ऋग्वेदः सूक्तं ६.३०
← सूक्तं ६.२९ | ऋग्वेदः - मण्डल ६ सूक्तं ६.३० बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.३१ → |
दे. इन्द्रः। त्रिष्टुप् । |
भूय इद्वावृधे वीर्यायँ एको अजुर्यो दयते वसूनि ।
प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे ॥१॥
अधा मन्ये बृहदसुर्यमस्य यानि दाधार नकिरा मिनाति ।
दिवेदिवे सूर्यो दर्शतो भूद्वि सद्मान्युर्विया सुक्रतुर्धात् ॥२॥
अद्या चिन्नू चित्तदपो नदीनां यदाभ्यो अरदो गातुमिन्द्र ।
नि पर्वता अद्मसदो न सेदुस्त्वया दृळ्हानि सुक्रतो रजांसि ॥३॥
सत्यमित्तन्न त्वावाँ अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् ।
अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रम् ॥४॥
त्वमपो वि दुरो विषूचीरिन्द्र दृळ्हमरुजः पर्वतस्य ।
राजाभवो जगतश्चर्षणीनां साकं सूर्यं जनयन्द्यामुषासम् ॥५॥
सायणभाष्यम्
‘भूय इत्' इति पञ्चर्चं सप्तमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । ‘भूयः पञ्च' इत्यनुक्रान्तम् । अग्निष्टोमे माध्यंदिनसवनेऽच्छावाकशस्त्र एतत्सूक्तं शंसनीयम् । सूत्रितं च-' उदिन्न्वस्य रिच्यते भूय इत् ' ( आश्व. श्रौ. ५.१६ ) इति । महाव्रतेऽपि निष्केवल्य एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं-- ’ भूय इद्वावृधे वीर्याय नृणामु त्वा' (ऐ. अ. ५. १. ६ ) इति ॥
भूय॒ इद्वा॑वृधे वी॒र्या॑यँ॒ एको॑ अजु॒र्यो द॑यते॒ वसू॑नि ।
प्र रि॑रिचे दि॒व इन्द्र॑ः पृथि॒व्या अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी उ॒भे ॥१
भूयः॑ । इत् । व॒वृ॒धे॒ । वी॒र्या॑य । एकः॑ । अ॒जु॒र्यः । द॒य॒ते॒ । वसू॑नि ।
प्र । रि॒रि॒चे॒ । दि॒वः । इन्द्रः॑ । पृ॒थि॒व्याः । अ॒र्धम् । इत् । अ॒स्य॒ । प्रति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥१
भूयः । इत् । ववृधे । वीर्याय । एकः । अजुर्यः । दयते । वसूनि ।
प्र । रिरिचे । दिवः । इन्द्रः । पृथिव्याः । अर्धम् । इत् । अस्य । प्रति । रोदसी इति । उभे इति ॥१
अयमिन्द्रः “भूयः “इत् बहुतरमेव “वावृधे प्रवृद्धोऽभूत् । किमर्थम् । “वीर्याय वीरकर्माणि वृत्रवधादीनि कर्तुम् । “एकः मुख्यः “अजुर्यः जरयितुमशक्यः स च “इन्द्रः “वसूनि धनानि “दयते स्तोतृभ्यो ददाति । तथा “दिवः द्युलोकात् “पृथिव्याः भूमेश्चायमिन्द्रः “प्र “रिरिचे अतिरिच्यते । किंच “अस्य इन्द्रस्य “उभे “रोदसी द्यावापृथिव्यौ “अर्धमित् अर्धमेव “प्रति । अस्येन्द्रस्यार्धो भागो द्यावापृथिव्योः प्रतिनिधिर्भवतीत्यर्थः ॥
अधा॑ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति ।
दि॒वेदि॑वे॒ सूर्यो॑ दर्श॒तो भू॒द्वि सद्मा॑न्युर्वि॒या सु॒क्रतु॑र्धात् ॥२
अध॑ । म॒न्ये॒ । बृ॒हत् । अ॒सु॒र्य॑म् । अ॒स्य॒ । यानि॑ । दा॒धार॑ । नकिः॑ । आ । मि॒ना॒ति॒ ।
दि॒वेऽदि॑वे । सूर्यः॑ । द॒र्श॒तः । भू॒त् । वि । सद्मा॑नि । उ॒र्वि॒या । सु॒ऽक्रतुः॑ । धा॒त् ॥२
अध । मन्ये । बृहत् । असुर्यम् । अस्य । यानि । दाधार । नकिः । आ । मिनाति ।
दिवेऽदिवे । सूर्यः । दर्शतः । भूत् । वि । सद्मानि । उर्विया । सुऽक्रतुः । धात् ॥२
“अध अधुना "अस्य इन्द्रस्य "बृहत् महत् "असुर्यम् असुरहननकुशलं बलं “मन्ये स्तौमि। मन्यतिः स्तुतिकर्मा । स चेन्द्रः "यानि कर्माणि “दाधार धारयति तानि “नकिः “आ “मिनाति न कश्चिदपि हिनस्ति । कानि पुनस्तानि । उच्यते । “दिवेदिवे प्रतिदिनं वृत्रेणावृतः “सूर्यो “दर्शतः दर्शनीयः “भूत् भवति । आवरकस्यासुरस्य वधेन सूर्यं प्रकाशितवानित्येकं कर्म । “सुक्रतुः शोभनकर्मा स इन्द्रः 'सद्मानि भुवनानि “उर्विया उरूणि विस्तीर्णानि “वि “धात् व्यधात् अकार्षीत् । इदमपरं कर्म। एतदादीनि बहूनि कर्माणि कृतवानित्यर्थः ॥
अ॒द्या चि॒न्नू चि॒त्तदपो॑ न॒दीनां॒ यदा॑भ्यो॒ अर॑दो गा॒तुमि॑न्द्र ।
नि पर्व॑ता अद्म॒सदो॒ न से॑दु॒स्त्वया॑ दृ॒ळ्हानि॑ सुक्रतो॒ रजां॑सि ॥३
अ॒द्य । चि॒त् । नु । चि॒त् । तत् । अपः॑ । न॒दीना॑म् । यत् । आ॒भ्यः॒ । अर॑दः । गा॒तुम् । इ॒न्द्र॒ ।
नि । पर्व॑ताः । अ॒द्म॒ऽसदः॑ । न । से॒दुः॒ । त्वया॑ । दृ॒ळ्हानि॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । रजां॑सि ॥३
अद्य । चित् । नु । चित् । तत् । अपः । नदीनाम् । यत् । आभ्यः । अरदः । गातुम् । इन्द्र ।
नि । पर्वताः । अद्मऽसदः । न । सेदुः । त्वया । दृळ्हानि । सुक्रतो इति सुऽक्रतो । रजांसि ॥३
हे “इन्द्र “अद्या “चित् अद्यापि "नू “चित् पुरापि तव “नदीनां संबन्धि “तदपः कर्म वर्तते । “आभ्यः नदीभ्यः "गातुं मार्गम् “अरदः प्रवहनार्थं व्यलिख इति “यत् कर्म तत्सर्वदानुपक्षीणं सद्वर्तत इत्यर्थः । अपि च त्वदाज्ञया “पर्वताः गिरयः “नि “षेदुः निषण्णाः । उत्पतनं परित्यज्य क्वचिदेव स्थाने नैश्चल्येनोपविष्टा बभूवुः । “अद्मसदो “न । अद्म अदनीयमन्नम् । तदर्थं सीदन्तः पुरुषा इव । यथा ते भोजनार्थं नैश्चल्येनासते तथेत्यर्थः । अतः कारणात् हे “सुक्रतो शोभनकर्मन्निन्द्र “त्वया “रजांसि सर्वे लोकाः “दृळ्हानि दृंहितानि स्थिरीकृताः आसन् ।
स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् ।
अह॒न्नहिं॑ परि॒शया॑न॒मर्णोऽवा॑सृजो अ॒पो अच्छा॑ समु॒द्रम् ॥४
स॒त्यम् । इत् । तत् । न । त्वाऽवा॑न् । अ॒न्यः । अ॒स्ति॒ । इन्द्र॑ । दे॒वः । न । मर्त्यः॑ । ज्याया॑न् ।
अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । अव॑ । अ॒सृ॒जः॒ । अ॒पः । अच्छ॑ । स॒मु॒द्रम् ॥४
सत्यम् । इत् । तत् । न । त्वाऽवान् । अन्यः । अस्ति । इन्द्र । देवः । न । मर्त्यः । ज्यायान् ।
अहन् । अहिम् । परिऽशयानम् । अर्णः । अव । असृजः । अपः । अच्छ । समुद्रम् ॥४
हे “इन्द्र वक्ष्यमाणं “तत् सत्यमित् सत्यमेव नानृतम् । “त्वावान् त्वत्सदृशः “अन्यः “देवः “न “अस्ति । त्वत्सदृशोऽन्यः “मर्त्यः मनुष्योऽपि “न एव विद्यते । “ज्यायान् अधिकोऽपि देवो मनुष्यो वा न खल्वस्ति । इति यद्गीयते तत्सत्यमेवेत्यर्थः । अपि च त्वम् “अर्णः उदकं “परिशयानं परिवृत्य शयानम् “अहिम् मेघम् "अहन् अवधीः । हत्या च “समुद्रम् अन्तरिक्षं जलधिं वा “अच्छ अभिमुख्येन "अपः उदकानि “अवासृजः अवाङ्मुखतया विसृष्टवानसीत्यर्थः ।
त्वम॒पो वि दुरो॒ विषू॑ची॒रिन्द्र॑ दृ॒ळ्हम॑रुज॒ः पर्व॑तस्य ।
राजा॑भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं॑ ज॒नय॒न्द्यामु॒षास॑म् ॥५
त्वम् । अ॒पः । वि । दुरः॑ । विषू॑चीः । इन्द्र॑ । दृ॒ळ्हम् । अ॒रु॒जः॒ । पर्व॑तस्य ।
राजा॑ । अ॒भ॒वः॒ । जग॑तः । च॒र्ष॒णी॒नाम् । सा॒कम् । सूर्य॑म् । ज॒नय॑न् । द्याम् । उ॒षस॑म् ॥५
त्वम् । अपः । वि । दुरः । विषूचीः । इन्द्र । दृळ्हम् । अरुजः । पर्वतस्य ।
राजा । अभवः । जगतः । चर्षणीनाम् । साकम् । सूर्यम् । जनयन् । द्याम् । उषसम् ॥५
हे “इन्द्र “त्वं “दुरः वृत्रेणावृताः “अपः “विषूचीः विविधमञ्चन्त्यो यथा सर्वतः प्रसृता भवन्ति तथा “वि असृजः । यतस्त्वं “पर्वतस्य पर्ववतो मेघस्य “दृळ्हं दृढमपां बन्धकप्रदेशम् "अरुजः अभाङ्क्षीः । अपि च त्वं “जगतः संबन्धिनीनां “चर्षणीनां प्रजानां “राजाभवः अधिपतिर्भवसि । किं कुर्वन् । “सूर्यं “द्यां द्युलोकम् “उषसं च तमसा प्रावृतम् एतत्त्रितयं साकं युगपदेव “जनयन् प्रादुर्भावयन् । प्रकाशयन्नित्यर्थः ॥ ॥ २ ॥
मण्डल ६ | ||||
---|---|---|---|---|