सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०४/१४८

विकिस्रोतः तः
पौषम्
पौषम्

यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः ।
तत्र पूषाभुवत्सचा ।। १४८ ।। ऋ. ६.५७.४



(१४८।१) ।। पौषे द्वे । द्वयोः पूषा गायत्रीन्द्रः, पूषणौ ।।
यदिन्द्रोया।। नायाऽ२३त् । ओमोऽ३म् । ओवा । रितोमहीरापाऽ२३ः । ओमोऽ३म् ।
ओवा।। वृषावृषाऽ२ ।। तमाऽ३४औहोवा ।। तत्रपूषाभुवत्सचाऽ२३४५ ।। ( ञु । २५१)
( दी ७ ।प० १० । मा० ५) ६

(१४८।२)
यदिन्द्रोअनयद्रिताऽ६ए।। महीरापाऽ२ः । महीरापाऽ२३ः । वार्षंताऽ२३४माः ।।
तत्रापूषाऽ३ ।। पूऽ२षाऽ२३४औहोवा।। भुवत्सचाऽ२३४५ ।। ( फू । २५२)
( दी० ५ । प० ७ मा० ६ )७


सायणभाष्यम्

‘यद्’ यदि “इन्द्रः" “वृषन्तमः ” अतिशयेन वर्षिता इन्द्रः “रितः” गच्छतीः “महोः ” महतो: “अपः " वृष्ट्युदकानि "अनयत्" इमं लोकं प्रापयति । ‘तत्र तदानीं पूषा' पोषको देवः “सचा भुवत् ” इन्द्रस्य सहाया भवति ॥ ४ ॥


[सम्पाद्यताम्]

टिप्पणी

अथातः सौभाग्यानाम्। यदिन्द्रो अनयदुच्चा ते ........प्रयुञ्जानः सुभगो भवति। - सामविधानब्राह्मणम् २.६.१