ऋग्वेदः सूक्तं ६.२३
← सूक्तं ६.२२ | ऋग्वेदः - मण्डल ६ सूक्तं ६.२३ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.२४ → |
दे. इन्द्रः। त्रिष्टुप्। |
सुत इत्त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे ।
यद्वा युक्ताभ्यां मघवन्हरिभ्यां बिभ्रद्वज्रं बाह्वोरिन्द्र यासि ॥१॥
यद्वा दिवि पार्ये सुष्विमिन्द्र वृत्रहत्येऽवसि शूरसातौ ।
यद्वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून् ॥२॥
पाता सुतमिन्द्रो अस्तु सोमं प्रणेनीरुग्रो जरितारमूती ।
कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ॥३॥
गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः ।
कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणत स्तोमवाहाः ॥४॥
अस्मै वयं यद्वावान तद्विविष्म इन्द्राय यो नः प्रदिवो अपस्कः ।
सुते सोमे स्तुमसि शंसदुक्थेन्द्राय ब्रह्म वर्धनं यथासत् ॥५॥
ब्रह्माणि हि चकृषे वर्धनानि तावत्त इन्द्र मतिभिर्विविष्मः ।
सुते सोमे सुतपाः शंतमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः ॥६॥
स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकमिन्द्र ।
एदं बर्हिर्यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् ॥७॥
स मन्दस्वा ह्यनु जोषमुग्र प्र त्वा यज्ञास इमे अश्नुवन्तु ।
प्रेमे हवासः पुरुहूतमस्मे आ त्वेयं धीरवस इन्द्र यम्याः ॥८॥
तं वः सखायः सं यथा सुतेषु सोमेभिरीं पृणता भोजमिन्द्रम् ।
कुवित्तस्मा असति नो भराय न सुष्विमिन्द्रोऽवसे मृधाति ॥९॥
एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयदिन्मघोनः ।
असद्यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता ॥१०॥
सायणभाष्यम्
‘सुत इत् ' इति दशर्चमष्टमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । ‘सुत इद्दश' इत्यनुक्रान्तम् । विषुवति निष्केवल्ये इदं सूक्तम् । सूत्रितं च – सुत इत्त्वमेष प्र पूर्वीः' ( आश्व. श्रौ. ८. ६ ) इति । महाव्रतेऽपि निष्केवल्ये इदमादीनि त्रीणि सूक्तानि । तथैव पञ्चमारण्यके सूत्रितं - सुत इत्त्वं निमिश्ल इन्द्र सोम इति त्रीणि ' (ऐ. आ. ५. २. २) इति ॥
सु॒त इत्त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा॑न उ॒क्थे ।
यद्वा॑ यु॒क्ताभ्यां॑ मघव॒न्हरि॑भ्यां॒ बिभ्र॒द्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ यासि॑ ॥१
सु॒ते । इत् । त्वम् । निऽमि॑श्लः । इ॒न्द्र॒ । सोमे॑ । स्तोमे॑ । ब्रह्म॑णि । श॒स्यमा॑ने । उ॒क्थे ।
यत् । वा॒ । यु॒क्ताभ्या॑म् । म॒घ॒ऽव॒न् । हरि॑ऽभ्याम् । बिभ्र॑त् । वज्र॑म् । बा॒ह्वोः । इ॒न्द्र॒ । यासि॑ ॥१
सुते । इत् । त्वम् । निऽमिश्लः । इन्द्र । सोमे । स्तोमे । ब्रह्मणि । शस्यमाने । उक्थे ।
यत् । वा । युक्ताभ्याम् । मघऽवन् । हरिऽभ्याम् । बिभ्रत् । वज्रम् । बाह्वोः । इन्द्र । यासि ॥१
“सोमे “सुते “इत् अभिषुत एव सति “ब्रह्मणि बृहति महति “स्तोमे स्तोत्रे उच्चार्यमाणे सति “उक्थे शस्त्रे “शस्यमाने सति हे “इन्द्र “त्वं “निमिश्लः निमिश्रः सन् हरी संयोजयन् हे “मघवन् धनवन् “इन्द्र त्वं “बाह्वोः हस्तयोः “वज्रं स्वकीयमायुधं “बिभ्रत् धारयन् “युक्ताभ्यां रथे नियुक्ताभ्यां “हरिभ्याम् अश्वाभ्यां “यासि “यद्वा आगच्छसीति यच्च तत्सोमेऽभिषुते इति संबन्धः ॥
यद्वा॑ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ ।
यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒ अबि॑भ्य॒दर॑न्धय॒ः शर्ध॑त इन्द्र॒ दस्यू॑न् ॥२
यत् । वा॒ । दि॒वि । पार्ये॑ । सुस्वि॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । अव॑सि । शूर॑ऽसातौ ।
यत् । वा॒ । दक्ष॑स्य । बि॒भ्युषः॑ । अबि॑भ्यत् । अर॑न्धयः । शर्ध॑तः । इ॒न्द्र॒ । दस्यू॑न् ॥२
यत् । वा । दिवि । पार्ये । सुस्विम् । इन्द्र । वृत्रऽहत्ये । अवसि । शूरऽसातौ ।
यत् । वा । दक्षस्य । बिभ्युषः । अबिभ्यत् । अरन्धयः । शर्धतः । इन्द्र । दस्यून् ॥२
हे “इन्द्र त्वं “दिवि द्युलोके “शूरसातौ शूरैः भटैः संभजनीये “वृत्रहत्ये युद्धे च “पार्ये प्राप्तव्ये सति “सुष्विम् अभिषोतारं यजमानम् “अवसि “यद्वा रक्षसीति यच्च । वेति समुच्चये । “दक्षस्थ यज्ञादिषु समर्थस्य “बिभ्युषः शत्रुभ्यो बिभ्यतो जनस्य “शर्धतः संग्रामे उत्सहमानान् “दस्यून् उपक्षपयितॄनि शत्रून् हे “इन्द्र त्वम् “अबिभ्यत् भीतिरहितः सन् “अरन्धयः “यद्वा वशीकरोषीति यच्च तत्सर्वं सोमेऽभिषुते इति पूर्वेण संबन्धः । तथा चोक्तं-- यद्बाह्वोर्धारयन्वज्रं हरिभ्यां यासि वृत्रहन् । यच्च रक्षसि संग्रामे नॄन् सोममभिषुण्वतः ।। यच्च कर्मसु दक्षस्य यजमानस्य येऽरयः । वशीकरोषि तांस्तस्मै बिभ्यते भीतिवर्जितः ॥ तत्सोमेऽभिषुते स्तोत्रशस्त्रयोश्च प्रवृत्तयोः । इति द्वृचोऽयमेकार्थः सुत इत्त्वमिति द्वयम्' इति ॥
पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॑ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती ।
कर्ता॑ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये॑ चित् ॥३
पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । प्र॒ऽने॒नीः । उ॒ग्रः । ज॒रि॒तार॑म् । ऊ॒ती ।
कर्ता॑ । वी॒राय॑ । सुस्व॑ये । ऊं॒ इति॑ । लो॒कम् । दाता॑ । वसु॑ । स्तु॒व॒ते । की॒रये॑ । चि॒त् ॥३
पाता । सुतम् । इन्द्रः । अस्तु । सोमम् । प्रऽनेनीः । उग्रः । जरितारम् । ऊती ।
कर्ता । वीराय । सुस्वये । ऊं इति । लोकम् । दाता । वसु । स्तुवते । कीरये । चित् ॥३
“इन्द्रः “सुतम् अभिषुतं “सोमं “पाता "अस्तु पानशीलो भवतु ॥ तृनन्तत्वात् ‘ न लोकाव्ययनिष्ठा' इति षष्ठीप्रतिषेधः ॥ कीदृशः । “ऊती ऊत्या मार्गेण “जरितारं स्तोतारं “प्रणेनीः प्रकर्षेण नेता “उग्रः उद्गूर्णः “वीराय यज्ञादिकर्मसु दक्षाय “सुष्वये सोमाभिषवं कुर्वते यजमानाय “लोकं स्थानं “कर्ता । दातेत्यर्थः । “उ इति पादपूरणः । “स्तुवते स्तोत्रं कुर्वते “कीरये “चित् । चिदिति चार्थे । स्तोत्रे च । कीरिरिति स्तोतृनामैतत् । “वसु धनं “दाता अस्तु ।।
गन्तेया॑न्ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं॑ प॒पिः सोमं॑ द॒दिर्गाः ।
कर्ता॑ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं॑ गृण॒तः स्तोम॑वाहाः ॥४
गन्ता॑ । इय॑न्ति । सव॑ना । हरि॑ऽभ्याम् । ब॒भ्रिः । वज्र॑म् । प॒पिः । सोम॑म् । द॒दिः । गाः ।
कर्ता॑ । वी॒रम् । नर्य॑म् । सर्व॑ऽवीरम् । श्रोता॑ । हव॑म् । गृ॒ण॒तः । स्तोम॑ऽवाहाः ॥४
गन्ता । इयन्ति । सवना । हरिऽभ्याम् । बभ्रिः । वज्रम् । पपिः । सोमम् । ददिः । गाः ।
कर्ता । वीरम् । नर्यम् । सर्वऽवीरम् । श्रोता । हवम् । गृणतः । स्तोमऽवाहाः ॥४
इन्द्रः “हरिभ्यां स्वकीयाभ्याम् “इयन्ति हृदयस्थानि त्रीणि “सवना सवनानि “गन्ता गमनशीलो भवतु । कीदृशः । “वज्रं स्वकीयमायुधं “बभ्रिः भर्ता धारकः “सोमम् अभिषुतं “पपिः पाता “गा। ददिः दाता “नर्यं मनुष्यहितं “सर्ववीरं बहुपुत्रोपेतं “वीरं पुत्रं “कर्ता यजमानाय दाता “गृणतः स्तुवतः स्तोतुः संबन्धि “हवं स्तोत्रं “श्रोता श्रावकः “स्तोमवाहाः स्तोमैः स्तोत्रैर्वहनीयः ।।
अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इन्द्रा॑य॒ यो न॑ः प्र॒दिवो॒ अप॒स्कः ।
सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ॥५
अस्मै॑ । व॒यम् । यत् । व॒वान॑ । तत् । वि॒वि॒ष्मः॒ । इन्द्रा॑य । यः । नः॒ । प्र॒ऽदिवः॑ । अपः॑ । करिति॒ कः ।
सु॒ते । सोमे॑ । स्तु॒मसि॑ । शंस॑त् । उ॒क्था । इन्द्रा॑य । ब्रह्म॑ । वर्ध॑नम् । यथा॑ । अस॑त् ॥५
अस्मै । वयम् । यत् । ववान । तत् । विविष्मः । इन्द्राय । यः । नः । प्रऽदिवः । अपः । करिति कः ।
सुते । सोमे । स्तुमसि । शंसत् । उक्था । इन्द्राय । ब्रह्म । वर्धनम् । यथा । असत् ॥५
“प्रदिवः पुराणैः “यः इन्द्रः “नः अस्मदर्थम् “अप: पोषणादिकं कर्म “कः करोति अयमिन्द्रः “यत् स्तोत्रादिकं “ववान कामयते “अस्मै “इन्द्राय “वयं “तद्विविष्मः व्याप्नुमः । कुर्म इत्यर्थः । “सोमे “सुते अभिषुते सति “स्तुमसि स्तुमः । इन्द्राय स्तोत्राणि कुर्मः। “उक्था उक्थानि शस्त्राणि “शंसत् शंसन्तः । प्रथमाबहुवचनस्य लुक् । “ब्रह्म हविर्लक्षणमन्नम् “इन्द्राय इन्द्रार्थं “वर्धनं “यथा वृद्धिकरम् “असत् स्यात् तथा कुर्म इत्यर्थः ॥ ॥ १५ ॥
ब्रह्मा॑णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्त इन्द्र म॒तिभि॑र्विविष्मः ।
सु॒ते सोमे॑ सुतपा॒ः शंत॑मानि॒ राण्ड्या॑ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ॥६
ब्रह्मा॑णि । हि । च॒कृ॒षे । वर्ध॑नानि । ताव॑त् । ते॒ । इ॒न्द्र॒ । म॒तिऽभिः॑ । वि॒वि॒ष्मः॒ ।
सु॒ते । सोमे॑ । सु॒त॒ऽपाः॒ । शम्ऽत॑मानि । रान्द्र्या॑ । क्रि॒या॒स्म॒ । वक्ष॑णानि । य॒ज्ञैः ॥६
ब्रह्माणि । हि । चकृषे । वर्धनानि । तावत् । ते । इन्द्र । मतिऽभिः । विविष्मः ।
सुते । सोमे । सुतऽपाः । शम्ऽतमानि । रान्द्र्या । क्रियास्म । वक्षणानि । यज्ञैः ॥६
हे “इन्द्र त्वं “हि यस्मात् कारणात् “ब्रह्माणि स्तोत्राणि “वर्धनानि स्वयमेव वृद्धिकराणि “चकृषे कृतवानसि तस्मात् कारणात् “तावत् तावन्ति तादृशानि स्तोत्राणि “ते तुभ्यं “मतिभिः बुद्धिभिर्वयं “विविष्मः व्याप्नुमः । वर्धनानि स्तोत्राणि मम यथा भवेयुस्त्वं तादृशानि कल्पितवानसीत्यर्थः। अपि च हे “सुतपाः अभिषुतस्य सोमस्य पातस्त्वामुद्दिश्य “सुते “सोमे अभिषुते सति “शंतमानि सुखकृत्तमानि “रान्द्र्या रान्द्याु णि रमणीयानि “यज्ञैः हविर्भिर्युक्तानि “वक्षणानि वाहकानि स्तोत्राणि “क्रियास्म करवाम ॥
स नो॑ बोधि पुरो॒ळाशं॒ ररा॑ण॒ः पिबा॒ तु सोमं॒ गोऋ॑जीकमिन्द्र ।
एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कम् ॥७
सः । नः॒ । बो॒धि॒ । पु॒रो॒ळाश॑म् । ररा॑णः । पिब॑ । तु । सोम॑म् । गोऽऋ॑जीकम् । इ॒न्द्र॒ ।
आ । इ॒दम् । ब॒र्हिः । यज॑मानस्य । सी॒द॒ । उ॒रुम् । कृ॒धि॒ । त्वा॒ऽय॒तः । ऊं॒ इति॑ । लो॒कम् ॥७
सः । नः । बोधि । पुरोळाशम् । रराणः । पिब । तु । सोमम् । गोऽऋजीकम् । इन्द्र ।
आ । इदम् । बर्हिः । यजमानस्य । सीद । उरुम् । कृधि । त्वाऽयतः । ऊं इति । लोकम् ॥७
हे “इन्द्र “रराणः रममाणः “सः त्वं “नः अस्मदीयं “पुरोडाशम् एतल्लक्षणं हविः “बोधि बुध्यस्व । किंच “गोऋजीकं गोविकारदध्यादिभिः संस्कृतमभिषुतं “सोमं “तु क्षिप्रं “पिब पिबेः । तदर्थं च “यजमानस्य संबन्धि “इदं “बर्हिः “आ “सीद अभिविश । तदनन्तरं “त्वायतः त्वामिच्छतो यजमानस्य “लोकं स्थानम् “उरुं विस्तीर्णं “कृधि कुरु । “उ इति पूरणः ॥
स म॑न्दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा॑ य॒ज्ञास॑ इ॒मे अ॑श्नुवन्तु ।
प्रेमे हवा॑सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव॑स इन्द्र यम्याः ॥८
सः । म॒न्द॒स्व॒ । हि । अनु॑ । जोष॑म् । उ॒ग्र॒ । प्र । त्वा॒ । य॒ज्ञासः॑ । इ॒मे । अ॒श्नु॒व॒न्तु॒ ।
प्र । इ॒मे । हवा॑सः । पु॒रु॒ऽहू॒तम् । अ॒स्मे इति॑ । आ । त्वा॒ । इ॒यम् । धीः । अव॑से । इ॒न्द्र॒ । य॒म्याः॒ ॥८
सः । मन्दस्व । हि । अनु । जोषम् । उग्र । प्र । त्वा । यज्ञासः । इमे । अश्नुवन्तु ।
प्र । इमे । हवासः । पुरुऽहूतम् । अस्मे इति । आ । त्वा । इयम् । धीः । अवसे । इन्द्र । यम्याः ॥८
हे “उग्र उद्गूर्णबलेन्द्र “सः त्वम् “अनु जोषं कामानुगुणं यथा भवति तथा “मन्दस्व मोदस्व ॥ हिशब्दः पादपूरणः । हियोगे मन्दस्वेत्याख्यातस्य व्यत्ययात् सर्वानुदात्तत्वम् ।। “इमे “यज्ञासः यज्ञाः सोमाः “त्वा त्वां “प्र “अश्नुवन्तु प्राप्नुवन्तु । हे पुरुहूत बहुभिराहूत “इन्द्र त्वाम् “अस्मे अस्मदीयानि “इमे “हवासः हवाः स्तोत्राणि प्राप्नुवन्तु । “इयं “धीः स्तुतिः “त्वा त्वाम् “अवसे अस्माकं रक्षणाय “आ “यम्याः आयच्छतु नियच्छतु । ।
तं व॑ः सखाय॒ः सं यथा॑ सु॒तेषु॒ सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म् ।
कु॒वित्तस्मा॒ अस॑ति नो॒ भरा॑य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति ॥९
तम् । वः॒ । स॒खा॒यः॒ । सम् । यथा॑ । सु॒तेषु॑ । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् ।
कु॒वित् । तस्मै॑ । अस॑ति । नः॒ । भरा॑य । न । सुस्वि॑म् । इन्द्रः॑ । अव॑से । मृ॒धा॒ति॒ ॥९
तम् । वः । सखायः । सम् । यथा । सुतेषु । सोमेभिः । ईम् । पृणत । भोजम् । इन्द्रम् ।
कुवित् । तस्मै । असति । नः । भराय । न । सुस्विम् । इन्द्रः । अवसे । मृधाति ॥९
हे “सखायः स्तोतारः “वः यूयं सोमेषु “सुतेषु अभिषुतेषु सत्सु “भोजं दातारं “तम् “ईम् एतम् “इन्द्रं सोमेभिः सोमैर्यथाकामं “सं “पृणत संपूरयत । “तस्मै इन्द्राय “कुवित् बहूपकरणम् । कुविदिति बहुनामैतत् । “असति अस्तु । किमर्थम् । “नः अस्माकं “भराय भरणाय पोषणाय । “इन्द्रः “सुष्विम् अभिषवणशीलं यजमानम् "अवसे तर्पणाय “न “मृधाति न बाधते ॥
ए॒वेदिन्द्र॑ः सु॒ते अ॑स्तावि॒ सोमे॑ भ॒रद्वा॑जेषु॒ क्षय॒दिन्म॒घोन॑ः ।
अस॒द्यथा॑ जरि॒त्र उ॒त सू॒रिरिन्द्रो॑ रा॒यो वि॒श्ववा॑रस्य दा॒ता ॥१०
ए॒व । इत् । इन्द्रः॑ । सु॒ते । अ॒स्ता॒वि॒ । सोमे॑ । भ॒रत्ऽवा॑जेषु । क्षय॑त् । इत् । म॒घोनः॑ ।
अस॑त् । यथा॑ । ज॒रि॒त्रे । उ॒त । सू॒रिः । इन्द्रः॑ । रा॒यः । वि॒श्वऽवा॑रस्य । दा॒ता ॥१०
एव । इत् । इन्द्रः । सुते । अस्तावि । सोमे । भरत्ऽवाजेषु । क्षयत् । इत् । मघोनः ।
असत् । यथा । जरित्रे । उत । सूरिः । इन्द्रः । रायः । विश्वऽवारस्य । दाता ॥१०
“मघोनः धनवतो हविष्मतो यजमानस्य “क्षयत् ईश्वरः “इन्द्रः “सोमे “सुते अभिषुते सति “भरद्वाजेषु भरद्वाजे मयि “एव एवम् “अस्तावि स्तुतोऽभूत । “इन्द्रः “जरित्रे स्तोत्रे “सूरि: सन्मार्गे प्रेरकः “यथा “असत् भवेत । “उत अपि च "विश्ववारस्य विश्वैर्वरणीयस्य "रायः धनस्य “दाता यथा भवेत् तथा अस्तावीति संबन्धः । इदिति द्वयं पूरणम् ॥ ॥ १६ ॥ ॥ २ ॥
टिप्पणी
६.२३.१ सुत इत्त्वं निमिश्ल इति
अभिप्लवषडहे गौर्द्वितीयमहः -- सुत इत् त्वम् निमिश्ल इन्द्र सोम इति निष्केवल्यम् । स्तोमे ब्रह्मणि शस्यमान उक्थ इत्य् उद्वत् तस्य उक्तम् ब्राह्मणम् । - कौब्रा. २०.३
मण्डल ६ | ||||
---|---|---|---|---|