सामग्री पर जाएँ

ऋग्वेदः सूक्तं ६.५३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ६.५३ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ६.५२ ऋग्वेदः - मण्डल ६
सूक्तं ६.५३
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.५४ →
दे. पूषा। गायत्री, ८ अनुष्टुप्।


वयमु त्वा पथस्पते रथं न वाजसातये ।
धिये पूषन्नयुज्महि ॥१॥
अभि नो नर्यं वसु वीरं प्रयतदक्षिणम् ।
वामं गृहपतिं नय ॥२॥
अदित्सन्तं चिदाघृणे पूषन्दानाय चोदय ।
पणेश्चिद्वि म्रदा मनः ॥३॥
वि पथो वाजसातये चिनुहि वि मृधो जहि ।
साधन्तामुग्र नो धियः ॥४॥
परि तृन्धि पणीनामारया हृदया कवे ।
अथेमस्मभ्यं रन्धय ॥५॥
वि पूषन्नारया तुद पणेरिच्छ हृदि प्रियम् ।
अथेमस्मभ्यं रन्धय ॥६॥
आ रिख किकिरा कृणु पणीनां हृदया कवे ।
अथेमस्मभ्यं रन्धय ॥७॥
यां पूषन्ब्रह्मचोदनीमारां बिभर्ष्याघृणे ।
तया समस्य हृदयमा रिख किकिरा कृणु ॥८॥
या ते अष्ट्रा गोपशाघृणे पशुसाधनी ।
तस्यास्ते सुम्नमीमहे ॥९॥
उत नो गोषणिं धियमश्वसां वाजसामुत ।
नृवत्कृणुहि वीतये ॥१०॥


सायणभाष्यम्

‘वयमु त्वा' इति दशर्चं चतुर्थं सूक्तं भरद्वाजस्यार्षं पौष्णम्। ‘यां पूषन् ' इत्यनुष्टुप् शिष्टा गायत्र्यः । तथा चानुक्रान्तं - 'वयं दश पौष्णं तद्गायत्रं वै यां पूषन्ननुष्टुप् ' इति । अर्थार्थिभिः प्रवसद्भिरेतज्जप्यम् । सूत्रितं च -- वयमु त्वा पथस्पते इत्यर्थचर्यां चरिष्यन् ' (आश्व. गृ. ३, ७, ८ ) इति । जपेदिति शेष: ३ ॥


व॒यमु॑ त्वा पथस्पते॒ रथं॒ न वाज॑सातये ।

धि॒ये पू॑षन्नयुज्महि ॥१

व॒यम् । ऊं॒ इति॑ । त्वा॒ । प॒थः॒ । प॒ते॒ । रथ॑म् । न । वाज॑ऽसातये ।

धि॒ये । पू॒ष॒न् । अ॒यु॒ज्म॒हि॒ ॥१

वयम् । ऊं इति । त्वा । पथः । पते । रथम् । न । वाजऽसातये ।

धिये । पूषन् । अयुज्महि ॥१

हे “पथस्पते मार्गस्य पालयितः “पूषन् “धिये कर्मार्थं “वाजसातये अन्नस्य लाभाय च “वयं “रथं "न युद्धे रथमिव “त्वा त्वाम् “अयुज्महि युज्महि । अस्मदभिमुखं कुर्मः । “उ इति पूरकः ॥


अ॒भि नो॒ नर्यं॒ वसु॑ वी॒रं प्रय॑तदक्षिणम् ।

वा॒मं गृ॒हप॑तिं नय ॥२

अ॒भि । नः॒ । नर्य॑म् । वसु॑ । वी॒रम् । प्रय॑तऽदक्षिणम् ।

वा॒मम् । गृ॒हऽप॑तिम् । न॒य॒ ॥२

अभि । नः । नर्यम् । वसु । वीरम् । प्रयतऽदक्षिणम् ।

वामम् । गृहऽपतिम् । नय ॥२

हे पूषन् “नर्यं नृभ्यो हितं “वसु धनम् "अभि प्राप्तुं “वीरं दारिद्र्यस्य विशेषेण ईरयितारं गमयितारं “प्रयतदक्षिणं पूर्वमन्येभ्योऽपि दत्तधनम् । यद्वा । प्रयतं शुद्धं दक्षिणं धनं यस्य तादृशम् । “वामं वननीयमेवंविधं “गृहपतिं गृहस्थं " नः अस्मान् “नय प्रापय ॥


अदि॑त्सन्तं चिदाघृणे॒ पूष॒न्दाना॑य चोदय ।

प॒णेश्चि॒द्वि म्र॑दा॒ मन॑ः ॥३

अदि॑त्सन्तम् । चि॒त् । आ॒घृ॒णे॒ । पूष॑न् । दाना॑य । चो॒द॒य॒ ।

प॒णेः । चि॒त् । वि । म्र॒द॒ । मनः॑ ॥३

अदित्सन्तम् । चित् । आघृणे । पूषन् । दानाय । चोदय ।

पणेः । चित् । वि । म्रद । मनः ॥३

हे “आघृणे अगतदीप्ते “पूषन् “अदित्सन्तं “चित् दातुमनिच्छन्तमपि पुरुषं “दानाय अस्मद्दानार्थं “चोदय प्रेरय । "पणेश्चित् वणिजोऽपि वार्धुषिकस्य लुब्धस्यापि “मनः हृदयं “वि “म्रद दानार्थ मृदूकुरु ।।


वि प॒थो वाज॑सातये चिनु॒हि वि मृधो॑ जहि ।

साध॑न्तामुग्र नो॒ धिय॑ः ॥४

वि । प॒थः । वाज॑ऽसातये । चि॒नु॒हि । वि । मृधः॑ । ज॒हि॒ ।

साध॑न्ताम् । उ॒ग्र॒ । नः॒ । धियः॑ ॥४

वि । पथः । वाजऽसातये । चिनुहि । वि । मृधः । जहि ।

साधन्ताम् । उग्र । नः । धियः ॥४

हे “उग्र उद्गूर्णबल पूषन् "पथः मार्गान् "वाजसातये अन्नलाभाय “वि “चिनुहि । शोधितान् कुरु । यैः पथिभिर्गता धनं लभेमहि तादृशान् पथः पृथक्कुर्वित्यर्थः। “मृधः बाधकानू तस्करादींश्च “वि "जहि बाधस्व । तथा “नः अस्माकं “धियः कर्माणि अन्नलाभार्थं क्रियमाणानि “साधन्तां सिध्यन्तु । सफलानि भवन्तु ॥


परि॑ तृन्धि पणी॒नामार॑या॒ हृद॑या कवे ।

अथे॑म॒स्मभ्यं॑ रन्धय ॥५

परि॑ । तृ॒न्धि॒ । प॒णी॒नाम् । आर॑या । हृद॑या । क॒वे॒ ।

अथ॑ । ई॒म् । अ॒स्मभ्य॑म् । र॒न्ध॒य॒ ॥५

परि । तृन्धि । पणीनाम् । आरया । हृदया । कवे ।

अथ । ईम् । अस्मभ्यम् । रन्धय ॥५

हे "कवे प्राज्ञ पूषन् “पणीनां वणिजां लुब्धानां “हृदया हृदयानि कठिनानि “आरया । सूक्ष्मलोहाग्रो दण्डः प्रतोद इति आरा इति चाख्यायते । तया “परि “तृन्धि परिविध्य । हृद्गतं काठिन्यमपनयेत्यर्थः । “अथ अनन्तरम् “ईम् एनान् पणीन् “अस्मभ्यं “रन्धय वशीकुरु ।। ॥ १७ ॥


वि पू॑ष॒न्नार॑या तुद प॒णेरि॑च्छ हृ॒दि प्रि॒यम् ।

अथे॑म॒स्मभ्यं॑ रन्धय ॥६

वि । पू॒ष॒न् । आर॑या । तु॒द॒ । प॒णेः । इ॒च्छ॒ । हृ॒दि । प्रि॒यम् ।

अथ॑ । ई॒म् । अ॒स्मभ्य॑म् । र॒न्ध॒य॒ ॥६

वि । पूषन् । आरया । तुद । पणेः । इच्छ । हृदि । प्रियम् ।

अथ । ईम् । अस्मभ्यम् । रन्धय ॥६

हे “पूषन् "आरया प्रतोदेन "पणेः वणिजः हृदयं “वि "तुद विविध्य । तस्य पणेः "हृदि हृदये “प्रियम् अस्मभ्यमनुकूलं धनम् “इच्छ दातव्यमितीच्छां जनय । “अथ अनन्तरम् “अस्मभ्यम् “ईम् एनान् “रन्धय वशीकुरु ॥


आ रि॑ख किकि॒रा कृ॑णु पणी॒नां हृद॑या कवे ।

अथे॑म॒स्मभ्यं॑ रन्धय ॥७

आ । रि॒ख॒ । कि॒कि॒रा । कृ॒णु॒ । प॒णी॒नाम् । हृद॑या । क॒वे॒ ।

अथ॑ । ई॒म् । अ॒स्मभ्य॑म् । र॒न्ध॒य॒ ॥७

आ । रिख । किकिरा । कृणु । पणीनाम् । हृदया । कवे ।

अथ । ईम् । अस्मभ्यम् । रन्धय ॥७

हे "कवे प्राज्ञ पूषन् “पणीनां वणिजां "हृदया हृदयानि “आ "रिख आलिख । आलिख्य च “किकिरा कीर्णानि प्रशिथिलानि "कृणु कुरु । मृदूनि कुर्वित्यर्थः । अन्यद्गतम् ॥


यां पू॑षन्ब्रह्म॒चोद॑नी॒मारां॒ बिभ॑र्ष्याघृणे ।

तया॑ समस्य॒ हृद॑य॒मा रि॑ख किकि॒रा कृ॑णु ॥८

याम् । पू॒ष॒न् । ब्र॒ह्म॒ऽचोद॑नीम् । आरा॑म् । बिभ॑र्षि । आ॒घृ॒णे॒ ।

तया॑ । स॒म॒स्य॒ । हृद॑यम् । आ । रि॒ख॒ । कि॒कि॒रा । कृ॒णु॒ ॥८

याम् । पूषन् । ब्रह्मऽचोदनीम् । आराम् । बिभर्षि । आघृणे ।

तया । समस्य । हृदयम् । आ । रिख । किकिरा । कृणु ॥८

हे “आघृणे आगतदीप्ते “पूषन् “ब्रह्मचोदनीं ब्रह्मणोऽन्नस्य प्रेरयित्रीं “याम् “आरां “बिभर्षि हस्ते धारयसि “तया “समस्य सर्वस्य लुब्धजनस्य “हृदयम् “आ “रिख आलिख। “किकिरा किकिराणि कीर्णानि प्रशिथिलानि च “कृणु कुरु ॥


या ते॒ अष्ट्रा॒ गोओ॑प॒शाघृ॑णे पशु॒साध॑नी ।

तस्या॑स्ते सु॒म्नमी॑महे ॥९

या । ते॒ । अष्ट्रा॑ । गोऽओ॑पशा । आघृ॑णे । प॒शु॒ऽसाध॑नी ।

तस्याः॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥९

या । ते । अष्ट्रा । गोऽओपशा । आघृणे । पशुऽसाधनी ।

तस्याः । ते । सुम्नम् । ईमहे ॥९

हे “आघृणे आगतदीप्ते पूषन् "ते त्वदीया “या “अष्ट्रा आरा “गोओपशा । उपशेरते इत्योपशाः । गाव ओपशा यस्यास्तादृशी। अतएव “पशुसाधनी पशूनां साधयित्री भवति “ते त्वदीयायाः “तस्याः संबन्धि “सुम्नं सुखम् “ईमहे याचामहे ॥


उ॒त नो॑ गो॒षणिं॒ धिय॑मश्व॒सां वा॑ज॒सामु॒त ।

नृ॒वत्कृ॑णुहि वी॒तये॑ ॥१०

उ॒त । नः॒ । गो॒ऽसनि॑म् । धिय॑म् । अ॒श्व॒साम् । वा॒ज॒ऽसाम् । उ॒त ।

नृ॒ऽवत् । कृ॒णु॒हि॒ । वी॒तये॑ ॥१०

उत । नः । गोऽसनिम् । धियम् । अश्वसाम् । वाजऽसाम् । उत ।

नृऽवत् । कृणुहि । वीतये ॥१०

"उत अपि च हे पूषन् “गोषणिं गवां सनित्रीम् “अश्वसाम् अश्वानां सनित्रीं “वाजसां वाजानामन्नानां सनित्रीम् “उत अपि च “नृवत् नृवतीं यद्वा नृणां वनित्रीं दात्रीमेवंभूतां “धियं बुद्धिं कर्म वा “नः अस्माकं “वीतये खादनायोपभोगार्थं “कृणुहि कुरु ॥ ॥ १८ ॥

टिप्पणी

पुष्यन् क्षितिं पोषयति प्रणुदन् रश्मिभिस्तमः । तेनैनमस्तौत्पूषेति भरद्वाजस्तु पञ्चभिः ।।बृहद्देवता २.६३ ।।

पूषोपरि टिप्पणी

पूषोपरि टिप्पणी

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.५३&oldid=200267" इत्यस्माद् प्रतिप्राप्तम्