ऋग्वेदः सूक्तं ६.२९
← सूक्तं ६.२८ | ऋग्वेदः - मण्डल ६ सूक्तं ६.२९ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.३० → |
दे. इन्द्रः। त्रिष्टुप्। |
इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः ।
महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम् ॥१॥
आ यस्मिन्हस्ते नर्या मिमिक्षुरा रथे हिरण्यये रथेष्ठाः ।
आ रश्मयो गभस्त्यो स्थूरयोराध्वन्नश्वासो वृषणो युजानाः ॥२॥
श्रिये ते पादा दुव आ मिमिक्षुर्धृष्णुर्वज्री शवसा दक्षिणावान् ।
वसानो अत्कं सुरभिं दृशे कं स्वर्ण नृतविषिरो बभूथ ॥३॥
स सोम आमिश्लतमः सुतो भूद्यस्मिन्पक्तिः पच्यते सन्ति धानाः ।
इन्द्रं नर स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः ॥४॥
न ते अन्तः शवसो धाय्यस्य वि तु बाबधे रोदसी महित्वा ।
आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती ॥५॥
एवेदिन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा ।
एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् ॥६॥
सायणभाष्यम्
॥ श्रीगणेशाय नमः ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
अथ सप्तमोऽध्याय आरभ्यते । षष्ठस्य मण्डलस्य तृतीयेऽनुवाके पञ्च सूक्तानि व्याकृतानि । ‘इन्द्रं वः' इति षडृचं षष्ठं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रग्यते च - ' इन्द्रं षट्' इति । गतो विनियोगः ॥
इन्द्रं॑ वो॒ नर॑ः स॒ख्याय॑ सेपुर्म॒हो यन्त॑ः सुम॒तये॑ चका॒नाः ।
म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ॥१
इन्द्र॑म् । वः॒ । नरः॑ । स॒ख्याय॑ । से॒पुः॒ । म॒हः । यन्तः॑ । सु॒ऽम॒तये॑ । च॒का॒नाः ।
म॒हः । हि । दा॒ता । वज्र॑ऽहस्तः । अस्ति॑ । म॒हाम् । ऊं॒ इति॑ । र॒ण्वम् । अव॑से । य॒ज॒ध्व॒म् ॥१
इन्द्रम् । वः । नरः । सख्याय । सेपुः । महः । यन्तः । सुऽमतये । चकानाः ।
महः । हि । दाता । वज्रऽहस्तः । अस्ति । महाम् । ऊं इति । रण्वम् । अवसे । यजध्वम् ॥१
हे यजमानाः “वः युष्माकं संबन्धिनः “नरः नेतार ऋत्विजः “सख्याय सखिभावार्थम् “इन्द्रं “सेपुः परिचरन्ति स्पृशन्ति वा । कथंभूताः । “महः महान्ति स्तोत्राणि “यन्तः उपयन्तः प्राप्नुवन्तः । कुर्वन्त इत्यर्थः । तथा “सुमतये । सुमतिः शोभनानुग्रहात्मिका तदीया बुद्धिः । तां “चकानाः कामयमानाः ॥ ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानसंज्ञा । चकाना इति कामयतेश्छान्दसं रूपम् ॥ यद्वा । महो महत्कर्म यन्तः' अनुतिष्ठन्तः सुमतये सुमतिं शोभनां स्तुतिं चकानाः शब्दयन्तः ॥ ‘कै गै शब्दे ' इत्यस्माल्लिटः कानचि रूपम् ॥ “हि यस्मात् “वज्रहस्तः वज्रपाणिरिन्द्रः “महः महतो धनस्य “दाता “अस्ति भवति तस्मात् “रण्वं रमणीयं “महामु महान्तमेव “अवसे रक्षणाय “यजध्वं हविर्भिः पूजयत ।।
आ यस्मि॒न्हस्ते॒ नर्या॑ मिमि॒क्षुरा रथे॑ हिर॒ण्यये॑ रथे॒ष्ठाः ।
आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा॑सो॒ वृष॑णो युजा॒नाः ॥२
आ । यस्मि॑न् । हस्ते॑ । नर्याः॑ । मि॒मि॒क्षुः । आ । रथे॑ । हि॒र॒ण्यये॑ । र॒थे॒ऽस्थाः ।
आ । र॒श्मयः॑ । गभ॑स्त्योः । स्थू॒रयोः॑ । आ । अध्व॑न् । अश्वा॑सः । वृष॑णः । यु॒जा॒नाः ॥२
आ । यस्मिन् । हस्ते । नर्याः । मिमिक्षुः । आ । रथे । हिरण्यये । रथेऽस्थाः ।
आ । रश्मयः । गभस्त्योः । स्थूरयोः । आ । अध्वन् । अश्वासः । वृषणः । युजानाः ॥२
“यस्मिन् इन्द्रे "नर्याः नृभ्यो हिता रायः “आ “मिमिक्षुः आसिच्यन्ते आपूर्यन्ते । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । इन्द्रे कुत्रेति चेत् । “हस्ते तदीये बाहौ । यद्वा । एतत्समानाधिकरणमिन्द्रस्य विशेषणम् । हस्ते हन्तर्यस्मिन्निन्द्र इत्यर्थः । उक्तं यास्केन- हस्तो हन्तेः प्राशुर्हनने ' (निरु. १.७) इति । यद्वा । ईदृशे यस्मिन्निन्द्रे वर्तमाना नृहिता राय आमिमिक्षुः आसिञ्चन्ति आपूरयन्ति स्तोतॄन् । यश्चेन्द्रः “रथेष्ठाः रथे स्थाता तत्स्वभावः सन् “हिरण्यये सुवर्णमये “रथे “आ तिष्ठति । यद्वा । रथेष्ठा रथेऽवस्थिता रायो धनानि हिरण्मये रथे तिष्ठन् य इन्द्र आ सिञ्चति अभिवर्षति । यस्य च “स्थूरयोः स्थूलयोर्विस्तृतयोः “गभस्त्योः । बाहुनामैतत् । बाह्रोः “रश्मयः अभीशवः "आ सिच्यन्ते आयम्यन्ते। यस्य च "अश्वासः अश्वाः “वृषणः सेक्तारः युवानः “युजानाः रथे युज्यमानाः “अध्वन् अध्वनि मार्गे “आ मिमिक्षुः आसिञ्चन्ति आपूरयन्ति । आगच्छन्तीत्यर्थः । तमिन्द्रं स्तुम इति शेषः ॥
श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् ।
वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नृ॑तविषि॒रो ब॑भूथ ॥३
श्रि॒ये । ते॒ । पादा॑ । दुवः॑ । आ । मि॒मि॒क्षुः॒ । धृ॒ष्णुः । व॒ज्री । शव॑सा । दक्षि॑णऽवान् ।
वसा॑नः । अत्क॑म् । सु॒र॒भिम् । दृ॒शे । कम् । स्वः॑ । न । नृ॒तो॒ इति॑ । इ॒षि॒रः । ब॒भू॒थ॒ ॥३
श्रिये । ते । पादा । दुवः । आ । मिमिक्षुः । धृष्णुः । वज्री । शवसा । दक्षिणऽवान् ।
वसानः । अत्कम् । सुरभिम् । दृशे । कम् । स्वः । न । नृतो इति । इषिरः । बभूथ ॥३
हे इन्द्र “श्रिये ऐश्वर्यार्थं “ते त्वदीययोः “पादा पादयोः “दुवः परिचरणम् “आ “मिमिक्षुः आसिञ्चन्ति समर्पयन्ति । भरद्वाजः समर्पयति । व्यत्ययेन बहुवचनम् । यद्वा । ते तव पादौ श्रिये श्रयितुं सेवितुं दुवः परिचरणम् आ सिञ्चन्ति अनुतिष्ठन्ति । यस्त्वं “शवसा बलेन “धृष्णुः शत्रूणां धर्षकः “वज्री वज्रवान् “दक्षिणावान् । दक्षिणा स्तोतृभ्यो दातव्यं धनम् । तद्वान् हे “नृतो नेतरिन्द्र स त्वं “सुरभिं प्रशस्तम् “अत्कं सततगमनशीलमात्मीयं रूपं “दृशे सर्वेषां दर्शनार्थं “वसानः आच्छादयन् “स्वर्ण सूर्य इव “इषिरः गन्तैषणीय वा “बभूथ भवसि । कमिति पूरकः ॥
स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि॑न्प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः ।
इन्द्रं॒ नर॑ः स्तु॒वन्तो॑ ब्रह्मका॒रा उ॒क्था शंस॑न्तो दे॒ववा॑ततमाः ॥४
सः । सोमः॑ । आमि॑श्लऽतमः । सु॒तः । भू॒त् । यस्मि॑न् । प॒क्तिः । प॒च्यते॑ । सन्ति॑ । धा॒नाः ।
इन्द्र॑म् । नरः॑ । स्तु॒वन्तः॑ । ब्र॒ह्म॒ऽका॒राः । उ॒क्था । शंस॑न्तः । दे॒ववा॑तऽतमाः ॥४
सः । सोमः । आमिश्लऽतमः । सुतः । भूत् । यस्मिन् । पक्तिः । पच्यते । सन्ति । धानाः ।
इन्द्रम् । नरः । स्तुवन्तः । ब्रह्मऽकाराः । उक्था । शंसन्तः । देववातऽतमाः ॥४
यः सोमो वक्ष्यते “सः “सोमः “सुतः अभिषुतः सन् “आमिश्लतमः आभिमुख्येन मिश्रतमः' “भूत् । इन्द्रेणात्यर्थं संगच्छते। “यस्मिन् सोमेऽभिषुते सति “पक्तिः पक्तव्यः पुरोडाशादिः “पच्यते । भृष्टयवाः “धानाः । ताश्च “सन्ति हविरर्थं संस्कृता भवन्ति । यस्मिंश्च सोमेऽभिषुते “नरः नेतारः “ब्रह्मकाराः ब्रह्मणः अन्नस्य हविर्लक्षणस्य कर्तारः ऋत्विजः “इन्द्रं स्तोत्रैः “स्तुवन्तः “उक्था उक्थानि शस्त्राणि च "शंसन्तः उच्चारयन्तः “देववाततमाः देवानतिशयेनोपगता भवन्ति स सोम इन्द्रेण संमिश्रितोऽभूदित्यन्वयः ॥
न ते॒ अन्त॒ः शव॑सो धाय्य॒स्य वि तु बा॑बधे॒ रोद॑सी महि॒त्वा ।
आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ॥५
न । ते॒ । अन्तः॑ । शव॑सः । धा॒यि॒ । अ॒स्य । वि । तु । बा॒ब॒धे॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ।
आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु॑जानः । यू॒थाऽइ॑व । अ॒प्ऽसु । स॒म्ऽईज॑मानः । ऊ॒ती ॥५
न । ते । अन्तः । शवसः । धायि । अस्य । वि । तु । बाबधे । रोदसी इति । महिऽत्वा ।
आ । ता । सूरिः । पृणति । तूतुजानः । यूथाऽइव । अप्ऽसु । सम्ऽईजमानः । ऊती ॥५
हे इन्द्र "ते तव “अस्य उक्तगुणस्य “शवसः बलस्य “अन्तः अवसानं “न “धायि । अत्र केवलोऽपि दधातिरवपूर्वार्थो द्रष्टव्यः । नावाधायि । अस्माभिर्नाज्ञायीत्यर्थः । यद्बलं “रोदसी द्यावापृथिव्यौ “महित्वा महत्त्वेन “तु क्षिप्रं “वि “बाबधे यस्माद्बलात् द्यावापृथिव्यौ बिभीत इत्यर्थः । “ता तद्बलं "सूरिः स्तोता “तूतुजानः त्वरितः सन् “ऊती ऊत्या तर्पकेण हविषा “समीजमानः सम्यग्यजन् “आ “पृणति आपूरयति । तत्र दृष्टान्तः । “यूथेव "अप्सु उदकेषु गवां यूथानीव यथा गोपालः अपः पाययन्नद्भिस्तर्पयति तद्वत् ॥
ए॒वेदिन्द्र॑ः सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू॑ती हिरिशि॒प्रः सत्वा॑ ।
ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ॥६
ए॒व । इत् । इन्द्रः॑ । सु॒ऽहवः॑ । ऋ॒ष्वः । अ॒स्तु॒ । ऊ॒ती । अनू॑ती । हि॒रि॒ऽशि॒प्रः । सत्वा॑ ।
ए॒व । हि । जा॒तः । अस॑मातिऽओजाः । पु॒रु । च॒ । वृ॒त्रा । ह॒न॒ति॒ । नि । दस्यू॑न् ॥६
एव । इत् । इन्द्रः । सुऽहवः । ऋष्वः । अस्तु । ऊती । अनूती । हिरिऽशिप्रः । सत्वा ।
एव । हि । जातः । असमातिऽओजाः । पुरु । च । वृत्रा । हनति । नि । दस्यून् ॥६
“एव एवमुक्तेन प्रकारेण “ऋष्वः महान् “इन्द्रः "सुहवः “अस्तु सुखेनाह्वातव्यो' भवतु । “इत इति पूरणः । “हिरिशिप्रः । शिप्रे हनू नासिके वा । हरितवर्णे शिप्रे यस्य तादृशः इन्द्रः “ऊती ऊत्यागमनेन “अनूती अनूत्यानागमनेन वा "सत्वा गमयिता भवति धनानाम् । स्वयमागतोऽनागतोऽपि स्तोतृभ्यो धनं प्रयच्छतीत्यर्थः। “एवा “हि एवं हि “जातः प्रादुर्भूतोऽयमिन्द्रः "असमात्योजाः असमाति असमानम् अनुपमम् उत्कृष्टतरमोजो बलं यस्य तादृशः सन् "पुरु पुरूणि बहूनि “च “वृत्रा वृत्राण्यावरकाणि रक्षःप्रभृतीनि "हनति हिनस्तु । तथा “दस्यून् उपक्षपयितॄन् शत्रूंश्च “नि हन्तु ॥ ॥ १ ॥
मण्डल ६ | ||||
---|---|---|---|---|