ऐतरेय ब्राह्मणम्/पञ्चिका ८ (अष्टम पञ्चिका)

विकिस्रोतः तः

प्रथमा पञ्चिका

द्वितीया पञ्चिका

तृतीया पञ्चिका

चतुर्थी पञ्चिका

पञ्चमी पञ्चिका

षष्ठी पञ्चिका

सप्तमी पञ्चिका

अष्टमी पञ्चिका

[१]अथातः स्तुतशस्त्रयोरेवैकाहिकम्प्रातःसवनमैकाहिकं तृतीयसवनमेते वै शान्ते क्लृप्ते प्रतिष्ठिते सवने यदैकाहिके शान्त्यै क्लृप्त्यै प्रतिष्ठित्या अप्रच्युत्या उक्तो माध्यंदिनः पवमानो य उभयसाम्नो बृथत्पृष्ठस्योभे हि सामनी क्रियेते आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति राथंतरी प्रतिपद्राथंतरोऽनुचरः पवमानोक्थं वा एतद्यन्मरुत्वतीयम्पवमाने वा अत्र रथंतरं कुर्वन्ति बृहत्पृष्ठं सवीवधतायै तदिदं रथंतरं स्तुतमाभ्याम्प्रतिपदनुचराभ्यामनुशंसत्यथो ब्रह्म वै रथंतरं क्षत्रं बृहद्ब्रह्म खलु वै क्षत्रात्पूर्वम्ब्रह्मपुरस्तान्म उग्रं राष्ट्रमव्यथ्यमसदित्यथान्नं वै रथंतरमन्नमेवास्मै तत्पुरस्तात्कल्पयत्यथेयं वै पृथिवी रथंतरमियं खलु वै प्रतिष्ठ प्रतिष्ठामेवास्मै तत्पुरस्तात्कल्पयति समान इन्द्र निहवोऽविभक्तः सोऽह्नामु-द्वान्ब्राह्मणस्पत्य उभयसाम्नो रूपमुभे हि सामनी क्रियेते समान्यो धाय्या अविभक्तास्ता अह्नाम्। ऐकाहिको मरुत्वतीयः प्रगाथः॥8.1॥ (36.1) (158)

[२]जनिष्ठा उग्रः सहसे तुरायेति सूक्तमुग्रवत्सहस्वत्तत्क्षत्त्रस्य रूपं मन्द्र ओजिष्ठ इत्योजस्वत्तत्क्षत्त्रस्य रूपं बहुलाभिमान इत्याभिवदभिभूत्यै रूपं तदेकादशर्चं भवत्येकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभो वै राजन्य ओजो वा इन्द्रियं वीर्यं त्रिष्टुबोजः क्षत्त्रं वीर्यं राजन्यस्तदेनमोजसा क्षत्त्रेण वीर्येण समर्धयति तद्गौरिवीतं भवत्येतद्वै मरुत्वतीयं समृद्धं यद्गौरिवीतं तस्योक्तंब्राह्मणम्। त्वामिद्धि हवामह इति बृहत्पृष्ठं भवति क्षत्त्रं वै बृहत्क्षत्त्रेणैव तत्क्षत्त्रं समर्धयत्यथो क्षत्त्रं वै बृहदात्मा यजमानस्य निष्केवल्यं तद्यद्बृहत्पृष्ठं भवति क्षत्त्रं वै बृहत्क्षत्त्रेणैवैनं तत्समर्धयत्यथो ज्यैष्ठ्यं वै बृहज्ज्यैष्ठ्यैनैवैनं तत्समर्धयत्यथो श्रैष्ठ्यं वै बृहच्छ्रैष्ठ्येनैवैनं तत्समर्धयति। अभि त्वा शूर नोनुम िति रथंतरमनुरूपं कुर्वन्त्ययं वै लोको रथंतरमसौ लोको बृहदस्य वै लोकस्यासौ लोको ऽनुरूपोऽमुष्य लोकस्यायं लोको ऽनुरूपस्तद्यद्रथंतरमनुरूपं कुर्वन्त्युभावेव तल्लोकौ यजमानाय संभोगिनौ कुर्वन्त्यथो ब्रह्म वै रथंतरं क्षत्त्रं बृहद्ब्रह्माणि खलु वै क्षत्त्रं प्रतिष्ठितं क्षत्त्रे ब्रह्माथो साम्न एव सयोनितायै। यद्वावानेति धाय्या तस्या उक्तं ब्राह्मणम्। उभयं शृणवच्चन इति सामप्रगाथ उभयसाम्नो रूपमुभे हि सामनी क्रियेते ॥8.2॥ (36.2) (159)


[३]तमु ष्टुहि यो अभिभूत्योजा इति सूक्तमभिवदभिभूत्यै रूपमषाळ्हमुग्रं सहमानमाभिरित्युग्रवत्सहमानवत्तत्क्षत्रस्य रूपं तत्पञ्चदशर्चम्भवत्योजो वा इन्द्रि यं वीर्यम्पञ्चदश ओजः क्षत्रं वीर्यम्राजन्यस्तदेनमोजसा क्षत्रेण वीर्येण समर्धयति तद्भारद्वाजम्भवति भारद्वाजं वै बृहदार्षेयेण सलोमैष ह वाव क्षत्रिययज्ञः समृद्धो यो बृहत्पृष्ठस्तस्माद्यत्र क्वच क्षत्रियो यजेत बृहदेव तत्र पृष्ठं स्यात्तत्समृद्धम्॥8.3॥ (36.3) (160)


[४]ऐकाहिका होत्रा एता वै शान्ताः क्लृप्ताः प्रतिष्ठिता होत्रा यदैकाहिकाः शान्त्यै क्लृप्त्यै प्रतिष्ठित्या अप्रच्युत्यै ताः सर्वरूपा भवन्ति सर्वसमृद्धाः सर्वरूपतायै सर्वसमृद्ध्यै सर्वरूपाभिर्होत्राभिः सर्वसमृद्धाभिः सर्वान्कामानवाप्नवामेति तस्माद्यत्र क्वचैकाहा असर्वस्तोमा असर्वपृष्ठा ऐकाहिका एव तत्र होत्राः स्युस्तत्समृद्धमुक्थ्य एवायम्पञ्चदशः स्यादित्याहुरोजो वा इन्द्रि यं वीर्यम्पञ्चदश ओजः क्षत्रं वीर्यं राजन्यस्तदेनमोजसा क्षत्रेण वीर्येण समर्धयति तस्य त्रिंशत्स्तुतशस्त्राणि भवन्ति त्रिंशदक्षरा वै विराड्विराडन्नाद्यं विराज्येवैनं तदन्नाद्ये प्रतिष्ठापयति तस्मात्तदुक्थ्यः पञ्चदशः स्यादित्याहुर्ज्योतिष्टोम एवा-ग्निष्टोमः स्याद्ब्रह्म वै स्तोमानां त्रिवृत्क्षत्रम्पञ्चदशो ब्रह्म खलु वै क्षत्रा-त्पूर्वम्ब्रह्मपुरस्तान्न उग्रं राष्ट्रमव्यथ्यमसदिति विशः सप्तदशः शौद्र ?ो वर्ण एकविंशो विशं चैवास्मै तच्छौद्रं च वर्णमनुवर्त्मानौ कुर्वन्त्यथो तेजो वै स्तोमानां त्रिवृद्वीर्यम्पञ्चदशः प्रजातिः सप्तदशः प्रतिष्ठैकविंशस्तदेनं तेजसा वी-र्येण प्रजात्या प्रतिष्ठयान्ततः समर्धयति तस्माज्ज्योतिष्टोमः स्यात्तस्य चतुर्विं-शतिः स्तुतशस्त्राणि भवन्ति चतुर्विंसत्यर्धमासो वै संवत्सरः संवत्सरे कृत्स्न-मन्नाद्यं कृत्स्न एवैनं तदन्नाद्ये प्रतिष्ठापयति तस्माज्ज्योतिष्टोम एवाग्निष्टोमः स्यादग्निष्टोमः स्यात्॥8.4॥ (36.4) (161)


[५]अथातः पुनरभिषेकस्यैव सूयते ह वा अस्य क्षत्रं यो दीक्षते क्षत्रियः सन्स यदाऽवभृथादुदेत्यानूबन्ध्ययेष्ट्वा उदवस्यत्यथैनमुदवसानीयायां संस्थितायाम्पुनरभिषिञ्चन्ति तस्यैते पुरस्तादेव सम्भारा उपक्लृप्ता भवन्त्यौदुम्बर्यासन्दी तस्यै प्रा-देशमात्राः पादाः स्युररत्निमात्राणि शीर्षण्यानूच्यानि मौञ्जं विवयनं व्याघ्रच-र्मास्तरणमौदुम्बरश्चमस उदुम्बरशाखा तस्मिन्नेतस्मिंश्चमसेऽष्टातयानि निषुतानि भवन्ति दधि मधु सर्पिरातपवर्ष्या आपः शष्पाणि च तोक्मानि च सुरा दूर्वा तद्यैषा दक्षिणा स्फ्यवर्तनिर्वेदेर्भवति तत्रैताम्प्राचीमासन्दीम्प्रतिष्ठापयति तस्या अन्तर्वेदि द्वौ पादौ भवतो बहिर्वेदि द्वावियं वै श्रीस्तस्या एतत्परिमितं रूपं यदन्तर्वेद्यथैष भूमापरिमितो यो बहिर्वेदि तद्यदस्या अन्तर्वेदि द्वौ पादौ भवतो बहिर्वेदि द्वा उभयोः कामयोरुपापप्त्यै यश्चान्तर्वेदि यश्च बहिर्वेदि॥8.5॥ (37.1) (162)


[६]व्याघ्रचर्मणास्तृणात्युत्तरलोम्ना प्राचीनग्रीवेण क्षत्रं वा एतदारण्यानां पशूनां यद्व्याघ्रः क्षत्रं राजन्यः क्षत्रेणैव तत्क्षत्रं समर्धयति तां पश्चात्प्राङुपविश्याच्य जानु दक्षिणमभिमन्त्रयत उभाभ्यां पाणिभ्यामालभ्याग्निष्ट्वा गायत्र्या सयुक् छन्दसारोहतु सवितोष्णिहा सोमोऽनुष्टुभा बृहस्पतिर्बृहत्या मित्रावरुणौ पङ्क्त्येन्द्रस्त्रिष्टुभा विश्वे देवा जगत्या तानहमनु राज्याय साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्यायाधिपत्याय स्वाव-श्यायातिष्ठायारोहामीत्येतामासन्दीमारोहेद्दक्षिणेनाग्रे जानुनाथ सव्येन तत्तदितीँ चतुरुत्तरैर्वै देवाश्छन्दोभिः सयुग्भूत्वैतां श्रियमारोहन्यस्यामेत एतर्हि प्रतिष्ठिता अग्निर्गायत्र्या सवितोष्णिहा सोमोऽनुष्टुभा बृहस्पतिर्बृहत्या मित्रावरुणौ पङ्क्त्येन्द्र स्त्रिष्टुभा विश्वे देवा जगत्या ते एते अभ्यनूच्येते अग्नेर्गायत्र्यभवत्सयुग्वेति कल्पते ह वा अस्मै योगक्षेम उत्तरोत्तरिणीं ह श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमेता अनु देवता एतामासन्दीमारोहति क्षत्रियः सन्नथैनमभिषेक्ष्यन्नपां शान्तिं वाचयति शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे सर्वाँ अग्नीँ रप्सुषदो हुवे वो मयि वर्चो बलमोजो निधत्तेति। नैतस्याभिषिषिचानस्याशान्ता आपो वीर्यं निर्हणन्निति॥8.6॥(37.2)(163)


[७]अथैनमुदुम्बरशाखामन्तर्धायाभिषिञ्चतीमा आपः शिवतमा इमाः सर्वस्य भेषजीः इमा राष्ट्रस्य वर्धनीरिमा राष्ट्रभृतोऽमृताः याभिरिन्द्रमभ्यषिञ्चत्प्रजापतिः सोमं राजानं वरुणं यमं मनुं ताभिरद्भिरभिषिञ्चामि त्वामहं राज्ञां त्वमधिराजो भवेह महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामि बलाय श्रियै यशसेऽन्नाद्याय भूरिति य इच्छेदिममेव प्रत्यन्नमद्यादित्यथ य इच्छेद्द्विपुरुषम्भूर्भुव इत्यथ य इच्छेत्त्रिपुरुषं वाप्रतिमं वा भूर्भुवः स्वरिति तद्धैक आहुः सर्वाप्तिर्वा एषा यदेता व्याहृतयो-ऽतिसर्वेण हास्य परस्मै कृतम्भवतीति तमेतेनाभिषिञ्चेद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाबुभ्याम्पूष्णो हस्तभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेन्द्र स्येन्द्रि ये-णाभिषिञ्चामि बलाय श्रियै यशसेऽन्नाद्यायेति तदु पुनः परिचक्षते यदसर्वेण वाचोऽभिषिक्तो भवतीश्वरो ह तु पुरायुषः प्रैतोरिति ह स्माह सत्यकामो जाबालो यमेताभिर्व्याहृतिभिर्नाभिषिञ्चन्तीतीश्वरो ह सर्वमायुरैतोः सर्वमाप्नोद्विजयेनेत्यु ह स्माहोद्दालक आरुणिर्यमेताभिर्व्याहृतिभिरभिषिञ्चन्तीति तमेतेनैवाभिषि-ञ्चेद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्याम्पूष्णो हस्तभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेन्द्र स्येन्द्रि येणाभिषिञ्चामि बलाय श्रियै यशसेऽन्नाद्याय भूर्भुवः स्वरित्य-थैतानि ह वै क्षत्रियादीजानाद्व्युत्क्रान्तानि भवन्ति ब्रह्मक्षत्रे ऊर्गन्नाद्यम-पामोषधीनां रसो ब्रह्मवर्चसमिरा पुष्टिः प्रजातिः क्षत्ररूपं तदथो अन्नस्य रस ओषधीनां क्षत्रम्प्रतिष्ठा तद्यदेवामू पुरस्तादाहुती जुहोति तदस्मिन्ब्रह्मक्षत्रे दधाति॥8.7॥(37.3)(164)


[८]अथ यदौदुम्बर्यासन्दी भवत्यौदुम्बरश्चमस उदुम्बरशाखोर्ग्वा अन्नाद्यमुदुम्बर ऊर्जमेवास्निंस्तदन्नाद्यं दधात्यथ यद्दधि मधु घृतम्भवत्यपां स ओषधीनां रसो-ऽपामेवास्मिंस्तदोषधीनां रसं दधात्यथ यदातपवर्ष्या आपो भवन्ति तेजश्च ह वै ब्रह्मवर्चसं चातपवर्ष्या आपस्तेज एवास्मिंस्तद्ब्रह्मवर्चसं च दधात्यथ यच्छष्पाणि च तोक्मानि च भवन्तीरायै तत्पुष्ट्यै रूपमथो प्रजात्य इरामेवा-स्मिंस्तत्पुष्टिं दधात्यथो प्रजातिमथ यत्सुरा भवति क्षत्ररूपं तदथो अन्नस्य रसः क्षत्ररूपमेवास्मिंस्तद्दधात्यथो अन्नस्य रसमथ यद्दूर्वा भवति क्षत्रं वा एत-दोषधीनां यद्दूर्वा क्षत्रं राजन्यो नितत इव हीह क्षत्रियो राष्ट्रे वसन्भवति प्रतिष्ठित इव निततेव दूर्वावरोधैर्भूम्याम्प्रतिष्ठितेव तद्यद्दूर्वा भवत्योषधीनामेवास्मिंस्त-त्क्षत्रं दधात्यथो प्रतिष्ठामेतानि ह वै यान्यस्मादीजानाद्व्युत्क्रान्तानि भवन्ति तान्येवास्मिंस्तद्दधाति तैरेवैनं तत्समर्धयत्यथास्मै सुराकंसं हस्त आदधाति स्वादिष्ठया मदिष्ठया पवस्व सोम धारया इन्द्राय पातवे सुत इत्याधाय शान्तिं वाचयति नाना हि वां देवहितं सदस्कृतम्मा सं सृक्षाथाम्परमे व्योमनि सुरा त्वमसि शुष्मिणी सोम एष राजा मैनं हिंसिष्टं स्वां योनिमाविशन्ताविति सोमपीथस्य चैषा सुरापीथस्य च व्यावृत्तिः पीत्वा यं रातिम्मन्येत तस्मा एनाम्प्रयच्छेत्तद्धि मित्रस्य रूपं मित्र एवैनां तदन्ततः प्रतिष्ठापयति तथा हि मित्रे प्रतितिष्ठति। प्रतितिष्ठति य एवं वेद॥8.8॥ (37.4)(165)


[९]अथोदुम्बरशाखामभि प्रत्यवरोहत्यूर्ग्वा अन्नाद्यमुदुम्बर ऊर्जमेव तदन्नाद्यमभि प्रत्यवरोहत्युपर्येवासिनो भूमौ पादौ प्रतिष्ठाप्य प्रत्यवरोहमाह प्रतितिष्ठामि द्यावापृथिव्योः प्रतितिष्ठामि प्राणापानयोः प्रतितिष्ठाम्यहोरात्रयोः प्रतितिष्ठाम्यान्नपानयोः प्रति ब्रह्मन्प्रति क्षत्रे प्रत्येषु त्रिषु लोकेषु तिष्ठामीत्यन्ततः सर्वेणात्मना प्रतितिष्ठति सर्वस्मिन्ह वा एतस्मिन्प्रतितिष्ठत्युत्तरोत्तरिणीं ह श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमेतेन पुनरभिषेकेणाभिषिक्तः क्षत्रियः प्रत्यवरोहत्येतेन प्रत्यवरोहेण प्रत्यवरूह्योपस्थं कृत्वा प्राङासीनो नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्माण इति त्रिष्कृत्वो ब्रह्मणे नमस्कृत्य वरं ददामि जित्या अभिजित्यै विजित्यै संजित्या इति वाचं विसृजते स यन्नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्मण इति त्रिष्कृत्वो ब्रह्मणे नमस्करोति ब्रह्मण एव तत्क्षत्रं वशमेति तद्यत्र वै ब्रह्मणः क्षत्रं वशमेति तद्राष्ट्रं समृद्धं तद्वीरवदा हास्मिन्वीरो जायतेऽथ यद्वरं ददामि जित्या अभिजित्यै विजित्यै संजित्या इति वाचं विसृजत एतद्वै वाचो जितं यद्ददामीत्याह यदेव वाचो जितां तन्म इदमनु कर्म संतिष्ठाता इति विसृज्य वाचमुपोत्थायाहवनीये समिधमभ्यादधाति समिदसि सम्वेङ्क्ष्वेन्द्रियेण वीर्येण स्वाहेतीन्द्रियेणैव तद्वीर्येणात्मानमन्ततः समर्धयत्याधाय समिधं त्रीणि पदानि प्राङुदङ्ङभ्युत्क्रामति क्लृप्तिरसि दिशाम्मयि देवेभ्यः कल्पतं। कल्पताम्मे योगक्षेमोऽभयम्मेऽस्त्वित्यपराजितां दिशमुपतिष्ठते जितस्यैवापुनःपराजयाय तत्तदितीँ3॥8.9॥(166)(37.5)


[१०]देवासुरा वा एषु लोकेषु संयेतिरे त एतस्यां प्राच्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्ते दक्षिणस्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्ते प्रतीच्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्त उदीच्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्त एतस्मिन्नवान्तारदेशे येतिरे य एष प्राङुदङ्ते ह ततो जिग्युस्तं यदि क्षत्रिय उपधावेत्सेनयोः समायत्योस्तथा मे कुरु यथाहमिमां सेनां जयानीति स यदि तथेति ब्रूयाद्वनस्पते वीड्वङ्गो हि भूया[११] इत्यस्य रथोपस्थमभिमृश्याथैनं ब्रूयादातिष्ठस्वैतां ते दिशमभिमुखः संनद्धो रथोऽभि प्रवर्ततां स उदङ् स प्रत्यङ् स दक्षिणा स प्राङ् सोऽभ्यमित्रं इत्यभीवर्तेन हविषे[१२]त्येवैनमावर्तयेदथैनमन्वीक्षेताप्रतिरथेन[१३] शासेन सौपर्णेनेति[१४] जयति ह तां सेनां यद्यु वा एनमुपधावेत्संग्रामं संयतिष्यमाणस्तथा मे कुरु यथाहमिमं संग्रामं संजयानीत्येतस्यामेवैनं दिशि यातयेज्जयति ह तं संग्रामं यद्यु वा एनमुपधावेद्राष्ट्रादपरुध्यमानस्तथा मे कुरु यथाहमिदं राष्ट्रं पुनरवगच्छानीत्येतामेवैनं दिशमुपनिष्क्रमयेत्तथा ह राष्ट्रं पुनरवगच्छत्युपस्थायामित्राणां व्यपनुत्तिं ब्रुवन्गृहानभ्येत्यप प्राच इन्द्र विश्वाँ अमित्रानिति[१५] सर्वतो हास्मा अनमित्रमभयं भवत्युत्तरोत्तरिणीं ह श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमेताममित्राणां व्यपनुत्तिं ब्रुवन्गृहानभ्येत्येत्य गृहान्पश्चाद्गृह्यस्याग्नेरुपविष्टायान्वारब्धाय ऋत्विगन्ततः कंसेन चतुर्गृहीतस्तिस्र आज्याहुतीरैन्द्रीः प्रपदं जुहोत्यनार्त्या अरिष्ट्या अज्यान्या अभयाय॥8.10॥(168)(37.6)


[१६]पर्यू षु प्र धन्व वाजसातये परि वृत्राभूर्ब्रह्म प्राणममृतं प्रपद्यतेऽयमसौ शर्म वर्माभयं स्वस्तये सह प्रजया सह पशुभिर्णि सक्षणिर्द्विषस्तरध्या ऋणया न ईयसे स्वाहा ॥ अनु हि त्वा सुतं सोम मदामसि महे सम भुवो ब्रह्म प्राणममृतं प्रपद्यतेऽयमसौ शर्म वर्माभयं स्वस्तये॥ सह प्रजया सह पशुभिर्यराज्ये वाजाँ अभि पवमान प्र गाहसे स्वाहा॥ अजीजनो हि पवमान सूर्यं विधारे श स्वर्ब्रह्म प्राणममृतं प्रपद्यतेऽयमसौ शर्म वर्माभयं स्वस्तये सह प्रजया सह पशुभिः क्मना पयो गोजीरया रंहमाणः पुरंध्या स्वाहेत्यनार्तो ह वा अरिष्टोऽजीतः सर्वातो गुप्तस्त्रय्यै विद्यायै रूपेण सर्वा दिशोऽनुसंचरत्यैन्द्रे लोके प्रतिष्ठितो यस्मा एता ऋत्विगन्ततः कंसेन चतुर्गृहीतास्तिस्र आज्याहुतीरैन्द्र ?ीः प्रपदं जुहोत्यथान्ततः प्रजातिमाशास्ते गवामश्वानाम्पुरुषाणामिह गावः प्र जायध्वमिहाश्वा इह पूरुषाः इहो सहस्रदक्षिणो वीरस्त्राता नि षीदत्विति बहुर्ह वै प्रजया पशुभिर्भवति य एवमेतामन्ततः प्रजातिमाशास्ते गवामश्वानाम्पुरुषाणामेष ह वाव क्षत्रियोऽविकृष्टो यमेवंविदो याजयन्त्यथ ह तं व्येव कर्षन्ते यथा ह वा इदं निषादा वा सेलगा वा पापकृतो वा वित्तवन्तम्पुरुषमरण्ये गृहीत्वा कर्तमन्वस्य वित्तमादाय द्रवन्त्येवमेव त ऋत्विजो यजमानं कर्तमन्वस्य वित्तमादाय द्र वन्ति यमनेवंविदो याजयन्त्येतद्ध स्म वै तद्विद्वानाह जनमेजयः पारिक्षित एवंविदं हि वै मामेवंविदो याजयन्ति तस्मादहं जया-म्यभीत्वरीं सेनां जयाम्यभीत्वर्या सेनया न मा दिव्या न मानुष्य इषव ऋच्छन्त्येष्यामि सर्वमायुः सर्वभूमिर्भविष्यामीति न ह वा एनं दिव्या न मानुष्य इषव ऋच्छन्त्येति सर्वमायुः सर्वभूमिर्भवति यमेवंविदो याजयन्ति याजयन्ति॥8.11॥


[१७]अथात ऐन्द्रो महाभिषेकस्ते देवा अब्रुवन्सप्रजापतिका अयं वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतम इममेवाभिषिञ्चामहा इति तथेति तद्वै तदिन्द्रमेव तस्मा एतामासन्दीं समभरन्नृचं नाम तस्यै बृहच्च रथंतरं च पूर्वौ पादावकुर्वन्वैरूपं च वैराजं चापरौ शाक्वररैवते शीर्षण्ये नौधसं च कालेयं चानूच्ये ऋचः प्राचीनातानान्सामानि तिरश्चीनवायान्यजूंष्यतीकाशान्यश आस्तरणं श्रियमुपबर्हणं तस्यै सविता च बृहस्पतिश्च पूर्वौ पादावधारयतां वायुश्च पूषा चापरौ मित्रावरुणौ शीर्षण्ये अश्विनावनूच्ये स एतामासन्दीमारोहद्वसवस्त्वा गायत्रेण छन्दसा त्रिवृता स्तोमेन रथंतरेण साम्नारोहन्तु तानन्वारोहामि साम्राज्याय रुद्रास्त्वा त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहत साम्नारोहन्तु तानन्वारोहामि भौज्याया दित्यास्त्वा जागतेन छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्नारोहन्तु तानन्वारोहामि स्वाराज्याय विश्वे त्वा देवा आनुष्टुभेन छन्दसैकविंशेन स्तोमेन वैराजेन साम्नारोहन्तु तानन्वारोहामि वैराज्याय साध्याश्च त्वाप्त्याश्च देवाः पाङ्क्तेन छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्नारोहन्तु तानन्वारोहामि राज्याय मरुतश्च त्वाङ्गिरसश्च देवा अतिछन्दसा छन्दसा त्रयस्त्रिङ्शेन स्तोमेन रैवतेन साम्नारोहन्तु तानन्वारोहामि पारमेष्ठ्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठायारोहामीति एतामासन्दीमारोहत्तमेतस्यामासन्द्यामासीनं विश्वेदेवा अब्रुवन्न वा अनभ्युत्क्रुष्ट इन्द्रो वीर्यं कर्तुमर्हत्यभ्येनमुत्क्रोशामेति तथेति तं विश्वेदेवा अभ्युदक्रोशन्निमं देवा अभ्युत्क्रोशत सम्राजं साम्राज्यं भोजं भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यं राजानं राजपितरं परमेष्ठिनं पारमेष्ठ्यं क्षत्रमजनि क्षत्रियोऽजनि विश्वस्य भूत-स्याधिपतिरजनि विशामत्ताजनि पुरां भेत्ताजन्यसुराणां हन्ताजनि ब्रह्माणो गोप्ताजनि धर्मस्य गोप्ताजनीति तमभ्युत्क्रुष्टम् प्रजापतिरभिषेक्ष्यन्नेतयर्चाभ्यमन्त्रयत॥8.12॥

[१८]निषसाद धृतव्रतो वरुणः पस्त्यास्वा। साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्यायाऽधिपत्याय स्वावश्यायाऽऽतिष्ठाय सुक्रतुरिति। तमेतस्यामासन्द्यामासीनं प्रजापतिः पुरस्तात्तिष्ठन्प्रत्यङ्मुख औदुम्बर्याऽऽर्द्रया शाखया सपलाशया जातरूपमयेन च पवित्रेणान्तर्धायाभ्यषिञ्चदिमा आपः शिवतमा इत्येतेन तृचेन देवस्य त्वेति च यजुषा भूर्भुवः स्वरित्येताभिश्च व्याहृतिभिः ॥8.13॥ (38.2) (171)


[१९]अथैनं प्राच्यां दिशि वसवो देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः साम्राज्याय तस्मादेतस्यां प्राच्यां दिशि ये केच प्राच्यानां राजानः साम्राज्यायैव तेऽभिषिच्यन्ते सम्राळ् इत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनं दक्षिणस्यां दिशि रुद्राः देवाः षड्भिश्चैव पञ्चाविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्भौज्याय तस्मादेतस्यां दक्षिणस्यां दिशि ये केच सत्वतां राजानो भौज्यायैव तेऽभिषिच्यन्ते भोजेत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनम्प्रतीच्यां दिश्यादित्या देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन् एतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः स्वाराज्याय तस्मादेतस्याम्प्रतीच्यां दिशि ये केच नीच्यानां राजानो येऽपाच्यानां स्वारा-ज्यायैव तेऽभिषिच्यन्ते स्वराळ् इत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनमुदीच्यां दिशि विश्वे देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्वैराज्याय तस्मादेतस्यामुदीच्यां दिशि ये केच परेण हिमवन्तं जनपदा उत्ततकुरव उत्तरमंद्रा इति वैराज्यायैव तेऽभिषिच्यन्ते विराळ् इत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनमस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि साध्याश्चाऽऽप्त्याश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभी राज्याय तस्मादस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि ये के च कुरुपञ्चालानां राजानः सवशोशीनराणां राज्यायैव तेऽभिषिच्यन्ते राजेत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनमूर्ध्वायां दिशि मरुतश्चाङ्गिरसश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृद्भिः पारमेष्ठ्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठायेति स परमेष्ठी प्राजापत्योऽभवत्स एतेन महाभिषेकेणाभिषिक्त इन्द्रः सर्वा जितीरजयत्सर्वाँल्लोकानविन्दत्सर्वेषां देवानां श्रैष्ठ्यमतिष्ठाम्परमातमगच्छ-त्साम्राज्यम्भौज्यं स्वाराज्यं वैराज्यम्पारमेष्ठ्यं राज्यम्माहाराज्यमाधिपत्यं जित्वास्मिँल्लोके स्वयम्भूः स्वराळ् अमृतोऽमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत्॥8.14॥


[२०]स य इच्छेदेवंवित्क्षत्रियमयं सर्वा जितीर्जयेतायं सर्वाँ ल्लोकान्विन्देतायं सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठाम्परमतां गच्छेत साम्राज्यम्भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्सार्वभौमः सार्वायुष आन्तादा परार्धात्पृथिव्यै समुद्रपर्यन्ताया एकराळ् इति तं एतेनैन्द्रेण महाभिषेकेण क्षत्रियं शापयित्वाऽभिषिञ्चेद्यां च रात्रीमजायेथा यां च प्रेतासि तदुभयमन्तरेणेष्टापूर्तं ते लोकं सुकृतमायुः प्रजां वृञ्जीय यदि मे द्रुह्येरिति स य इच्छेदेवंवित्क्षत्रियो ऽहं सर्वा जितीर्जयेयमहं सर्वांल्लोकान्विन्देयमहं सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठाम्परमतां गच्छेयं साम्राज्यम्भौज्यं स्वाराज्यम्वैराज्यम्पारमेष्ठ्यं राज्यम्माहाराज्यमाधिपत्यमहं समन्तपर्यायी स्यां सार्वभौमः सार्वायुष आन्तादा परार्धत्पृथिव्यै समुद्र पर्यन्ताया एकराळिति स न विचिकित्सेत्स ब्रूयात्सह श्रद्धया यां च रात्रीमजायेऽहं यां च प्रेतास्मि तदुभयमन्तरेणेष्टापूर्तम्मे लोकं सुकृतमायुः प्रजां वृञ्जीथा यदि ते द्रुह्येयमिति॥8.15॥

[२१]अथ ततो ब्रूयाच्चतुष्टयानि वानस्पत्यानि संभरत नैयग्रोधान्यौदुम्बराण्याश्वत्थानि प्लाक्षाणीति। क्षत्त्रं वा एतद्वनस्पतीनां यन्न्यग्रोधो यन्नैयग्रोधानि संभरन्ति क्षत्त्रमेवास्मिंतद्दधाति भौज्यं वा एतद्वनस्पतीनां यदुदुम्बरो यदौदुम्बराणि संभरन्ति भौज्यमेवास्मिंस्तद्दधाति साम्राज्यं वा एतद्वनस्पतीनां यदश्वत्थो यदाश्वत्थानि संभरन्ति साम्राज्यमेवास्मिंस्तद्दधाति स्वाराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनां यत्प्लक्षो यत्प्लाक्षाणि संभरन्ति स्वाराज्यवैराज्ये एवास्मिंस्तद्दधाति। अथ ततो ब्रूयाच्चतुष्टयान्यौषधानि संभरत तोक्मकृतानि व्रीहीणां महाव्रीहीणां प्रियंगूनां यवानामिति। क्षत्त्रं वा एतदोषधीनां यद्व्रीहयो यद्व्रीहीणां तोक्म संभरन्ति क्षत्त्रमेवाास्मिंस्तद्दधाति साम्राज्यं वा एतदोषधीनां यन्महाव्रीहयो यन्महाव्रीहीणां तोक्म संभरन्ति साम्राज्यमेवास्मिंस्तद्दधाति भौज्यं वा एतदोषधीनां यत्प्रियंगवो यत्प्रियंगूनां तोक्म संभरन्ति भौज्यमेवास्मिंस्तद्दधाति सैनान्यं वा एतदोषधीनां यद्यवा यद्यवानां तोक्म संभरन्ति सैनान्यमेवास्मिंस्तद्दधाति॥8.16॥ (39.2) (174)

[२२]अथास्मा औदुम्बरीमासन्दीं सम्भरन्ति तस्या उक्तं ब्राह्मणमौदुम्बरश्चमसो वा पात्री वोदुम्बरशाखा तानेतान्सम्भारान्सम्भृत्यौदुम्बर्यां पात्र्यां वा चमसे वा समावपेयुस्तेषु समोप्तेषु दधि मधु सर्पिरातपवर्ष्या आपोऽभ्यानीय प्रति-ष्ठाप्यैतमासन्दीमभिमन्त्रयेत बृहच्च ते रथंतरं च पूर्वौ पादौ भवतां वैरूपं च वैराजं चापरौ शाक्वररैवते शीर्षण्ये नौधसं च कालेयं चानूच्ये ऋचः प्राचीनातानाः सामानि तिरश्चीनवाया यजूंष्यतीकाशा यश आस्तरणं श्रीरुपबर्हणं सविता च ते बृहस्पतिश्च पूर्वौ पादौ धारयतां वायुश्च पूषा चापरौ मित्रावरुणौ शीर्षण्ये अश्विनावनूच्ये इत्यथैनं एतामासन्दीमारोहयेद्वसवस्त्वा गायत्रेण छन्दसा त्रिवृता स्तोमेन रथंतरेण साम्नारोहन्तु तानन्वारोह साम्राज्याय रुद्र ?ास्त्वा त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्नारोहन्तु तानन्वारोह भौज्याया दित्यास्त्वा जागतेन छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्नारोहन्तु तानन्वारोह स्वाराज्याय विश्वे त्वा देवा आनुष्टुभेन छन्दसैकविंशेन स्तोमेन वैराजेन साम्नारोहन्तु तानन्वारोह वैराज्याय मरुतश्च त्वाङ्गिरसश्च देवा अतिछन्दसा छन्दसा त्रयस्त्रिंशेन स्तोमेन रैवतेन साम्नारोहन्तु तानन्वारोह पारमेष्ठ्याय साध्याश्च त्वाप्त्याश्च देवाः पाङ्क्तेन छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्नारोहन्तु तानन्वारोह राज्याय माहाराज्यायाधिपत्याय स्वावश्यायाऽऽतिष्ठायाऽऽरोहेति एतामासन्दीमारोहयेत् तमेतस्यामासन्द्यामासीनं राजकर्तारो ब्रूयुर्न वा अनभ्युत्क्रुष्टः क्षत्रियो वीर्यं कर्तुमर्हत्यभ्येनमुत्क्रोशामेति तथेति तं राजकर्तारोऽभ्युत्क्रोशन्तीमं जना अभ्युत्क्रोशत सम्राजं साम्राज्यं भोजं म्भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यं परमेष्ठिनं पारमेष्ठ्यं राजानां राजपितरं क्षत्रमजनि क्षत्रियोऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ता-जन्यमित्राणां हन्ताजनि ब्राह्मणानाम्गोप्ताजनि धर्मस्य गोप्ताजनीति तमभ्युत्क्रुष्टम् एवंविदभिषेक्ष्यन्नेतयर्चाऽभिमन्त्रयेत॥8.17॥ (39.3) (175)

[२३]निषसाद धृतव्रतो वरुणः पस्त्यास्वा। साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्यायाऽऽधिपत्याय स्वावश्यायाऽऽतिष्ठाय सुक्रतुरिति। तमेतस्यामासन्द्यामासीनमेवंवित् पुरस्तात्तिष्ठन्प्रत्यङ्मुख औदुम्बर्या ऽऽर्द्रया शाखया सपलाशया जातरूपमयेन च पवित्रेणान्तर्धायाभिषिञ्चतीमा आपः शिवतमा इत्येतेन तृचेन देवस्य त्वेति च यजुषा भूर्भुवः स्वरित्येताभिश्चव्याहृतिभिः॥8.18॥ (39.4) (176)


[२४]प्राच्यां त्वा दिशि वसवो देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः साम्राज्याय दक्षिणस्यां त्वा दिशि रुद्रा देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्भौज्याय प्रतीच्यां त्वा दिश्यादित्या देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः स्वाराज्यायोदीच्यां त्वा दिशि विश्वे देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेना च यजुषैताभिश्चा व्याहृतिभिर्वैराज्यायोर्ध्वायां त्वा दिशि मरुतश्चाङ्गिरासश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याह्बृतिभिः पारमेष्ठ्यायास्यां त्वा ध्रुवायां मध्यमाया-म्प्रतिष्ठायां दिशि साध्याश्चाप्त्याश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभी राज्याय माहाराज्यायाऽऽधिपत्याय स्वावश्यायाधिष्ठायेति स परमेष्ठी प्राजापत्यो भवति स एतेनैन्द्रेण महाभिषेकेणाभिषिक्तः क्षत्रियः सर्वा जितीर्जयति सर्वांल्लोकान्विन्दति सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठां परमतां गच्छति साम्राज्यं भौज्यं स्वाराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यं जित्वास्मिँल्लोके स्वयम्भूः स्वराळमृतोऽमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वामृतः सम्भवति यमेतेनैन्द्रेण महाभिषेकेण क्षत्रियं शापयित्वाऽभिषिञ्चति॥8.19॥ (39.6) (178)


[२५]इन्द्रियं वा एतदस्मिँल्लोके यद्दधि यद्दध्नाभिषिञ्चतीन्द्रियमेवास्मिंस्तद्दधाति रसो वा एष ओषधिवनस्पतिषु यन्मधु यन्मध्वाभिषिञ्चति रसमेवास्मिंस्तद्दधाति तेजो वा एतत्पशूनां यद्घृतं यद्घृतेनाभिषिञ्चति तेज एवास्मिंस्तद्दधात्यमृतं वा एतदस्मिँल्लोके यदापो यदद्भिरभिषिञ्चत्यमृतत्वमेवास्मिंस्तद्दधाति सोऽभिषिक्तोऽभिषेक्त्रे ब्राह्मणाय हिरण्यं दद्यात्सहस्रं दद्यात्क्षेत्रं चतुष्पाद्दद्यादथाप्याहुरसंख्यातमेवापरिमितं दद्यादपरिमितो वै क्षत्रियोऽपरि-मितस्यावरुद्ध्या इत्यथास्मै सुराकंसं हस्त आदधाति स्वादिष्ठया मदिष्ठया पवस्व सोम धारया इन्द्राय पातवे सुत इति ताम्पिबेद्यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षायमि अभि त्वा वृषभा सुते सुतं सृजामि पीतये तृम्प व्यश्नुही मदमिति यो ह वाव सोमपीथः सुरायाम्प्रविष्टः स हैव तेनैन्द्रे ण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य भक्षितो भवति न सुरा ताम्पीत्वाभिमन्त्रयेतपाम सोमं शं नो भवेति तद्यथैवादः प्रियः पुत्रः पितरम्प्रिया वा जाया पतिं सुखं शिवमुपस्पृशत्या विस्रस एवं हैवैतेनैन्द्रेण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य सुरा वा सोमो वान्यद्वान्नाद्यं सुखं शिवमुपस्पृशत्याविस्रसः॥8.20॥ (39.6) (178)

[२६]एतेन ह वा ऐन्द्रेण महाभिषेकेण तुरः कावषेयो जनमेजयं पारिक्षितमभिषिषेच तस्मादु जनमेजयः पारिक्षितः समन्तं सर्वः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। तदेषाऽभि यज्ञगाथा गीयते। आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम्। अश्वं बबन्ध सारंगं देवेभ्यो जनमेजय इति। एतेन ह वा ऐन्द्रेण महाभिषेकेण च्यवनो भार्गवः शार्यातं मानवमभिषिषेच तस्मादु शार्यातो मानवः समन्तं सर्वः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे देवानां हापि सत्रे गृहपतिरास। एतेन ह वा ऐन्द्रेण महाभिषेकेण सोमशुष्मा वाजरत्नायनः शतानीकं सात्राजितमभिषिषेच तस्मादु शतानीकः सात्राजितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदावाम्बाष्ठ्यम् अभिषिषिचतुस्तस्माद्वाम्बाष्ठ्यः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदौ युधांश्रौष्टिमौग्रसैन्यम् अभिषिषिचतुस्तस्मादु युधांश्रौष्टिरौग्रसैन्यः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। एतेन ह वा ऐन्द्रेण महाभिषेकेण कश्यपो विश्वकर्माणं भौवनमभिषिषेच तस्मादु विश्वकर्मा भौवनः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। भूमिर्ह जगावित्युदाहरन्ति। न मा मर्त्यः कश्च दातुमर्हति विश्वकर्मन्भौवन मां दिदासिथ। निमङ्क्ष्येऽहं सलिलस्य मध्ये मोघस्त एष कश्यपायाऽऽस संगर इति। एतेन ह वा ऐन्द्रेण महाभिषेकेण वसिष्ठः सुदासं पैजवनमभिषिषेच तस्मादु सुदाः पैजवनः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। एतेन ह वा ऐन्द्रेण महाभिषेकेण संवर्त आङ्गिरसो मरुत्तमाविक्षितमभिषिषेच तस्मादु मरुत्त आविक्षितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। तदप्येष श्लोकोऽभिगीतः। मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे। आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति॥8.21॥ (39.7) (179)


[२७]एतेन ह वा ऐन्द्रे ण महाभिषेकेणोदमय आत्रेयोऽङ्गमभिषिषेच तस्माद्वाङ्गः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे स होवाचालोपाङ्गो दश नागसहस्राणि दश दासीसहस्राणि ददामि ते ब्राह्मणोप मास्मिन्यज्ञे ह्वयस्वेति तदप्येते श्लोका अभिगीताः याभिर्गोभिरुदमयम्प्रैयमेधा अयाजयन्द्वेद्वे सहस्रे बद्वानामात्रेयो मध्यतोऽददातष्टाशीतिसहस्राणि श्वेतान्वैरोचनो हयान्प्रष्टी-न्निश्चृत्य प्रायछद्यजमाने पुरोहिते देशाद्देशात्समोळ्हानां सर्वासामा-ढ्यदुहि-तृणां दशाददात्सहस्राण्यात्रेयो निष्ककण्ठ्यः दश नागसहस्राणि दत्त्वात्रे-योऽवचत्नुके श्रान्तः पारिकुटान्प्रैप्सद्दानेनाङ्गस्य ब्राह्मणः शतं तुभ्यं शतं तुभ्यमिति स्मैव प्राम्यति। सहस्रं तुभ्यमित्युक्त्वा प्राणान्स्म प्रतिपद्यत इति॥8.22॥ (39.8) (180)


[२८]एतेन ह वा ऐन्द्रेण महाभिषेकेण दीर्घतमा मामतेयो भरतं दौःषन्तिमभिषिषेच तस्मादु भरतो दौःषन्तिः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वैरु च मेध्यैरीजे तदप्येते श्लोका अभिगीताः --हिरण्येन परीवृतान्कृष्णाञ्छुक्लदतो मृगान्।
मष्णारे भरतोऽददाच्छतम्बद्वानि सप्त च ।।
भरतस्यैष दौःषन्तेरग्निः साचीगुणे चितः ।
यस्मिन्सहस्रं ब्राह्मणा बद्वशो गा विभेजिरे ।।
अष्टासप्ततिं भरतो दौःषन्तिर्यमुनामनु।
गङ्गायां वृत्रघ्नेऽबध्नात्पञ्चपञ्चाशतं हयान्।।
त्रयस्त्रिंशच्छतं राजाश्वान्बद्ध्वाय मेध्यान्।
दौःषन्तिरत्यगाद्राज्ञोऽमायां मायवत्तरः।।
महाकर्म भरतस्य न पूर्वे नापरे जनाः ।
दिवं मर्त्य इव हस्ताभ्यां नोदापुः पञ्च मानवा इति।
एतं ह वा ऐन्द्रं महाभिषेकं बृहदुक्थ ऋषिर्दुर्मुखाय पाञ्चालाय प्रोवाच तस्मादु दुर्मुखः पाञ्चालो राजा सन्विद्यया समन्तं सर्वतः पृथिवीं जयन्परीयायैतं ह वा ऐन्द्र म्महाभिषेकं वासिष्ठः सात्यहव्योऽत्यरातये जानंतपये प्रोवाच तस्माद्वत्यरातिर्जानंतपिरराजा सन्विद्यया समन्तं सर्वतः पृथिवीं जयन्परीयाय स होवाच वासिष्ठः सात्यहव्यो ऽजैषीर्वै समन्तं सर्वतः पृथिवीं महन्मा गमयेति स होवाचात्यरातिर्जानंतपिर्यदा ब्राह्मणोत्तरकुरूञ्जयेयमथ त्वमु हैव पृथिव्यै राजा स्याः सेनापतिरेव तेऽहं स्यामिति स होवाच वासिष्ठः सात्यहव्यो देवक्षेत्रं वै तन्न वै तन्मर्त्यो जेतुमर्हत्यद्रुक्षो वै म आत इदं दद इति ततो हात्यरातिं जानंतपिमात्तवीर्यं निःशुक्रममित्रतपनः शुष्मिणः शैब्यो राजा जघान तस्मादेवं विदुषे ब्राह्मणायैवं चक्रुषे न क्षत्रियो द्रुह्येन्नेद्राष्ट्रादवपद्येयं नेद्वा मा प्राणो जहदिति जहदिति॥8.23॥ (39.9) (181)


[२९]अथातः पुरोधाया एव न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति तस्माद्राजा यक्ष्यमाणो ब्राह्मणम्पुरोदधीत देवा मेऽन्नमदन्नित्यग्नीन्वा एष स्वर्ग्यान्राजोद्धरते यत्पुरोहितं तस्य पुरोहित एवाहवनीयो भवति जाया गार्हपत्यः पुत्रो-ऽन्वाहार्यपचनः स यत्पुरोहिताय करोत्याहवनीय एव तज्जुहोत्यथ यज्जायायै करोति गार्हपत्य एय तज्जुहोत्यथ यत्पुत्राय करोत्यन्वाहार्यपचन एव तज्जुहोति त एनं शान्ततनवोऽभिहुता अभिप्रीताः स्वर्गं लोकमभिवहन्ति क्षत्रं च बलं च राष्ट्रं च विशं च त एवैनमशान्ततनवोऽनभिहुता अनभिप्रीताः स्वर्गाल् लोकान्नुदन्ते क्षत्राच्च बलाच्च राष्ट्राच्च विशश्चाग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत्पुरोहितस्तस्य वाच्येवैका मेनिर्भवति पादयोरेका त्वच्येका हृदय एकोपस्थ एका ताभिर्ज्वलन्तीभिर्दीप्यमानाभिरुपोदेति राजानं स यदाह क्व भगवोऽवात्सीस्तृणान्यस्मा आहरतेति तेनास्य तां शमयति याऽस्य वाचि मेनिर्भवत्यथ यदस्मा उदकमानयन्ति पाद्यं तेनास्य तां शमयति याऽस्य पादयोर्मेनिर्भवत्यथ यदेनमलंकुर्वन्ति तेनास्य तां शमयति याऽस्य त्वचि मेनिर्भवत्यथ यदेनं तर्पयन्ति तेनास्य तां शमयति याऽस्य हृदये मेनिर्भवत्यथ यदस्यानारुद्धो वेश्मसु वसति तेनास्य तां शमयति याऽस्योपस्थे मेनिर्भवति स एनं शान्ततनुरभिहुतोऽभिप्रीतः स्वर्गं लोकमभिवहति क्षत्रं च बलं च राष्ट्रं च विशं च स एवैनमशान्ततनुरनभिहुतोऽनभिप्रीतः स्वार्गल्लोकान्नुदते क्षत्राच्च बलाच्च राष्ट्राच्च विशश्च॥8.24॥ (40.1) (182)

[३०]अग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत्पुरोहितस्ताभी राजानं परिगृह्य तिष्ठति समुद्र इव भूमिम्। अयुवमार्यस्य राष्ट्रं भवति नैनं पुराऽऽयुषः प्राणो जहात्याजरसं जीवति सर्वमायुरेति न पुनर्म्रियते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः। क्षत्त्रेण क्षत्त्रं जयति बलेन बलमश्नुते यस्यैव विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः। तस्मै विशः संजानते संमुखा एकमनसो यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः॥॥8.25॥ (40.2) (183)


[३१]तदप्येतदृषिणोक्तं स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येणेति सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि तानेव तच्छुष्मेण वीर्येणाधितिष्ठति बृहस्पतिं यः सुभृतं बिभर्तीति बृहस्पतिर्ह वै देवानां पुरोहितस्तमन्वन्ये मनुष्यराज्ञां पुरोहिता बृहस्पतिं यः सुभृतं बिभर्तीति यदाह पुरोहितं यः सुभृतं बिभर्तीत्येव तदाह वल्गूयति वन्दते पूर्वभाजमित्यपचितिमेवास्मा एतदाह स इत्क्षेति सुधित ओकसि स्व इति गृहा वा ओकः स्वेष्वेव तद्गृहेषु सुहितो वसति तस्मा इळा पिन्वते विश्वदानीमित्यन्नं वा इळान्नमेवास्मा एतदूर्जस्वच्छश्वद्भवति तस्मै विशः स्वयमेवा नमन्त इति राष्ट्राणि वै विशो राष्ट्राण्येवैनं तत्स्वयमुपनमन्ति यस्मिन्ब्रह्मा राजनि पूर्व एतीति पुरोहितमेवैतदाहाप्रतीतो जयति सं धनानीति राष्ट्राणि वै धनानि तान्यप्रतीतो जयति प्रतिजन्यान्युत या सजन्येति सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि तानप्रतीतो जयत्यवस्यवे यो वरिवः कृणोतीति यदाहावसीयसे यो वसीयः करोतीत्येव तदाह ब्रह्मणे राजा तमन्वन्ति देवा इति पुरोहितमेवैतदभिवदति॥8.26॥ (40.3) (184)

[३२]यो ह वै त्रीन्पुरोहितांस्त्रीन्पुरोधातॄन्वेद स ब्राह्मणः पुरोहितः स वदेत पुरोधाया अग्निर्वाव पुरोहितः पृथिवी पुरोधाता वायुर्वाव पुरोहितोऽन्तरिक्षं पुरोधाताऽऽदित्यो वाव पुरोहितो द्यौः पुरोधातैष ह वै पुरोहितो य एवं वेदाथ स तिरोहितो य एवं न वेद। तस्य राजा मित्रं भवति द्विषन्तमपबाधते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः। क्षत्त्रेण क्षत्त्रं जयति बलेन बलमश्नुते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितस्तस्मै विशः संजानते संमुखा एकमनसो यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः. भूर्भुवः स्वरोममोऽहमस्मि स त्वं स त्वमस्यमोऽहं द्यौरहं पृथिवी त्वं सामहमृक्त्वं तावेह संवहावहै। पुराण्यस्मान्महाभयात्। तनूरसि तन्वं मे पाहि। या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः। ता मह्यमस्मिन्नासनेऽच्छिद्रं शर्म यच्छत। या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु ता मह्यमस्मिन्नासने ऽच्छिद्रं शर्म यच्छत। अस्मिन्राष्ट्रे श्रियमावेशयाम्यतो देवीः प्रतिपश्याम्यापः। दक्षिणं पादमवनेनिजेऽस्मिन्राष्ट्र इन्द्रियं दधामि। सव्यं पादमवनेनिजेऽस्मिन्राष्ट्र इन्द्रियं वर्धयामि। पूर्वमन्यमपरमन्यं पादाववनेनिजे। देवा राष्ट्रस्य गुप्त्या अभयस्यावरुद्ध्यै। आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे॥8.27॥ (40.4) (185)

[३३]अथातो ब्रह्मणः परिमरो यो ह वै ब्रह्मणः परिमरं वेद पर्येनं द्विषन्तो भ्रातृव्याः परि सपत्ना म्रियन्ते। अयं वै ब्रह्म योऽयं पवते तमेताः पञ्चदेवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निः। विद्युद्वै विद्युत्य वृष्टिमनुप्रविशति साऽन्तर्धीयते तां न निर्जानन्ति। यदा वै म्रियते ऽथान्तर्धीयते ऽथैनं न निर्जानन्ति। स ब्रूयाद्विद्युतो मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति। क्षिप्रं हैवैनं न निर्जानन्ति। वृष्टिर्वै वृष्ट्वा चन्द्रमसमनुप्रविशति साऽन्तर्धीयते तां न निर्जानन्ति यदा वै म्रियतेऽथान्तर्धीयतेऽथैनं न निर्जानन्ति स ब्रूयाद्वृष्टेर्मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति क्षिप्र हैवैनं न निर्जानन्ति। चन्द्रमा वा अमावास्यायामादित्यमनुप्रविशति सोऽन्तर्धीयते तं न निर्जानन्ति यदा वै म्रियतेऽथान्तर्धीयते ऽथैनं न निर्जानन्ति स ब्रूयाच्चन्द्रमसो मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति क्षिप्रं हैवैनं न निर्जानन्ति। आदित्यो वा अस्तं यन्नग्निमनुप्रविशति सोऽन्तर्धीयते तं न निर्जानन्ति यदा वै म्रियतेऽथान्तर्धीयतऽथैनं न निर्जानन्ति स ब्रूयादादित्यस्य मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति क्षिप्रं हैवैनं न निर्जानन्ति। अग्निर्वा उद्वायन्वायुमनुप्रविशति सोऽन्तर्धीयत तं न निर्जानन्ति यदा वै म्रियतेऽथान्तर्धीयते ऽथैनं न निर्जानन्ति स ब्रूयादग्नेर्मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति क्षिप्रं हैवैनं न निर्जानन्ति। ता वा एता देवता अत एव पुनर्जायन्ते। वायोरग्निर्जायते प्राणाद्धि बलान्मथ्यमानोऽग्निर्जायते तं दृष्ट्वा ब्रूयादग्निर्जायतां मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यति। अग्नेर्वा आदित्यो जायते तं दृष्ट्वा ब्रूयादादित्यो जायता मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यति। आदित्याद्वै चन्द्रमा जायते तं दृष्ट्वा ब्रूयाच्चन्द्रमा जायतां मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यति। चन्द्रमसो वै वृष्टिर्जायते तां दृष्ट्वा ब्रूयाद् वृष्टिर्जायतां मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्वित्यतोहैव पराङ्प्रजिघ्यति। वृष्टेर्वै विद्युज्जायते तां दृष्ट्वा ब्रूयाद्विद्युज्जायतां मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यति। स एष ब्रह्मणः परिमरः। तमेतं ब्रह्मणः परिमरं मैत्रेयः कौषारवः सुत्वने कैरिशये भार्गायणाय राज्ञे प्रोवाच तं ह पञ्च राजानः परिमम्रुस्ततः सुत्वा महज्जगाम। तस्य व्रतं न द्विषतः पूर्व उपविशेद्यदि तिष्ठन्तं मन्येत तिष्ठेतैव न द्विषतः पूर्वः संविशेद्यद्यासीनं मन्येताऽऽसीतैव न द्विषतः पूर्वः प्रस्वप्याद्यदि जाग्रतं मन्येत जाग्रियादेव। अपि ह यद्यस्याश्ममूर्धा द्विषन्भवति क्षिप्रं हैवैनं स्तृणुते स्तृणुते॥8.28॥ (40.5) (186)

इत्यष्टमपञ्चिकायां पञ्चमोऽध्यायः।

इत्यैतरेयब्राह्मणेऽष्टमपञ्चिका समाप्ता॥8॥


  1. अथ राजसूये स्तोत्रशस्त्रयोर्विशेषाविशेषयोर्विधानम्
    प्रातस्सवने तृतीयसवने च ऐकाहिकवत् स्तोत्रशस्त्रप्रयोगः
    माध्यन्दिनसवने मरुत्वतीयशस्त्रस्य होत्रकशस्त्राणाञ्चैकाहिकत्वम्
    अभिजिदहोविहितोभयसामा माध्यन्दिनः पवमानः
    मरुत्वतीयशस्त्रस्य प्रतिपदनुचरयोरनुवादः
    ब्रह्मान्नपृथिवीरूपत्वेन रथन्तरस्य प्रशंसा
    डन्द्रनिहवब्राह्मणस्पत्ययोः प्रगाथयोः ऐकाहिकतुल्यत्वेन प्रशंसा
    धाय्यानामृचां प्रकृतौ विकृतौ च तुल्यत्वविधिः
    मरुत्वतीयप्रगाथस्य प्रकृतिविकृत्योरेकत्वविधानम्
  2. मरुत्वतीये सूक्ते निविद्धानीयस्य सूक्तस्य प्रशंसा
    निष्केवल्यशस्त्रस्य प्रतिपत्तृचस्य विधानम्
    -- अनुरूपतृचस्य विधानम्
    --- धाय्यायाः पूर्वोक्तप्रशंसाब्राह्मणस्मारणम्
    -- उभयसामप्रगाथप्रदर्शनम्
  3. निविद्धानीयसूक्तप्रशंसा
    बृहद्रथन्तरसामोपेतप्राकृतयज्ञक्रतुसमृद्धिमुपजीव्यैकसामकेऽपि क्षत्रिययज्ञे पृष्ठस्तोत्रस्य बृहत्सामसाध्यत्वविधिः
  4. माध्यन्दिनसवने होत्रकाणां प्रकृतिवत्त्वव्यवस्था
    एकाहयज्ञानां द्वैविध्यप्रदर्शनम्
    क्षत्रिययज्ञस्य ज्योतिष्टोमस्य उक्थ्यसंस्थत्वविधिः
    उक्थ्यसंस्थस्य ज्यतिष्टोमस्य स्तोत्रशसङ्ख्याप्रशंसा
    क्षत्रियाणामग्निष्टोमसंस्थस्य ज्योतिष्टोमस्य विधानम्
    अग्निष्टोमे ये त्रिवृदादयश्चत्वारः स्तोमास्तेषां ब्राह्मणादिवर्णचतुष्टयरूपेण तेजादिगुणचतुष्टयरूपेण च प्रशंसा
    अग्निष्टोमसंस्थस्य ज्योतिष्टोमस्य स्तोत्रशस्त्रसङ्ख्या प्रशंसा
  5. अथ राजसूये क्रतौ पुनरभिषेकस्य विधिः
    कालविधिः
    साधनद्रव्याणां विधानम्
    आसन्द्याः प्रतिष्ठापनविधिः
  6. प्रतिष्ठिताया आसन्द्या उपरि चर्मास्तरण विधिः
    अभिमन्त्रणविध्यादि
    आरोहणविध्यादि
    अभिषेककर्त्तुः शान्तिमन्त्रवाचनविध्यादि
  7. अभिषेकप्रकारस्य विधानम्
    तिसृणामृचामेकस्य यजुषो व्याहृतीनां च त्रयाणां विध्यादि अभिषेकाङ्गहोमस्य विधानम्
  8. अभिषेकसाधनानां द्रव्याणां मध्ये आसन्द्यादित्रयस्य प्रशंसा
    दध्यादित्रयस्य प्रशंसा
    आतपवर्ष्याणामपां प्रशंसा
    श्यामतृणानामङ्कुराणां च प्रशंसा
    सुरायाः प्रशंसा
    अभिषेकसाधनानां दूर्वाणां प्रशंसा
    सर्वेषामेवैकत्र प्रशंसा
    अभिषिक्तस्य क्षत्रियस्य पानपात्रविध्यादि
    शान्तिमन्त्रवाचनविध्यादि
    स्वमित्राय पीतशेषदानविधिः
  9. आसन्द्याः अवरोहणविध्यादि
    प्रत्यवरोहणविध्यादि
    नमस्कारविध्यादि
    वरदानप्रशंसादि
    समिदाधानविध्यादि
    दिगुपस्थानविध्यादि
  10. आख्यायिका-ऐशान्या दिशो मुख्यापराजितत्वख्यापनार्था
    युद्धजयार्थं शरणमापन्नेन साहाय्यप्रार्थिना सह व्यवहारोपदेशः
    युद्धजयार्थो मन्त्रप्रयोगविध्याद्युपदेशः
    द्वन्द्वयुद्धजयार्थं प्रयोगविध्याद्युपदेशः
    भ्रष्टराष्ट्रस्य पुनरपि राज्यप्राप्त्यर्थंप्रयोगविध्याद्युपदेशः
    ईशानदिगुपस्थानानन्तरं स्वगृहं प्रत्यागमनस्य प्रयोगविध्याद्युपदेशः
    गृहागतस्य राज्ञः प्रपदहोमविधिः
    प्रपदलक्षणबोधिका पूर्वाचार्यकृता कारिका
  11. ऋ. ६.४७.२६
  12. १०.१७४.१
  13. ऋ. सूक्तं १०.१०३
  14. १०.१५२.१
  15. १०.१३१.१
  16. प्रपदहोमीय-मन्त्रत्रयाणां स्वरूपाणि पाठप्रकारश्च ८.११
    प्रपदाख्यमन्त्रत्रयसाध्याया आहुतेः प्रशंसा
    प्रपदहोमादूर्द्ध्वमाशीर्मन्त्रपाठविधिः
    पुनरभिषेकपर्यन्तेऽस्मिन् क्षत्रिययागे याजयितॄणामृत्विजां वेदनप्रशंसा
    अभिषेकपरिज्ञानाभाववतामृत्विजां निन्दा
    अभिषेकपर्यन्तस्य क्षत्रिययागस्योदाहरणमुखेन प्रशंसा
    जनमेजयवाक्योदाहरणे दृढीकृतस्यार्थस्य निगमनम्
  17. अथ ऐन्द्रमहाभिषेकस्य विध्यारम्भः
    देवताविषये विचारः
    वेदमय्या आसन्द्याः समाहरणवर्णनम्
    आसन्दीसमारोहणमन्त्राः षट्
    आख्यायिका-इन्द्रारोहणादूर्द्ध्वं देवानामभ्युत्क्रोशनाख्यानम्
  18. अभ्युत्क्रोशनादूर्द्ध्वं प्रजापतिकृताभिमन्त्रणमन्त्रः
    अभिमन्त्रितस्येन्द्रस्य अभिषेकप्रकाराख्यानम्
  19. इन्द्रस्य प्रजापतिकृताभिषेकादूर्द्ध्वं प्राच्यां दिशि वसुभिःकृतोऽभिषेकः
    दक्षिणस्यां दिशि रुद्रैः कृतोऽभिषेकः
    प्रतीच्यां दिश्यादित्यैः कृतोऽभिषेकः
    उदीच्यां दिशि विश्वैर्देवैः कृतोऽभिषेकः
    कृत्स्नस्यैन्द्राभिषेकस्य निगमनम्
  20. अथ पुमर्थाभिषेकविधिः
    क्षत्रियस्य शपथकरणप्रकारादिकम्
  21. पुमर्थाभिषेकस्य सम्भाराणां विधानम्
    तत्र न्यग्रोधादेर्वृक्षचतुष्टयस्य प्रशंसा
    सम्भाररूपाणामोषधिद्रव्याणां विधिप्रशंसे
  22. आसन्द्यादिसम्भाराणां विधिः, आसन्दीपरिचयश्च
    आसन्द्यभिमन्त्रणमन्त्रादिकम्
    आसन्द्यारोहणमन्त्रादिकम्
    आसन्द्यारूढस्य क्षत्रियस्याभ्युत्क्रोशनम्
  23. आचार्यस्य क्षत्रियाभिमन्त्रणविधिमन्त्रौ
    अभिमन्त्रितस्य क्षत्रियस्याभिषेकप्रकारः
  24. अभिषिक्तस्य क्षत्रियस्याभिमन्त्रणविधिः
  25. अभिषेकसाधनानां दध्यादिद्रव्याणां प्रशंसा
    आचार्याय दक्षिणादानविधिः
    प्राप्तदक्षिणस्याचार्य्यस्य क्षत्रियहस्ते सुरापूर्णपात्रदानविधिः
    प्राप्तसुरापात्रस्य क्षत्रियस्य मन्त्रद्वयेन तत्पानविधिः
    पीतसुरासोमस्य क्षत्रियस्य द्वाभ्यां मन्त्राभ्यामभिमन्त्रणविधि।
    एतद्विधायाः सुरायाः सुरात्वाभावः तत् प्रशंसा च
  26. चिरन्तनशिष्टाचारोदाहरणेनैतस्य महाभिषेकस्य प्रशंसा
    तत्र पारिक्षितस्य जनमेजयस्य राज्ञो महाभिषेककथा (अत्रास्ति गाथा)
    मानवस्य शार्यातस्य राज्ञो महाभिषेककथा (अत्रास्ति गाथा)
    सात्राजितस्य शतानीकस्य राज्ञो महाभिषेककथा (अत्रास्ति गाथा)
    आम्बाष्ठ्यस्य राज्ञो महाभिषेककथा (अत्रास्ति गाथा)
    औग्रसैन्यस्य युधाश्रौष्टेः, भौवनस्य विश्वकर्मणः, (अत्रास्ति गाथा) ..
    पैजवनस्य सुदासः, आविक्षितस्य मरुत्तस्य, राज्ञो महाभिषेककथा (अत्रास्ति गाथा)
  27. वैरोचनस्य अङ्गस्य, (सन्त्यत्र पञ्चश्लोकाः) राज्ञो महाभिषेककथा (अत्रास्ति गाथा)
  28. दौष्षन्तेर्भरतस्य (पञ्चश्लोकाः चात्र सन्ति) राज्ञो महाभिषेककथा (अत्रास्ति गाथा)
    सम्प्रदायकथनमुखेन महाभिषेकस्य प्रशंसा
    ब्राह्मणस्योक्ताधिकाराभावेऽपि तद्विद्याविकारसद्भावात् तत्फलसिद्धेरुदाहरणानि
    यथाभिषेके शपथेन गुरुद्रोहवारणं तथा विद्यायामपि
  29. ब्राह्मणस्य पौरोहित्यविषये उपदेशः
    राज्ञो ब्राह्मणपुरोहितकरणविधिः
    पुरोहित-पुत्र-जायानामाहवनीयगार्हपत्यान्वाहार्यपचनतुल्यत्वम्
    पुरोहितस्य पञ्चविधमेन्युपेतवैश्वानराग्निसमानत्वेन प्रशंसा
  30. विहितोपचारेण प्रीतस्य समुद्रदृष्टान्तेन प्रशंसा
    अनिष्टपरिहारशक्तिमत्त्वेन प्रशंसा
    इष्टप्राप्त्युपायमूलत्वेन प्रशंसा
    पुरोहितयुक्ते राज्ञि प्रजानुरागवृद्धिरिति प्रशंसा
  31. पुरोहितमहिमानं दृढयितुं तृचप्रदर्शनं, तत्तात्पर्यव्याख्यानं च
  32. पौरोहित्यस्य योग्यायोग्यत्वविवेकः
    योग्यस्य पुरोहितस्य प्रशंसा
    राज्ञो ब्राह्मणपुरोहितवरणमन्त्रः
    राज्ञा कृतस्य पुरोहितस्य राजदत्तविष्टराभिमन्त्रणविधिमन्त्रौ
    अभिमन्त्रिते विष्टरे पुरोहितस्योपवेशनविधिमन्त्रौ
    पुरोहितस्य पाद्यार्थानीतानामपामभिमन्त्रणमन्त्रः
    अभिमन्त्रिताभिरद्भिः पुरोहितस्य पादप्रक्षालनमन्त्रः
    पुरोहितपादप्रक्षालनावशिष्टानामपामभिमन्त्रणमन्त्रः
  33. अथ ब्रह्मणः परिमरस्य (शत्रुक्षयकारिप्रयोगविशेषस्य) विधिः
    ब्रह्मणः परिमरे वेद्यस्वरूपस्य उपदेशः
    तत्र विद्युतो मृतिप्रतिपादनम्
    वृष्टेः, चन्द्रमसः, आदित्यस्य तथा
    अग्नेः मृतिप्रतिपादनम्
    वायोः परितो म्रियमाणानां देवानां पुनर्वायोरेवाविर्भावः
    तत्र अग्नेः उत्पत्तिप्रतिपादनम्
    आदित्यस्य, चन्द्रमसः, वृष्टेः, तथा
    विद्युतः उत्पत्तिप्रतिपादनम्
    एतत्परिमरविद्यायाः आचार्यसम्प्रदायकथनम्
    परिमरव्रतस्य उपदेशः फलश्रुतिश्च