सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/साकमश्वम्
२१
एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः ।
एभिर्वर्धास इन्दुभिः ॥ ७०५ ॥ ऋ. ६.१६.१६
यत्र क्व च ते मनो दक्षं दधस उत्तरं ।
तत्रा योनिं कृणवसे ॥ ७०६ ॥
न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते ।
अथा दुवो वनवसे ॥ ७०७ ॥
१५ साकमश्वम् ।। साकमश्वः । गायत्री । अग्निः ।।
एह्यूषूऽ३ब्रवाणाऽ६इताइ।। अग्न इत्थेतरागाऽ२इराः । एभाऽ२इर्वर्धा ।। सयाऽ२३हाऽ३४३इ ।। दूऽ२३४भोऽ६”हाइ ।। श्रीः ।। यत्रकूऽ३वचतेमाऽ६नाः ।। दक्षंदधसउत्ताऽ२राम् । तत्राऽ२योनाइम् ।। कृणाऽ२३हाऽ३४३इ ।। वाऽ२३४सोऽ६”हाइ ।। श्रीः ।। नहिताऽ३इपूर्तमक्षाऽ६इपात् ।। भुवन्नेमानाम्पाऽ२ताइ । अथाऽ२दुवाः ।। वनाऽ२३हाऽ३४३इ ।। वाऽ२३४सोऽ६”हाह ।।
दी. १२ उत्. १ मा. २२. चा. ।।१५।।
टिप्पणी
अग्निष्टोमं वै देवा अश्रयन्तोक्थान्यसुरास्ते समावद्वीर्या एवाऽऽसन्न व्यवर्तन्त तान्भरद्वाज ऋषीणामपश्यदिमे वा असुरा उक्थेषु श्रितास्तानेषां न कश्चन पश्यतीति सोऽग्निमुदह्वयत्। एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिर इति। असुर्या ह वा इतरा गिरः। सोऽग्निरुपोत्तिष्ठन्नब्रवीत्किंस्विदेव मह्यं कृशो दीर्घः पलितो वक्ष्यतीति। भरद्वाजो ह वै कृशो दीर्घः पलित आस। सोऽब्रवीदिमे वा असुरा उक्थेषु श्रितास्तान्वो न कश्चन पश्यतीति। तानग्निरश्वो भूत्वाऽभ्यत्यद्रवद्यदग्निरश्वो भूत्वाऽभ्यत्यद्रवत्तत्साकमश्वं सामाभवत्तत्साकमश्वस्य साकमश्वत्वम्। ऐ.ब्रा ३.४९
तद् व् एवाचक्षते साकमश्वम् इति। कक्षीवान् प्रियमेधम् अपृच्छत् - इद्ध इन् न दिदीपा3 इत् प्रियमेधेति। तद् अस्य नामनुत। सो ऽब्रवीत् - प्रजायान् मे त्वा प्रतिब्रवद् इति। अथ ह कक्षीवतो नाकुलिभस्त्रास प्रियंगुतण्डुलानां वा सिकतानां वा पूर्णा। तासां ह स्म संवत्सरे संवत्सर एकैकां प्रास्यति। तावद् धास्मा आयुर् दत्तम् आस। स उ ह नवमस् साकमश्व आजज्ञे प्रियमेधात्। सो ऽकामयतोद् इत इयां, गातुं प्रतिवचनं विन्देयेति। स एतत् सामापश्यत्। तद् अभ्यगायत। ततः प्रतिवचनम् अपश्यत्। स कक्षीवन्तम् अभ्याद्रवत्। तम् अब्रवीद् आद्रवन्तं दृष्ट्वा - इमां मे भस्त्राम् उदके प्रास्यत, इमम् अहं तं पश्यामि यो मां प्रत्युच्यातिप्रक्ष्यतीति। अथ हैनम् अभ्येव जगाम। स होवाच - य ऋचं करोति न साम, स इद्धो न दिदीपे। अथ य ऋचं च काम च करोति, स इद्धस् स दिदीपे। एतत् त्वाहं प्रतिब्रवीम्य् एतन् मे पितैतत् पितामह एतत् प्रपितामह इत्य् आ ह प्रियमेधाद् गमयांचकार। तद् एतत् तेजो ब्रह्मवर्चसं साम। एतेन वै स पूर्वेषां पितमहानां पाप्मानम् अपाहन्। तेजस्वी ब्रह्मवर्चसी भवत्य्, अप पूर्वेषां पितामहानां पाप्मानं हते य एवं वेद। यद् उ साकमश्वो ऽपश्यत् तस्मात् साकमश्वम् इत्य् आख्यायते। - जैब्रा ३.१०१
तासु साकमश्वम्। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् अश्व एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा साकं वा अश्वेन स्वर्गं लोकम् अगन्मेति। तद् एव साकमश्वस्य साकमश्वत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद॥ - जैब्रा १.१८२
तेऽग्निं मुखं कृत्वा साकमश्वेनाभ्यक्रामन् यत् साकमश्वेनाभ्यक्रामंस्तस्मात् साकमश्वम्। तस्मात् साकमश्वेनोक्थानि प्रणयन्त्येतेन हि तान्यग्रेऽभ्यजयन् - पञ्च.ब्रा ८.८.४