वयं सारिणीः सहोत्पन्ना वा “ऋतावरीः । ऋतमित्युदकनाम । तद्युक्ताः "अन्याः च नदीरस्मानतिनयतु । यद्वा । जस्येव ‘वा छन्दसि इति पूर्वसवर्णदीर्घः । उदकवत्यः स्वसारो भगिन्योऽन्या गङ्गाद्या नद्यश्चास्मान् शत्रून् अतिनयन्तु। तत्र दृष्टान्तः । "सूर्यः सर्वस्य प्रेरक आदित्यः "अतन् सततं गच्छन् "अहेव अहानीव । यथाहानि शीघ्रमतिनयति तद्वत् ॥
दशरात्रे तृतीयेऽहनि प्रउगे 'उत नः प्रिया' इति सारस्वतस्तृचः । सूत्रितं च--'उत नः प्रिया प्रियास्वित्यौष्णिहं प्रउगम्' ( आश्व. श्रौ. ७. १०) इति । पवित्रेष्ट्याम् ‘उत नः प्रिया' इति सारस्वतस्य हविषोऽनुवाक्या । सूत्रितं च--’उत नः प्रिया प्रियास्विमा जुह्वाना युष्मदा नमोभिः' ( आश्व. श्रौ. २. १२ ) इति ॥
उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा ।
सर॑स्वती॒ स्तोम्या॑ भूत् ॥१०
उ॒त । नः॒ । प्रि॒या । प्रि॒यासु॑ । स॒प्तऽस्व॑सा । सुऽजु॑ष्टा ।
सर॑स्वती । स्तोम्या॑ । भू॒त् ॥१०
उत । नः । प्रिया । प्रियासु । सप्तऽस्वसा सुऽजुष्टा ।
सरस्वती । स्तोम्या । भूत् ॥ १० ॥
“उत अपि च “नः अस्माकं “प्रियासु प्रियाणां मध्ये "प्रिया प्रियतमा “सप्तस्वसा। गायत्र्यादीनि सप्त छन्दांसि स्वसारो यस्यास्तादृशी । नदरूपायास्तु गङ्गाद्याः सप्त नद्यः स्वसारः । “सुजुष्टा सुष्ठु पुरातनैर्ऋषिभिः सेविता । एवंभूता “सरस्वती देवी “स्तोम्या "भूत् स्तोतव्या भवतु ॥ ॥ ३१ ॥
आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो॑ अ॒न्तरि॑क्षम् ।
सर॑स्वती नि॒दस्पा॑तु ॥११
आ॒ऽप॒प्रुषी॑ । पार्थि॑वानि । उ॒रु । रजः॑ । अ॒न्तरि॑क्षम् ।
सर॑स्वती । नि॒दः । पा॒तु॒ ॥११
आऽपप्रुषी । पार्थिवानि । उरु । रजः । अन्तरिक्षम् ।
सरस्वती । निदः । पातु ॥ ११ ॥
"पार्थिवानि पृथिव्याः संबन्धीनि “उरु उरूणि विस्तीर्णानि “रजः रजांसि लोकान् “अन्तरिक्षम् अन्तरा क्षान्तं नभश्च “आपप्रुषी स्वतेजसा पूरितवती “सरस्वती देवी “निदः निन्दकाच्छत्रोः “पातु अस्मान् रक्षतु ॥
त्रि॒ष॒धस्था॑ स॒प्तधा॑तु॒ः पञ्च॑ जा॒ता व॒र्धय॑न्ती ।
वाजे॑वाजे॒ हव्या॑ भूत् ॥१२
त्रि॒ऽस॒धस्था॑ । स॒प्तऽधा॑तुः । पञ्च॑ । जा॒ता । व॒र्धय॑न्ती ।
वाजे॑ऽवाजे । हव्या॑ । भू॒त् ॥१२
त्रिऽसधस्था । सप्तऽधातुः । पञ्च । जाता । वर्धयन्ती ।
वाजेऽवाजे । हव्या । भूत् ॥ १२ ॥
“त्रिषधस्था त्रिषु लोकेषु सहावतिष्ठमाना त्रिलोकव्यापिनी “सप्तधातुः । सप्त धातवोऽवयवा गायत्र्याद्या गङ्गाद्या वा यस्याः सा तथोक्ता । “पञ्च “जाता जातानि निषादपञ्चमांश्चतुरो वर्णान् गन्धर्वादीन् वा “वर्धयन्ती अभिवृद्धान् कुर्वती । ईदृशी सरस्वती “वाजेवाजे युद्धे युद्धे सर्वेषु युद्धेषु “हव्या “भूत् ह्वातव्या भवति ॥
प्र या म॑हि॒म्ना म॒हिना॑सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा॑म॒पस्त॑मा ।
रथ॑ इव बृह॒ती वि॒भ्वने॑ कृ॒तोप॒स्तुत्या॑ चिकि॒तुषा॒ सर॑स्वती ॥१३
प्र । या । म॒हि॒म्ना । म॒हिना॑ । आ॒सु॒ । चेकि॑ते । द्यु॒म्नेभिः॑ । अ॒न्याः । अ॒पसा॑म् । अ॒पःऽत॑मा ।
रथः॑ऽइव । बृ॒ह॒ती । वि॒ऽभ्वने॑ । कृ॒ता । उ॒प॒ऽस्तुत्या॑ । चि॒कि॒तुषा॑ । सर॑स्वती ॥१३
प्र । या । महिम्ना । महिना । आसु । चेकिते । द्युम्नेभिः । अन्याः । अपसाम् । अपःऽतमा ।
रथःऽइव । बृहती । विऽभ्वने । कृता । उपऽस्तुत्या । चिकितुषा । सरस्वती ॥ १३ ॥
"महिम्ना माहात्म्येन “महिना महती “द्युम्नेभिः शुभैर्द्योतमानैर्यशोभिरन्नैर्वा युक्ता सती “आसु आसां नदीनां देवतानां वा मध्ये “या सरस्वती “प्र “चेकिते प्रकर्षेण ज्ञायते । या च "अन्याः अन्यासाम् ।। ' सुपां सुलुक्' इति षष्ठीबहुवचनस्य जस् ॥ “अपसां वेगवतीनां नदीनां मध्ये “अपस्तमा वेगवत्तमा । या च “रथइव “विभ्वने विभुत्वाय “बृहती परिवृढा गुणैरधिका “कृता प्रजापतिना निर्मिता सा “सरस्वती “चिकितुषा जानता स्तोत्रा “उपस्तुत्या उपस्तोतव्या भवति ॥
सर॑स्वत्य॒भि नो॑ नेषि॒ वस्यो॒ माप॑ स्फरी॒ः पय॑सा॒ मा न॒ आ ध॑क् ।
जु॒षस्व॑ नः स॒ख्या वे॒श्या॑ च॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि गन्म ॥१४
सर॑स्वति । अ॒भि । नः॒ । ने॒षि॒ । वस्यः॑ । मा । अप॑ । स्फ॒रीः॒ । पय॑सा । मा । नः॒ । आ । ध॒क् ।
जु॒षस्व॑ । नः॒ । स॒ख्या । वे॒श्या॑ । च॒ । मा । त्वत् । क्षेत्रा॑णि । अर॑णानि । ग॒न्म॒ ॥१४
सरस्वति । अभि । नः । नेषि । वस्यः । मा । अप । स्फरीः । पयसा । मा । नः। आ । धक् ।।
जुषस्व । नः । सख्या । वेश्या । च । मा। त्वत् । क्षेत्राणि । अरणानि । गन्म ॥ १४ ॥
हे सरस्वति “नः अस्मान् “वस्यः वसीयः प्रशस्तं स्फारो वसु धनम् अभि नेषि अभिप्रापय । “माप “स्फरीः अप्रवृद्धान् मा कार्षीः । वृद्धिः । उपसर्गवशात् तद्विपरीते वर्तते । तथा “पयसा उदकेनाधिकेन “नः अस्मान् “मा “आ “धक् नाभिदह । ने बाधस्व । अपि च “नः अस्माकं “सख्या सख्यानि सखिकर्माणि “वेश्या प्रवेशनानि “च जुषस्व सेवस्व । वयं च त्वत्सकाशात् “अरणानि अरमणानि निकृष्टानि “क्षेत्राणि "मा “गन्म मा प्राप्नवाम । अपि तु रमणीयान्येव ॥ ॥ ३२ ॥ ॥ ५ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये चतुर्थाष्टकेऽष्टमोऽध्यायः समाप्तः।।
टिप्पणी
सरस्वत्योपरि पौराणिकाः संदर्भाः
६.६१.४ प्र णो देवी इति
मन्त्रेण न्यासः - या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः । नामरूपात्मना व्यक्ता सा मां पातु सरस्वति ॥ सरस्वतीरहस्योपनिषत् २.१ ॥
मण्डल ६ | ||||
---|---|---|---|---|