ऋग्वेदः सूक्तं ६.२८
← सूक्तं ६.२७ | ऋग्वेदः - मण्डल ६ सूक्तं ६.२८ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.२९ → |
दे. गावः, २, ८ इन्द्रो गावो वा। त्रिष्टुप् , २-४ जगती, ८ अनुष्टुप्। |
आ गावो अग्मन्नुत भद्रमक्रन्सीदन्तु गोष्ठे रणयन्त्वस्मे ।
प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥१॥
इन्द्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति ।
भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम् ॥२॥
न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति ।
देवाँश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥३॥
न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि ।
उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥४॥
गावो भगो गाव इन्द्रो मे अच्छान्गावः सोमस्य प्रथमस्य भक्षः ।
इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम् ॥५॥
यूयं गावो मेदयथा कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् ।
भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥६॥
प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।
मा व स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः ॥७॥
उपेदमुपपर्चनमासु गोषूप पृच्यताम् ।
उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये ॥८॥
सायणभाष्यम्
आ गावः' इत्यष्टर्चं पञ्चमं सूक्तम् । अत्रेयमनुक्रमणिका – आ गावो गव्यं द्वितीयैन्द्री वान्त्यश्च पादोऽन्त्यानुष्टुप् जागतस्तृचो द्वितीयादिः' इति । भरद्वाज ऋषिः । ‘इन्द्रो यज्वने' इत्याद्यस्तृचो जागतः । उपेदम्' इति अन्त्यानुष्टुप् शिष्टाश्चतस्रस्त्रिष्टुभः । कृत्स्नस्य गौर्देवता द्वितीयायाः सूक्तान्त्यपादस्य च विकल्पेनेन्द्रो देवता । गवामुपस्थान एतत् सूक्तम् । सूत्रितं च --- आगावीयमेके' ( आश्व. गृ. २. १०. ७) इति ।
आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे ।
प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥१
आ । गावः॑ । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गो॒ऽस्थे । र॒णय॑न्तु । अ॒स्मे इति॑ ।
प्र॒जाऽव॑तीः । पु॒रु॒ऽरूपाः॑ । इ॒ह । स्युः॒ । इन्द्रा॑य । पू॒र्वीः । उ॒षसः॑ । दुहा॑नाः ॥१
आ । गावः । अग्मन् । उत । भद्रम् । अक्रन् । सीदन्तु । गोऽस्थे । रणयन्तु । अस्मे इति ।
प्रजाऽवतीः । पुरुऽरूपाः । इह । स्युः । इन्द्राय । पूर्वीः । उषसः । दुहानाः ॥१
“गावः “आ “अग्मन् । अस्मदीयं गृहमागच्छन्तु । "उत अपि च “भद्रं भजनीयं शुभम् “अक्रन् कुर्वन्तु । तथा “गोष्ठे अस्मदीये गवां स्थाने “सीदन्तु उपविशन्तु । तदनन्तरम् “अस्मे अस्मासु “रणयन्तु रमन्ताम् । अपि च “इह अस्मिन् गोष्ठे “पुरुरूपाः नानावर्णा गावः “प्रजावतीः प्रजावत्यः संततिसहिताः “पूर्वीः बह्वयः “इन्द्राय इन्द्रार्थम् “उषसः उषःकालान् प्रति “दुहानाः दोग्ध्र्यः “स्युः भवेयुः ॥
इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति ।
भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥२
इन्द्रः॑ । यज्व॑ने । पृ॒ण॒ते । च॒ । शि॒क्ष॒ति॒ । उप॑ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ ।
भूयः॑ऽभूयः । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय॑न् । अभि॑न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒ऽयुम् ॥२
इन्द्रः । यज्वने । पृणते । च । शिक्षति । उप । इत् । ददाति । न । स्वम् । मुषायति ।
भूयःऽभूयः । रयिम् । इत् । अस्य । वर्धयन् । अभिन्ने । खिल्ये । नि । दधाति । देवऽयुम् ॥२
“इन्द्रो “यज्वने यजनशीलाय “पृणते “च स्तुतिभिः प्रीणयित्रे च स्तोत्रे “शिक्षति अपेक्षितं धनं ददाति । न केवलं सकृदेव दानम् अपि तु सर्वदैवेत्याह “उपेद्ददाति उपेत्य सर्वदा ददात्येव । यज्वनः स्तोतुश्च “स्वं स्वभूतं धनं “न “मुषायति कदाचिदपि नापहरति । अपि च “अस्य उभयविधस्य “रयिं धनमात्मना दत्तं “भूयोभूयः पुनः पुनः “वर्धयन् “इत् वृद्धिं प्रापयन्नेव “देवयुं देवमिन्द्रमात्मन इच्छन्तं तं जनम् “अभिन्ने शत्रुभिरभेद्ये “खिल्ये। खिलमप्रतिहतं स्थानम् । तदेव खिल्यम् । स्वार्थिको यत् । अन्यैर्गन्तुमशक्ये स्थले “नि “दधाति निक्षिपति । निवासयतीत्यर्थः ॥
दैवीनां हविःषु न ता नशन्ति ' ‘ न ता अर्वा ' इति गोदेवताया याज्यापुरोनुवाक्ये ( आश्व. श्रौ. ६. १४) । गोस्तोमेऽपि मरुत्वतीयनिष्केवल्ययोरेते सूक्तमुखीये । सूत्रितं च -- न ता अर्वा रेणुककाटो अश्नुते न ता नशन्ति न दभाति तस्करः' ( आश्व. श्रौ. ९. ५) इति ॥
न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति ।
दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥३
न । ताः । न॒श॒न्ति॒ । न । द॒भा॒ति॒ । तस्क॑रः । न । आ॒सा॒म् । आ॒मि॒त्रः । व्यथिः॑ । आ । द॒ध॒र्ष॒ति॒ ।
दे॒वान् । च॒ । याभिः॑ । यज॑ते । ददा॑ति । च॒ । ज्योक् । इत् । ताभिः॑ । स॒च॒ते॒ । गोऽप॑तिः । स॒ह ॥३
न । ताः । नशन्ति । न । दभाति । तस्करः । न । आसाम् । आमित्रः । व्यथिः । आ । दधर्षति ।
देवान् । च । याभिः । यजते । ददाति । च । ज्योक् । इत् । ताभिः । सचते । गोऽपतिः । सह ॥३
“ताः गावः “न "नशन्ति । अस्मत्सकाशान्न नश्यन्तु । किंच “तस्करः चोरोऽपि “न “दभाति । अस्मदीया गा न हिंस्यात् । तथा “आमित्रः अमित्रस्य शत्रोः संबन्धि “व्यथिः शस्त्रम् “आसाम् इमा गाः “न “आ “दधर्षति नाक्रामतु । “गोपतिः एवंभूतानां गवां स्वामी यजमानः “याभिः गोभिः "देवांश्च इन्द्रादीनुद्दिश्य “यजते यजनं करोति । या गा इन्द्रार्थं “ददाति “च प्रयच्छति “च “ताभिः तादृशीभिर्गोभिः “सह “ज्योगित् चिरकालमेव “सचते संगच्छताम् ।।
न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि ।
उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥४
न । ताः । अर्वा॑ । रे॒णुऽक॑काटः । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒ऽत्रम् । उप॑ । य॒न्ति॒ । ताः । अ॒भि ।
उ॒रु॒ऽगा॒यम् । अभ॑यम् । तस्य॑ । ताः । अनु॑ । गावः॑ । मर्त॑स्य । वि । च॒र॒न्ति॒ । यज्व॑नः ॥४
न । ताः । अर्वा । रेणुऽककाटः । अश्नुते । न । संस्कृतऽत्रम् । उप । यन्ति । ताः । अभि ।
उरुऽगायम् । अभयम् । तस्य । ताः । अनु । गावः । मर्तस्य । वि । चरन्ति । यज्वनः ॥४
“रेणुककाटः रेणुकस्य रेणोः पार्थिवस्य रजस उद्भेदकः। कटिर्भेदनकर्मा । अर्वा युद्धार्थमागतोऽश्वः “ताः गाः “न “अश्नुते न प्राप्नुयात् । तथा “ताः गावः "संस्कृतत्रं विशसनादिसंस्कारं “न “अभि “उप “यन्ति नाभिगच्छन्तु । अपि च “ताः “गावः “यज्वनः यागशीलस्य “तस्य “मर्तस्य मनुष्यस्य “उरुगायं विस्तीर्णगमनम् "अभयं भयवर्जितं प्रदेशम् “अनु उद्दिश्य “वि “चरन्ति विशेषेण गच्छन्तु ॥
गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छा॒न्गाव॒ः सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः ।
इ॒मा या गाव॒ः स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥५
गावः॑ । भगः॑ । गावः॑ । इन्द्रः॑ । मे॒ । अ॒च्छा॒न् । गावः॑ । सोम॑स्य । प्र॒थ॒मस्य॑ । भ॒क्षः ।
इ॒माः । याः । गावः॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ । इ॒च्छामि॑ । इत् । हृ॒दा । मन॑सा । चि॒त् । इन्द्र॑म् ॥५
गावः । भगः । गावः । इन्द्रः । मे । अच्छान् । गावः । सोमस्य । प्रथमस्य । भक्षः ।
इमाः । याः । गावः । सः । जनासः । इन्द्रः । इच्छामि । इत् । हृदा । मनसा । चित् । इन्द्रम् ॥५
“गावः एव मह्यं “भगः धनं भवन्तु । “इन्द्रः च “मे मह्यं “गावः गाः “अच्छान् यच्छतु । “गावः “प्रथमस्य हविषां श्रेष्ठस्य “सोमस्य “भक्षः भक्षणं भवन्तु । अभिषुतस्य हि सोमस्य गब्येनाज्यादिना संस्क्रियमाणत्वात् । हे "जनासः जनाः “इमाः एवंभूताः “या “गावः सन्ति “सः । ता इत्यर्थः । ता एव गावः “इन्द्रः भवन्ति । दधिघृतादिरूपेण इन्द्रस्याप्यायनत्वात् । एवंभूतम् “इन्द्रं “हृदा श्रद्धायुक्तेन “मनसा “चित् । चिदित्यप्यर्थे । “इच्छामीत् कामय एव । साधनभूताभिर्गोभिः एवंभूतमिन्द्रं यष्टुमिच्छामीत्यर्थः ।।।
यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम् ।
भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥६
यू॒यम् । गा॒वः॒ । मे॒द॒य॒थ॒ । कृ॒शम् । चि॒त् । अ॒श्री॒रम् । चि॒त् । कृ॒णु॒थ॒ । सु॒ऽप्रती॑कम् ।
भ॒द्रम् । गृ॒हम् । कृ॒णु॒थ॒ । भ॒द्र॒ऽवा॒चः॒ । बृ॒हत् । वः॒ । वयः॑ । उ॒च्य॒ते॒ । स॒भासु॑ ॥६
यूयम् । गावः । मेदयथ । कृशम् । चित् । अश्रीरम् । चित् । कृणुथ । सुऽप्रतीकम् ।
भद्रम् । गृहम् । कृणुथ । भद्रऽवाचः । बृहत् । वः । वयः । उच्यते । सभासु ॥६
हे “गावः “यूयं “मेदयथ स्नेहयथ । आप्यायनं कुरुथेत्यर्थः । तथा “कृशं “चित् क्षीणमपि “अश्रीरं “चित अश्लीलमपि "सुप्रतीकं शोभनाङ्गं “कृणुथ कुरुथ । हे “भद्रवाचः कल्याणध्वन्युपेता गावः अस्मदीयं “गृहं “भद्रं कल्याणं “कृणुथ । गोभिरुपेतं कुरुथ । “सभासु यागपरिषत्सु हे गावः युष्माकं “बृहत् महत् “वयः अन्नम् “उच्यते । सर्वैर्दीयत इत्यर्थः ॥
प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः ।
मा वः॑ स्ते॒न ई॑शत॒ माघशं॑स॒ः परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ॥७
प्र॒जाऽव॑तीः । सु॒ऽयव॑सम् । रि॒शन्तीः॑ । शु॒द्धाः । अ॒पः । सु॒ऽप्र॒पा॒ने । पिब॑न्तीः ।
मा । वः॒ । स्ते॒नः । ई॒श॒त॒ । मा । अ॒घऽशं॑सः । परि॑ । वः॒ । हे॒तिः । रु॒द्रस्य॑ । वृ॒ज्याः॒ ॥७
प्रजाऽवतीः । सुऽयवसम् । रिशन्तीः । शुद्धाः । अपः । सुऽप्रपाने । पिबन्तीः ।
मा । वः । स्तेनः । ईशत । मा । अघऽशंसः । परि । वः । हेतिः । रुद्रस्य । वृज्याः ॥७
हे गावो यूयं “प्रजावतीः प्रजावत्यो वत्साभिर्युक्ता भवतेति शेषः । “सुयवसं शोभनतृणं “रिशन्तीः रिशन्त्यो भक्षणार्थं हिंसन्त्यो भवत । "सुप्रपाणे सुखेन पातव्ये तटाकादौ “शुद्धाः निर्मलाः “अपः उदकानि “पिबन्तीः पिबन्त्यश्च भवत । “वः युष्मान् “स्तेनः तस्करः “मा “ईशत मेशिष्ट । ईश्वरो मा भूत् । तथापि “अघशंसः व्याघ्रादिः शत्रुः “मा ईशत । अपि च “वः युष्मान् “रुद्रस्य कलात्मकस्य परमेश्वरस्य “हेतिः आयुधं च “परि “वृज्याः परिवृणक्तु । परिहरतु ॥
उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् ।
उप॑ ऋष॒भस्य॒ रेत॒स्युपे॑न्द्र॒ तव॑ वी॒र्ये॑ ॥८
उप॑ । इ॒दम् । उ॒प॒ऽपर्च॑नम् । आ॒सु । गोषु॑ । उप॑ । पृ॒च्य॒ता॒म् ।
उप॑ । ऋ॒ष॒भस्य॑ । रेत॑सि । उप॑ । इ॒न्द्र॒ । तव॑ । वी॒र्ये॑ ॥८
उप । इदम् । उपऽपर्चनम् । आसु । गोषु । उप । पृच्यताम् ।
उप । ऋषभस्य । रेतसि । उप । इन्द्र । तव । वीर्ये ॥८
“आसु “गोषु “इदमुपपर्चनम् आप्यायनम् “उप "पृच्यतां संपृच्यताम् । हे “इन्द्र “तव “वीर्ये त्वदीयवीर्ये निमित्ते “ऋषभस्य गवां गर्भमादधानस्य वृषभस्य “रेतसि इदमुपपर्चनमाप्यायनम् । गोषु हि आप्यायितासु सतीषु तत्संबन्धिक्षीरादिहविर्द्वारेणेन्द्र आप्यायितो भवतीत्यर्थः । “उप इति पुनर्वचनं पादभेदानां पूरणार्थमिति ॥ ॥ २५ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थाँश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वर वैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये चतुर्थाष्टके षष्ठोऽध्यायः समाप्तः ॥
मण्डल ६ | ||||
---|---|---|---|---|
६.२८.४ रेणुककाटः रेणुकस्य रेणोः पार्थिवस्य रजस उद्भेदकः। कटिर्भेदनकर्मा।