ऋग्वेदः सूक्तं ६.१३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ६.१३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ६.१२ ऋग्वेदः - मण्डल ६
सूक्तं ६.१३
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.१४ →
दे. अग्निः। त्रिष्टुप्।


त्वद्विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः ।
श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम् ॥१॥
त्वं भगो न आ हि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः ।
अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥२॥
स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजम् ।
यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥३॥
यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट् ।
विश्वं स देव प्रति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः ॥४॥
ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः ।
कृणोषि यच्छवसा भूरि पश्वो वयो वृकायारये जसुरये ॥५॥
वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः ।
विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः ॥६॥


सायणभाष्यम्

' त्वद्विश्वा ' इति षड़ृचं त्रयोदशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम् । ‘ त्वद्विश्वा ' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥


त्वद्विश्वा॑ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य॑न्ति व॒निनो॒ न व॒याः ।

श्रु॒ष्टी र॒यिर्वाजो॑ वृत्र॒तूर्ये॑ दि॒वो वृ॒ष्टिरीड्यो॑ री॒तिर॒पाम् ॥१

त्वत् । विश्वा॑ । सु॒ऽभ॒ग॒ । सौभ॑गानि । अग्ने॑ । वि । या॒न्ति॒ । व॒निनः॑ । न । व॒याः ।

श्रु॒ष्टी । र॒यिः । वाजः॑ । वृ॒त्र॒ऽतूर्ये॑ । दि॒वः । वृ॒ष्टिः । ईड्यः॑ । री॒तिः । अ॒पाम् ॥१

त्वत् । विश्वा । सुऽभग । सौभगानि । अग्ने । वि । यान्ति । वनिनः । न । वयाः ।

श्रुष्टी । रयिः । वाजः । वृत्रऽतूर्ये । दिवः । वृष्टिः । ईड्यः । रीतिः । अपाम् ॥१

हे “सुभग शोभनधन “अग्ने “विश्वा विश्वानि सर्वाणि “सौभगानि धनानि “त्वत् त्वत्तः “वि “यन्ति विविधं निर्गच्छन्ति । हिरण्यमूलत्वात् सर्वेषां धनानां हिरण्यं चाग्नेः सकाशादुत्पन्नम्। तस्य रेतः परापतत्तद्धिरण्यमभवत् ' (तै. ब्रा. १. १. ३. ८) इति श्रुतेः । निर्गमने दृष्टान्तः । “वनिनो “न “वयाः । यथा वृक्षाच्छाखा विविधं निर्गच्छन्ति तद्वत् । तथा “रयिः पशुसंघश्च त्वत्सकाशादेव “श्रुष्टी क्षिप्रं व्येति निर्गच्छति । ‘ पशवो वै रयिः पशूनेवावरुन्धे ' (तै. सं. १. ५. ७.२) इति तैत्तिरीयकम् । “वृत्रतूर्ये वृत्राणां शत्रूणां हिंसके संग्रामे शत्रून् जेतुं “वाजः बलं च त्वत्तो व्येति । “दिवः अन्तरिक्षात् या “वृष्टिः सापि त्वत्त एव व्येति । ‘ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ' ( मनु. ३.७६ ) इति स्मरणात् । अतस्त्वम् “ईड्यः सर्वैः स्तुत्यः सन् “अपाम् उदकानां “रीतिः गमयिता भवसि ॥


त्वं भगो॑ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः ।

अग्ने॑ मि॒त्रो न बृ॑ह॒त ऋ॒तस्यासि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरे॑ः ॥२

त्वम् । भगः॑ । नः॒ । आ । हि । रत्न॑म् । इ॒षे । परि॑ज्माऽइव । क्ष॒य॒सि॒ । द॒स्मऽव॑र्चाः ।

अग्ने॑ । मि॒त्रः । न । बृ॒ह॒तः । ऋ॒तस्य॑ । असि॑ । क्ष॒त्ता । वा॒मस्य॑ । दे॒व॒ । भूरेः॑ ॥२

त्वम् । भगः । नः । आ । हि । रत्नम् । इषे । परिज्माऽइव । क्षयसि । दस्मऽवर्चाः ।

अग्ने । मित्रः । न । बृहतः । ऋतस्य । असि । क्षत्ता । वामस्य । देव । भूरेः ॥२

हे अग्ने “भगः भजनीयः “त्वं “नः अस्मभ्यं “रत्नं रमणीयं धनम् "आ “इषे आगमय प्रयच्छ॥ ‘ इण् गतौ ' इत्यस्यैतद्रूपम् । “हि इति पूरकः । “दस्मवर्चाः दर्शनीयदीप्तिस्त्वं “परिज्मेव परितो गन्ता वायुरिव “क्षयसि सर्वत्र निवससि। यद्वा । क्षयतिरैश्वर्यकर्मा । सर्वस्येशिषे । हे “अग्ने “मित्रो “न प्रमीतेस्त्रायको देव इव “बृहतः महतः “ऋतस्य उदकस्य यज्ञस्य वा “क्षत्ता “असि । क्षदतिरत्र दानकर्मा । दाता भवसि । तथा हे “देव द्योतमानाग्ने “भूरेः बहुलस्य “वामस्य वननीयस्य धनस्य च दाता भवसीत्यनुषङ्गः ॥


स सत्प॑ति॒ः शव॑सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाज॑म् ।

यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ॥३

सः । सत्ऽप॑तिः । शव॑सा । ह॒न्ति॒ । वृ॒त्रम् । अ॒ग्ने॒ । विप्रः॑ । वि । प॒णेः । भ॒र्ति॒ । वाज॑म् ।

यम् । त्वम् । प्र॒ऽचे॒तः॒ । ऋ॒त॒ऽजा॒त॒ । रा॒या । स॒ऽजोषाः॑ । नप्त्रा॑ । अ॒पाम् । हि॒नोषि॑ ॥३

सः । सत्ऽपतिः । शवसा । हन्ति । वृत्रम् । अग्ने । विप्रः । वि । पणेः । भर्ति । वाजम् ।

यम् । त्वम् । प्रऽचेतः । ऋतऽजात । राया । सऽजोषाः । नप्त्रा । अपाम् । हिनोषि ॥३

हे “अग्ने “सत्पतिः सतां पालयिता “सः पुरुषः “वृत्रम् आवरकं शत्रुं “शवसा बलेन “हन्ति । स च “विप्रः मेधावी सन् “पणे: वणिज: एतन्नाम्नोऽसुरस्य वा “वाजम् अन्नं बलं वा “वि “भर्ति वियुज्य हरति ॥ ‘ हृग्रहोर्भः' इति भत्वम् ॥ हे “प्रचेतः प्रकृष्टज्ञान “ऋतजात । ऋतमिति यज्ञनाम । तदर्थं जाताग्ने “अपां “नप्त्रा न पातयित्रा पुत्रेण मध्यमस्थानेन वैद्युताग्निना “सजोषाः संगतः “त्वं “यं पुरुषं “राया ॥ चतुर्थ्यर्थे तृतीया ॥ धनार्थं “हिनोषि प्रेरयसि स हन्तीत्यन्वयः ॥


यस्ते॑ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् ।

विश्वं॒ स दे॑व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्यं१॒॑ पत्य॑ते वस॒व्यै॑ः ॥४

यः । ते॒ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । गीः॒ऽभिः । उ॒क्थैः । य॒ज्ञैः । मर्तः॑ । निऽशि॑तम् । वे॒द्या । आन॑ट् ।

विश्व॑म् । सः । दे॒व॒ । प्रति॑ । वार॑म् । अ॒ग्ने॒ । ध॒त्ते । धा॒न्य॑म् । पत्य॑ते । व॒स॒व्यैः॑ ॥४

यः । ते । सूनो इति । सहसः । गीःऽभिः । उक्थैः । यज्ञैः । मर्तः । निऽशितम् । वेद्या । आनट् ।

विश्वम् । सः । देव । प्रति । वारम् । अग्ने । धत्ते । धान्यम् । पत्यते । वसव्यैः ॥४

हे “सहसः “सूनो बलस्य पुत्राग्ने “ते तव “निशितिं तैक्ष्ण्यं “यः “मर्तः मनुष्यो यजमानः “गीर्भिः स्तुतिभिः “उक्थैः शस्त्रैः “यज्ञैः यजनसाधनैर्हविर्भिश्च "वेद्या वेद्यां यज्ञभूमौ “आनट् प्रापयति “सः मर्तो हे “देव द्योतमान “अग्ने “विश्वं सर्वम् "अरं पर्याप्तम् । वाशब्दश्चार्थे । “धान्यं च “प्रति “धत्ते प्रतिधारयति । “वसव्यैः वसुभिश्च “पत्यते संगच्छते ।।


ता नृभ्य॒ आ सौ॑श्रव॒सा सु॒वीराग्ने॑ सूनो सहसः पु॒ष्यसे॑ धाः ।

कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका॑या॒रये॒ जसु॑रये ॥५

ता । नृऽभ्यः॑ । आ । सौ॒श्र॒व॒सा । सु॒ऽवीरा॑ । अग्ने॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । पु॒ष्यसे॑ । धाः॒ ।

कृ॒णोषि॑ । यत् । शव॑सा । भूरि॑ । प॒श्वः । वयः॑ । वृका॑य । अ॒रये॑ । जसु॑रये ॥५

ता । नृऽभ्यः । आ । सौश्रवसा । सुऽवीरा । अग्ने । सूनो इति । सहसः । पुष्यसे । धाः ।

कृणोषि । यत् । शवसा । भूरि । पश्वः । वयः । वृकाय । अरये । जसुरये ॥५

हे “सहसः “सूनो सहसस्पुत्र “अग्ने “सुवीरा शोभनैः पुत्रैरुपेतानि “सौश्रवसा सुश्रवांसि शोभनान्यन्नानि “ता तानि “नृभ्यः शत्रुजनेभ्यः “आ आहृत्य “धाः अस्मासु धेहि । किमर्थम् । “पुष्यसे पोषार्थम् । यद्वा । नृभ्यः स्तुतीनां नेतृभ्योऽस्मभ्यम् आ धेहि आभिमुख्येन प्रयच्छ । “शवसा बलेन युक्तस्त्वं “भूरि बहुलं "पश्वः पशोः संबन्धि दध्यादिलक्षणं “यत् “वयः अन्नं “वृकाय अदात्रे “जसुरये उपक्षपयित्रे “अरये शत्रवे “कृणोषि करोषि तदन्नमाहृत्य प्रयच्छेत्यर्थः ।।


व॒द्मा सू॑नो सहसो नो॒ विहा॑या॒ अग्ने॑ तो॒कं तन॑यं वा॒जि नो॑ दाः ।

विश्वा॑भिर्गी॒र्भिर॒भि पू॒र्तिम॑श्यां॒ मदे॑म श॒तहि॑माः सु॒वीरा॑ः ॥६

व॒द्मा । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । विऽहा॑याः । अग्ने॑ । तो॒कम् । तन॑यम् । वा॒जि । नः॒ । दाः॒ ।

विश्वा॑भिः । गीः॒ऽभिः । अ॒भि । पू॒र्तिम् । अ॒श्या॒म् । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥६

वद्मा । सूनो इति । सहसः । नः । विऽहायाः । अग्ने । तोकम् । तनयम् । वाजि । नः । दाः ।

विश्वाभिः । गीःऽभिः । अभि । पूर्तिम् । अश्याम् । मदेम । शतऽहिमाः । सुऽवीराः ॥६

हे “सहसः “सूनो “अग्ने “विहायाः । महन्नामैतत् । महांस्त्वं “नः अस्माकं “वद्मा वदिता हितोपदेष्टा भव । अपि च “तोकं पुत्रं “तनयं तत्पुत्रं च “वाजि अन्नयुक्तं “नः अस्मभ्यं “दाः देहि । अहं स्तोता “विश्वाभिः सर्वाभिः “गीर्भिः त्वद्विषयाभिः “पूर्तिं कामानां संपूर्तिम् “अभि “अश्याम् अभिप्राप्नुयाम् । अन्यद्गतम् ॥ ॥ १५ ॥


[सम्पाद्यताम्]

६.१३.२ क्षत्ता - क्षदतिरत्र दानकर्मा(सायणभाष्य)।

क्षद् संवृतौ । सौत्रधातुरयम् । (शब्दकल्पद्रुमः)

अभिक्षत्तारो(ऋ. २.२९.२) - अभितः शत्रूणां हिंसितारः (सायणभाष्यः)

उपोहश्च समूहश्च क्षत्तारौ ते प्रजापते - अथर्ववेद ३.२४.७। उप समीपं ऊहति प्रापयति धान्यादिकं इति उपोहः(सायणभाष्यम्)

क्षत्ता दौवारिकः(सार्वत्रिक)

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.१३&oldid=199854" इत्यस्माद् पुनः प्राप्तिः