ऋग्वेदः सूक्तं ६.३१
← सूक्तं ६.३० | ऋग्वेदः - मण्डल ६ सूक्तं ६.३१ सुहोत्रो भरद्वाजः |
सूक्तं ६.३२ → |
दे. इन्द्रः। त्रिष्टुप्, ४ शक्वरी । |
अभूरेको रयिपते रयीणामा हस्तयोरधिथा इन्द्र कृष्टीः ।
वि तोके अप्सु तनये च सूरेऽवोचन्त चर्षणयो विवाचः ॥१॥
त्वद्भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि ।
द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हं भयते अज्मन्ना ते ॥२॥
त्वं कुत्सेनाभि शुष्णमिन्द्राशुषं युध्य कुयवं गविष्टौ ।
दश प्रपित्वे अध सूर्यस्य मुषायश्चक्रमविवे रपांसि ॥३॥
त्वं शतान्यव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः ।
अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ॥४॥
स सत्यसत्वन्महते रणाय रथमा तिष्ठ तुविनृम्ण भीमम् ।
याहि प्रपथिन्नवसोप मद्रिक्प्र च श्रुत श्रावय चर्षणिभ्यः ॥५॥
सायणभाष्यम्
'अभूरेकः ' इति पञ्चर्चमष्टमं सूक्तं भरद्वाजस्य सुहोत्रस्यार्षम् । उपान्त्या शक्bरी शिष्टाश्चतस्रस्त्रिष्टुभः । इन्द्रो देवता । अनुक्रम्यते च-' अभूरेकः सुहोत्रस्तु चतुर्थी शक्वरी' इति । महाव्रतस्य निष्केवल्ये इदमादीन्यष्ट सूक्तानि शंसनीयानि । तथा पञ्चमारण्यकम् -'अभूरेको रयिपते रयीणामित्यष्टौ सूक्तानि' (ऐ. आ. ५. २. २ ) इति । पृष्ठ्यस्य षष्ठोऽहनि निकेवल्य इदं सूक्तं निविद्धानम् । सूत्रितं च- 'एन्द्र याह्युप नः प्र घा न्वस्याभूरेक इति निष्केवल्यम्' ( आश्व. श्रौ. ८. १) इति । विश्वजिति माध्यंदिनेऽच्छावाकशस्त्रे सामसूक्ताख्यमेतच्छंसनीयम् । सूत्रितं च -'अभूरेको रयिपते रयीणामिति सामसूक्तानि' ( आश्व. श्रौ. ८. ७)॥
अभू॒रेको॑ रयिपते रयी॒णामा हस्त॑योरधिथा इन्द्र कृ॒ष्टीः ।
वि तो॒के अ॒प्सु तन॑ये च॒ सूरेऽवो॑चन्त चर्ष॒णयो॒ विवा॑चः ॥१
अभूः॑ । एकः॑ । र॒यि॒ऽप॒ते॒ । र॒यी॒णाम् । आ । हस्त॑योः । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ।
वि । तो॒के । अ॒प्ऽसु । तन॑ये । च॒ । सूरे॑ । अवो॑चन्त । च॒र्ष॒णयः॑ । विऽवा॑चः ॥१
अभूः । एकः । रयिऽपते । रयीणाम् । आ । हस्तयोः । अधिथाः । इन्द्र । कृष्टीः ।
वि । तोके । अप्ऽसु । तनये । च । सूरे । अवोचन्त । चर्षणयः । विऽवाचः ॥१
हे “रयिपते धनस्य पालक “इन्द्र “एकः प्रधानभूतस्त्वं “रयीणां धनानां स्वामी “अभूः भवसि । यद्वा । रयीणां रयिपत इति संबन्धः । एको रयिशब्दोऽनुवादो यथा 'गवामसि गोपतिरेक इन्द्र' (ऋ. सं. ७. ९८. ६) इति । तदानीमेको मुख्यस्त्वं भवसीति योजनीयम् । अपि च हे इन्द्र त्वं “हस्तयोः आत्मीययोर्बाह्वोः “कृष्टीः प्रजाः “आ “अधिथाः आधत्से। सर्वं जगत्तवाज्ञायां वर्तत इत्यर्थः । किंच “चर्षणयः मनुष्याः “तोके पुत्रे “अप्सु उदकेषु “सूरे शत्रूणां प्रेरके “तनये पौत्रे चैतेषु निमित्तभूतेषु सत्सु “विवाचः विशिष्टाः स्तुती: “वि अवोचन्त विविधं ब्रुवन्ति ॥
त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां॑सि ।
द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥२
त्वत् । भि॒या । इ॒न्द्र॒ । पार्थि॑वानि । विश्वा॑ । अच्यु॑ता । चि॒त् । च्य॒व॒य॒न्ते॒ । रजां॑सि ।
द्यावा॒क्षामा॑ । पर्व॑तासः । वना॑नि । विश्व॑म् । दृ॒ळ्हम् । भ॒य॒ते॒ । अज्म॑न् । आ । ते॒ ॥२
त्वत् । भिया । इन्द्र । पार्थिवानि । विश्वा । अच्युता । चित् । च्यवयन्ते । रजांसि ।
द्यावाक्षामा । पर्वतासः । वनानि । विश्वम् । दृळ्हम् । भयते । अज्मन् । आ । ते ॥२
हे “इन्द्र “त्वत् त्वत्तः “भिया भयेन “विश्वा विश्वानि व्यापकानि “पार्थिवानि । पृथिव्यन्तरिक्षनाम । तत्र भवानि “रजांसि उदकानि “अच्युता “चित् च्यावयितुमशक्यान्यपि “च्यावयन्ते मेघाः प्रच्यावयन्ति । वर्षन्तीत्यर्थः। अपि च हे इन्द्र “ते तव “आ “अज्मन् आगमने सति “द्यावाक्षामा द्यावापृथिव्यौ “पर्वतासः गिरयः “वनानि वृक्षाश्च भयं प्राप्नुवन्ति । किं बहुना “विश्वं सर्वं “दृळ्हं स्थिरं प्राणिजातं “भयते बिभेति ॥
त्वं कुत्से॑ना॒भि शुष्ण॑मिन्द्रा॒शुषं॑ युध्य॒ कुय॑वं॒ गवि॑ष्टौ ।
दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां॑सि ॥३
त्वम् । कुत्से॑न । अ॒भि । शुष्ण॑म् । इ॒न्द्र॒ । अ॒शुष॑म् । यु॒ध्य॒ । कुय॑वम् । गोऽइ॑ष्टौ ।
दश॑ । प्र॒ऽपि॒त्वे । अध॑ । सूर्य॑स्य । मु॒षा॒यः । च॒क्रम् । अवि॑वेः । रपां॑सि ॥३
त्वम् । कुत्सेन । अभि । शुष्णम् । इन्द्र । अशुषम् । युध्य । कुयवम् । गोऽइष्टौ ।
दश । प्रऽपित्वे । अध । सूर्यस्य । मुषायः । चक्रम् । अविवेः । रपांसि ॥३
हे “इन्द्र “त्वं “कुत्सेन सह “अशुषं शोषयितुमशक्यं प्रबलं “शुष्णं सर्वस्य शोषकमेतत्संज्ञमसुरम् “अभि “युध्य अभ्ययुध्यः । कुत्सस्य साहाय्यार्थं तेनासुरेण सह युद्धं कृतवानसीत्यर्थः । तथा “गविष्टौ । गावो बाणा इष्यन्ति गच्छन्तीति गविष्टिः संग्रामः। तस्मिन् “कुयवम् एतत्संज्ञमसुरं च “दश अदशः । हिंसितवानसि ॥ 'दंश दशने' इत्येतस्माच्छान्दसे लोटि रूपम् ॥ “अध अपि च “प्रपित्वे प्रपतने युद्धे “सूर्यस्य “चक्रं रथावयवभूतं “मुषायः अमुष्णाः। तदाप्रभृति सूर्यस्य रथ एकचक्रोऽभूत् । तथा चाम्नातं--'सप्त युञ्जन्ति रथमेकचक्रम्' (ऋ. सं. १. १६४. २) इति । एतशाख्यस्य ऋषेः सूर्येण सह युद्धे तत्साहाय्यार्थमागत इन्द्रः सूर्यस्य चक्रमपहृतवान् इत्याख्यातम् । 'सूरश्चक्रं प्रवृहज्जात ओजसा' (ऋ. सं. १. १३०. ९) इति च निगमान्तरम् । अपि च “रपांसि पापकारीणि रक्षःप्रभृतीनि “अविवेः अस्माल्लोकादगमयः । अवधीरित्यर्थः ॥
त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो॑ जघन्थाप्र॒तीनि॒ दस्यो॑ः ।
अशि॑क्षो॒ यत्र॒ शच्या॑ शचीवो॒ दिवो॑दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा॑जाय गृण॒ते वसू॑नि ॥४
त्वम् । श॒तानि॑ । अव॑ । शम्ब॑रस्य । पुरः॑ । ज॒घ॒न्थ॒ । अ॒प्र॒तीनि॑ । दस्योः॑ ।
अशि॑क्षः । यत्र॑ । शच्या॑ । श॒ची॒ऽवः॒ । दिवः॑ऽदासाय । सु॒न्व॒ते । सु॒त॒ऽक्रे॒ । भ॒रत्ऽवा॑जाय । गृ॒ण॒ते । वसू॑नि ॥४
त्वम् । शतानि । अव । शम्बरस्य । पुरः । जघन्थ । अप्रतीनि । दस्योः ।
अशिक्षः । यत्र । शच्या । शचीऽवः । दिवःऽदासाय । सुन्वते । सुतऽक्रे । भरत्ऽवाजाय । गृणते । वसूनि ॥४
हे इन्द्र “त्वं “शतानि शतसंख्यानि “दस्योः उपक्षपयितुरसुरस्य “शम्बरस्य एतत्संज्ञस्य “पुरः पुरी: “अप्रतीनि । लिङ्गव्यत्ययः । केनाप्यप्रतिगताः “अव “जघन्थ अवाहन् । हे “शचीवः प्रज्ञावन् हे “सुतक्रे अभिषुतेन सोमेन क्रीतेन्द्र “यत्र यस्मिन् काले “सुन्वते सोमाभिषवं कुर्वते “दिवोदासाय “शच्या प्रज्ञया “अशिक्षः धनानि प्रादाः “गृणते स्तवते “भरद्वाजाय च “वसूनि प्रादाः तस्मिन् काले शाम्बरीः पुरोऽव जघन्थेत्यन्वयः ।।
स स॑त्यसत्वन्मह॒ते रणा॑य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मम् ।
या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्य॑ः ॥५
सः । स॒त्य॒ऽस॒त्व॒न् । म॒ह॒ते । रणा॑य । रथ॑म् । आ । ति॒ष्ठ॒ । तु॒वि॒ऽनृ॒म्ण॒ । भी॒मम् ।
या॒हि । प्र॒ऽप॒थि॒न् । अव॑सा । उप॑ । म॒द्रिक् । प्र । च॒ । श्रु॒त॒ । श्र॒व॒य॒ । च॒र्ष॒णिऽभ्यः॑ ॥५
सः । सत्यऽसत्वन् । महते । रणाय । रथम् । आ । तिष्ठ । तुविऽनृम्ण । भीमम् ।
याहि । प्रऽपथिन् । अवसा । उप । मद्रिक् । प्र । च । श्रुत । श्रवय । चर्षणिऽभ्यः ॥५
हे 'सत्यसत्वन् । सत्याः सत्वानो भटा यस्य स तथोक्तः । हे “तुविनृम्ण । तुवि बहुलं नृम्णं धनं यस्य स तथोक्तः । हे तादृशेन्द्र “सः त्वं “महते "रणाय संग्रामाय तदर्थं “भीमं भयंकरमात्मीयं “रथमा “तिष्ठ । हे “प्रपथिन् प्रकृष्टमार्गेन्द्र “अवसा रक्षणेन सह तेन च रथेन “उप “याहि आगच्छ “मद्रिक् मदभिमुखः। तथा हे “श्रुत विश्रुतेन्द्र 'चर्षणिभ्यः प्रजाभ्यः “प्र “श्रावय “च अस्मान् प्रख्यापय च । सर्वासु प्रजासु मध्ये अस्मान् प्रख्यातान् कुर्वित्यर्थः ॥ ॥३॥
मण्डल ६ | ||||
---|---|---|---|---|