ऋग्वेदः सूक्तं ६.५४
← सूक्तं ६.५३ | ऋग्वेदः - मण्डल ६ सूक्तं ६.५४ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.५५ → |
दे. पूषा। गायत्री। |
सं पूषन्विदुषा नय यो अञ्जसानुशासति ।
य एवेदमिति ब्रवत् ॥१॥
समु पूष्णा गमेमहि यो गृहाँ अभिशासति ।
इम एवेति च ब्रवत् ॥२॥
पूष्णश्चक्रं न रिष्यति न कोशोऽव पद्यते ।
नो अस्य व्यथते पविः ॥३॥
यो अस्मै हविषाविधन्न तं पूषापि मृष्यते ।
प्रथमो विन्दते वसु ॥४॥
पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः ।
पूषा वाजं सनोतु नः ॥५॥
पूषन्ननु प्र गा इहि यजमानस्य सुन्वतः ।
अस्माकं स्तुवतामुत ॥६॥
माकिर्नेशन्माकीं रिषन्माकीं सं शारि केवटे ।
अथारिष्टाभिरा गहि ॥७॥
शृण्वन्तं पूषणं वयमिर्यमनष्टवेदसम् ।
ईशानं राय ईमहे ॥८॥
पूषन्तव व्रते वयं न रिष्येम कदा चन ।
स्तोतारस्त इह स्मसि ॥९॥
परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् ।
पुनर्नो नष्टमाजतु ॥१०॥
सायणभाष्यम्
‘सं पूषन् ' इति दशर्चं पञ्चमं सूक्तं भरद्वाजस्यार्षं पौष्णं गायत्रम् । ‘ सं पूषन् ' इत्यनुक्रान्तम् । नष्टधनमन्विच्छता पुरुषेणैतज्जप्यम् । सूत्रितं च -- सं पूषन्विदुषेति नष्टमधिजिगमिषन्मूळ्हो वा ' ( आश्व. गृ. ३. ७. ९) इति ॥
सं पू॑षन्वि॒दुषा॑ नय॒ यो अञ्ज॑सानु॒शास॑ति ।
य ए॒वेदमिति॒ ब्रव॑त् ॥१
सम् । पू॒ष॒न् । वि॒दुषा॑ । न॒य॒ । यः । अञ्ज॑सा । अ॒नु॒ऽशास॑ति ।
यः । ए॒व । इ॒दम् । इति॑ । ब्रव॑त् ॥१
सम् । पूषन् । विदुषा । नय । यः । अञ्जसा । अनुऽशासति ।
यः । एव । इदम् । इति । ब्रवत् ॥१
हे “पूषन् पोषक देव "विदुषा जानता तेन जनेन “सं “नय अस्मान् संगमय “यः विद्वान् “अञ्जसा ऋजुमार्गेण “अनुशासति अनुशास्ति नष्टद्रव्यप्राप्त्युपायमुपदिशति । “यः च “एव एवम् “इदं नष्टं भवदीयं धनम् “इति “ब्रवत् ब्रवीति । नष्टं धनं दर्शयतीत्यर्थः । तेन विदुषेत्यन्वयः ॥
समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति ।
इ॒म ए॒वेति॑ च॒ ब्रव॑त् ॥२
सम् । ऊं॒ इति॑ । पू॒ष्णा । ग॒मे॒म॒हि॒ । यः । गृ॒हान् । अ॒भि॒ऽशास॑ति ।
इ॒मे । ए॒व । इति॑ । च॒ । ब्रव॑त् ॥२
सम् । ऊं इति । पूष्णा । गमेमहि । यः । गृहान् । अभिऽशासति ।
इमे । एव । इति । च । ब्रवत् ॥२
“पूष्णा अनुगृहीता वयं “सं “गमेमहि तेन जनेन संगच्छेमहि “यः जनः “गृहान् येषु गृहेषु अस्मदीया नष्टाः पशवस्तिष्ठन्ति तान् गृहान् “अभिशासति अभिशास्ति आभिमुख्येन बोधयति । यश्च “इमे त्वदीया नष्टाः पशवः “एव एवं तिष्ठन्ति “इति “च “ब्रवत् ब्रूयात् ॥
पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते ।
नो अ॑स्य व्यथते प॒विः ॥३
पू॒ष्णः । च॒क्रम् । न । रि॒ष्य॒ति॒ । न । कोशः॑ । अव॑ । प॒द्य॒ते॒ ।
नो इति॑ । अ॒स्य॒ । व्य॒थ॒ते॒ । प॒विः ॥३
पूष्णः । चक्रम् । न । रिष्यति । न । कोशः । अव । पद्यते ।
नो इति । अस्य । व्यथते । पविः ॥३
“पूष्णः पोषकस्य देवस्य “चक्रम् आयुधं “न “रिष्यति न विनश्यति । अस्य चक्रस्य “कोशः च “न “अव “पद्यते न हीयते । “अस्य "पविः धारा च "नो नैव “व्यथते कुण्ठीभवति । तेन चक्रेण चोरान् हत्वा अस्मदीयं धनं प्रकाशयेति भावः ॥
यो अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते ।
प्र॒थ॒मो वि॑न्दते॒ वसु॑ ॥४
यः । अ॒स्मै॒ । ह॒विषा॑ । अवि॑धत् । न । तम् । पू॒षा । अपि॑ । मृ॒ष्य॒ते॒ ।
प्र॒थ॒मः । वि॒न्द॒ते॒ । वसु॑ ॥४
यः । अस्मै । हविषा । अविधत् । न । तम् । पूषा । अपि । मृष्यते ।
प्रथमः । विन्दते । वसु ॥४
“यः यजमानः “अस्मै पूष्णे "हविषा चरुपुरोडाशादिना “अविधत् परिचरति “तं यजमानं “पूषा “न “अपि "मृष्यते । अपिशब्द ईषदर्थे । ईषदपि न हिनस्ति । स च “प्रथमः मुख्यः सन् "वसु धनं “विन्दते लभते ॥
पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः ।
पू॒षा वाजं॑ सनोतु नः ॥५
पू॒षा । गाः । अनु॑ । ए॒तु॒ । नः॒ । पू॒षा । र॒क्ष॒तु॒ । अर्व॑तः ।
पू॒षा । वाज॑म् । स॒नो॒तु॒ । नः॒ ॥५
पूषा । गाः । अनु । एतु । नः । पूषा । रक्षतु । अर्वतः ।
पूषा । वाजम् । सनोतु । नः ॥५
“पूषा पोषको देवः “नः अस्मदीयाः "गाः "अन्वेतु रक्षणार्थमनुगच्छतु । स च “पूषा "अर्वतः अश्वान् “रक्षतु चोरेभ्यः । तथा “वाजम् अन्नं च “नः अस्मभ्यं “पूषा “सनोतु प्रयच्छतु ॥ ॥१९॥
पूष॒न्ननु॒ प्र गा इ॑हि॒ यज॑मानस्य सुन्व॒तः ।
अ॒स्माकं॑ स्तुव॒तामु॒त ॥६
पूष॑न् । अनु॑ । प्र । गाः । इ॒हि॒ । यज॑मानस्य । सु॒न्व॒तः ।
अ॒स्माक॑म् । स्तु॒व॒ताम् । उ॒त ॥६
पूषन् । अनु । प्र । गाः । इहि । यजमानस्य । सुन्वतः ।
अस्माकम् । स्तुवताम् । उत ॥६
हे “पूषन् “सुन्वतः सोमाभिषवं कुर्वतः “यजमानस्य “गाः पशून् “अनु “प्र “इहि रक्षणार्थमनुगच्छ । "उत अपि च “स्तुवतां त्वद्विषयं स्तोत्रं कुर्वताम् “अस्माकं गाश्चानुगच्छ ॥
माकि॑र्नेश॒न्माकीं॑ रिष॒न्माकीं॒ सं शा॑रि॒ केव॑टे ।
अथारि॑ष्टाभि॒रा ग॑हि ॥७
माकिः॑ । ने॒श॒त् । माकी॑म् । रि॒ष॒त् । माकी॑म् । सम् । शा॒रि॒ । केव॑टे ।
अथ॑ । अरि॑ष्टाभिः । आ । ग॒हि॒ ॥७
माकिः । नेशत् । माकीम् । रिषत् । माकीम् । सम् । शारि । केवटे ।
अथ । अरिष्टाभिः । आ । गहि ॥७
हे “पूषन् अस्मदीयं गोधनं “माकिर्नेशत् मा नश्यतु । माकिर्माकीम् इत्येतौ प्रतिषेधमात्रे वर्तेते । “माकीं “रिषत् । मा व्याघ्रादिभिर्हिंस्यताम् । “माकीं मा च "केवटे कूपे “सं “शारि संशीर्णं भूत् । कूपपातेनापि हिंसितं मा भवतु । “अथ एवं सति “अरिष्टाभिः अहिंसिताभिर्गोभिः सह “आ “गहि सायंकाले आगच्छ ।
शृ॒ण्वन्तं॑ पू॒षणं॑ व॒यमिर्य॒मन॑ष्टवेदसम् ।
ईशा॑नं रा॒य ई॑महे ॥८
शृ॒ण्वन्त॑म् । पू॒षण॑म् । व॒यम् । इर्य॑म् । अन॑ष्टऽवेदसम् ।
ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥८
शृण्वन्तम् । पूषणम् । वयम् । इर्यम् । अनष्टऽवेदसम् ।
ईशानम् । रायः । ईमहे ॥८
अस्मत्स्तोत्राणि “शृण्वन्तम् “इर्यँ दारिद्र्यस्य प्रेरकम् "अनष्टवेदसम् अविनष्टधनम् “ईशानं सर्वस्येश्वरमेवंविधं “पूषणं देवं “वयं “रायः धनानि “ईमहे याचामहे ॥
चातुर्मास्येषु वैश्वदेवे पर्वणि पौष्णस्य हविषः पूषन्तव व्रते ' इत्येषानुवाक्या। सूत्रितं च--- ‘ वाममद्य सवितर्वाममु श्वः पूषन्तव व्रते वयम् ' ( आश्व. श्रौ. २. १६ ) इति ॥
पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न ।
स्तो॒तार॑स्त इ॒ह स्म॑सि ॥९
पूष॑न् । तव॑ । व्र॒ते । व॒यम् । न । रि॒ष्ये॒म॒ । कदा॑ । च॒न ।
स्तो॒तारः॑ । ते॒ । इ॒ह । स्म॒सि॒ ॥९
पूषन् । तव । व्रते । वयम् । न । रिष्येम । कदा । चन ।
स्तोतारः । ते । इह । स्मसि ॥९
हे “पूषन् पोषक “तव त्वदीये “व्रते कर्मणि वर्तमानाः “वयं “कदा "चन कदाचिदपि “न “रिष्येम हिंसिता न भवेस । तादृशाश्च वयम् “इह अस्मिन् कर्मणि “ते तव “स्तोतारः “स्मसि स्मः । भवामः ।।
परि॑ पू॒षा प॒रस्ता॒द्धस्तं॑ दधातु॒ दक्षि॑णम् ।
पुन॑र्नो न॒ष्टमाज॑तु ॥१०
परि॑ । पू॒षा । प॒रस्ता॑त् । हस्त॑म् । द॒धा॒तु॒ । दक्षि॑णम् ।
पुनः॑ । नः॒ । न॒ष्टम् । आ । अ॒ज॒तु॒ ॥१०
परि । पूषा । परस्तात् । हस्तम् । दधातु । दक्षिणम् ।
पुनः । नः । नष्टम् । आ । अजतु ॥१०
“पूषा पोषको देवः “परस्तात् परस्मिन् देशे सुसंचारादन्यस्मिन् चोरव्याघ्रादिभिरुषिते देशे गच्छतो गोधनस्य निवारणाय स्वकीयं “दक्षिणं “हस्तं “परि “दधातु । परिधानं निवारकं करोतु ।। “नः अस्मदीयं “नष्टं च गोधनं “पुनः “आजतु आगच्छतु । आगमयतु ।। ॥ २० ॥
मण्डल ६ | ||||
---|---|---|---|---|