ऋग्वेदः सूक्तं ६.९
← सूक्तं ६.८ | ऋग्वेदः - मण्डल ६ सूक्तं ६.९ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.१० → |
दे. वैश्वानरोऽग्निः। त्रिष्टुप्, (७ प्रस्तारपंक्तिर्वा) |
अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः ।
वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥१॥
नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः ।
कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा ॥२॥
स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति ।
य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन् ॥३॥
अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु ।
अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः ॥४॥
ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः ।
विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु ॥५॥
वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत् ।
वि मे मनश्चरति दूरआधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये ॥६॥
विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम् ।
वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः ॥७॥
सायणभाष्यम्
‘अहश्च' इति सप्तर्चं नवमं सूक्तं भरद्वाजस्यार्षं वैश्वानराग्निदेवताकम् । अनुक्रान्तं च- ‘अहश्च' इति । व्यूळहे दशरात्रे षष्ठेऽहन्याग्निमारुतशस्त्रे वैश्वानरनिविद्धानमिदम् । सूत्र्यते हि- अहश्च कृष्णं मध्वो वो नाम ' ( आश्व. श्रौ. ८. ८) इति ।।
अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑ ।
वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥१
अहः॑ । च॒ । कृ॒ष्णम् । अहः॑ । अर्जु॑नम् । च॒ । वि । व॒र्ते॒ते॒ इति॑ । रज॑सी॒ इति॑ । वे॒द्याभिः॑ ।
वै॒श्वा॒न॒रः । जाय॑मानः । न । राजा॑ । अव॑ । अ॒ति॒र॒त् । ज्योति॑षा । अ॒ग्निः । तमां॑सि ॥१
अहः । च । कृष्णम् । अहः । अर्जुनम् । च । वि । वर्तेते इति । रजसी इति । वेद्याभिः ।
वैश्वानरः । जायमानः । न । राजा । अव । अतिरत् । ज्योतिषा । अग्निः । तमांसि ॥१
आहरति पुरुषोऽस्मिन् कर्माणीति “अहः। “कृष्ण कृष्णवर्णम् । एतत्सामानाधिकरण्यादहःशब्दो रात्रिवचनः । तमसा कृष्णवर्णा रात्रिः “च "अर्जुनं “च सौरेण तेजसा शुक्लवर्णम् "अहः दिवसश्च “रजसी स्वस्वभासा सर्वं जगद्रञ्जयन्तौ “वेद्याभिः वेदितव्याभिरनुकूलतया ज्ञातव्याभिः स्वप्रवृत्तिभिः “वि “वर्तेते विविधं पर्यावर्तते । यद्वा । रजसी द्यावापृथिव्यौ । उपलक्षणमेतत् । लोकत्रयं प्रत्यावर्तेते । एतच्च वैश्वानराग्नेराज्ञया इति शेषः । स हि देवतात्वेनात्र प्रतिपाद्यः । स च "वैश्वानरः “अग्निः “जायमानो “न “राजा प्रादुर्भवन् प्रवर्धमानः राजेव “ज्योतिषा तेजसा “तमांसि “अवातिरत् अवतिरतिर्वधकर्मा । अवतिरति विनाशयति ।
नाहं तंतुं॒ न वि जा॑ना॒म्योतुं॒ न यं वयं॑ति सम॒रेऽत॑मानाः ।
कस्य॑ स्वित्पु॒त्र इ॒ह वक्त्वा॑नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ॥२
न । अ॒हम् । तन्तु॑म् । न । वि । जा॒ना॒मि॒ । ओतु॑म् । न । यम् । वय॑न्ति । स॒म्ऽअ॒रे । अत॑मानाः ।
कस्य॑ । स्वि॒त् । पु॒त्रः । इ॒ह । वक्त्वा॑नि । प॒रः । व॒दा॒ति॒ । अव॑रेण । पि॒त्रा ॥२
न । अहम् । तन्तुम् । न । वि । जानामि । ओतुम् । न । यम् । वयन्ति । सम्ऽअरे । अतमानाः ।
कस्य । स्वित् । पुत्रः । इह । वक्त्वानि । परः । वदाति । अवरेण । पित्रा ॥२
वैश्वानरस्य महत्त्वमाख्यास्यन्नृषिस्तदर्थं यज्ञं वस्त्रात्मकतया रूपयन् तस्य दुर्ज्ञानत्वमनया प्रतिपादयतीति यज्ञवादिनो मन्यन्ते । “तन्तुम् । तन्तवः पटस्य प्रागायतानि सूत्राणि । तानि च यज्ञात्मकस्य वस्त्रस्य गायत्र्यादीनि छन्दांसि स्तुतशस्त्राणि च । तानि "अहं “न “वि “जानामि । तथा “ओतुम् । ओतवस्तिरश्चीनानि सूत्राणि । तानि चात्र यजूंष्याध्वर्यवाणि कर्माणि च । तान्यहं “न वि जानामि । अपि चैतदुभयसाध्यं तं पटं यज्ञलक्षणं “न वि जानामि “यं पटं यज्ञलक्षणं “समरे संगमने देवयजने “अतमानाः सततं चेष्टमाना ऋत्विजः “वयन्ति तन्तूनोतूंश्च संतन्वन्ति । वस्त्ररूपेण निष्पादयन्ति इत्यर्थः । “इह अस्मिन् लोके “कस्य “स्वित् । स्विदिति वितर्के । कस्य खलु “पुत्रः मनुष्यः “वक्त्वानि वक्तव्यानि तानीमानि “परः परस्तादमुष्मिन् लोके वर्तमानो यः सूर्यस्तस्य “पित्रा “अवरेण अवस्तात् अस्मिन् लोके वर्तमानेन वैश्वानराग्निनानुशिष्टः सन् “वदाति वदेत्। न कश्चिदपि प्रवदितुं शक्नोतीत्यर्थः । एतच्च संप्रदायविद्भिरुक्तं- वैश्वानरस्य पुत्रोऽसौ परस्ताद्दिवि यः स्थितः । छन्दांस्यध्वरवस्त्रस्य स्तुतशस्त्राणि तन्तवः ॥ यजूंषि चेष्टाश्चौतुः स्याद्वस्त्रं वातव्यमध्वरः । परः परः स्थितः सूर्यः पिताग्निः पार्थिवो मतः' इति ।। रूपकतया जगत्सृष्टेर्दुर्ज्ञानत्वमनया प्रतिपादयतीत्यात्मविदो मन्यन्ते । तन्तुं तन्तून् तन्तुस्थानानि सूक्ष्माणि वियदादीन्यपञ्चीकृतानि भूतानि न विजानामि । ओतुमोतून् पञ्चीकृतानि स्थूलान्योतुस्थानीयान्यपि वियदादीनि न विजानामि । न च तत्कार्यं पटस्थानीयं प्रपञ्चं विजानामि यं प्रपञ्चं समरे तन्तुनामोतूनां च संगमनेऽतमानाः सततं चेष्टमानाः संसारिणो वयन्ति उत्पादयन्ति । तेषां भोगार्थमीश्वरः सृजतीति कर्तृत्वमुपचर्यते । इहास्मिन्विषये परः परस्ताद्बुद्धेरविषये वर्तमानानि वक्त्वानि वक्तव्यानीमान्यवरेणार्वाचीनेन सृष्ट्युत्तरकालमुत्पन्नेन पित्रा स्वजनकेनानुशिष्टः सन् कस्य खलु पुत्रो वदाति । वदेत् । स्वोत्पत्तेः प्राचीनं वृत्तान्तमजानानः कश्चिदपि न वदेदित्यर्थः ॥
स इत्तंतुं॒ स वि जा॑ना॒त्योतुं॒ स वक्त्वा॑न्यृतु॒था व॑दाति ।
य ईं॒ चिके॑तद॒मृत॑स्य गो॒पा अ॒वश्चर॑न्प॒रो अ॒न्येन॒ पश्य॑न् ॥३
सः । इत् । तन्तु॑म् । सः । वि । जा॒ना॒ति॒ । ओतु॑म् । सः । वक्त्वा॑नि । ऋ॒तु॒ऽथा । व॒दा॒ति॒ ।
यः । ई॒म् । चिके॑तत् । अ॒मृत॑स्य । गो॒पाः । अ॒वः । चर॑न् । प॒रः । अ॒न्येन॑ । पश्य॑न् ॥३
सः । इत् । तन्तुम् । सः । वि । जानाति । ओतुम् । सः । वक्त्वानि । ऋतुऽथा । वदाति ।
यः । ईम् । चिकेतत् । अमृतस्य । गोपाः । अवः । चरन् । परः । अन्येन । पश्यन् ॥३
यद्यपि उक्तेन प्रकारेण दुर्ज्ञानानि तथाप्येतानि वैश्वानरोऽग्निः जानाति वदति चेत्यनया प्रतिपादयति। “स “इत् स एव वैश्वानरोऽग्निः “तन्तुं तन्तुस्थानीयानि गायत्र्यादीनि छन्दांसि स्तुतशस्त्राणि “वि “जानाति तथा “सः एव “ओतुम् ओतुस्थानीयानि यजूंष्याध्वर्यवाणि च कर्माणि वि जानाति । “ऋतुथा काले काले तत्तदनुष्ठानसमये “वक्त्वानि वक्तव्यानि च तानि “वदाति वदेत् । “यः अयं वैश्वानरः “अमृतस्य “गोपाः उदकस्य गोपायिता रक्षिता “अवः अवस्तात् भूलोके “चरन् पार्थिवाग्निरूपेण संचरन् “परः परस्ताद्दिवि “अन्येन सूर्यात्मना “पश्यन् सर्वं जगत् प्रकाशयन् “ईम् इमानि परिदृश्यमानानि सर्वाणि भूतानि “चिकेतत् जानाति स एवेति पूर्वत्र संबन्धः । यद्वा । स इत् स एव तन्तुं तन्तुस्थानीयानि सूक्ष्मभूतानि वि जानाति नान्यः कश्चित् । तथौतुमोतुस्थानीयानि स्थूलभूतानि च स एव वि जानाति । स एव वक्त्वानि वक्तव्यान्युपदेष्टव्यानीमान्यृतुथा काले काले यदा यदा विद्यासंप्रदायोच्छेदस्तदा तदा वदाति वदेत् । कोऽसौ यो विजानीयाद्वदेच्चेत्यत आह । यो वैश्वानरो विश्वनरात्मकः परमात्मामृतस्यामृतत्वस्य विमोक्षणस्य गोपा रक्षितावोऽवस्तात् संसारदशायां चरन् अन्तःकरणोपेतः जीवात्मभावेन संचरन् परः परस्तादविद्याया ऊर्ध्वं वर्तमानेनान्येनोक्तविलक्षणेन निरुपाधिकेन सच्चिदादिलक्षणेन रूपेण पश्यन् सर्वं जगत् प्रकाशयन् ईमिमानि चिकेतत् जानाति । तथा च परमात्मानं प्रकृत्य श्रूयते - तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' ( श्वे. उ. ६.१४ ) इति ॥
अ॒यं होता॑ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये॑षु ।
अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॒॑ वर्ध॑मानः ॥४
अ॒यम् । होता॑ । प्र॒थ॒मः । पश्य॑त । इ॒मम् । इ॒दम् । ज्योतिः॑ । अ॒मृत॑म् । मर्त्ये॑षु ।
अ॒यम् । सः । ज॒ज्ञे॒ । ध्रु॒वः । आ । निऽस॑त्तः । अम॑र्त्यः । त॒न्वा॑ । वर्ध॑मानः ॥४
अयम् । होता । प्रथमः । पश्यत । इमम् । इदम् । ज्योतिः । अमृतम् । मर्त्येषु ।
अयम् । सः । जज्ञे । ध्रुवः । आ । निऽसत्तः । अमर्त्यः । तन्वा । वर्धमानः ॥४
“अयं वैश्वानरोऽग्निः “प्रथमः आद्यः “होता । मानुषो हि होता द्वितीयः । हे मनुष्यास्तम् “इमं “पश्यत भजतेत्यर्थः । “मर्त्येषु मरणस्वभावेषु शरीरेषु “अमृतं मरणरहितम् “इदं वैश्वानराख्यं “ज्योतिः जठररूपेण वर्तत इत्यर्थः । अपि च “सः “अयम् अग्निः “ध्रुवः निश्चलः “आ समन्तात् "निषत्तः निषण्णः सर्वव्यापी अत एव “अमर्त्यः मरणरहितोऽपि “तन्वा शरीरेण संबन्धात् जज्ञे जायते । “वर्धमानः च भवतीति उपचर्यते ।।।
ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्वं॒तः ।
विश्वे॑ दे॒वाः सम॑नसः॒ सके॑ता॒ एकं॒ क्रतु॑म॒भि वि यं॑ति सा॒धु ॥५
ध्रु॒वम् । ज्योतिः॑ । निऽहि॑तम् । दृ॒शये॑ । कम् । मनः॑ । जवि॑ष्ठम् । प॒तय॑त्ऽसु । अ॒न्तरिति॑ ।
विश्वे॑ । दे॒वाः । सऽम॑नसः । सऽके॑ताः । एक॑म् । क्रतु॑म् । अ॒भि । वि । या॒न्ति॒ । सा॒धु ॥५
ध्रुवम् । ज्योतिः । निऽहितम् । दृशये । कम् । मनः । जविष्ठम् । पतयत्ऽसु । अन्तरिति ।
विश्वे । देवाः । सऽमनसः । सऽकेताः । एकम् । क्रतुम् । अभि । वि । यान्ति । साधु ॥५
“ध्रुवं निश्चलं “मनः मनसः तस्मादपि “जविष्ठम् अतिशयेन वेगवत् ईदृशं वैश्वानराख्यं “ज्योतिः “पतयत्सु गच्छत्सु जङ्गमेषु प्राणिषु “अन्तः मध्ये “निहितं प्रजापतिना स्थापितम् । किमर्थम् । “दृशये "कम् । दर्शनार्थम् । किंच “विश्वे सर्वे “देवाः च “समनसः समानमनस्काः “सकेताः समानप्रज्ञाश्च सन्तः “एकं मुख्यं गन्तारं वा “क्रतुं कर्मणां कर्तारं “साधु सम्यक “अभि “वि "यन्ति आभिमुख्येन विविधं प्राप्नुवन्ति सेवन्त इत्यर्थः । यद्वा । पतयत्सु गच्छत्सु प्राणिष्वन्तर्मध्ये हृदये मनो जविष्ठं मनसोऽप्यतिशयेन वेगयुक्तं ध्रुवं निश्चलं निर्विकल्पम् । तथा च वाजसनेयकम्-- अनेजदेकं मनसो जवीयः' (वा. सं. ४०. ४ ) इति । ज्योतिर्ब्रह्म चैतन्यं निहितम् । न केनचित् स्थापितम् । “यो वेद निहितं गुहायां परमे व्योमन' (तै. आ. ८. १ ) इति हि श्रूयते । किमर्थम् । दृशये दर्शनार्थम् । ज्ञानेन हि सर्वं जानन्ति । अपि च । दीव्यन्तीति देवा इन्द्रियाणि । विश्व सर्वे देवाः सर्वाणीन्द्रियाणि चक्षुराद्याः समनसो मनसा सह वर्तमानाः सकेताः सतेजस्काः सन्त एकमद्वितीय क्रतुं सृष्टयादीनां कर्मणां कर्तारं विश्वनरात्मकं परमात्मानमभिलक्ष्य साधु सम्यक् वि यन्ति विविधं गच्छन्ति । देवा एव वेममभि वि यन्ति । आभिमुख्येन विविधमुपयन्ति । उपासत इत्यर्थः । तथा च श्रूयते -- तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्' (बृ. उ. ४. ४. १६) इति ।।
वि मे॒ कर्णा॑ पतयतो॒ वि चक्षु॒र्वी॒३॒॑दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् ।
वि मे॒ मन॑श्चरति दू॒रआ॑धीः॒ किं स्वि॑द्व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ॥६
वि । मे॒ । कर्णा॑ । प॒त॒य॒तः॒ । वि । चक्षुः॑ । वि । इ॒दम् । ज्योतिः॑ । हृद॑ये । आऽहि॑तम् । यत् ।
वि । मे॒ । मनः॑ । च॒र॒ति॒ । दू॒रेऽआ॑धीः । किम् । स्वि॒त् । व॒क्ष्यामि॑ । किम् । ऊं॒ इति॑ । नु । म॒नि॒ष्ये॒ ॥६
वि । मे । कर्णा । पतयतः । वि । चक्षुः । वि । इदम् । ज्योतिः । हृदये । आऽहितम् । यत् ।
वि । मे । मनः । चरति । दूरेऽआधीः । किम् । स्वित् । वक्ष्यामि । किम् । ऊं इति । नु । मनिष्ये ॥६
वैश्वानरं श्रोतुकामस्य “मे मम “कर्णा कर्णौ “वि “पतयतः विविधं गच्छतः । श्रोतव्यानां तदीयगुणानां बहुत्वात् । तथा वैश्वानरं दिदृक्षमाणस्य मम “चक्षुः इन्द्रियं “वि पतयति विविधं गच्छति । दृष्टव्यानां तदीयरूपाणां बहुत्वात् । तथा “ज्योतिः प्रकाशकं हृदये हृदयपुण्डरीके “आहितं निहितं “यत् बुद्ध्याख्यं तत्त्वम् “इदमपि “वि पतयति विविधं गच्छति वैश्वानरात्मानं ज्ञातुम् । अपि च “दूरआधीः । दूरे विप्रकृष्टे विषय अधीराध्यानं यस्य तादृशम् । छान्दसो लिङ्गव्यत्ययः । “मे मदीयं “मनः च “वि “चरति विविधं प्रवर्तते । एवमहमहमिकया सर्वेष्विन्द्रियेषु प्रवृत्तेषु “किं “स्वित् अहं वैश्वानरस्य रूपमिति “वक्ष्यामि । “किमु “नु किमु खलु संप्रति “मनिष्ये मनसा प्रपत्स्ये । वैश्वानरस्य गुणानामनन्तत्वात् मन्दप्रज्ञेन मया ज्ञातुं न शक्यत इत्यर्थः ॥
विश्वे॑ दे॒वा अ॑नमस्यन्भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांसं॑ ।
वै॒श्वा॒न॒रो॑ऽवतू॒तये॒ नोऽम॑र्त्योऽवतू॒तये॑ नः ॥७
विश्वे॑ । दे॒वाः । अ॒न॒म॒स्य॒न् । भि॒या॒नाः । त्वाम् । अ॒ग्ने॒ । तम॑सि । त॒स्थि॒ऽवांस॑म् ।
वै॒श्वा॒न॒रः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ । अम॑र्त्यः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ ॥७
विश्वे । देवाः । अनमस्यन् । भियानाः । त्वाम् । अग्ने । तमसि । तस्थिऽवांसम् ।
वैश्वानरः । अवतु । ऊतये । नः । अमर्त्यः । अवतु । ऊतये । नः ॥७
हे वैश्वानर “तमसि अन्धकारे “तस्थिवांसं स्थितवन्तं “त्वां “विश्वे सर्वे “देवाः "अनमस्यन् नमस्कुर्वन्ति । कुतो हेतोः । “भियानाः अन्धकाराद्भीताः । तादृशः “अमर्त्यः मरणरहितः “वैश्वानरः अग्निः “नः अस्मान् “ऊतये ऊत्या रक्षणेन “अवतु रक्षतु । पुनरुक्तिरादरार्था ॥ ॥ ११ ॥
मण्डल ६ | ||||
---|---|---|---|---|