ऐतरेय ब्राह्मणम्/पञ्चिका ५ (पञ्चम पञ्चिका)

विकिस्रोतः तः
Jump to navigation Jump to search

823

विश्वे वै देवा देवतास्तृतीयमहर्वहन्ति सप्तदशः स्तोमो वैरूपं साम जगती छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै समानोदर्कं तत्तृतीयस्याह्नो रूपं यदश्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्रतवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोकोऽभ्युदितो यद्वैरूपं यज्जागतं यत्कृतमेतानि वै तृतीयस्याह्नो रूपाणि युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिवेति तृतीयस्याह्न आज्यम्भवति देवा वै तृतीयेनाह्ना स्वर्गं लोकमायंस्तानसुरा रक्षांस्यन्ववारयन्त ते विरूपा भवत विरूपा भवतेति भवन्त आयंस्ते यद्विरूपा भवत विरूपा भवतेति भवन्त आयंस्तद्वैरूपं सामाभवत्तद्वैरूपस्य वैरूपत्वं विरूपः पाप्मना भूत्वा पाप्मानमपहते य एवं वेद तान्ह स्मान्वेवागच्छन्ति समेव सृज्यन्ते तानश्वा भूत्वा पद्भिरपाघ्नत यदश्वा भूत्वा पद्भिरपाघ्नत तदश्वानामश्वत्वमश्नुते यद्यत्कामयते य एवं वेद तस्मादश्वः पशूनां जविष्ठस्तस्मादश्वः प्रत्यङ्पदा हिनस्त्यप पाप्मानं हते य एवं वेद तस्मादेतदश्ववदाज्यम्भवति तृतीयेऽहनि तृतीयस्याह्नो रूपं वायवा याहि वीतये वायो याहि शिवा दिव इन्द्र श्च वायवेषां सुतानामा मित्रे वरुणे वयमश्विनावेह गच्छतमा याह्यद्रिभिः सुतं सजूर्विश्वेभिर्देवेभिरुत नः प्रिया प्रियास्वित्यौष्णिहम्प्रउगं समानोदर्कं तृतीयेऽहनि तृतीयस्याह्नो रूपं तं-तमिद्राधसे महे त्रय इन्द्रस्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ निनृत्तवत्त्रिवत्तृतीयेऽहनि तृतीयस्याह्नो रूपमिन्द्र नेदीय एदिहीत्यच्युतः प्रगाथः प्र नूनम्ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यो निनृत्तवांस्तृतीयेऽहनि तृतीयस्याह्नो रूपम-ग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्याप इति धाय्या अच्युता नकिः सुदासो रथम्पर्यास न रीरमदिति मरुत्वतीयः प्रगाथः पर्यस्तवांस्तृतीयेऽहनि तृतीयस्याह्नो रूपं त्र्यर्यमा मनुषो देवतातेति सूक्तं त्रिवत्तृतीयेऽहनि तृतीयस्याह्नो रूपं यद्द्याव इन्द्र ते शतं यदिन्द्र यावतस्त्वमिति वैरूपम्पृष्ठम्भवति राथंतरेऽहनि तॄतीयेऽहनि तृतीयस्याह्नो रूपं यद्वावानेति धाय्याच्युताभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेनेन्द्र त्रिधातु शरणमिति सामप्रगाथस्त्रिवांस्तृतीयेऽहनि तृतीयस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः॥5.1॥


828

यो जात एव प्रथमो मनस्वानिति सूक्तं समानोदर्कं तृतीयेऽहनि तृतीयस्याह्नो रूपां तदु सजनीयमेतद्वा इन्द्रस्येन्द्रियं यत्सजनीयमेतस्मिन्वै शस्यमान इन्द्रमिन्द्रियमाविशति तद्धाप्याहुश्छन्दोगास्तृतीयेऽहनि बह्वृचा इन्द्रस्येन्द्रियं शंसन्तीति तदु गार्त्समदमेतेन वै गृत्समद इन्द्रस्य प्रियं धामोपागच्छत्स परमं लोकमजयदुपेन्द्रस्य प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ रा-थंतरेऽहनि तृतीयेऽहनि तृतीयस्याह्नो रूपं तद्देवस्य सवितुर्वार्यम्महदिति सावित्रमन्तो वै महदन्तस्तृतीयमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपं घृतेन द्यावापृथिवी अभीवृते इति द्यावापृथिवीयं घृतश्रिया घृतपृचा घृतावृधेति पुनरावृत्तम्पुनर्निनृत्तां तृतीयेऽहनि तृतीयस्याह्नो रूपमनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवम्रथस्त्रिचक्र इति त्रिवत्तृतीयेऽहनि तृतीयस्याह्नो रूपम्परावतो ये दिधिषन्त आप्यमिति वैश्वदेवमन्तो वै परावतोऽन्तस्तृतीयमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपं तदु गायमेतेन वै गयः प्लातो विश्वेषां देवानाम्प्रियं धामोपागच्छत्स परमं लोकमजयदुप विश्वेषां देवानाम्प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद वैश्वानराय धिषणामृतावृध इत्याग्निमारुतस्य प्रतिपदन्तो वै धिषणान्तस्तृतीयमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपं धारावरा मरुतो धृष्ण्वोजस इति मारुतम्बह्वभिव्याहृत्यमन्तो वै बह्वन्तस्तृतीयमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता त्वमग्ने प्रथमो अङ्गिरा ऋषिरिति जातवेदस्यम्पुरस्तादुदर्कं तृतीयेऽहनि तृतीयस्याह्नो रूपं त्वंत्वमित्युत्तरं त्र्यहमभिवदति संतत्यै संततै स्त्र्यहैरव्यवछिन्नैर्यन्ति य एवं विद्वांसो यन्ति॥5.2॥


833

आप्यन्ते वै स्तोमा आप्यन्ते छन्दांसि तृतीयेऽहन्येतदेव तत उच्छिष्यते वागित्येव तदेतदक्षरं त्र्यक्षरं वागित्येकमक्षरमक्षरमिति त्र्यक्षरं स एवैष उत्तर स्त्र्याहो वागेकं गौरेकं द्यौरेकं ततो वै वागेव चतुर्थमहर्वहति तद्यच्चतुर्थमहर्न्यूङ्खयन्त्येतदेव तदक्षरमभ्यायछन्त्येतद्वर्धयन्त्येतत्प्रबिभावयिष-न्ति चतुर्थस्याह्न उद्यत्या अन्नं वै न्यूङ्खो यदेलवा अभिगेष्णाश्चरन्त्य-थान्नाद्यम्प्रजायते तद्यच्चतर्थमहर्न्यूङ्खयन्त्यन्नमेव तत्प्रजनयन्त्यन्नाद्यस्य प्रजात्यै तस्माच्चतुर्थमहर्जातवद्भवति चतुरक्षरेण न्यूङ्खयेदित्याहुश्चतुष्पादा वै पशवः पशूनामवरुद्ध्यै त्र्यक्षरेण न्यूङ्खयेदित्याहुस्त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्या एकाक्षरेण न्यूङ्खयेदिति ह स्माह लाङ्गलायनो ब्रह्मा मौद्गल्य एकाक्षरा वै वाग् एष वाव सम्प्रति न्यूङ्खं न्यूङ्खयति य एकाक्षरेण न्यूङ्खयतीति द्व्यक्षरेणैव न्यूङ्खयेत्प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति तस्मा-द्द्व्यक्षरेणैव न्यूङ्खयेन्मुखतः प्रातरनुवाके न्यूङ्खयति मुखतो वै प्रजा अन्नमदन्ति मुखत एव तदन्नाद्यस्य यजमानं दधाति मध्यत आज्ये न्यूङ्खयति मध्यतो वै प्रजा अन्नं धिनोति मध्यत एव तदन्नाद्यस्य यजमानं दधाति मुखतो मध्यंदिने न्यूङ्खयति मुखतो वै प्रजा अन्नमदन्ति मुखत एव तदन्नाद्यस्य यजमानं दधाति तदुभयतो न्यूङ्खं परिगृह्णाति सवनाभ्यामन्नाद्यस्य परिगृहीत्यै॥5.3॥


838

वाग्वै देवता चतुर्थमहर्वहत्येकविंशः स्तोमो वैराजं सामानुष्टुप्छन्दो यथा-देवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राद्न्नोति य एवं वेद यद्वा एति च प्रेति च तच्चतुर्थस्याह्नो रूपं यद्ध्येव प्रथममहस्तदेतत्पुनर्यच्चतुर्थं यद्युक्त-वद्यद्र थवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यज्जातवद्यद्धववद्यच्छुक्रवद्यद्वाचो रूपं यद्वैमदं यद्विरिफितं यद्विछन्दा यदूनातिरिक्तं यद्वैराजं यदानुष्टुभं यत्करिष्यद्यत्प्रथमस्याह्नो रूपमेतानि वै चतुर्थस्याह्नो रूपाण्याग्निं न स्ववृक्तिभिरिति चतुर्थस्याह्न आज्यम्भवति वैमदं विरिफितं विरिफितस्य ऋषेश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपमष्टर्चम्पाङ्क्तम्पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशूनामवरुद्ध्यै ता उ दश जगत्यो जगत्प्रातःसवन एष त्र्यहस्तेन चतुर्थस्याह्नो रूपं ता उ पञ्चदशानुष्टुभ आनुष्टुभं ह्येतदहस्तेन चतु-र्थस्याह्नो रूपं ता उ विंशतिर्गायत्र्यः पुनः प्रायणीयं ह्येतदहस्तेन चतुर्थस्याह्नो रूपं तदेतदस्तुतमसस्तमयातयाम सूक्तं यज्ञ एव साक्षात्तद्यदेतच्चतुर्थस्याह्न आज्यम्भवति यज्ञादेव तद्यज्ञं तन्वते वाचमेव तत्पुनरुपयन्ति संतत्यै संततै स्त्र्यहैरव्यवछिन्नैर्यन्ति य एवं विद्वांसो यन्ति वायो शुक्रो अयामि ते विहि होत्रा अवीता वायो शतं हरीणामिन्द्र श्च वायवेषां सोमानामा चिकितान सुक्रतू आ नो विश्वाभिरूतिभिस्त्यमु वो अप्रहणमप त्यं वृजिनं रिपुमम्बितमे नदीतम इत्यानुष्टुभम्प्रउगमेति च प्रेति च शुक्रवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं तं त्वा यज्ञेभिरीमह इति मरुत्वतीयस्य प्रतिपदीमह इत्यभ्यायाम्यमिवैतदहस्तेन चतुर्थस्याह्नो रूपमिदं वसो सुतमन्ध इन्द्र नेदीय एदिहि प्रैतु ब्रह्मणस्पतिरग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपः प्र व इन्द्र य बृहत इति प्रथमेनाह्ना समान आतानश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं श्रुधी हवमिन्द्र मा रिषण्य इति सूक्तं हववच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्मरुत्वाँ इन्द्र वृषभो रणयेति सूक्तमुग्रं सहोदामिह तं हुवेमेति हववच्चतुर्थेऽहनि चतुर्थस्याह्नो रुपां तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवत इमं नु मायिनं हुव इति पर्यासो हववांश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति पिबा सोममिन्द्र मन्दतु त्वा श्रुधी हवं विपिपानस्याद्रे रिति वैराजम्पृष्ठम्भवति बार्हतेऽहनि चतुर्थेऽहनि चतुर्थस्याह्नो रूपं यद्वावानेति धाय्याच्युता त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेन त्वमिन्द्र प्रतूर्तिष्विति सामप्रगाथोऽशस्तिहा जनितेति जात-वांश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः॥5.4॥


843

कुह श्रुत इन्द्रः कस्मिन्नद्येति सूक्तं वैमदं विरिफितं विरिफितस्य ऋषेश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं युध्मस्य ते वृषभस्य स्वराज इति सूक्तमुग्रं गभीरं जनुषाभ्युग्रमिति जातवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते त्यमु वः सत्रासाहमिति पर्यासो विश्वासु गीर्ष्वायतमित्यभ्यायाम्यमिवैतदहस्तेन चतुर्थस्याह्नो रूपं ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य मध्यंदिनम्वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हतेऽहनि चतुर्थेऽहनि चतुर्हस्याह्नो रूपमा देवो यातु सविता सुरत्न इति सावित्रमेति चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्यावापृथिवीयम्प्रेति चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्प्र ऋभुब्योओ दूतमिव वाचमिष्य इत्यार्भवम्प्रेति च वाचमिष्य इति च चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्प्र शुक्रैतु देवी मनीषेति वैश्वदेवम्प्रेति च शुक्रवच्च चतुर्थेऽहनि चतुर्थस्याह्नो रूपं ता उ विछन्दसः सन्ति द्विपदाः सन्ति चतुष्पदास्तेन चतुर्थस्याह्नो रूपं वैश्वानरस्य सुमतौ स्यामेत्याग्निमारुतस्य प्रतिपदितो जात इति जातव-च्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं क ईं व्यक्ता नरः सनीळा इति मारुतं नकिर्ह्येषां जनूंषि वेदेति जातवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं ता उ विछन्दसः सन्ति द्विपदाः सन्ति चतुष्पदास्तेन चतुर्थस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याच्युताग्निं नरो दीधितिभिररण्योरिति जातवेदस्यं हस्तच्युती जनयन्तेति जातवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं ता उ विछन्दसः सन्ति विराजः सन्ति त्रिष्टुभस्तेन चतुर्थस्याहनो रूपमह्नो रूपम्॥5.5॥


850

गौर्वै देवता पञ्चममहर्वहति त्रिणवःस्तोमः शाक्वरं साम पाङ्क्तिश्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै नेति न प्रेति यत्स्थितं तत्पञ्चमस्याह्नो रूपं यद्ध्येव द्वितीयमहस्तदेतत्पुनर्यत्पञ्चमं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्दुग्धवद्यदूधवद्यद्धेनुमद्यत्पृश्निमद्यन्मद्वद्यत्पशुरूपं यद-ध्यासवद् विक्षुद्रा इव हि पशवो यज्जागतं जागता हि पशवो यद्बार्हतम्- बार्हता हि पशावो यत्पाङ्क्तम् पाङ्क्ता हि पशवो यद्वामं वामं हि पशवो यद्धविष्मद्धविर्हि पशवो यद्वपुष्मद्- वपुर्हि पशवो - यच्छाक्वरं यत्पाङ्क्तं यत्कुर्वद्यद्द्वितीयस्याह्नो रूपमेतानि वै पञ्चमस्याह्नो रूपाणीममू षु वो अतिथिमुषर्बुधमिति पञ्चमस्याह्न आज्यम्भवति जागतमध्यासवत्पशुरू-पम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपमा नो यज्ञं दिविस्पृशमा नो वायो महे तने रथेन पृथुपाजसा बहवः सूरचक्षस इमा उ वां दिविष्टयः पिबा सुतस्य रसिनो देवं-देवं वोऽवसे देवंदेवम्बृहदु गायिषे वच इति बार्हतम्प्रउगम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्यत्पाञ्चजन्यया विशेति मरुत्वतीयस्य प्रतिपत्पाञ्चजन्ययेति पञ्चमेऽहनि पञ्चमस्याह्नो रूपमिन्द्र इत्सोमपा एक इन्द्र नेदीय एदिह्युत्तिष्ठ ब्रह्मणस्पतेऽग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपो बृहदिन्द्राय गायतेति द्वितीयेनाह्ना समान आतानः पञ्चमेऽहनि पञ्चमस्याह्नो रूपमवितासि सुन्वतो वृक्तबर्हिष इति सूक्तम्मद्वत्पाङ्क्तम्पञ्चपदम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपमित्थ हि सोम इन्मद इति सूक्तम्मद्वत्पाङ्क्तम्पञ्चपदम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपमिन्द्र पिब तुभ्यं सुतो मदायेति सूक्तम्मद्वत्त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते मरुत्वाँ इन्द्र मीढ्व इति पर्यासो नेति न प्रेति पञ्चमेऽहनि पञ्चमस्याह्नो रूपं ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति॥5.6॥


855

महानाम्नीष्वत्र स्तुवते शाक्वरेण साम्ना राथंतरेऽहनि पञ्चमेऽहनि पञ्चमस्याह्नो रूपमिन्द्रो वा एताभिर्महानात्मानं निरमिमीत तस्मान्महानाम्न्योऽथो इमे वै लोका महानाम्न्य इमे महान्त इमान्वै लोकान्प्रजापतिः सृष्ट्वेदं सर्वमशक्नोद्यदिदम्किंच यदिमाँ ल्लोकान्प्रजापतिः सृष्ट्वेदं सर्वमशक्नोद्यदिदं किंच तच्छक्वर्योऽभवंस्तच्छक्वरीणां शक्वरीत्वं ता ऊर्ध्वाः सीम्नोऽभ्यसृजत यदूर्ध्वाः सीम्नोऽभ्यसृजत तत्सिमा अभवंस्तत्सिमानां सिमात्वं स्वादोरित्था विषूवत उप नो हरिभिः सुतमिन्द्रं विश्वा अवीवृधन्नित्यनुरूपो वृषण्वा-न्पृश्निमान्मद्वान्वृधन्वान्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं यद्वावानेति धाय्या-च्युताभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेन मो षु त्वा वाघतश्चनेति सामप्रगाथोऽध्यासवान्पशुरूपं पञ्चमे हनि पञ्चमस्याह्नो रूपम्। त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो च्युतः॥5.7॥


860

प्रेदम्ब्रह्म वृत्रतूर्येष्वाविथेति सूक्तम्पाङ्क्तम्पञ्चपदम्पञ्चमेऽहनि पञ्चनास्याह्नो रूपमिन्द्रो मदाय वावृध इति सूक्तम्मद्वत्पाङ्क्तम्पञ्चपदम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं सत्रा मदासस्तव विश्वजन्या इति सूक्तम्मद्वत्त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते तमिन्द्रं वाजयामसीति पर्यासः स वृषा वृषभो भुवदिति पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि पञ्चमेऽहनि पञ्चमस्याह्नो रूपमुदु ष्य देवः सविता दमूना इति सावित्रमा दाशुषे सुवति भूरि वाममिति वाम-म्पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्मही द्यावापृथिवी इह ज्येष्ठे इति द्यावापृथिवीयं रुवद्धोक्षेति पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपमृभुर्विभ्वा वाज इन्द्रो नो अच्छेत्यार्भवं वाजो वै पशवः पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्स्तुषे जनं सुव्रतं नव्यसीभिरिति वैश्वदेवमध्यासवत्पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं हविष्पान्तमजरं स्वर्विदीत्याग्निमारुतस्य प्रतिपद्धवि-ष्मत्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं वपुर्नु तच्चिकितुषे चिदस्त्विति मारुतं वपुष्म-त्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवे-दस्याच्युताग्निर्होता गृहपतिः स राजेति जातवेदस्यमध्यासवत्पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्॥5.8॥


देवक्षेत्रं वा एतद्यत्षष्ठमहर्देवक्षेत्रं वा एत आगच्छन्ति ये षष्ठमहरागच्छन्ति। न वै देवा अन्योन्यस्य गृहे वसन्ति नर्तुर्ऋतोर्गृहे वसतीत्याहुस्तद्यथायथमृत्विज ऋतुयाजान्यजन्त्यसंप्रदायं तद्यथर्त्वृतून्कल्पयन्ति यथायथं जनताः। तदाहुर्नर्तुप्रैषैः प्रेषितव्यं नर्तुप्रैषैर्वषट्कृत्यं वाग्वा ऋतुप्रैषा आप्यते वै वाक् षष्ठेऽहनीति। यदृतुप्रैषैः प्रेष्येयुर्यदृतुप्रैषैर्वषट्कुर्युर्वाचमेव तदाप्तां श्रान्तामृक्णवहीं वहराविणीमृच्छेयुः। यद्वेभिर्न प्रेष्येयुर्यद्वेभिर्न वषट्कुर्युरच्युताद्यज्ञस्य च्यवेरन्यज्ञात्प्राणात्प्रजापतेः पशुभ्यो जिह्मा ईयुः। तस्मादृग्मेभ्य एवाधि प्रेषितव्यमृग्मेभ्योऽधि वषट्कृत्यं तन्न वाचमाप्तां श्रान्तामृक्णवहीं वहराविणीमृच्छन्ति नाच्युताद्यज्ञस्य च्यवन्ते न यज्ञात्प्राणात्प्रजापतेः पशुभ्यो जिह्मा यन्ति॥5.9॥ (22.4) (162)

870

पारुच्छेपीरुपदधति पूर्वयोः सवनयोः पुरस्तात्प्रस्थितयाज्यानां रोहितं वै नामैतच्छन्दो यत्पारुच्छेपमेतेन वा इन्द्रः सप्त स्वर्गाँ ल्लोकानरोहद्र ?ोहति सप्त स्वर्गाँ ल्लोकन्य एवं वेद तदाहुर्यत्पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात्सप्तपदाः षष्ठेऽहञ्छस्यन्त इति षड्भिरेव पदैः षष्ठमह-राप्नुवन्त्यपछिद्येवैतदहर्यत्सप्तमं तदेव सप्तमेन पदेनाभ्यारभ्य वसन्ति वाचमेव तत्पुनरुपयन्ति संतत्यै। संततैस्त्र्यहैरव्यवच्छिन्नैर्यन्ति य एवं विद्वांसो यन्ति॥5.10॥


872

देवासुरा वा एषु लोके, समयतन्त ते वै देवाः षष्ठेनैवाह्नैभ्यो लोकेभ्यो असुरान्प्राणुदन्त यान्यन्तर्हस्तीनानि वसून्यासंस्तान्यादाय समुद्रं प्रौप्यन्त त एतेनैव च्छन्दसा अनुहायान्तर्हस्तीनानि वसून्याददत तद्यतेतत्पदं पुनःपदं स एवाङ्कुस आसञ्जनाय। आ द्विषतो वसु दत्ते निरेनमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद। - 5.11


880

द्यौर्वै देवता षष्ठमहर्वहति त्रयस्त्रिंशः स्तोमो रैवतं सामातिछन्दाश्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै समानोदर्कं तत्षष्ठस्याह्नो रूपं यद्ध्येव तृतीयमहस्तदेतत्पुनर्यत्षष्ठं यद-श्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्रतवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोकोऽभ्युदितो यत्पारुच्छेपं यत्सप्तपदं यन्नाराशंसं यन्नाभानेदिष्ठं यद्रैवतं यदतिछन्दा यत्कृतं यत्तृतीयस्याह्नो रूपं एतानि वै षष्ठस्याह्नो रूपाण्ययं जायत मनुषो धरीमणीति षष्ठस्याह्न आज्यम्भवति पारुच्छेपमतिछन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपं स्तीर्णम्बर्हिरुप नो याही वीतय आ वां रथो नियुत्वान्वक्षदवसे सुषुमा यातमद्रिभिर्युवां स्तोमेभिर्देवयन्तो अश्विनावर्मह इन्द्र वृषन्निन्द्रास्तु श्रौषळो षू णो अग्ने शृणुहि त्वमीळितो ये देवासो दिव्येकादश स्थेयमददाद्रभसमृणच्युतमिति प्रउगम्पारुच्छेपमतिछन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपं स पूर्व्यो महानामिति मरुत्वतीयस्य प्रतिपदन्तो वै महदन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं त्रय इन्द्रस्य सोमा इन्द्र नेदीय एदिहि प्र नूनम्ब्रह्मणस्पतिरग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपो नकिः सुदासो रथमिति तृतीयेनाह्ना समान आतानः षष्ठेऽहनि षष्ठस्याह्नो रूपं यं त्वं रथमिन्द्र मेधसातय इति सूक्त-म्पारुच्छेपमतिछन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपं स यो वृषा वृष्ण्येभिः समोका इति सूक्तं समानोदर्कं षष्ठेऽहनि षष्ठस्याह्नो रूपमिन्द्र मरुत्व इह पाहि सोममिति सूक्तं तेभिः साकम्पिबतु वृत्रखाद इत्यन्तो वै खादोऽन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवतेऽयं ह येन वा इदमिति पर्यासः स्वर्मरुत्वता जितमित्यन्तो वै जितमन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति रेवतीर्नः सधमादे रेवाँ इद्रे वत स्तोतेति रैवतम्पृष्ठम्भवति बार्हतेऽहनि षष्ठेऽहनि षष्ठस्याह्नो रूपं यद्वावानेति धाय्याच्युता त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेनेन्द्रमिद्देवतातय इति सामप्रगाथो निनृत्तवान्षष्ठेऽहनि षष्ठस्याह्नो रूपम्। त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः॥5.12॥


885

एन्द्र याह्युप नः परावत इति सूक्तम्पारुच्छेपमतिछन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपम्प्र घा न्वस्य मबतो महानीति सूक्तं समानोदर्कं षष्ठेऽहनि षष्ठस्याह्नो रूपमभूरेको रयिपते रयीणामिति सूक्तं रथमा तिष्ठ तुविनृम्ण भीममित्यन्तो वै स्थितमन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यावत उप नो हरिभिः सुतमिति पर्यासः समानोदर्कः षष्ठेऽहनि षष्ठस्याह्नो रूपं ता उ गायत्र्यो गायात्र्यो वा एतस्य त्र्यहस्य मध्यंदिनम्वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधात्यभि त्यं देवं सवितारमोण्योरिति वैश्वदेवस्य प्रतिपदतिछन्दाः षाष्ठेऽहनि षष्ठस्याह्नो रूपं तत्सवितुर्वरेण्यं दोषो आगादि-त्यनुचरोऽन्तो वै गतमन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपमुदु ष्य देवः सविता सवायेति सावित्रं शश्वत्तमं तदपा वह्निरस्थादित्यन्तो वै स्थितमन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं कतरा पूर्वा कतरापरायोरिति द्यावापृथिवीयं समानोदर्कं षष्ठेऽहनि षष्ठस्याह्नो रूपं किमु श्रेष्ठः किं यविष्ठो न आजगन्नुप नो वाजा अध्वरमृभुक्षा इत्यार्भवं नाराशंसं त्रिवत्षष्ठेऽहनि षष्ठस्याह्नो रूपमिदमित्था रौद्रं गूर्तवचा ये यज्ञेन दक्षिणया समक्ता इति वैश्वदेवम्॥5.13॥


नाभानेदिष्ठं शंसति। नाभानेदिष्ठं वै मानवं ब्रह्मचर्यं वसन्तं भ्रातरो निरभजन्त्सोब्रवीदेत्य किं मह्यमभाक्तेत्येतमेव निष्ठावमववदितारमित्यब्रुवंस्तस्माद्धाप्येतर्हि पितरं पुत्रा निष्ठावोऽववदितेत्येवाऽऽचक्षते। स पितरमेत्याब्रवीत्त्वां ह वाव मह्यं त(ता)ताभाक्षुरिति तं पिताऽब्रवीन्मा पुत्रक तदादृथा अङ्गिरसो वा इमे स्वर्गाय लोकाय सत्रमासते ते षष्ठं षष्ठमेवाहरागत्य मुह्यन्ति तानेते सूक्ते षष्ठेऽहनि शंसय तेषां यत्सहस्रं सत्रपरिवेषणं तत्ते स्वर्यन्तो दास्यन्तीति तथेति। तानुपैत्प्रतिगृभ्णीत मानवं सुमेधस इति तमब्रुवन्किंकामो वदसीतीदमेव वः षष्ठमहः प्रज्ञापयानीत्यब्रवीदथ यद्व एतत्सहस्रं सत्रपरिवेषणं तन्मे स्वर्यन्तो दत्तेति तथेति तानेते सूक्ते षष्ठेऽहन्यशंसयत्ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकम्। तद्यदेते सूक्ते षष्ठेऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै। तं स्वर्यन्तोऽब्रुवन् एतत्ते ब्राह्मण सहस्रमिति तदेनं समाकुर्वाणं पुरुषः कृष्णशवास्युत्तरत उपोत्थायाब्रवीन्मम वा इदं मम वै वास्तुहमिति सोऽब्रवीन्मह्यं वा इदमदुरिति तमब्रवीत्तद्वैनौ तवैव पितरि प्रश्न इति स पितरमैत्तं पिताऽब्रवीन्ननु ते पुत्रकादू३रित्यदुरेव म इत्यब्रवीत्तत्तु मे पुरुषः कृष्णशवास्युत्तरत उपोदतिष्ठन्मम वा इदं मम वै वास्तुहमित्यादितेति तं पिताऽब्रवीत्तस्यैव पुत्रक तत्तत्तु स तुभ्यं दास्यतीति स पुनरेत्याब्रवीत्तव ह वाव किल भगव इदमिति मे पिताऽऽहेति सोऽब्रवीत्तदहं तुभ्यमेव ददामि य एव सत्यमवादीरिति। तस्मादेवं विदुषा सत्यमेव वदितव्यम्। स एष सहस्रसनिर्मन्त्रो यन्नाभानेदिष्ठः। उपैनं सहस्रं नमति प्र षष्ठेनाह्ना स्वर्गं लोकं जानाति य एवं वेद॥5.14॥ (22.9) (167)


895

तान्येतानि सहचराण्यित्याचक्षते नाभानेदिष्ठं वालखिल्या वृषाकपिमेवयामरुतं तानि सहैव शंसेद्यदेषामन्तरियात्तद्यजमानस्यान्तरियाद्यदि नाभानेदिष्ठं रेतोऽस्यान्तरियाद्यदि वालखिल्याः प्राणानस्यान्तरियाद्यदि वृषाकपिमात्मानमस्यान्तरियाद्यद्येवयामरुतम्प्रतिष्ठाया एनं च्यावयेद्दैव्यै च मानुष्यै च नाभानेदिष्ठेनैव रेतोऽसिञ्चत्तद्वालखिल्याभिर्व्यकरोत्सुकीर्तिना काक्षीवतेन योनिं व्यहापयदुरौ यथा तव शर्मन्मदेमेति तस्माज्ज्यायान्सन्गर्भः कनीयांसं सन्तं योनिं न हिनस्ति ब्रह्मणा हि स क्लृप्त एवयामरुतैतवै करोति तेनेदं सर्वमेतवै कृतमेति यदिदं किंचाहश्च कृष्णमहरर्जुनं चेत्याग्निमारुतास्य प्रतिपदहश्चाहश्चेति पुनरावृत्तं पुनर्निनृत्तं षष्ठेऽहनि षष्ठस्याह्नो रूपं मध्वो वो नाम मारुतं यजत्रा इति मारुतं बह्वभिव्याहृत्यमन्तो वै बह्वन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता स प्रत्नथा सहसा जायमान इति जातवेदस्यं समानोदर्कं षष्ठेऽहनि षष्ठस्याह्नो रूपं धारयन्धारयन्निति शंसति प्रस्रंसाद्वा अन्तस्य बिभाय तद्यथा पुनराग्रन्थं पुनर्निग्रन्थमन्तं बध्नीयान्मयूखं वान्ततो धारणाय निहन्यात्तादृक्तद्यद्धारयन् धारयन्निति शंसति संतत्यै। संततैस्त्र्यहैरव्यवच्छिन्नैर्यन्ति य एवं विद्वांसो यन्ति, यन्ति॥5.15॥

897


902

यद्वा एति च प्रेति च तत्सप्तमस्याह्नो रूपं यद्ध्येव प्रथममहस्तदेवैतत्पुनर्यत्सप्तमं यद्युक्तवद्यद्र थवद्यदाशुमद्यै पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यज्जातवद्यदनिरुक्तं यत्करिष्यद्य प्रथमस्याह्नो रूपं एतानि वै सप्तमस्याह्नो रूपाणि समुद्रादूर्मिर्मधुमाँ उदारदिति सप्तमस्याह्न आज्यम्भव-त्यनिरुक्तम्सप्तमेऽहनि सप्तमस्याह्नो रूपं वाग्वै समुद्रो न वै वाक्क्षीयते न समुद्रः क्षीयते तद्यदेतत्सप्तमस्याह्न आज्यम्भवति यज्ञादेव तद्यज्ञं तन्वते वाचमेव तत्पुनरुपयन्ति संतत्यै संततै स्त्र्यहैरव्यवछिन्नैर्यन्ति य एवं विद्वांसो यन्त्याप्यन्ते वै स्तोमा आप्यन्ते छन्दांसि षष्ठेऽहनि तद्यथैवाद आज्येनावदानानि पुनः प्रत्यभिघारयन्त्ययातयामताया एवमेवैतत्स्तोमांश्च छन्दांसि च पुनः प्रत्युपयन्त्ययातयामतायै यदेतत्सप्तमस्याह्न आज्यम्भवति तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यह आ वायो भूष शुचिपा उप नः प्र याभिर्यासि दाश्वांसमछा नो नियुद्भिः शतिनीभिरध्वरम्प्र सोता जीरो अध्वरेष्वस्थाद्य वायव इन्द्र मादनासो या वां शतं नियुतो याः सहस्रम्प्र यद्वाम्मित्रावरुणा स्पूर्धन्ना गोमता नासत्या रथेना नो देव शवसा याहि शुष्मिन्प्र वो यज्ञेषु देवयन्तो अर्चन्प्र क्षोदस धायसा सस्र एषेति प्रउगमेति च प्रेति च सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यह आ त्वा रथं यथोतय इदं वसो सुतमन्ध इन्द्र नेदीय एदिहि प्रैतु ब्रह्मणस्पतिरग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपः प्र व इन्द्राय बृबत इति प्रथमेनाह्ना समान आतानः सप्तमेऽहनि सप्तमस्याह्नो रूपं कया शुभा सवयसः सनीळा इति सूक्तं न जायमानो नशते न जात इति जातवत्सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु कयाशुभीयमेतद्वै संज्ञानं संतनि सूक्तं यत्कयाशुभीयमेतेन ह वा इन्द्रोऽगस्त्यो मरुतस्ते समजानत तद्यत्कयाशुभीयं शंसति संज्ञात्या एव तद्वायुष्यं तद्योऽस्य प्रियः स्यात्कु-र्यादेवास्य कयाशुभीयं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते त्यं सु मेषम्महया स्वर्विदमिति सूक्तमत्यं न वाजं हवनस्यदं रथमिति रथवत्सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु जागतं जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानी च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठम्भवति सप्तमेऽहनि यदेव षष्ठस्याह्नस्तद्यद्वै रथंतरं तद्वैरूपं यद्बृहत्तद्वैराजं यद्र थंतरं तच्छाक्वरं यद्बृहत्तद्रै वतं तद्यद्बृहत्पृष्ठम्भवति बृहतैव तद्बृहत्प्रत्युत्तभ्नुवन्त्यस्तोमकृन्तत्राय यद्र थंतरं स्यात्कृन्तत्रं स्यात्तस्माद्बृहदेव कर्तव्यं यद्वावानेति धाय्याच्युताभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेन पिबा सुतस्य रसिन इति सामप्रगाथः पिबवान्सप्तमेऽहनि सप्तमस्याह्नो रूपम्त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः॥5.16॥


907

इन्द्र स्य नु वीर्याणि प्र वोचमिति सूक्तम्प्रेति सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवतेऽभि त्यम्मेषम्पुरुहूतमृग्मियमिति सुक्तं यद्वाव प्रेति तदभीति सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु जागतं जगत्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि सप्तमेऽहनि सप्तमस्याह्नो रूपमभि त्वा देव सवितरिति सावित्रं यद्वाव प्रेति तदभीति सप्तमेऽहनि सप्तमस्याह्नो रूपम्प्रेतां यज्ञस्य शम्भुवेति द्यावापृथिवीयम्प्रेति सप्तमेऽहनि सप्तमस्याह्नो रूपमयं देवाय जन्मन इत्यार्भवं जातवत्सप्तमेऽहनि सप्तमस्याह्नो रूपमा याही वनसा सहेति द्विपदाः शंसति द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूना-मवरुद्ध्यै तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयत्यैभिरग्ने दुवो गिर इति वैश्वदेवमेति सप्तमेऽहनि सप्तमस्याह्नो रूपं तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहो वैश्वानरो आजीजनदित्या-ग्निमारुतस्य प्रतिपज्जातवत्सप्तमेऽहनि सप्तमस्याह्नो रूपम्प्र यत्वस्त्रिष्टुभमि-षमिति मारुतम्प्रेति सप्तमेऽहनि सप्तमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता दूतं वो विश्ववेदसमिति जातवेदस्यमनिरुक्तं सप्तमेऽहनि सप्तमस्याह्नो रूपम्। तान्यु गायत्रानि गायत्रतृतीयसवन एष त्र्यहः॥5.17॥


909


912

यद्वै नेति न प्रेति यत्स्थितं तदष्टमस्याह्नो रूपं यद्ध्येव द्वितीयमहस्तदेवै-तत्पुनर्यदष्टमं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्द्व्यग्नि यन्महद्वद्यद्द्विहूतवद्यत्पुनर्वद्यत्कुर्व-द्यद्द्वितीयस्याह्नो रूपं एतानि वा अष्टमस्याह्नो रूपाण्यग्निं वो देवमग्निभिः सजोषा इत्यष्टमस्याह्न आज्यम्भवति द्व्यग्न्यष्टमेऽहनि अष्टमस्याह्नो रूपम्तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यहः कुविदङ्ग नमसा ये वृधासः पीवोअन्नाँ रयिवृधः सुमेधा उछन्नुषसः सुदिना अरिप्रा उशन्ता दूता न दभाय गोपा यावत्तरस्तन्वो यावदोजः प्रति वां सूर उदिते सूक्तैर्धेनुः प्रत्नस्य काम्यं दुहाना ब्रह्मा णा इन्द्रोप याहि विद्वानूर्ध्वो अग्निः सुमतिं वस्वो अश्रेदुत स्या नः सरस्वती जुषाणेति प्रउगम्प्रतिवदन्तर्वद्द्विहूतवदूर्ध्ववदष्टमेऽहन्यष्टमस्याह्नो रूपं तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्?यहो विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इन्द्र नेदीय एदिह्युत्तिष्ठ ब्रह्मणस्पतेऽग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपो बृहदिन्द्राय गायतेति द्वितीयेनाह्ना समान आतानोऽष्टमेऽहनि अष्टमस्याह्नो रूपम्शंसा महामिन्द्रं यस्मिन्विश्वा इति सूक्तम्महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपम्महश्चि-त्त्वमिन्द्र यत एतानिति सूक्तम्महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपम्पिबा सोममभि यमुग्र तर्द इति सूक्तमूर्वं गव्यम्महि गृणान इन्द्रे ति महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपम्महाँ इन्द्रो नृवदा चर्षणिप्रा इति सूक्तम्महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते तमस्य द्यावापृथिवी सचेतसेति सूक्तं यदैत्कृण्वानो महिमानमिन्द्रि यमिति महद्वदष्ट-मेऽहन्यष्टमस्याह्नो रूपम्तदु जागतं जगत्यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै महद्वन्ति सूक्तानि शस्यन्ते महद्वा अन्तरि-क्षमन्तरिक्षस्याप्त्यै पञ्च सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्या अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथंतरम्पृष्ठम्भवत्यष्टमेऽहनि यद्वावानेति धाय्याच्युता त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेनोभयं शृणवच्च न इति सामप्रगाथो यच्चेदमद्य यदु च ह्य आसीदिति बार्हतेऽहन्यष्टमेऽहनि अष्टमस्याह्नो रूपम्। त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः॥5.18॥


917

अपूर्व्या पुरुतमान्यस्मा इति सूक्तम्महे वीराय तवसे तुरायेति महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं तां सु ते कीर्तिम्मघवन्महित्वेति सूक्तम्महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं त्वम्महाँ इन्द्र यो ह शुष्मैरिति सूक्तम्महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं त्वम्महाँ इन्द्र तुभ्यं ह क्षा इति सूक्तम्महद्वदष्टमेऽहन्य-ष्टमस्याह्नो रूपम्तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते दिवश्चिदस्य वरिमा वि पप्रथ इति सूक्तमिन्द्रं न मह्नेति महद्वद-ष्टमेऽहनि अष्टमस्याह्नो रूपम्तदु जागतां जगत्यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै महद्वन्ति सूक्तानि शस्यन्ते महद्वा अन्तरि-क्षमन्तरिक्षस्याप्त्यै पञ्चपञ्च सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तानि द्वेधा पञ्चान्यानि पञ्चान्यानि दश सम्पद्यन्ते सा दशिनी विराळन्नम्विराळ् अन्नम्पशवःपशवश्छन्दोमाः पशू-नामवरुद्ध्यै विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हतेऽहनि अष्टमेऽहनि अष्टमस्याह्नो रूपं हिरण्य-पाणिमूतय इति सावित्रमूर्ध्ववदष्टमेऽहन्यष्टमस्याह्नो रूपम्मही द्यौः पृथिवी च न इति द्यावापृथिवीयम्महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं युवाना पितरा पुनरित्यार्भवम्पुनर्वदष्टमेऽहनि अष्टमस्याह्नो रूपमिमा नु कम्भुवना सीषधामेति द्विपदाः शंसति द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूनाम-वरुद्ध्यै तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति देवानामिदवो महदिति वैश्वदेवम्महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपं तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्?यह ऋतावानं वैश्वानरमित्या-ग्निमारुतस्य प्रतिपदग्निर्वैश्वानरो महानिति महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपं क्रीळं वः शर्धो मारुतमिति मारुतं जम्भे रसस्य वावृध इति वृध-न्वदष्टमेऽहन्यष्टमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्या-च्युताग्ने मृळ महाँ असीति जातवेदस्यम्महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपं तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्?यह एष त्र्यहः॥5.19॥


924

यद्वै समानोदर्कं तन्नवमस्याह्नो रूपं यद्ध्येव तृतीह्यमहस्तदेवैतत्पुनर्यौ नवमं यदश्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्र तवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोकोऽभ्युदितो यच्छुचिवद्यत्सत्यवद्य-त्क्षेतिवद्यद्गतवद्यदोकवद्यत्कृतं यत्तृतीयस्याह्नो रूपमेतानि वै नवमस्याह्नो रूपाण्यगन्म महा नमसा यविष्ठमिति नवमस्याह्न आज्यम्भवति गतव-न्नवमेऽहनि नवमस्याह्नो रूपं तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्यहः प्र वीरया शुचयो दद्रि रे ते ते सत्येन मनसा दीध्याना दिवि क्षयन्ता रजसः पृथिव्यामा विश्ववाराश्विना गतं नोऽयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र ब्रह्माणो अङ्गिरसो नक्षन्त सरस्वतीं देवयन्तो हवन्त आ नो दिवो बृहतः पर्वतादा सरस्वत्यभि नो नेषि वस्य इति प्रउगं शुचिवत्सत्यवत्क्षेतिवद्गतवदोकवन्नवमेऽहनि नवमस्याह्नो रूपं तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्?यहस्तंतमिद्र ?ाधसे महे त्रय इन्द्र स्य सोमा इन्द्र नेदीय एदिहि प्र नूनम्ब्रह्मणस्पतिरग्निर्नेता त्वं सोमा क्रतुभिः पिन्वन्त्यपो नकिः सुदासो रथमिति तृतीयेनाह्ना समान आतानो नवमेऽहनि नवमस्याह्नो रूपमिन्द्रः स्वाहा पिबतु यस्य सोम इति सूक्तमन्तो वै स्वाहा-कारोऽन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं गायत्साम नभन्यं यथा वेरिति सूक्तमर्चाम तद्वावृधानं स्वर्वदित्यन्तो वै स्वरन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं तिष्ठा हरी रथ आ युज्यमानेति सूक्तमन्तो वै स्थितमन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपमिमा उ त्वा पुरुतमस्य कारोरिति सूक्तं धियो रथेष्ठामित्यन्तो वै स्थितमन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते प्र मन्दिने पितुमदर्चता वच इति सूक्तम्समानोदर्कं नवमेऽहनि नवमस्याह्नो रूपं तदु जागतं जगत्यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निव्ल्द्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि सस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै पञ्चा सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठम्भवति नवमेऽहनि यद्वावानेति धाय्याच्युताभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेनेन्द्र त्रिधातु शरणमिति सामप्रगाथस्त्रिवान्नवमेऽहनि नवमस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः॥5.20॥


929

सं च त्वे जग्मुर्गिर इन्द्र पूर्वीरिति सूक्तं गतवन्नवमेऽहनि नवमस्याह्नो रूपं कदा भुवन्रथक्षयाणि ब्रह्मेटि सूक्तं क्षेतिवदन्तरूपं क्षेतीव वा अन्तं गत्वा नवमेऽहनि नवमस्याह्नो रूपमा सत्यो यातु मघवाँ ऋजीषीति सूक्तं सत्यवन्नवमेऽहनि नवमस्याह्नो रूपम्तत्त इन्द्रि यम्परमम्पराचैरिति सूक्तमन्तो वै परममन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं तदु त्रैष्टुभम्तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवतेऽहम्भुवं वसुनः पूर्व्यस्पतिरिति सूक्तमहं धनानि सं जयामि शश्वत इत्यन्तो वै जितमन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं तदु जागतं जगत्यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै वच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै पञ्चपञ्च सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तानि द्वेधा पञ्चान्यानि पञ्चान्यानि दश सम्पद्यन्ते सा दशिनी विराळ् अन्नम्विराळ् अन्नम्पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रति-पदनुचरौ राथंतरेऽहनि नवमेऽहनि नवमस्याह्नो रूपं दोषो आगादिति सावित्रं अन्तो वै गतमन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपम्प्र वाम्महिद्यवी अभीति द्यावापृथिवीयं शुची उप प्रशस्तय इति शुचिवन्नवमेऽहनि नवमस्याह्नो रूपमिन्द्र इषे ददातु नस्ते नो रत्नानि धत्तनेत्यार्भवं त्रिरा साप्तानि सुन्वत इति त्रिवन्नवमेऽहनि नवमस्याह्नो रूपाम्बभ्रुरेको विषुणः सूनरो युवेति द्विपदाः शंसति द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाह् पशूनामवरुद्ध्यै तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति ये त्रिंशति त्रयस्पर इति वैश्वदेवं त्रिवन्नवमेऽहनि नवमस्याह्नो रूपं तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्?यहो वैश्वानरो न ऊतय इत्याग्निमारुतस्य प्रतिपदा प्र यतु परावत इत्यन्तो वै परावतोऽन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपम्मरुतो यस्य हि क्षय इति मारुतं क्षेतिवदन्तरूपं क्षेतीव वा अन्तं गत्वा नवमेऽहनि नवमस्याह्नो रूपं जतवेदसे सुनवाम सोममिति जातवेदस्याच्युता प्राग्नये वाचमीरयेति जातवेदस्यं समानोदर्कं नवमेऽनवमस्याह्नो रूपं स नः पर्षदति द्विषः स नः पर्षदति द्विष इति संसह् बहु वा एतस्मिन्नवरात्रे किंच-किंच वारणं क्रियते शान्त्या एव तद्यत्स नः पर्षदति द्विषः स नः पर्षदति द्विष इति शंसति सर्वस्मादेवैनांस्तदेनसः प्रमुञ्चति तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्यहः ॥5.21॥


934

पृष्ठ्यं षळहमुपयन्ति यथा वै मुखमेवम्पृष्ठ्यः षळहस्तद्यथान्तरम्मुखस्य जिह्वा तालु दन्ता एवं छन्दोमा अथ येनैव वाचं व्याकरोति येन स्वादु चास्वादु च विजानाति तद्दशममहर्यथा वै नासिके एवम्पृष्ठ्यः षळहस्तद्यथान्तरम्नासिकयोरेवं छन्दोमा अथ येनैव गन्धान्विजानाति तद्दशममहर्यथा वा अक्ष्येवम्पृष्ठ्यः षळहस्तद्यथान्तरमक्ष्णः कृष्णमेवं छन्दोमा अथ यैव कनीनिका येन पश्यति तद्दशममहर्यथा वै कर्ण एवम्पृष्ठ्यः षळहस्तद्यथान्तरं कर्णस्यैवं छन्दोमा अथ येनैव शृणोति तद्दशममहः श्रीर्वै दशममहः श्रियं वा एत आगच्छन्ति ये दशममहरागच्छन्ति तस्माद्दशममहरविवाक्यम्भवति मा श्रियोऽववादिष्मेति दुरववदं हि श्रेयसस्ते ततः सर्पन्ति ते मार्जयन्ते ते पत्नीशालां सम्प्रपद्यन्ते तेषां य एतामाहुतिं विद्यात्स ब्रूयात्समन्वारभध्वमिति स जुहुयादिह रमेह रमध्वमिह धृतिरिह स्वधृतिरग्ने वाट्स्वाहा वाळ् इति स यदिह रमेत्याहास्मिन्नेवैनांस्तल्लोके रमयतीह रमध्वमिति यदाह प्रजामेवैषु तद्रमयतीह धृतिरिह स्वधृतिरिति यदाह प्रजां चैव तद्वाचं च यजमानेषु दधात्यग्ने वाळिति रथंतरम्स्वाहा वाळ् इति बृहद्देवानां वा एतन्मिथुनं यद्बृहद्रथंतरे देवानामेव तन्मिथुनेन मिथुनमवरुन्धते देवानाम्मिथुनेन मिथुनम्प्रजायन्ते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद ते ततः सर्पन्ति ते मार्जयन्ते त आग्नीध्रं सम्प्रपद्यन्ते तेषां य एतामाहुतिं विद्यात्स ब्रूयात्समन्वारभध्वमिति स जुहुयादुपसृजन्धरुणम्मातरं धरुणो धयन्रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति रायस्पोषमिषमूर्जमवरुन्द्ध आत्मने च यजमानेभ्यश्च यत्रैवं विद्वानेतामाहुतिं जुहोति॥5.22॥


ते ततः सर्पन्ति ते सदः संप्रपद्यन्ते यथायथमन्य ऋत्विजो व्युत्सर्पन्ति संसर्पन्त्युद्गातारस्ते सर्पराज्ञ्या ऋक्षु स्तुवते। इयं वै सर्पराज्ञीयं हि सर्पतो राज्ञीयं वा अलोमिकेवाग्र आसीत्सैतं मन्त्रमपश्यदाऽयं गौः पृश्निरक्रमीदिति तामयं पृश्निवर्ण आविशन्नानारूपो यं यं काममकामयत यदिदं किंचौषधयो वनस्पतयः सर्वाणि रूपाणि। पृश्निरेनं वर्ण आविशति नानारूपो यं यं कामं कामयते य एवं वेद। मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति वाचा शंसति। वाक्च वै मनश्च देवानां मिथुनं देवानामेव तन्मिथुनेन मिथुनमवरुन्धते देवानां मिथुनेन मिथुनं प्रजायन्ते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद। अथ चतुर्होतॄन्होता व्याचष्टे तदेव तत्स्तुतमनुशंसति। देवानां वा एतद्यज्ञियं गुह्यं नाम यच्चतुर्होतारस्तद्यच्चतुर्होतॄन्होता व्याचष्टे देवानामेव तद्यज्ञियं गुह्यं नाम प्रकाशं गमयति। तदेनं प्रकाशं गतं प्रकाशं गमयति गच्छति प्रकाशं य एवं वेद। यं ब्राह्मणमनूचानं यशो नर्छेदिति ह स्माऽऽहारण्यं परेत्य दर्भस्तम्बानुद्ग्रथ्य दक्षिणतो ब्रह्माणमुपवेश्य चतुर्होतॄन्व्याचक्षीत। देवानां वा एतद्यज्ञियं गुह्यं नाम यच्चतुर्होतारस्तद्यच्चतुर्होतॄन्व्याचक्षीत देवानामेव तद्यज्ञियं गुह्यं नाम प्रकाशं गमयति तदेनं प्रकाशं गतं प्रकाशं गमयति गच्छति प्रकाशं य एवं वेद॥5.23॥ (24.4) (176)


अथौदुम्बरीं समन्वारभन्ते। इषमूर्जमन्वारभ इति। उर्ग्वा अन्नाद्यमुदुम्बरः। यद्वैतद्देवा इषमूर्जं व्यभजन्त तत उदुम्बरः समभवत्तस्मात्स त्रिः संवत्सरस्य पच्यते। तद्यदौदुम्बरीं समन्वारभन्त इषमेव तदूर्जमन्नाद्यं समन्वारभन्ते। वाचं यच्छन्ति वाग्वै यज्ञो यज्ञमेव तद्यच्छन्ति। अहर्नियच्छन्त्यहर्वै स्वर्गो लोकः स्वर्गमेव तं लोकं नियच्छन्ति। न दिवा वाचं विसृजेरन्यद्दिवा वाचं विसृजेरन्नहर्भ्रातृव्याय परिशिंष्युः। न नक्तं वाचं विसृजेरन्यन्नक्तं वाचं विसृजेरन्रात्रीं भ्रातृव्याय परिशिंष्युः। समयाविषितः सूर्यः स्यादथ वाचं विसृजेरंस्तावन्तमेव तद्द्विषते लोकं परिशिंषन्ति। अथो खल्वस्तमित एव वाचं विसृजेरंस्तमोभाजमेव तद्द्विषन्तं भ्रातृव्यं कुर्वन्ति। आहवनीयं परीत्य वाचं विसृजेरन्यज्ञो वा आहवनीयः स्वर्गो लोक आहवनीयो यज्ञेनैव तत्स्वर्गेण लोकेन स्वर्गं लोकं यन्ति। यदिहोनमकर्म यदत्यरीरिचाम॥ प्रजापतिं तत्पितरमप्येत्विति वाचं विसृजन्ते। प्रजापतिं वै प्रजा अनु प्रजायन्ते प्रजापतिरूनातिरिक्तयोः प्रतिष्ठा नैनानूनं नातिरिक्तं हिनस्ति। प्रजापतिमेवोनातिरिक्तान्यभ्यत्यर्जन्ति य एवं विद्वांस एतेन वाचं विसृजन्ते। तस्मादेव विद्वांस एतेनैव वाचं विसृजेरन्॥5.24॥ (24.5) (177)

949

अध्वर्यो इत्याह्वयते चतुर्होतृषु वदिष्यमाणस्तदाहावस्य रूपमों होतस्तथा होतरित्यध्वर्युः प्रतिगृणात्यवसितेऽवसिते दशसु पदेषु तेषां चित्तिः स्रुगासीत्चित्तमाज्यमासीत्वाग्वेदिरासीताधीतम्बर्हिरासीत्केतो अग्निरासीत् विज्ञातमग्नीदासीत्प्राणो हविरासीत्सामाध्वर्युरासीत्वाचस्पतिर्होतासीत्मन उपवक्तासीत्ते वा एतं ग्रहमगृह्णत वाचस्पते विधे नामन् विधेम ते नाम विधेस्त्वमस्माकं नाम्ना द्यां गच्छ यां देवाः प्रजापतिगृहपतय ऋद्धिमराध्नुवंस्तामृद्धिं रात्स्यामोऽथ प्रजापतेस्तनूरनुद्र वति ब्रह्मोद्यं चान्नादा चान्नपत्नी चान्नादा तदग्निरन्नपत्नी तदादित्यो भद्रा च कल्याणी चा भद्रा तत्सोमः कल्याणी तत्पशावोऽनिलया चापभया चानिलया तद्वायुर्न ह्येष कदा चनेलयत्यपभया तन्मृत्युः सर्वं ह्येतस्माद्बीभायानाप्ता चानाप्या चानाप्ता तत्पृथिव्यनाप्या तद् द्यौरनाधृष्या चाप्रतिधृष्या चानाधृष्या तदग्निरप्रतिधृष्या तदादित्योऽपूर्वा चाभ्रातृव्या चापूर्वा तन्मनोऽभ्रातृव्या तत्संवत्सर एता वाव द्वादश प्रजापतेस्तन्व एष कृत्स्नः प्रजापतिस्तत्कृत्स्नम्प्रजापतिमाप्नोति दशममहरथ ब्रह्मोद्यम्वदन्त्यग्निर्गृहपतिरिति हैक आहुः सोऽस्य लोकस्य गृहपतिर्वायुर्गृहपतिरिति हैक आहुः सोऽन्तरिक्षलोकस्य गृहपतिरसौ वै गृहपतिर्योऽसौ तपत्येष पतिर्ऋतवो गृहा येषां वै गृहपतिं देवं विद्वान्गृहपतिर्भवति राध्नोति स गृहपतिं राध्नुवन्ति ते यजमाना येषां वा अपहतपाप्मानं देवं विद्वान्गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हतेऽप ते यजमानाः पाप्मानं घ्नतेऽध्वर्यो अरात्स्मारात्स्म॥5.25॥


956

उद्धराहवनीयमित्यपराह्ण आह यदेवाह्ना साधु करोति तदेव तत्प्राङुद्धृत्य तदभये निधत्त उद्धराहवनीयमिति प्रातराह यदेव रात्र्या साधु करोति तदेव तत्प्राङुद्धृत्य तदभये निधत्ते यज्ञो वा आहवनीयः स्वर्गो लोक आहवनीयो यज्ञ एव तत्स्वर्गे लोके स्वर्गं लोकं निधत्ते य एवं वेद यो वा अग्निहोत्रं वैश्वदेवं षोळशकलम्पशुषु प्रतिष्ठितं वेद वैश्वदेवेनाग्निहोत्रेण षोळशकलेन पशुषु प्रतिष्ठितेन राध्नोति रौद्रं गवि सद्वायव्यमुपावसृष्टमाश्विनं दुह्यमानं सौम्यं दुग्धं वारुणमधिश्रितम्पौष्णं समुदन्तम्मारुतं विष्यन्दमानं वैश्वदेवम्बिन्दुमन्मैत्रं शरोगृहीतं द्यावापृथिवीयमुद्वासितं सावित्रम्प्रक्रान्तं वैष्णवं ह्रियमाणम्बार्ह-स्पत्यमुपसन्नमग्नेः पूर्वाहुतिः प्रजापतेरुत्तरैन्द्रं हुतमेतद्वा अग्निहोत्रं वैश्वदेवं षो-ळशकलम्पशुषु प्रतिष्ठितं वैश्वदेवेनाग्निहोत्रेण षोळशकलेन पशुषु प्रतिष्ठितेन राध्नोति य एवं वेद॥5.26॥


961

यस्याग्निहोत्र्युपावसृष्टा दुह्यमानोपविशेत्का तत्र प्रायश्चित्तिरिति तामभिमन्त्रयेत यस्माद्भीषा निषीदसि ततो नो अभयं क्रिधि पशून्नः सर्वान्गोपाय नमो रुद्राय मीळ्हुष इति तामुत्थापयेदुदस्थाद्देव्यदितिरायुर्यज्ञपतावधातिन्द्राय क्रिण्वती भागम्मित्राय वरुणय चेत्यथास्या उदपात्रमूधसि च मुखे चोपगृह्णीयाद-थैनाम्ब्राह्मणाय दद्यात्सा तत्र प्रायश्चित्तिर्यस्याग्निहो त्र्युपावसृष्टा दुह्यमाना वाश्येत का तत्र प्रायश्चित्तिरित्यशनायां ह वा एष यजमानस्य प्रतिख्याय वाश्यते तामन्नमप्यादयेच्छान्त्यै शान्तिर्वा अन्नं सूयवसाद्भगवती हि भूया इति सा तत्र प्रायश्चित्तिर्यस्याग्निहो त्र्युपावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चित्तिरिति सा यत्तत्र स्कन्दयेत्तदभिमृश्य जपेद्यदद्य दुग्धम्पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः पयो गृहेषु पयो अघ्न्यायाम्पयो वत्सेषु पयो अस्तु तन्मायिति तत्र यत्परिशिष्टं स्यात्तेन जुहुयाद्यदलं होमाय स्याद्यद्यु वै सर्वं सिक्तं स्यादथान्यामाहूय तां दुग्ध्वा तेन जुहुयादा त्वेव श्रद्धायै होतव्यां सा तत्र प्रायश्चित्तिः सर्वं वा अस्य बर्हिष्यं सर्वम्परिगृहीतं य एवं विद्वानग्निहोत्रं जुहोति॥5.27॥


966

असौ वा अस्यादित्यो यूपः पृथिवी वेदिरोषधयो बर्हिर्वनस्पतय इध्मा आपः प्रोक्षण्यो दिशः परिधयो यद्ध वा अस्य किंच नश्यति यन्म्रियते यदपाजन्ति सर्वं हैवनं तदमुष्मिँ ल्लोके यथा बर्हिषि दत्तमागच्छेदेवमागच्छति य एवं विद्वानग्निहोत्रं जुहोत्युभयान्वा एष देवमनुष्यान्विपर्यासं दक्षिणा नयति सर्वं चेदं यदिदं किंच मनुष्यान्वा एष सायमाहुत्या देवेभ्यो दक्षिणा नयति सर्वं चेदं यदिदं किंच त एते प्रलीना न्योकस इव शेरे मनुष्या देवेभ्यो दक्षिणा नीता देवान्वा एष प्रातराहुत्या मनुष्येभ्यो दक्षिणा नयति सर्वं चेदं यदिदं किंच त एते विविदाना इवोत्पतन्त्यदोऽहं करिष्येऽदो हं गमिष्यामीति वदन्तो यावन्तं ह वै सर्वमिदं दत्त्वा लोकं जयति तावन्तं ह लोकं जयति य एवं विद्वानग्निहोत्रं जुहोत्यग्नये वा एष सायमाहुत्याश्विनमुपाकरोह् तद्वाक्प्रतिगृणाति वाग्-वागित्यग्निना हास्य रात्र्याश्विनं शस्तम्भवति य एवं विद्वानग्निहोत्रं जुहो-त्यादित्याया वा एष प्रातराहुत्या महाव्रतमुपाकरोति तत्प्राणः प्रतिगृणा-त्यन्नमन्नमित्यादित्येन हास्याह्ना महाव्रतं शस्तम्भवति य एवं विद्वानग्निहोत्रं जुहोति तस्य वा एतस्याग्निहोत्रस्य सप्त च शतानि विंशतिश्च संवत्सरे सायमाहुतयः सप्त चो एव शतानि विंशतिश्च संवत्सरे प्रातराहुत-यस्तावत्योऽग्नेर्यजुष्मत्य इष्टकाः संवत्सरेण हास्याग्निना चित्येनेष्टम्भवति य एवं विद्वानग्निहोत्रं जुहोति॥5.28॥


वृषशुष्मो ह वातावत उवाच जातूकर्ण्यो वक्तास्मो वा इदं देवेभ्यो यद्वैतदग्निहोत्रमुभयेद्युरहूयतान्येद्युर्वाव तदेतर्हि हूयत इति। एतदु हैवोवाच कुमारी गन्धर्वगृहीता वक्तास्मो वा इदं पितृभ्यो यद्वैतदग्निहोत्रमुभयेद्युरहूयतान्येद्युर्वाव तदेतर्हि हूयत इति। एतद्वा अग्निहोत्रमन्येद्युर्हूयते यदस्तमिते सायं जुहोत्यनुदिते प्रातरथैतदग्निहोत्रमुभयेद्युर्हूयते यदस्तमिते सायं जुहोत्युदिते प्रातः। तस्मादुदिते होतव्यम्। चतुर्विंशे ह वै संवत्सरेऽनुदितहोमी गायत्रीलोकमाप्नोति द्वादश उदितहोमी स यदा द्वौ संवत्सरावनुदिते जुहोत्यथ हास्यैको हुतो भवत्यथ य उदिते जुहोति संवत्सरेणैव संवत्सरमाप्नोति य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यम्। एष ह वा अहोरात्रयोस्तेजसि जुहोति योऽस्तमिते सायं जुहोत्युदिते प्रातरग्निना वै तेजसा रात्रिस्तेजस्वत्यादित्येन तेजसाऽहस्तेजस्वत्। अहोरात्रयोर्हास्य तेजसि हुतं भवति य एवं विद्वानुदिते जुहोति। तस्मादुदिते होतव्यम्॥5.29॥ (25.4) (182)


976

एते ह वै संवत्सरस्य चक्रे यदहोरात्रे ताभ्यामेव तत्संवत्सरमेति स योऽनुदिते जुहोति यथैकतश्चक्रेण यायात्तादृक्तदथ य उदिते जुहोति यथोभयतश्चक्रेण यान्क्षिप्रमध्वानं समश्न्वीत तादृक्तत्तदेषाभि यज्ञगाथा गीयते बृहद्र थंतरा-भ्यामिदमेति युक्तं यद्भूतं भविष्यच्चापि सर्वं ताभ्यामियादग्नीनाधाय धीरो दिवैवान्यज्जुहुयान्नक्तमन्यद् इति राथम्तरी वै रात्र्यहर्बार्हतमग्निर्कै रथंतरमा-दित्यो बृहदेते ह वा एनं देवते ब्रध्नस्य विष्टपं स्वर्गं लोकं गमयतो य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यं तदेषाभि यज्ञगाथा गीयते यथा ह वा स्थूरिणैकेन यायादकृत्वान्यदुपयोजनाय एवं यन्ति ते बहवो जनासः पुरोदयाज्जुह्वति येऽग्निहोत्रम् इति तां वा एतां देवताम्प्रयतीं सर्वमिदमनुप्रैति यदिदं किंचैतस्यै हीदं देवताया अनुचरं सर्वं यदिदं किंच सैषानुचरवती देवता विन्दते ह वा अनुचरम्भवत्यस्यानुचरो य एवं वेद स वा एष एकातिथिः स एष जुह्वत्सु वसति। तद्यददो गाथा भवति।अनेनसमेनसा सोऽभिशस्तादेनस्वतो वाऽपहरादेनः। एकातिथिमप सायं रुणद्धि, बिसानि स्तेनो ्प सो जहारेति। एष ह वै स एकातिथिः, स एष जुह्वत्सु वसत्येतां वाव स देवतामपरुणद्धि, योऽलमग्निहोत्राय सन्नाग्निहोत्रं जुहोति, तमेषा देवताऽपरुद्धाऽपरुणद्ध्यस्माच्च लोकादमुष्माच्चोभाभ्यां योऽलमग्निहोत्राय सन्नाग्निहोत्रं जुहोति। तस्माद्योऽलमग्निहोत्राय स्याज्जुहुयात्। तस्मादाहुर्न सायमतिथिरपरुध्य इति। एतद्ध स्म वै तद् विद्वान् नगरी जानश्रुतेय उदितहोमिनमैकादशाक्षं मानुतन्तव्यमुवाच – प्रजायामेनं विज्ञातास्मो यदि विद्वान् वा जुहोत्यविद्वान् वेति, तस्यो हैकादशाक्षे राष्ट्रमिव प्रजा बभूव, राष्ट्रमिव ह वा अस्य प्रजा भवति, य एवं विद्वानुदिते जुहोति, तस्मादुतिते होतव्यम्॥5.30॥


987

उद्यन्नु खलु वा आदित्य आहवनीयेन रश्मीन् संदधाति, स योऽनुदिते जुहोति, यथा कुमाराय वा वत्साय वाऽजाताय स्तनं प्रतिदध्यात्तादृक्तदथ य उदिते जुहोति, यथा कुमाराय वा वत्साय वा जाताय स्तनं प्रतिदध्यात् तादृक्तत्, तमस्मै प्रतिधीयमानमुभयोर्लोकयोरन्नाद्यमनु प्रतिधीयतेऽस्माच्च लोकादमुष्माच्चोभाभ्याम्। स योऽनुदिते जुहोति, यथा पुरुषाय वा हस्तिने वाऽप्रयते हस्त आदध्यात् तादृक्तदथ य उदिते जुहोति, यथा पुरुषाय वा हस्तिने वा प्रयते हस्त आदध्यात् तादृक्तत्, तमेष एतेनैव हस्तेनोर्ध्वं हृत्वा स्वर्गे लोक आदधाति, य एवं विद्वानुदिते जुहोति, तस्मादुदिते होतव्यम्॥ उद्यन्नु खलु वा आदित्यः सर्वाणि भूतानि प्रणयति, तस्मादेनं प्राण इत्याचक्षते प्राणे हास्य सम्प्रति हुतम्भवति य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यमेष ह वै सत्यं वदन्सत्ये जुहोति योऽस्तमिते सायं जुहोत्युदिते प्रातर्भूर्भुवः स्वरोमग्निर्ज्योतिर्ज्योतिरग्निरिति सायं जुहोति भूर्भुवः स्वरों सूर्यो ज्योतिर्ज्योतिः सूर्य इति प्रातः सत्यं हास्य वदतः सत्ये हुतम्भवति य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यं तदेषाभि यज्ञगाथा गीयते प्रातःप्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्दिवाकीर्त्यमदिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषामिति॥5.31॥


प्रजापतिरकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स तपस्तप्त्वेमाँल्लोकानसृजत पृथिवीमन्तरिक्षं दिवं ताँल्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रीणि ज्योतींष्यजायन्ताग्निरेव पृथिव्या अजायत वायुरन्तरिक्षादादित्यो दिवस्तानि ज्योतींष्यभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयो वेदा अजायन्त ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यात्तान्वेदानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रीणि शुक्राण्यजायन्त भूरित्येव ऋग्वेदादजायत भुव इति यजुर्वेदात्स्वरिति सामवेदात्। तानि शुक्राण्यभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति तानेकधा समभरत्तदेतदोमिति तस्मादोमिति प्रणौत्योमिति वै स्वर्गो लोक ओमित्यसौ योऽसौ तपति। स प्रजापतिर्यज्ञमतनुत तमाहरत्तेनायजत स ऋचैव हौत्रमकरोद्यजुषाऽऽध्वर्यवं साम्नोद्गीथं तदेतत्त्रय्यैव विद्यायै शुक्रं तेन ब्रह्मत्वमकरोत्। स प्रजापतिर्यज्ञं देवेभ्यः संप्रायच्छत्ते देवा यज्ञमतन्वत तमाहरन्त तेनायजन्त त ऋचैव हौत्रमकुर्वन्यजुषाऽऽध्वर्यवं साम्नोद्गीथं यदेवैतत्त्रय्यै विद्यायै शुक्रं तेन ब्रह्मत्वमकुर्वन्। ते देवा अब्रुवन्प्रजापतिं यदि नो यज्ञ ऋक्त आर्तिः स्याद्यदि यजुष्टो यदि सामतो यद्यविज्ञाता सर्वव्यापद्वा का प्रायश्चित्तिरिति स प्रजापतिरब्रवीद्देवान्यदि वो यज्ञ ऋक्त आर्तिर्भवति भूरिति गार्हपत्ये जुहवाथ यदि यजुष्टो भुव इत्याग्नीध्रीयेऽन्वाहार्यपचने वा हविर्यज्ञेषु यदि सामतः स्वरित्याहवनीये यद्यविज्ञाता सर्वव्यापद्वा भूर्भुवः स्वरिति सर्वा अनुद्रुत्याऽऽहवनीय एव जुहवाथेति। एतानि ह वै वेदानामन्तःश्लेषणानि यदेता व्याहृतयस्तद्यथाऽऽत्मनाऽऽत्मानं संदध्याद्यथा पर्वणा पर्व यथा श्लेष्मणा चर्मण्यं वाऽन्यद्वा विश्लिष्टं संश्लेषयेदेवमेवैताभिर्यज्ञस्य विश्लिष्टं संदधाति सैषा सर्वप्रायश्चित्तिर्यदेता व्याहृतयस्तस्मादेषैव यज्ञे प्रायश्चित्तिः कर्तव्या॥5.32॥ (25.7) (185)


तदाहुर्महावदा३ः, यदृचैव हौत्रं क्रियते यजुषाऽऽध्वर्यवं साम्नोद्गीथं व्यारब्धा त्रयी विद्या भवत्यथ केन ब्रह्मत्वं क्रियत इति त्रय्या विद्ययेति ब्रूयात्। अयं वै यज्ञो योऽयं पवते तस्य वाक्च मनश्च वर्तन्यौ वाचा च हि मनसा च यज्ञो वर्तत इयं वै वागदोमनस्तद्वाचा त्रय्या विद्ययैकं पक्षं संस्कुर्वन्ति मनसैव ब्रह्मा संस्करोति। ते हैके ब्रह्माण उपाकृते प्रातरनुवाके स्तोमभागाञ्जपित्वा भाषमाणा उपासते तद्धैतदुवाच ब्राह्मण उपाकृते प्रातरनुवाके ब्रह्माणं भाषमाणं दृष्ट्वाऽर्धमस्य यज्ञस्यान्तरगुरिति तद्यथैकपात्पुरुषो यन्नेकतश्चक्रो वा रथो वर्तमानो भ्रेषं न्येत्येवमेव स यज्ञो भ्रेषं न्येति यज्ञस्य भ्रेषमनु यजमानो भ्रेषं न्येति। तस्माद्ब्रह्मोपाकृते प्रातरनुवाके वाचंयमः स्यादोपांश्वन्तर्यामयोर्होमादुपाकृतेषु पवमानेष्वोदृचोऽथ यानि स्तोत्राणि सशस्त्राण्या तेषां वषट्काराद्वाचंयम एव स्यात्तद्यथोभयतः पात्पुरुषो यन्नुभयतश्चक्रो वा रथो वर्तमानो न रिष्यत्येवमेव स यज्ञो न रिष्यति यज्ञस्यारिष्टिमनु यजमानो न रिष्यति॥5.33॥ (25.8) (186)


1002

तदाहुर्यद्ग्रहान्मेऽग्रहीत्प्राचारीन्म आहुतीर्मेऽहौषीदित्यध्वर्यवे दक्षिणा नीयन्त उदगासीन्म इत्युद्गात्रेऽन्ववोचन्मेऽशंसीन्मेऽयाक्षीन्म इति होत्रे किं स्विदेव चक्रुषे ब्रह्मणे दक्षिणा नीयन्तेऽकृत्वाहो स्विदेव हरन्ता इति यज्ञस्य हैष भिषग्यद्ब्रह्मा यज्ञायैव तद्भेषजं कृत्वा हरत्यथो यद्भूयिष्ठेनैव ब्रह्मणा छन्दसां रसेनार्त्विज्यं करोति यद्ब्रह्मा तस्माद्ब्रह्मार्धभाग्घ वा एष इतरेषामृत्विजामग्र आस यद्ब्रह्मार्धमेव ब्रह्मण आसार्धमितरेषामृत्विजां तस्माद्यदि यज्ञ ऋक्त आर्तिः स्याद्यदि यजुष्टो यदि सामतो यद्यविज्ञाता सर्वव्यापद्वा ब्रह्मण एव निवेदयन्ते तस्माद्यदि यज्ञ ऋक्त आर्तिर्भवति भूरिति ब्रह्मा गार्हपत्ये जुहुयाद्यदि यजुष्टो भुव इत्याग्नीध्रीयेऽन्वाहार्यपचने वा हविर्यज्ञेषु यदि सामतः स्वरित्याहवनीये यद्यविज्ञाता सर्वव्यापद्वा भूर्भुवः स्वरिति सर्वा अनुद्रु-त्याहवनीय एव जुहुयत्स प्रस्तोतोपाकृते स्तोत्र आह ब्रह्मन्स्तोष्यामः प्रशा-स्तरिति स भूरिति ब्रह्मा प्रातःसवने ब्रूयादिन्द्र वन्तः स्तुध्वमिति भुव इति माध्यंदिने सवने ब्रूयादिन्द्र वन्तः स्तुध्वमिति स्वरिति तृतीयसवने ब्रूयादि-न्द्र वन्तः स्तुध्वमिति भूर्भुवः स्वरित्युक्थे वातिरात्रे वा ब्रूयादिन्द्र वन्तः स्तुध्वमिति स यदाहेन्द्र वन्तः स्तुध्वमित्यैन्द्रो वै यज्ञ इन्द्रो यज्ञस्य देवता सेन्द्र मेव तदुद्गीथं करोतीन्द्रान्मा गादिन्द्र वन्तः स्तुध्वमिति एवैनांस्तदाह तदाह॥5.34॥