ऋग्वेदः सूक्तं ६.२४
← सूक्तं ६.२३ | ऋग्वेदः - मण्डल ६ सूक्तं ६.२४ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.२५ → |
दे. इन्द्रः। त्रिष्टुप्। |
वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी ।
अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः ॥१॥
ततुरिर्वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः ।
वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम् ॥२॥
अक्षो न चक्र्योः शूर बृहन्प्र ते मह्ना रिरिचे रोदस्योः ।
वृक्षस्य नु ते पुरुहूत वया व्यूतयो रुरुहुरिन्द्र पूर्वीः ॥३॥
शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः ।
वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन् ॥४॥
अन्यदद्य कर्वरमन्यदु श्वोऽसच्च सन्मुहुराचक्रिरिन्द्रः ।
मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति ॥५॥
वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः ।
तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः ॥६॥
न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति ।
वृद्धस्य चिद्वर्धतामस्य तनू स्तोमेभिरुक्थैश्च शस्यमाना ॥७॥
न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् ।
अज्रा इन्द्रस्य गिरयश्चिदृष्वा गम्भीरे चिद्भवति गाधमस्मै ॥८॥
गम्भीरेण न उरुणामत्रिन्प्रेषो यन्धि सुतपावन्वाजान् ।
स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम् ॥९॥
सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः ।
अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥१०॥
सायणभाष्यम्
तृतीयेऽनुवाके विंशतिसूक्तानि । तत्र ‘वृषा मदः' इति दशर्चं प्रथमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । ‘वृषा' इत्यनुक्रान्तम् । विषुवति निष्केवल्य एतत्सूक्तम् । सूत्रितं च-- वृषा मदः प्र मंहिष्ठाय' (आश्व. श्रौ. ८. ६ ) इति ॥
वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे॑षु सुत॒पा ऋ॑जी॒षी ।
अ॒र्च॒त्र्यो॑ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा॑ गि॒रामक्षि॑तोतिः ॥१
वृषा॑ । मदः॑ । इन्द्रे॑ । श्लोकः॑ । उ॒क्था । सचा॑ । सोमे॑षु । सु॒त॒ऽपाः । ऋ॒जी॒षी ।
अ॒र्च॒त्र्यः॑ । म॒घऽवा॑ । नृऽभ्यः॑ । उ॒क्थैः । द्यु॒क्षः । राजा॑ । गि॒राम् । अक्षि॑तऽऊतिः ॥१
वृषा । मदः । इन्द्रे । श्लोकः । उक्था । सचा । सोमेषु । सुतऽपाः । ऋजीषी ।
अर्चत्र्यः । मघऽवा । नृऽभ्यः । उक्थैः । द्युक्षः । राजा । गिराम् । अक्षितऽऊतिः ॥१
“सोमेषु सोमवत्सु यागेषु “इन्द्रे सोमपानजनितः मदः वृषा यजमानस्य कामानां वर्षको भवति । यद्वा । सर्वजनाह्लादकस्य वर्षणस्य कर्ता भवति । “उक्था उक्थेन शस्त्रेण "सचा सह “श्लोकः स्तोत्ररूपः शब्दः वृषा भवति । सुतपाः अभिषुतस्य सोमस्य पाता “ऋजीषी ऋजीषं गतरसमपि सोमं न परित्यजन् “मघवा धनवान् स चेन्द्रः “नृभ्यः स्तुतीनां नेतृभ्यः “उक्थैः स्तोत्रैः “अर्चत्र्यः अर्चनीयो भवति । “द्युक्षः द्युलोकनिवासः "गिरां स्तुतीनां “राजा ईश्वर इन्द्रः “अक्षितोतिः अक्षीणरक्षश्च भवति ॥
ततु॑रिर्वी॒रो नर्यो॒ विचे॑ता॒ः श्रोता॒ हवं॑ गृण॒त उ॒र्व्यू॑तिः ।
वसु॒ः शंसो॑ न॒रां का॒रुधा॑या वा॒जी स्तु॒तो वि॒दथे॑ दाति॒ वाज॑म् ॥२
ततु॑रिः । वी॒रः । नर्यः॑ । विऽचे॑ताः । श्रोता॑ । हव॑म् । गृ॒ण॒तः । उ॒र्विऽऊ॑तिः ।
वसुः॑ । शंसः॑ । न॒राम् । का॒रुऽधा॑याः । वा॒जी । स्तु॒तः । वि॒दथे॑ । दा॒ति॒ । वाज॑म् ॥२
ततुरिः । वीरः । नर्यः । विऽचेताः । श्रोता । हवम् । गृणतः । उर्विऽऊतिः ।
वसुः । शंसः । नराम् । कारुऽधायाः । वाजी । स्तुतः । विदथे । दाति । वाजम् ॥२
“वाजी अन्नवान् इन्द्रः “विदथे यज्ञेऽस्माभिः “स्तुतः “सन् “वाजम् अन्नं “दाति अस्मभ्यं ददाति । कीदृश इन्द्रः । “ततुरिः शत्रूणां हिंसकः “वीरः विक्रान्तः “नर्यः नरहितः “विचेताः विविक्तज्ञान: “हवम् अस्मदीयं स्तोत्रं “श्रोता “गृणतः स्तुवतः स्तोतृजनस्य “उर्व्यूतिः विस्तृतरक्षः “वसुः वासयिता “नरां नृणां स्तोतृजनानां “शंसः शंसनीयः “कारुधायाः कारूणां स्तोतॄणां धारयिता। एवंभूत इन्द्रो वाजं ददातीति संबन्धः ॥
अक्षो॒ न च॒क्र्यो॑ः शूर बृ॒हन्प्र ते॑ म॒ह्ना रि॑रिचे॒ रोद॑स्योः ।
वृ॒क्षस्य॒ नु ते॑ पुरुहूत व॒या व्यू॒३॒॑तयो॑ रुरुहुरिन्द्र पू॒र्वीः ॥३
अक्षः॑ । न । च॒क्र्योः॑ । शू॒र॒ । बृ॒हन् । प्र । ते॒ । म॒ह्ना । रि॒रि॒चे॒ । रोद॑स्योः ।
वृ॒क्षस्य॑ । नु । ते॒ । पु॒रु॒ऽहू॒त॒ । व॒याः । वि । ऊ॒तयः॑ । रु॒रु॒हुः॒ । इ॒न्द्र॒ । पू॒र्वीः ॥३
अक्षः । न । चक्र्योः । शूर । बृहन् । प्र । ते । मह्ना । रिरिचे । रोदस्योः ।
वृक्षस्य । नु । ते । पुरुऽहूत । वयाः । वि । ऊतयः । रुरुहुः । इन्द्र । पूर्वीः ॥३
हे “शूर विक्रान्तेन्द्र “बृहन महान् “ते त्वदीयः "मह्ना महिमा “रोदस्योः द्यावापृथिब्योः “प्र “रिरिचे अतिरिच्यते । द्यावापृथिवीभ्यामित्यर्थः । अत्र दृष्टान्तः । “चक्र्योः चक्रयोः “अक्षो “न । रथसंबन्ध्यक्षो यथा चक्राभ्यां बहिर्गतस्तद्वत् । हे “पुरुहूत बहुभिराहूत “इन्द्र त्वदीयाः “पूर्वीः बह्यः्र “ऊतयः रक्षा: “वि “रुरुहुः विशेषेण रोहन्ति । तत्र दृष्टान्तः । “वृक्षस्य “नु । यथा वृक्षस्य “वया: शाखाः विरोहन्ति तद्वत् ॥
शची॑वतस्ते पुरुशाक॒ शाका॒ गवा॑मिव स्रु॒तय॑ः सं॒चर॑णीः ।
व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम॑न्वन्तो अदा॒मान॑ः सुदामन् ॥४
शची॑ऽवतः । ते॒ । पु॒रु॒ऽशा॒क॒ । शाकाः॑ । गवा॑म्ऽइव । स्रु॒तयः॑ । स॒म्ऽचर॑णीः ।
व॒त्साना॑म् । न । त॒न्तयः॑ । ते॒ । इ॒न्द्र॒ । दाम॑न्ऽवन्तः । अ॒दा॒मानः॑ । सु॒ऽदा॒म॒न् ॥४
शचीऽवतः । ते । पुरुऽशाक । शाकाः । गवाम्ऽइव । स्रुतयः । सम्ऽचरणीः ।
वत्सानाम् । न । तन्तयः । ते । इन्द्र । दामन्ऽवन्तः । अदामानः । सुऽदामन् ॥४
हे “पुरुशाक बहुकर्मन्निन्द्र “शचीवत: प्रज्ञावतः “ते त्वदीयाः “शाकाः शक्तयः कर्माणि वा सर्वतः संचरन्तीति शेषः । तत्र दृष्टान्तः । “गवामिव धेनूनां “स्रुतयः मार्गा यथा “संचरणीः सर्वत्र संचारिणो भवन्ति तद्वत् । अपि च “वत्सानां “न “तन्तयः । तन्तिर्नाम दीर्घप्रसारिता रज्जुः यत्र नियतैर्विशाखदामभिः बहवो वत्सा बध्यन्ते । यथा तन्तयो बहूनां वत्सानां बन्धका हे “सुदामन् शोभनदान “इन्द्र तथा “ते त्वदीयाः शाकाः “दामन्वन्तः बन्धनवन्तः बहूनां शत्रूणां बन्धकाः “अदामानः स्वयमन्यैरबद्धाः ॥
अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्र॑ः ।
मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ॥५
अ॒न्यत् । अ॒द्य । कर्व॑रम् । अ॒न्यत् । ऊं॒ इति॑ । श्वः । अस॑त् । च॒ । सत् । मुहुः॑ । आ॒ऽच॒क्रिः । इन्द्रः॑ ।
मि॒त्रः । नः॒ । अत्र॑ । वरु॑णः । च॒ । पू॒षा । अ॒र्यः । वश॑स्य । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥५
अन्यत् । अद्य । कर्वरम् । अन्यत् । ऊं इति । श्वः । असत् । च । सत् । मुहुः । आऽचक्रिः । इन्द्रः ।
मित्रः । नः । अत्र । वरुणः । च । पूषा । अर्यः । वशस्य । परिऽएता । अस्ति ॥५
अयमिन्द्रः “अद्य अस्मिन् दिवसे “अन्यत् “कर्वरम् । कर्मनामैतत् । कर्म करोति । “अन्यदु अन्यदेव उक्तविलक्षणमेव कर्म “श्वः परस्मिन् दिने करोति । एतदेव विव्रियते । “असच्च अशुभम् अशनिपातनादिकं “सत् वर्षणादिकं शोभनं कर्म च । यद्वा । त्रिशिरसो विश्वरूपस्य वधादिकम् असत्कर्म लोकोपद्रवकारिणो वृत्रादेरसुरस्य वधादिरूपं सत्कर्म च “मुहुः पुनःपुनरसौ “इन्द्रः “आचक्रिः कर्ता भवति । एवं परस्परविलक्षणं कर्म स्वमहिम्ना पुनःपुनरावर्तयन् प्रतिदिवसमन्यदेव परेषामसाधारणं कर्म करोतीत्यर्थः । एवंविध इन्द्रः “अत्र अस्मिन् यज्ञे “नः अस्माकं “वशस्य कामयितव्यस्य फलस्य स्वर्गादेः “पर्येतास्ति परिगमयिता भवतु । अस्तेर्लेटि रूपम् । “मित्रः अहरभिमानी देवः “वरुणः रात्र्यभिमानी “पूषा पोषको देवः “अर्यः प्रेरकः सविता एते “च इन्द्रेण नियम्यमाना अस्मदीयस्य कामस्य परिगमयितारः सन्तु । यद्वा । मित्रादयोऽप्यत्र स्वप्राधान्येन अभिधीयन्ते । मित्रादय इन्द्रः प्रत्येकमस्मदीयस्य कामस्य पर्येतास्तु । तथा च बृहद्देवतायामुक्तं---‘प्रोतयेऽन्यदिति त्वेते वैश्वदेव्यावृचौ स्मृते' इति ॥ ॥ १७ ॥
वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः ।
तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जय॑न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वा॑ः ॥६
वि । त्वत् । आपः॑ । न । पर्व॑तस्य । पृ॒ष्ठात् । उ॒क्थेभिः॑ । इ॒न्द्र॒ । अ॒न॒य॒न्त॒ । य॒ज्ञैः ।
तम् । त्वा॒ । आ॒भिः । सु॒स्तु॒तिऽभिः॑ । वा॒जय॑न्तः । आ॒जिम् । न । ज॒ग्मुः॒ । गि॒र्वा॒हः॒ । अश्वाः॑ ॥६
वि । त्वत् । आपः । न । पर्वतस्य । पृष्ठात् । उक्थेभिः । इन्द्र । अनयन्त । यज्ञैः ।
तम् । त्वा । आभिः । सुस्तुतिऽभिः । वाजयन्तः । आजिम् । न । जग्मुः । गिर्वाहः । अश्वाः ॥६
हे "इन्द्र “त्वत् त्वत्सकाशात् “उक्थेभिः उक्थैः शस्त्रैः “यज्ञैः हविर्भिश्च स्तोतारः कामानात्मनः “वि “अनयन्त विविधं प्रापयन्ति । तत्र दृष्टान्तः । “पर्वतस्य अद्रेः "पृष्ठात् उपरिभागात् "आपो “न अप उदकानि यथा तद्वत् । अपि च हे “गिर्वाहः गीर्भिः स्तुतिरूपाभिर्वाग्भिः वहनीयेन्द्र “तं प्रसिद्धं “त्वा त्वां “वाजयन्तः बलिनं कुर्वन्तः । यद्वा । वाजमन्नमिच्छन्तो भरद्वाजाः स्तोतारः “आभिः पूर्वोक्ताभिः “सुष्टुतिभिः शोभनाभिः स्तुतिभिः “जग्मुः प्रापुः । क्षिप्रगमने दृष्टान्तः । “अश्वाः वाहाः "आजिं “न संग्रामं यथा शीघ्रं प्रापुस्तद्वत् ।।
न यं जर॑न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय॑न्ति ।
वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे॑भिरु॒क्थैश्च॑ श॒स्यमा॑ना ॥७
न । यम् । जर॑न्ति । श॒रदः॑ । न । मासाः॑ । न । द्यावः॑ । इन्द्र॑म् । अ॒व॒ऽक॒र्शय॑न्ति ।
वृ॒द्धस्य॑ । चि॒त् । व॒र्ध॒ता॒म् । अ॒स्य॒ । त॒नूः । स्तोमे॑भिः । उ॒क्थैः । च॒ । श॒स्यमा॑ना ॥७
न । यम् । जरन्ति । शरदः । न । मासाः । न । द्यावः । इन्द्रम् । अवऽकर्शयन्ति ।
वृद्धस्य । चित् । वर्धताम् । अस्य । तनूः । स्तोमेभिः । उक्थैः । च । शस्यमाना ॥७
“शरदः संवत्सराः “यम् इन्द्रं “न “जरन्ति न जरयन्ति नापक्षीणयन्ति । तथा “मासाः च नापक्षीणयन्ति । तथा “द्यावः दिवसाश्च यम् “इन्द्रं “न “अवकर्शयन्ति नाल्पीभावयन्ति “वृद्धस्य “चित् प्रवृद्धस्यापि “अस्य इन्द्रस्य “तनूः शरीरं “स्तोमेभिः अस्मदीयैः स्तोत्रैः “उक्थैश्च शस्त्रैश्च “शस्यमाना स्तूयमाना सती “वर्धतां प्रवृद्धा भवतु ॥
न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् ।
अज्रा॒ इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग॑म्भी॒रे चि॑द्भवति गा॒धम॑स्मै ॥८
न । वी॒ळवे॑ । नम॑ते । न । स्थि॒राय॑ । न । शर्ध॑ते । दस्यु॑ऽजूताय । स्त॒वान् ।
अज्राः॑ । इन्द्र॑स्य । गि॒रयः॑ । चि॒त् । ऋ॒ष्वाः । ग॒म्भी॒रे । चि॒त् । भ॒व॒ति॒ । गा॒धम् । अ॒स्मै॒ ॥८
न । वीळवे । नमते । न । स्थिराय । न । शर्धते । दस्युऽजूताय । स्तवान् ।
अज्राः । इन्द्रस्य । गिरयः । चित् । ऋष्वाः । गम्भीरे । चित् । भवति । गाधम् । अस्मै ॥८
“स्तवान् अस्माभिः स्तूयमान इन्द्रः “वीळवे दृढगात्राय यजमानाय “न “नमते न वशीभवति । “स्थिराय युद्धेऽविचलिताय च “न नमते । “शर्धते उत्सहमानाय “दस्युजूताय कर्मवर्जितैः प्रेरिताय यजमानाय “न वशीभवति । यद्यपि स्तोतारो बहुगुणाः सन्ति तथापीन्द्रस्तेभ्यो दस्युसहितेभ्यो न वशीभवतीत्यर्थः । अपि च “ऋष्वाः महान्तः “गिरयश्चित् पर्वता अपि “इन्द्रस्य “अज्राः सुगमनाः क्षेपणीया भवन्ति । “गम्भीरे “चित् अगाधेऽपि स्थाने “अस्मै इन्द्राय “गाधम् एवं स्थानं विषयो “भवति ॥
ग॒म्भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो य॑न्धि सुतपाव॒न्वाजा॑न् ।
स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ॥९
ग॒म्भी॒रेण॑ । नः॒ । उ॒रुणा॑ । अ॒म॒त्रि॒न् । प्र । इ॒षः । य॒न्धि॒ । सु॒त॒ऽपा॒व॒न् । वाजा॑न् ।
स्थाः । ऊं॒ इति॑ । सु । ऊ॒र्ध्वः । ऊ॒ती । अरि॑षण्यन् । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाम् ॥९
गम्भीरेण । नः । उरुणा । अमत्रिन् । प्र । इषः । यन्धि । सुतऽपावन् । वाजान् ।
स्थाः । ऊं इति । सु । ऊर्ध्वः । ऊती । अरिषण्यन् । अक्तोः । विऽउष्टौ । परिऽतक्म्यायाम् ॥९
हे “अमत्रिन् । अमत्रं बलम् । तद्वन् हे “सुतपावन् सुतस्य सोमस्य पातरिन्द्र “गम्भीरेण केनापि दुरवगाहेन “उरुणा विस्तीर्णेन मनसा “नः अस्मभ्यम् “इषः अन्नानि “वाजान् बलानि च “प्र “यन्धि प्रयच्छ । किंच “अक्तोः रात्रेः “व्युष्टौ विवासे अह्नि “परितक्म्यायां रात्रौ हे इन्द्र त्वम् “ऊती अस्माकं रक्षायै हे इन्द्र “अरिषण्यन् अहिंसंस्त्वम् “ऊर्ध्वः उद्युक्तः "स्था “ऊ “षु सुष्ठु तिष्ठैव ॥
सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमि॑न्द्र पाहि रि॒षः ।
अ॒मा चै॑न॒मर॑ण्ये पाहि रि॒षो मदे॑म श॒तहि॑माः सु॒वीरा॑ः ॥१०
सच॑स्व । ना॒यम् । अव॑से । अ॒भीके॑ । इ॒तः । वा॒ । तम् । इ॒न्द्र॒ । पा॒हि॒ । रि॒षः ।
अ॒मा । च॒ । ए॒न॒म् । अर॑ण्ये । पा॒हि॒ । रि॒षः । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥१०
सचस्व । नायम् । अवसे । अभीके । इतः । वा । तम् । इन्द्र । पाहि । रिषः ।
अमा । च । एनम् । अरण्ये । पाहि । रिषः । मदेम । शतऽहिमाः । सुऽवीराः ॥१०
हे “इन्द्र त्वं “नायं कर्मणां स्तुतीनां च नेतारम् “अभीके संग्रामे “अवसे रक्षणाय “सचस्व सेवस्य । “इतो “वा अस्मात् संनिकृष्टाच्च “रिषः शत्रोः अमुतो विप्रकृष्टाच्छत्रोश्च । वाशब्दोऽनुक्तेन विवक्षितेन समुच्चयार्थः । हे इन्द्र “तं स्तोतारं “पाहि रक्ष । तथा “अमा “च गृहे च । अमेति गृहनाम । “अरण्ये कानने च “रिषः शत्रोः “पाहि तं रक्ष । तदनन्तरं “सुवीराः शोभनपुत्रा वयं “शतहिमाः शतसंवत्सरान् “मदेम हृष्याम ॥ ॥ १८ ॥
मण्डल ६ | ||||
---|---|---|---|---|