ऋग्वेदः सूक्तं ६.१४
← सूक्तं ६.१३ | ऋग्वेदः - मण्डल ६ सूक्तं ६.१४ बार्हस्पत्यो भरद्वाजः |
सूक्तं ६.१५ → |
दे. अग्निः। अनुष्टुप्, ६ शक्वरी। |
अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः ।
भसन्नु ष प्र पूर्व्य इषं वुरीतावसे ॥१॥
अग्निरिद्धि प्रचेता अग्निर्वेधस्तम ऋषिः ।
अग्निं होतारमीळते यज्ञेषु मनुषो विशः ॥२॥
नाना ह्यग्नेऽवसे स्पर्धन्ते रायो अर्यः ।
तूर्वन्तो दस्युमायवो व्रतैः सीक्षन्तो अव्रतम् ॥३॥
अग्निरप्सामृतीषहं वीरं ददाति सत्पतिम् ।
यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ॥४॥
अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति ।
सहावा यस्यावृतो रयिर्वाजेष्ववृतः ॥५॥
अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः ।
वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥६॥
सायणभाष्यम्
‘ अग्ना यः' इति षड़ृचं चतुर्दशं सूक्तं भरद्वाजस्यार्षमाग्नेयम् । षष्ठी शक्वरी शिष्टाः पञ्चानुष्टुभः । तथा चानुक्रान्तम् - अग्ना य आनुष्टुभं शक्वर्यन्तम्' इति । प्रातरनुवाक आग्नेये क्रतावाश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च - ' अग्ना यो होताजनिष्ट ' ( आश्व. श्रौ. ४. १३) इति । अत्रेश्चतुर्वीराख्ये चतूरात्रेऽहीने तृतीयेऽहनीदं सूक्तमाज्यशस्वम् । सूत्रितं च - अग्ना यो मर्त्यो दुव इति तृतीये ' (आश्व. श्रौ. १०. २) इति ॥
अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं॑ जु॒जोष॑ धी॒तिभि॑ः ।
भस॒न्नु ष प्र पू॒र्व्य इषं॑ वुरी॒ताव॑से ॥१
अ॒ग्ना । यः । मर्त्यः॑ । दुवः॑ । धिय॑म् । जु॒जोष॑ । धी॒तिऽभिः॑ ।
भस॑त् । नु । सः । प्र । पू॒र्व्यः । इष॑म् । वु॒री॒त॒ । अव॑से ॥१
अग्ना । यः । मर्त्यः । दुवः । धियम् । जुजोष । धीतिऽभिः ।
भसत् । नु । सः । प्र । पूर्व्यः । इषम् । वुरीत । अवसे ॥१
“यो “मर्यः मनुष्यः “अग्ना अग्नावग्निविषयं “दुवः परिचरणं “धियं कर्म च यज्ञादिलक्षणं “धीतिभिः स्तुतिभिः सार्धं “जुजोष सेवते आचरति “सः मर्त्यः “पूर्व्यः पूर्वेषां मुख्यः सन् "नु क्षिप्रं “प्र “भसत् प्रभासेत । प्रकृष्टप्रकाशवान् भवेत् । “अवसे पुत्रादीनां रक्षणार्थम् “इषम् अन्नं स “वुरीत वृणीत संभजेत । शत्रुसकाशाल्लभेतेत्यर्थः ॥
अ॒ग्निरिद्धि प्रचे॑ता अ॒ग्निर्वे॒धस्त॑म॒ ऋषि॑ः ।
अ॒ग्निं होता॑रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विश॑ः ॥२
अ॒ग्निः । इत् । हि । प्रऽचे॑ताः । अ॒ग्निः । वे॒धःऽत॑मः । ऋषिः॑ ।
अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । य॒ज्ञेषु॑ । मनु॑षः । विशः॑ ॥२
अग्निः । इत् । हि । प्रऽचेताः । अग्निः । वेधःऽतमः । ऋषिः ।
अग्निम् । होतारम् । ईळते । यज्ञेषु । मनुषः । विशः ॥२
“अग्निरित् अग्निरेव “प्रचेताः प्रकृष्टज्ञानवान् नान्यः कश्चित् । “हि यस्मादेवं तस्मात् "वेधस्तमः विधातृतमोऽतिशयेन हविर्वहनादीनां कर्मणां कर्ता “ऋषिः सर्वस्य द्रष्टा च भवति । “मनुषः मनुष्यस्य यजमानस्य “विशः प्रजाः ऋत्विग्लक्षणाः "होतारं देवानामाह्वातारं तादृशम् “अग्निं “यज्ञेषु यागेषु “ईळते स्तुवन्ति ॥
नाना॒ ह्य१॒॑ग्नेऽव॑से॒ स्पर्ध॑न्ते॒ रायो॑ अ॒र्यः ।
तूर्व॑न्तो॒ दस्यु॑मा॒यवो॑ व्र॒तैः सीक्ष॑न्तो अव्र॒तम् ॥३
नाना॑ । हि । अ॒ग्ने॒ । अव॑से । स्पर्ध॑न्ते । रायः॑ । अ॒र्यः ।
तूर्व॑न्तः । दस्यु॑म् । आ॒यवः॑ । व्र॒तैः । सीक्ष॑न्तः । अ॒व्र॒तम् ॥३
नाना । हि । अग्ने । अवसे । स्पर्धन्ते । रायः । अर्यः ।
तूर्वन्तः । दस्युम् । आयवः । व्रतैः । सीक्षन्तः । अव्रतम् ॥३
हे “अग्ने “अर्यः अरेः शत्रोः “रायः धनानि “अवसे त्वत्स्तोतॄणां रक्षणार्थं "नाना शत्रुसकाशात् पृथग्भूताः "स्पर्धन्ते । अहमेव पलियान्यहमेव पालयानीति स्पर्धा कुर्वन्ति । “आयवः मनुष्यास्ते च स्तोतारः “दस्युम् उपक्षपयितारं शत्रुं “तूर्वन्तः हिंसन्तः “व्रतैः त्वद्देवत्यैर्यागैः “अव्रतं व्रतविरोधिनं च पुरुषं “सीक्षन्तः सोढुमभिभवितुमिच्छन्तो भवन्ति ॥
अ॒ग्निर॒प्सामृ॑ती॒षहं॑ वी॒रं द॑दाति॒ सत्प॑तिम् ।
यस्य॒ त्रस॑न्ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ॥४
अ॒ग्निः । अ॒प्साम् । ऋ॒ति॒ऽसह॑म् । वी॒रम् । द॒दा॒ति॒ । सत्ऽप॑तिम् ।
यस्य॑ । त्रस॑न्ति । शव॑सः । स॒म्ऽचक्षि॑ । शत्र॑वः । भि॒या ॥४
अग्निः । अप्साम् । ऋतिऽसहम् । वीरम् । ददाति । सत्ऽपतिम् ।
यस्य । त्रसन्ति । शवसः । सम्ऽचक्षि । शत्रवः । भिया ॥४
अयम् “अग्निः “वीरं पुत्रं “ददाति स्तोतृभ्यः प्रयच्छति । कीदृशं पुत्रम् । “अप्साम् अपामाप्तव्यानां कर्मणां सनितारं संभक्तारम् “ऋतीषहम् ऋतीनामरातीनां सोढारमभिभवितारं “सत्पतिं सतां कर्मणां पालयितारम् । “यस्य वीरस्य “संचक्षि संदर्शने सति “शवसः बलात् “भिया भीत्या “शत्रवः “त्रसन्ति उद्विजन्ते तं वीरमित्यन्वयः ॥
अ॒ग्निर्हि वि॒द्मना॑ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ ।
स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ॥५
अ॒ग्निः । हि । वि॒द्मना॑ । नि॒दः । दे॒वः । मर्त॑म् । उ॒रु॒ष्यति॑ ।
स॒हऽवा॑ । यस्य॑ । अवृ॑तः । र॒यिः । वाजे॑षु । अवृ॑तः ॥५
अग्निः । हि । विद्मना । निदः । देवः । मर्तम् । उरुष्यति ।
सहऽवा । यस्य । अवृतः । रयिः । वाजेषु । अवृतः ॥५
“सहावा । सहो बलम् । तद्वान् “देवः दानादिगुणयुक्तः “अग्निः “विद्मना ज्ञानेन युक्तः सन् तं “मर्त मनुष्यं यजमानं “निदः निन्दकात् “उरुष्यति रक्षति । “हि इति पूरकः । “यस्य मर्तस्य “रयिः हविर्लक्षणं धनम् “अवृतः रक्षः प्रभृतिभिरनाच्छादितं "वाजेषु यज्ञेषु “अवृतः अन्यैर्यजमानैः असंभक्तं तं हविष्मन्तं यजमानमुरुष्यतीत्यन्वयः ॥
अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोच॑ः सुम॒तिं रोद॑स्योः ।
वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥६
अच्छ॑ । नः॒ । मि॒त्र॒ऽम॒हः॒ । दे॒व॒ । दे॒वान् । अग्ने॑ । वोचः॑ । सु॒ऽम॒तिम् । रोद॑स्योः ।
वी॒हि । स्व॒स्तिम् । सु॒ऽक्षि॒तिम् । दि॒वः । नॄन् । द्वि॒षः । अंहां॑सि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥६
अच्छ । नः । मित्रऽमहः । देव । देवान् । अग्ने । वोचः । सुऽमतिम् । रोदस्योः ।
वीहि । स्वस्तिम् । सुऽक्षितिम् । दिवः । नॄन् । द्विषः । अंहांसि । दुःऽइता । तरेम । ता । तरेम । तव । अवसा । तरेम ॥६
व्याख्यातेयम्। अक्षरार्थस्तु । अनुकूलदीप्ते दानादिगुणयुक्ताग्ने द्यावापृथिव्योरभिगतस्त्वमस्मदीयां सुष्टुतिं यष्टव्यान् देवान् प्रति वोचः प्रब्रूहि । स्तुतेर्नेतॄनस्मांश्च सुनिवासमविनाशं गमय । वयं च त्वत्प्रसादात् द्वेष्टॄन् पापानि तत्फलानि दुर्गमनानि चातिक्रामेम । व्यवहितानि जन्मान्तरकृतानि च तान्यतिक्रामेम । त्वदीयेन रक्षणेनात्यन्तमतिक्रामेमेति ॥ ॥ १६
मण्डल ६ | ||||
---|---|---|---|---|