ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

प्रथम पञ्चिका

द्वितीय पञ्चिका

तृतीय पञ्चिका

चतुर्थ पञ्चिका

पञ्चम पञ्चिका

षष्ठम पञ्चिका

सप्तम पञ्चिका

अष्टम पञ्चिका



[१]देवा वै प्रथमेनाह्नेन्द्राय वज्रं समभरंस्तं द्वितीयेनाह्नासिञ्चंस्तं तृतीयेनाह्ना प्रायच्छंस्तं चतुर्थेऽहन्प्राहरत्तस्माच्चतुर्थेऽहन्षोळशिनं शंसति वज्रो वा एष यत्षोळशी तद्यच्चतुर्थेऽहन्षोळशिनं शंसति वज्रमेव तत्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै वज्रो वै षोळशी पशव उक्थानि तम्परस्तादुक्थानाम्पर्यस्य शंसति तं यत्परस्तादुक्थानाम्पर्यस्य शंसति वज्रेणैव तत्षोळशिना पशून्परिगच्छति तस्मात्पशवो वज्रेणैव षोळशिना परिगता मनुष्यानभ्युपावर्तन्ते तस्मादश्वो वा पुरुषो वा गौर्वा हस्ती वा परिगत एव स्वयमात्मनेत एव वाचाभिषिद्ध उपावर्तते वज्रमेव षोळशिनम्पश्यन्वज्रेणैव षोळशिना परिगतो वाग्घि वज्रो वाक् षोळशी तदाहुः किं षोळशिनः षोळशित्वमिति षोळशः स्तोत्राणां षोळशः शस्त्राणां षोळशभिरक्षरैरादत्ते षोळशिभिः प्रणौति षोळशपदां निविदं दधाति तत्षोळशिनः षोळशित्वं द्वे वा अक्षरे अतिरिच्येते षोळशिनोऽनुष्टुभमभिसम्पन्नस्य वाचो वाव तौ स्तनौ सत्यानृते वाव ते। अवत्येनं सत्यं नैनमनृतं हिनस्ति य एवं वेद॥4.1॥


[२]गौरिवीतं षोळशि साम कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं गौरिवीतं तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्गौरिवीतं षोळशिसाम कुरुते नानदं षोळशि साम कर्तव्यमित्याहुरिन्द्रो वै वृत्राय वज्रमुदयच्छत्तमस्मै प्राहरत्तमभ्यहनत्सोऽभिहतो व्यनदद्यद्व्यनदत्तन्नानदं सामाभवत्तन्नानदस्य नानदत्वमभ्रातृव्यं वा एतद्भ्रातृव्यहा साम यन्नानदमभ्रातृव्यो भ्रातृव्यहा भवति य एवं विद्वान्नानदं षोळशि साम कुरुते तद्यदि नानदं कुर्युरविहृतः षोळशी शंस्तव्यो ऽविहृतासु हि तासु स्तुवते यदि गौरिवीतं विहृतः षोळशी शंस्तव्यो विहृतासु हि तासु स्तुवते॥4.2॥


[३]अथातश्छन्दांस्येव व्यतिषजत्या त्वा वहन्तु हरय उपो षु शृणुही गिर इति गायत्रीश्च पङ्क्तीश्च व्यतिषजति गायत्रो वै पुरुषः पाङ्क्ताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदु गायत्री च पङ्क्तिश्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वाज्ररूपान्नैति यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्युष्णिहश्च बृहतीश्च व्यतिषजत्यौष्णिहो वै पुरुषो बार्हताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदुष्णिक्च बृहती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैत्या धूर्षु अस्मै ब्रह्मन्वीर ब्रह्मकृतिं जुषाण इति द्विपदां च त्रिष्टुभं च व्यतिषजति द्विपाद्वै पुरुषो वीर्यं त्रिष्टुप्पुरुषमेव तद्वीर्येण व्यतिषजति वीर्ये प्रतिष्ठापयति तस्मात्पुरुषो वीर्ये प्रतिष्ठितः सर्वे-षाम्पशुनां वीर्यवत्तमो यदु द्विपदा च विंशत्यक्षरा त्रिष्टुप्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपन्नैत्येष ब्रह्मा प्र ते महे विदथे शंसिषं हरी इति द्विपदाश्च जगतीश्च व्यतिषजति द्विपाद्वै पुरुषो जागताः पशवः पुरुषमेव तत्प-शुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति तस्मात्पुरुषः पशुषु प्रतिष्ठितोऽत्ति चै-नानधि च तिष्ठति वशे चास्य यदु द्विपदा च षोळशाक्षरा जगती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैति त्रिकद्रुकेषु महिषो यवा-शिरम्प्रो ष्वस्मै पुरोरथमित्यतिछन्दसः शंसति छन्दसां वै यो रसोऽत्य-क्षरत्सोऽतिछन्दसमभ्यत्यक्षरत्तदतिछन्दसोऽतिछन्दस्त्वं सर्वेभ्यो वा एष छ-न्दोभ्यः संनिर्मितो यत्षोळशी तद्यदतिछन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद॥4.3॥


[४]महानाम्नीनामुपसर्गानुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयासौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यः संनिर्मितो यत्षोलशी तद्यन्महानाम्नीनामुपसर्गानुपासृजति सर्वेभ्य एवैनं तल्लोकेभ्यः संनिर्मिमीते सर्वेभ्यो लोकेभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद [५]प्रप्र वस्त्रिष्टुभमिष[६]मर्चत प्रार्चत [७]यो व्यतीँरफाणयदिति प्रज्ञाता अनुष्टुभः शंसति तद्यथेह चेह चापथेन चरित्वा पन्थानम्पर्यवेयात्तादृक्तद्यत्प्रज्ञाता अनुष्टुभः शंसति स यो व्याप्तो गतश्रीरिव मन्येताविहृतं षोळशिनं शंसयेन्नेच्छन्दसां कृछ्रादवपद्या इत्यथ यः पाप्मानमपजिघांसुः स्याद्विहृतं षोळशिनं शंसयेद्व्यतिषक्त इव वै पुरुषः पाप्मना व्यतिषक्तमेवास्मै तत्पाप्मानं शमलं हन्त्यप पाप्मानं हते य एवं वेद [८]उद्यद्ब्रध्नस्य विष्टपमित्युत्तमया परिदधाति स्वर्गो वै लोको ब्रध्नस्य विष्टपम्स्वर्गमेव तल्लोकं यजमानं गमयत्यपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी तद्यद् [९]अपाः पूर्वेषां हरिवः सुतानामिति यजति पीतवद्वै प्रातःसवनम्प्रातःसवनादेवैनं तत्संनिर्मिमीतेऽथो इदं सवनं केवलं त इति माध्यंदिनं वै सवनं केवलम्माध्यंदिनादेवैनं तत्सवनात्संनिर्मिमीते ममद्धि सोमम्मधुमन्तमिन्द्रेति मद्वद्वै तृतीयसवनं तृतीयसवनादेवैनं तत्संनिर्मिमीते सत्रा वृषञ्जठर आ वृषस्वेति वृषण्वद्वै षोळशिनो रूपं सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्य एवैनं तत्सवनेभ्यः संनिर्मिमीते सर्वेभ्यः सवनेभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद महानाम्नीनाम्पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्यो वा एष छन्दोभ्यः संनिर्मितो यत्षोळशी तद्यन्महानाम्नीनाम्पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद॥4.4॥

सायणभाष्यम्

'विदा मघवन्'–इत्यस्मिन्ननुवाके प्रोक्ता ऋचो 'महानाम्न्यः' '; तासां सम्बन्धिन उपसर्गाः पञ्चविधाः । ते च आश्वलायनेन दर्शिता: -'प्र चेतन, प्र चेतया, आयाहि पिब मत्स्व, क्रतुश्छन्द ऋतं बृहत्, सुम्न आधेहि नो वसवित्यनुष्टुप्' इति ! तत्र 'प्र चेतन'-इत्येकः प्रथम उपसर्ग:', 'प्रचेतय'- इति द्वितीयः, तावुभावपि द्वितीयस्यां महानाम्न्यामाम्नातौ 'आयाहि पिब मत्स्व' - इति तृतीय उपसर्गः, तृतीयस्यां महानाम्न्यामाम्नातः । 'क्रतुश्छन्द ऋतं बृहद् '-इत्ययं चतुर्थं उपसर्गः; स च षष्ठ्यां महानाम्न्यामाम्नातः । 'सुम्न आ धेहि नो वसविति' पञ्चम उपसर्गः; स चाष्टम्यां महानाम्न्यामाम्नातः । एतेषु पञ्चसूपसर्गेषु मिलित्वा द्वात्रिंशदक्षरसद्भावाद् इयमेकाऽनुष्टुबिति सूत्रस्यार्थः । इयं चानुष्टुबविहृतषोळशिनि तथैव पठनीया, अन्यत्र तु विहृतषोळशिनि पञ्चाप्युपसर्गान् विभज्यातिच्छन्दःसु पञ्चसु योजनीयाः । अत एवोपसृज्यमानत्वाद् उपसर्गा इत्युच्यन्ते । तदेतत्संयोजनमत्र 'उपसृजति' इति शब्देन विधीयते । 'त्रिकद्रुकेषु'-इति येयं प्रथमाऽतिच्छन्दाः तस्याश्चतुःषष्ट्यक्षरत्वात् न पराण्यपेक्षते सेयमनुष्टुब्द्वयसंपत्तिः शक्येति । द्वितीयस्यामृचि तदनुष्टुब्द्वयं पूरयितुं 'प्रचेतन'- इत्यक्षरचतुष्टयं योजनीयम्, तृतीयस्यामृचि 'प्रचेतय' इति योजनीयम् । 'प्रो ष्वस्मै'- इत्यादिषु तिसृषु अवशिष्टास्त्रय उपसर्गाः क्रमेण योजनीयाः । सोऽयं प्रकार आश्वलायनेनोक्तः – 'साऽनुष्टुभमतिच्छन्दःस्ववदध्याद्, द्वितीयतृतीययोः पादयोरवसानत उपदध्यात्, प्र चेतनेति पूर्वस्यां, प्रचेतयेत्युत्तरस्याम्, उत्तरास्वितरान् पादान् षष्ठान् कृत्वाऽनुष्टुप्कारं शंसेत्' इति ॥


[१०]

अहर्वै देवा अश्रयन्त रात्रीमसुरास्ते समावद्वीर्या एवासन्न व्यावर्तन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्रात्रीमन्ववेष्याव इति स देवेषु न प्रत्यविन्ददबिभयू रात्रेस्तमसो मृत्योस्तस्माद्धाप्येतर्हि नक्तं यावन्मत्रमि-वैवापक्रम्य बिभेति तम इव हि रात्रिर्मृत्युरिव तं वै छन्दांस्येवान्ववायंस्तं यच्छन्दांस्येवान्ववायंस्तस्मादिन्द्र श्चैव छन्दांसि च रात्रीं वहन्ति न निवि-च्छस्यते न पुरोरुङ्न धाय्या नान्या देवतेन्द्र श्च ह्येव छन्दांसि च रात्रीं वहन्ति तान्वै पर्यायैरेव पर्यायमनुदन्त यत्पर्यायैः पर्यायमनुदन्त तत्पर्यायाणाम्पर्यायत्वं तान्वै प्रथमेनैव पर्यायेणा पूर्वरात्रादनुदन्त मध्यमेन मध्यरात्रादुत्तमेनापर-रात्रादपि शर्वर्या अनुस्मसीत्यब्रुवन्नपिशर्वराणि खलु वा एतानि छन्दांसीति ह स्माहैतानि हीन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयंस्तदपिशर्वराणामपिशर्वरत्वम्॥4.5॥


[११]पान्तमा वो अन्धस इत्यन्धस्वत्यानुष्टुभा रात्रीम्प्रतिपद्यल आनुष्टुभी वै रात्रिरेतद्रात्रिरूपमन्धस्वत्यः पीतवत्यो मद्वत्यस्त्रिष्टुभो याज्या भवन्त्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्प्रथमेन पर्यायेण स्तुवते प्रथमान्येव पदानि पुनराददते यदेवैषामश्वा गाव आसंस्तदेवैषां तेनाददते मध्यमेन पर्यायेण स्तुवते मध्यमान्येव पदानि पुनराददते यदेवैषामनोरथा आसंस्तदेवैषां तेनाददत उत्तमेन पर्यायेण स्तुवत उत्तमान्येव पदानि पुनराददते यदेवैषां वासो हिरण्यम्मणिरध्यात्ममासीत्तदेवैषां तेनाददत आ द्विषतो वसु दत्ते निरेनमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद पवमानवदहरित्याहुर्न रात्रिः पवमानवती कथमुभे पवमानवती भवतः केन ते समावद्भाजौ भवत इति यदेवेन्द्राय मद्वने सुतमिदं वसो सुतमन्ध इदं ह्यन्वोजसा सुतमिति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती तेनोभे पवमानवती भवतस्तेन ते समावद्भाजौ भवतः पञ्चदशस्तोत्रमहरित्याहुर्न रात्रिः पञ्चदशस्तोत्रा कथमुभे पञ्चदशस्तोत्रे भवतः केन ते समावद्भाजौ भवत इति द्वादश स्तोत्राण्यपिशर्वराणि तिसृभिर्देवताभिः संधिना राथंतरेण स्तुवते तेन रात्रिः पञ्चदशस्तोत्रा तेनोभे पञ्चदशस्तोत्रे भवतस्तेन ते समावद्भाजौ भवतः परिमितं स्तुवन्त्यपरिमितमनुशंसति परिमितं वै भूतमपरिमितम्भव्यमपरिमितस्यावरुद्ध्या इत्यतिशंसति स्तोत्रमति वै प्रजात्मानमति पशवस्तद्यत्स्तोत्रमतिशंसति यदेवास्यात्यात्मानं तदेवास्यैतेनावरुन्धे वरुन्धे॥4.6॥


[१२]प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीं तस्यै सर्वे देवा वरा आगच्छंस्तस्या एतत्सहस्रं वहतुमन्वाकरोद्यदेतदाश्विनमित्याचक्षतेऽनाश्विनं हैव तद्यदर्वाक्सहस्रं तस्मात्तत्सहस्रं वैव शंसेद्भूयो वा। प्राश्य घृतं शंसेद्यथा ह वा इदमनो वा रथो वाऽक्तो वर्तत एवं हैवाक्तो वर्तते। शकुनिरिवोत्पतिष्यन्नाह्वयीत। तस्मिन्देवा न समजानत ममेदमस्तु ममेदमस्त्विति ते संजानाना अब्रुन्नाजिमस्याऽऽयामहै स यो न उज्जेष्यति तस्येदं भविष्यतीति ते ऽग्नेरेवाधि गृहपतेरादित्यं काष्ठामकुर्वत तस्मादाग्नेयी प्रतिपद्भवत्याश्विनस्याग्निहोता गृहपतिः स राजेति। तद्धैक आहुरग्निं मन्ये पितरमग्मिमापिमित्येतया प्रतिपद्येत। दिवि शुक्रं यजतं सूर्यस्येति प्रथमयैव ऋचा काष्ठामाप्नोतीति। तत्तन्नाऽऽदृत्यं य एनं तत्र ब्रूयादग्निमिति वै प्रत्यपाद्यग्निमापत्स्यतीति शश्वत्तथा स्यात्। तस्मादग्निर्होता गृहपतिः स राजेत्येतयैव प्रतिपद्येत गृहपतिवती प्रजातिमती शान्ता सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥4.7॥ (17.1) (128)


[१३]तासां वै देवतानामाजिं धावन्तीनामभिसृष्टानामग्निर्मुखं प्रथमः प्रत्यपद्यत तमश्विनावन्वागच्छतां तमब्रूतामपोदिह्यावां वा इदं जेष्याव इति स तथेत्यब्रवीत्तस्य वै ममेहाप्यस्त्विति तथेति तस्मा अप्यत्राकुरुतां तस्मादाग्नेयमाश्विने शस्यते। ता उषसमन्वागच्छतां तामब्रूतामपोदिह्यावां वा इदं जेष्याव इति सा तथेत्यब्रवीत्तस्यै वै ममेहाप्यस्त्विति तथेति तस्या अप्यत्राकुरुतां तस्मादुषस्यमाश्विने शस्यते। ताविन्द्रमन्वागच्छतां तमब्रूतामावां वा इदं मघवञ्जेष्याव इति न ह तं दधृषतुरपोदिहीति वक्तुं स तथेत्यब्रवीत्तस्य वै ममेहाप्यस्त्विति तथेति तस्मा अप्यत्राकुरुतां तस्मादैन्द्रमाश्विने शस्यते। तदश्विना उदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामश्विनावाश्नुवातां तस्मादेतदाश्विनमित्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद। तदाहुर्यच्छस्यत आग्नेयं शस्यत उषस्यं शस्यत ऐन्द्रमथ कस्मादेतदाश्विनमित्याचक्षत इत्यश्विनौ ह तदुदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामाश्विनावाश्नुवातां तस्मादेतदाश्विनमित्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद॥4.8॥ (17.2) (129)


[१४]अश्वतरीरथेनाग्निराजिमधावत्तासाम्प्राजमानो योनिमकूळयत्तस्मात्ता न विजायन्ते गोभिररुणैरुषा आजिमधावत्तस्मादुषस्यागतायामरुणमिवैव प्रभात्युषसो रूपमश्वरथेनेन्द्र आजिमधावत्तस्मात्स उच्चैर्घोष उपब्दिमान्क्षत्रस्य रूपमैन्द्रो हि स गर्दभरथेनाश्विना उदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामश्विनावाश्नुवातां तस्मात्स सृतजवो दुग्धदोहः सर्वेषामेतर्हि वाहनानामनाशिष्ठो रेतसस्त्वस्य वीर्यं नाहरतां तस्मात्स द्विरेता वाजी तदाहुः सप्त सौर्याणि छन्दांसि शंसेद्यथैवाग्नेयं यथोषस्यं यथाश्विनं सप्त व देवलोकाः सर्वेषु देवलोकेषु राध्नोतीति तत्तन्नादृत्यं त्रीण्येव शंसेत्त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै तदाहुरुदु त्यं जातवेदसमिति सौर्याणि प्रति-पद्येतेति तत्तन्नादृत्यं यथैव गत्वा काष्ठामपराध्नुयात्तादृक्तत्सूर्यो नो दिव-स्पात्वित्येतेनैव प्रतिपद्येत यथैव गत्वा काष्ठामभिपद्येत तादृक्तदुदु त्यं जातवेदसमिति द्वितीयं शंसति चित्रं देवानामुदगादनीकमिति त्रैष्टुभमसौ वाव चित्रं देवानामुदेति तस्मादेतच्छंसति नमो मित्रस्य वरुणस्य चक्षस इति जागतं तद्वाशीःपदमाशिषमेवैतेना शास्त आत्मने च यजमानाय च॥4.9॥


[१५]तदाहुः सूर्यो नातिशस्यो बृहती नातिशस्या यत्सूर्यमतिशंसेद्ब्रह्मवर्चसमतिपद्येत यद्बृहतीमतिशंसेत्प्राणानतिपद्येतेतीन्द्र क्रतुं न आ भरेत्यैन्द्रं प्रगाथं शंसति शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहीत्यसौ वाव ज्योतिस्तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसत्यभि त्वा शूर नोनुम इति राथंतरीं योनिं शंसति राथंतरेण वै संधिनाश्विनाय स्तुवते तद्यद्राथंतरीं योनिं शंसति रथंतरस्यैव सयोनित्वायेशानमस्य जगतः स्वर्दृशमित्यसौ वाव स्वर्दृक्तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसति बहवः सूरचक्षस इति मैत्रावरुणम्प्रगाथं शंसत्यहर्वै मित्रो रात्रिर्वरुण उभे वा एषोऽहोरात्रे आरभते योऽतिरात्रमुपैति तद्यन्मैत्रावरुणम्प्रगाथं शंसत्यहोरात्रयोरेवैनं तत्प्रतिष्ठापयति सूरचक्षस इति तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसति मही द्यौः पृथिवी च नस्ते हि द्यावापृथिवि विश्वशम्भुवेति द्यावापृथिवीये शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठासावमुत्र तद्यद्द्यावापृथिवीये शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति देवो देवी धर्मणा सूर्यः शुचिरिति तेन सूर्यं नातिशंसति यदु गायत्री च जगती च ते द्वे बृहत्यौ तेन बृहतीं नातिशंसति विश्वस्य देवी मृचयस्य जन्मनो न या रोषाति न ग्रभदिति द्विपदाम्शंसति चितैधमुक्थमिति ह स्म वा एतदाचक्षते यदेतदाश्विनं निर्ऋतिर्ह स्म पाशिन्युपास्ते यदैव होता परिधा-स्यत्यथ पाशान्प्रतिमोक्ष्यामीति ततो वा एताम्बृहस्पतिर्द्विपदामपश्यन्ना य रोषाति न ग्रभदिति तया निर्ऋत्याः पाशिन्या अधराचः पाशानपास्यत्तद्यदेतं द्विपदां होता शंसति निर्ऋत्या एव तत्पाशिन्या अधराचः पासानपास्यति स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय सर्वमायुरेति य एवं वेद मृचयस्य जन्मन इत्यसौ वाव मर्चयतीव तेन सूर्यं नातिशंसति यदु द्विपदा पुरुषछन्दसं सा सर्वाणि च्छन्दांस्यभ्याप्ता तेन बृहतीं नाति शंसति॥4.10॥


[१६]ब्राह्मणस्पत्यया परिदधाति ब्रह्म वै बृहस्पतिर्ब्रह्मण्येवैनं तदन्ततः प्रतिष्ठापयत्येवा पित्रे विश्वदेवाय वृष्ण इत्येतया परिदध्यात्प्रजाकामः पशुकामो बृहस्पते सुप्रजा वीरवन्त इति प्रजया वै सुप्रजा वीरवान्वयं स्याम पतयो रयीणामिति प्रजावान्पशुमान्रयिमान्वीरवान्भवति यत्रैवं विद्वानेतया परिदधाति बृहस्पते अति यदर्यो अर्हादित्येतया परिदध्यात्तेजस्कामो ब्रह्मवर्च-सकामोऽतीव वान्यान्ब्रह्मवर्चसमर्हति द्युमदिति द्युमदिव वै ब्रह्मवर्चसं विभातीति वीव वै ब्रह्मवर्चसम्भाति यद्दीदयच्छवस ऋतप्रजातेति दीदायेव वै ब्रह्मवर्चसं तदस्मासु द्रविणं धेहि चित्रमिति चित्रमिव वै ब्रह्मवर्चसम्ब्रह्मवर्चसी ब्रह्मयशसी भवति यत्रैवं विद्वानेतया परिदधाति तस्मादेवं विद्वानेतयैव परिदध्याद्ब्राह्मणस्पत्या तेन सूर्यं नातिसंसति यदु त्रिष्टुभं त्रिः शंसति सा सर्वाणि छन्दांस्यभ्याप्ता तेन बृहतीं नातिशंसति गायत्र्या च त्रिष्टुभा च वषट्कुर्याद्ब्रह्म वै गायत्री वीर्यम्त्रिष्टुब्ब्रह्मणैव तद्वीर्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी वीर्यवान्भवति यत्रैवं विद्वान्गायत्र्या च त्रिष्टुभा च वषट्करोत्यश्विना वायुना युवं सुदक्षो भा पिबतमश्विनेति गायत्र्या च विराजा च वषट्कुर्याद्ब्रह्म वै गायत्र्यन्नं विराद्ब्रह्मणैव तदन्नाद्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी भवति ब्रह्माद्यमन्नमत्ति यत्रैवं विद्वान्गायत्र्या च विराजा च वषट्करोति तस्मादेवं विद्वान्गायत्र्या चैव विराजा च वषट्कुर्यात्प्र वामन्धांसि मद्यान्यस्थुरुभा पिबतमश्विनेत्येताभ्याम्॥4.11॥


[१७]चतुर्विंशमेतदहरुपयन्त्यारम्भणीयम्। एतेन वै संवत्सरमारभन्त एतेन स्तोमांश्च च्छन्दांसि चैतेन सर्वा देवता अनारब्धं वै तच्छन्दोऽनारब्धा सा देवता यदेतस्मिन्नहनि नाऽऽरभन्ते तदारम्भणीयस्याऽऽरम्भणीयत्वम्। चतुर्विंशस्तोमो भवति तच्चतुर्विंशस्य चतुर्विंशत्वम्। चतुर्विंशतिर्वा अर्धमासा अर्धमासश एव तत्संवत्सरमारभन्ते। उक्थ्यो भवति पशवो वा उक्थानि पशूनामवरुद्ध्यै। तस्य पञ्चदश स्तोत्राणि भवन्ति पञ्चदश शस्त्राणि स मासो मासश एव तत्संवत्सरमारभन्ते। तस्य षष्टिश्च त्रीणि च शतानि स्तोत्रियास्तावन्ति संवत्सरस्याहान्यहःश एव तत्संवत्सरमारभन्ते। अग्निष्टोम एतदहः स्यादित्याहुरग्निष्टोमो वै संवत्सरो न वा एतदन्योऽग्निष्टोमादहर्दाधार न विव्याचेति। स यद्यग्निष्टोमः स्यादष्टाचत्वारिंशास्त्रयः पवमानाः स्युश्चतुर्विंशानीतराणि स्तोत्राणि तदु षष्टिश्चैव त्रीणि च शतानि स्तोत्रियास्तावन्ति संवत्सरस्याहान्यहःश एव तत्संवत्सरमारभन्ते। उक्थ्य एव स्यात्पशुसमृद्धो यज्ञः पशुसमृद्धं सत्रं सर्वाणि चतुर्विंशानि स्तोत्राणि प्रत्यक्षाद्ध्येततदहश्चतुर्विंशं तस्मादुक्थ्य एव स्यात्॥4.12॥ (17.6) (133)


[१८]बृहद्रथंतरे सामनी भवत एते वै यज्ञस्य नावौ संपारिण्यौ यद्बृहद्रथंतरे ताभ्यामेव तत्संवत्सरं तरन्ति। पादौ वै बृहद्रथंतरे शिर एतदहः पादाभ्यामेव तच्छ्रियं शिरोऽभ्यायन्ति। पक्षौ वै बृहद्रथंतरे शिर एतदहः पक्षाभ्यामेव तच्छ्रियं शिरोऽभ्यायुवते। ते उभे न समवसृज्ये य उभे समवसृजेयुर्यथैव च्छिन्ना नौर्बन्धनात्तीरं तीरमृच्छन्ती प्लवेतैवमेव ते सत्रिणस्तीरंतीरमृच्छन्तः प्लवेरन्य उभे समवसृजेयुः। तद्यदि रथंतरमवसृजेयुर्बृहतैवोभे अनवसृष्टे अथ यदि बृहदवसृजेयू रथंतरेणैवोभे अनवसृष्टे। यद्वै रथंतरं तद्वैरूपं यद्बृहत्तद्वैराजं यद्रथंतरं तच्छाक्वरं यद्बृहत्तद्रैवतमेवमेते उभे अनवसृष्टे भवतः। ये वा एवं विद्वांस एतदहरुपयन्त्याप्त्वा वै तेऽहःशः संवत्सरमाप्त्वाऽर्धमासश आप्त्वा मासश आप्त्वा स्तोमांश्च च्छन्दांसि चाऽऽप्त्वा सर्वा देवतास्तप एव तप्यमानाः सोमपीथं भक्षयन्तः संवत्सरमभिषुण्वन्त आसते। ये वा अत ऊर्ध्वं संवत्सरमुपयन्ति गुरुं वै ते भारमभिनिदधते स वै गुरुर्भारः शृणात्यथ य एनं परस्तात्कर्मभिराप्त्वाऽवस्तादुपैति स वै स्वस्ति संवत्सरस्य पारमश्नुते॥4.१३॥ (17.7) (134)


[१९]यद्वै चतुर्विंशं तन्महाव्रतं बृहद्दिवेनात्र होता रेतः सिञ्चति तददो महाव्रतीयेनाह्ना प्रजनयति संवत्सरेसंवत्सरे वै रेतः सिक्तं जायते तस्मात्समानं बृहद्दिवो निष्केवल्यं भवत्येष ह वा एनं परस्तात्कर्मभिराप्त्वावस्तादुपैति य एवं विद्वानेतदहरुपैति स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्यावारं च पारं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवारमुदयनीयः पारं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्यावरोधनं चोद्रोधनं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवरोधनमुदयनीय उद्रोधनं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्य प्राणोदानौ वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयः प्राण उदान उदयनीयः। स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद य एवं वेद॥4.14॥


[२०]ज्योतिर्गौरायुरिति स्तोमेभिर्यन्त्ययं वै लोको ज्योतिरन्तरिक्षं गौरसौ लोक आयुः स एवैष उत्तरस्त्र्यहो ज्योतिर्गौरायुरिति त्रीण्यहानि गौरायुर्ज्योतिरिति त्रीण्ययं वै लोको ज्योतिरसौ लोको ज्योतिस्ते एते ज्योतिषी उभयतः संलोकेते तेनैतेनोभयतोज्योतिषा षळहेन यन्ति तद्यदेतेनोभयतोज्योतिषा षळहेन यन्त्यनयोरेव तल्लोकयोरुभयतः प्रतितिष्ठन्तो यन्त्यस्मिंश्च लोकेऽमुष्मिंश्चोभयोः परियद्वा एतद्देवचक्रं यदभिप्लवः षळहस्तस्य यावभितोऽग्निष्टोमौ तौ प्रधी ये चत्वारो मध्य उक्थ्यास्तन्नभ्यं गच्छति वै वर्तमानेन यत्र कामयते तत्स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै तद्वेद यत्प्रथमः षळहः स वै स्वस्ति संवत्सरस्य पारमश्नुते यस्तद्वेद यद्द्वितीयो यस्तद्वेद यत्तृतीयो यस्तद्वेद यच्चतुर्थो यस्तद्वेद यत्पञ्चमः॥4.15॥


[२१]प्रथमं षळहमुपयन्ति षळ् अहानि भवन्ति षड्वा ऋतव ऋतुश एव तत्संवत्सरमाप्नुवन्त्यृतुशान्संवत्सरे प्रतितिष्ठन्तो यन्ति द्वितीयं षळहमुपयन्ति द्वादशाहानि भवन्ति द्वादश वै मासा मासश एव तत्संवत्सरमाप्नुवन्ति मासशः संवत्सरे प्रतितिष्ठन्तो यन्ति तृतीयं षळहमुपयन्त्यष्टादशाहानि भवन्ति तानि द्वेधा नवान्यानि नवान्यानि नव वै प्राणा नव स्वर्गा लोकाः प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति चतुर्थं षळहमुपयन्ति चतुर्विंशतिरहानि भवन्ति चतुर्विंशतिर्वा अर्धमासा अर्धमासश एव तत्संवत्सरमाप्नुवन्त्यर्धमाशशः संवत्सरे प्रतितिष्ठन्तो यन्ति पञ्चमं षळहमुपयन्ति त्रिंशदहानि भवन्ति त्रिंशदक्षरा वै विराड्विराळ् अन्नाद्यं विराजमेव तन्मासिमास्यभिसम्पादयन्तो यन्त्यन्नाद्याकामाः खलु वै सत्रमासत तद्यद्विराजम्मासिमास्यभिसम्पादयन्तो यन्त्यन्नाद्यमेव तन्मासिमास्यवरुन्धाना यन्त्यस्मै च लोकायामुष्मै चोभाभ्याम्॥4.16॥


[२२]गवामयनेन यन्ति गावो वा आदित्या आदित्यानामेव तदयनेन यन्ति गावो वै सत्रमासत शफाञ्छृङ्गाणि सिषासन्त्यस्तासां दशमे मासि शफाः शृङ्गाण्यजायन्त ता अब्रुवन्यस्मै कामायादीक्षामह्यापाम तमुत्तिष्ठामेति ता या उदतिष्ठंस्ता एताः शृङ्गिण्योऽथ याः समापयिष्यामः संवत्सरमित्यासत तासा-मश्रद्धया शृङ्गाणि प्रावर्तन्त ता एतास्तूपरा ऊर्जं त्वसुन्वंस्तस्मादु ताः सर्वा-नृतून्प्राप्त्वोत्तरमुत्तिष्ठन्त्यूर्जं ह्यसुन्वन्सर्वस्य वै गावः प्रेमाणं सर्वस्य चारुतां गताः सर्वस्य प्रेमाणं सर्वस्य चारुतां गच्छति य एवं वेदादित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयम्पूर्व एष्यामो वयमिति ते हादित्याः पूर्वे स्वर्गं लोकं जग्मुः पश्चेवाङ्गिरसः षष्ट्यां वा वर्षेषु यथा वा प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वेऽभिप्लवाः षळहा आक्ष्यन्त्यन्यान्यहानि तदादित्यानामयनम्प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वे पृष्ठ्याः षळहा आक्ष्यन्त्यन्यान्यहानि तदङ्गिरसामयनं सा यथा स्रुतिरञ्जसाय-न्येवमभिप्लवः षळहः स्वर्गस्य लोकस्याथ यथा महापथः पर्याण एवम्पृष्ठ्यः षळहः स्वर्गस्य लोकस्य तद्यदुभाभ्यां यन्त्युभाभ्यां वै यन्न रिष्यत्युभयोः कामयोरुपाप्त्यै यश्चाभिप्लवे षळहे यश्च पृष्ठ्ये॥4.17॥


[२३]एकविंशमेतदहरुपयन्ति विषुवन्तम्मध्ये संवत्सरस्यैतेन वै देवा एकविंशे-नादित्यं स्वार्गय लोकायोदयछन्स एष इत एकविंशस्तस्य दशावस्तादहानि दिवाकीर्त्यस्य भवन्ति दश परस्तान्मध्य एष एकविंश उभयतो विराजि प्रतिष्ठित उभयतो हि वा एष विराजि प्रतिष्ठितस्तस्मादेषोऽन्तरेमाँ ल्लोकान्यन्न व्यथते तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपातादबिभयुस्तं त्रिभिः स्वर्गैर्लोकैरवस्तात्प्रत्युत्तभ्नुवन्स्तोमा वै त्रयः स्वर्गा लोकास्तस्य पराचो-ऽतिपातादबिभयुस्तं त्रिभिः स्वर्गैर्लोकैः परस्तात्प्रत्यस्तभ्नुवन्स्तोमा वै त्रयः स्वर्गा लोकास्तत्त्रयोऽवस्तात्सप्तदशा भवन्ति त्रयाः परस्तान्मध्य एष एकविंश उभयतः स्वरसामभिर्धृत उभयतो हि वा एष स्वरसामभिर्धृतस्तस्मादे-षोऽन्तरेमाँ ल्लोकान्यन्न व्यथते तस्य वै देवा आदित्यस्य स्वर्गाल्लोका-दवपातादबिभयुस्तम्परमैः स्वर्गैर्लोकैरवस्तात्प्रत्युत्तभ्नुवन्स्तोमा वै परमाः स्वर्गा लोकास्तस्य पराचोऽतिपातादबिभयुस्तम्परमैः स्वर्गैर्लोकैः परस्ता-त्प्रत्यस्तभ्नुवन्स्तोमा वै परमाः स्वर्गा लोकास्तत्त्रयोऽवस्तात्सप्तदशा भवन्ति त्रयः परस्तात्ते द्वौद्वौ सम्पद्य त्रयश्चतुस्त्रिण्शा भवन्ति चतुस्त्रिंशो वै स्तोमा-नामुत्तमस्तेषु वा एष एतदध्याहितस्तपति तेषु हि वा एष एतदध्याहितस्तपति स वा एष उत्तरोऽस्मात्सर्वस्माद्भूताद्भविष्यतः सर्वमेवेदमतिरोचते यदिदं किंचोत्तरो भवति यस्मादुत्तरो बुभूषति तस्मादुत्तरो भवति य एवं वेद ।।4.१८।।


[२४]स्वरसाम्न उपयन्तीमे वै लोकाः स्वरसामान इमान्वै लोकान्स्वरसामभिरस्पृण्वंस्तत्स्वरसाम्नां स्वरसामत्वं तद्यत्स्वरसाम्न उपयन्त्येष्वेवैनं तल्लोकेष्वाभजन्ति तेषां वै देवाः सप्तदशानाम्प्रव्लयादबिभयुः समा इव वै स्तोमा अविगूळ्हा इवेमे ह न प्रव्लियेरन्निति तान्सर्वैः स्तोमैरवस्तात्पर्यार्षन्सर्वैः पृष्ठैः परस्तात्तद्यदभिजित्सर्वस्तोमोऽवस्ताद्भवति विश्वजित्सर्वपृष्ठः परस्तात्तत्सप्तदशानुभयतः पर्यृषन्ति धृत्या अप्रव्लयाय तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपातादबिभयुस्तम्पञ्चभी रश्मिभिरुदवयन्रश्मयो वै दिवाकीर्त्यानि महादिवाकीर्त्यं पृष्ठं भवति विकर्णं ब्रह्मसाम भासमग्निष्टोमसामोभे बृहद्रथंतरे पवमानयोर्भवतस्तदादित्यम्पञ्चभी रश्मिभिरुद्वयन्ति धृत्या अनवपातायोदित आदित्ये प्रातरनुवाकमनुब्रूयात्सर्वं ह्येवैतदहर्दिवाकीर्त्यम्भवति सौर्यम्पशुमन्यङश्वेतं सवनीयस्योपालम्भ्यमालभेरन्सूर्यदेवत्यं ह्येतदहरेकविंशतिं सामिधेनीरनुब्रूयात्प्रत्यक्षाद्ध्येतदहरेकविंशमेकपञ्चाशतं द्विपञ्चाशतं वा शस्त्वा मध्ये निविदं दधाति तावतीरुत्तराः शंसति शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रिय आयुष्येवैनं तद्वीर्य इन्द्रिये दधाति॥4.19॥


[२५]दूरोहणं रोहति स्वर्गो वै लोको दूरोहणं स्वर्गमेव तल्लोकं रोहति य एवं वेद यदेव दूरोहणम् असौ वै दूरोहो योऽसौ तपति कश्चिद्वा अत्र गच्छति स यद्दूरोहणं रोहत्येतमेव तद्रोहति हंसवत्या रोहति हंसः शुचिषदित्येष वै हंसः शुचिषद्वसुरन्तरिक्षदित्येष वै वसुरन्तरिक्षसद्धोता वेदिषदित्येष वै होता वेदिषदतिथिर्दुरोणसदित्येष वा अतिथिर्दुरोणसन्नृषदित्येष वै नृषद्वरसदित्येष वै वरसद्वरं वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपत्यृतसदित्येष वै सत्य-सद्व्योमसदित्येष वै व्योमसद्व्योम वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपत्यब्जा इत्येष वा अब्जा अद्भ्यो वा एषा प्रातरुदेत्यपः सायम्प्रविशति गोजा इत्येष वै गोजा ऋतजा इत्येष वै सत्यजा अद्रिजा इत्येष वा अद्रिजाः ऋतमित्येष वै सत्यमेष एतानि सर्वाण्येषा ह वा अस्य छन्दस्सु प्रत्यक्षतमादिव रूपं तस्माद्यत्र क्व च दूरोहणं रोहेद्धंसवत्यैव रोहेत्तार्क्ष्ये स्वर्गकामस्य रोहेत्तार्क्ष्यो ह वा एतं पूर्वोऽध्वानमैद्यत्रादो गायत्री सुपर्णो भूत्वा सोमामाहरत्तद्यथा क्षेत्रज्ञमध्वनः पुरएतारं कुर्वीत तादृक्तद्यदेव तार्क्ष्येऽयं वै तार्क्ष्यो योऽयं पवत एष स्वर्गस्य लोकस्याभिवोळ्हा त्यमू षु वाजिनं देवजूतमित्येष वै वाजी देवजूतः सहावानं तरुतारं रथानामित्येष वै सहावांस्तरुतैष हीमाँल्लोकान्सद्यस्तरत्यरिष्टनेमिं पृतनाजमाशुमित्येष व अरिष्टनेमिः पृतनाजिदाशुः स्वस्तय इति स्वस्तितामाशास्ते तार्क्ष्यमिहा हुवेमेति ह्वयत्येवैनमेतदिन्द्रस्येव रातिमाजोहुवानाः स्वस्तय इति स्वस्तितामेवाशास्ते नावमिवा रुहेमेति समेवैनमेतदधिरोहति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्या उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषामेतीमे एवैतदनुमन्त्रयत आचपराचमेष्यन्सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततानेति प्रत्यक्षं सूर्य-मभिवदति सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्यामित्याशिषमेवैतेनाशास्त आत्मने च यजमानेभ्यश्च॥4.20॥

तार्क्ष्य साम Eagle chant




[२६]आहूय दूरोहणं रोहति स्वर्गो वै लोको दूरोहणं वागाहावो ब्रह्म वै वाक्स यदाह्वयते तद्ब्रह्मणाऽऽहावेन स्वर्गं लोकं रोहति। स पच्छः प्रथमं रोहतीमं तं लोकमाप्नोत्यथार्धर्चशोऽन्तरिक्षं तदाप्नोत्यथ त्रिपद्याऽमुं तं लोकमाप्नोत्यथ केवल्या तदेतस्मिन्प्रतितिष्ठति य एष तपति। त्रिपद्या प्रत्यवरोहति तथा शाखां धारयमाणस्तदमुष्मिँल्लोके प्रतितिष्ठत्यर्धर्चशोऽन्तरिक्षे पच्छोऽस्मिँल्लोक आप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँल्लोके प्रतितिष्ठन्ति। अथ य एककामाः स्युः स्वर्गकामाः परा़ञ्चमेव तेषां रोहेत्ते जयेयुर्हैव स्वर्गं लोकम्। नेत्त्वेवास्मिँल्लोके ज्योगिव वसेयुः। मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दांसि पशूनामवरुद्ध्यै॥4.21॥ (18.7) (142)


[२७]यथा वै पुरुष एवं विषुवांस्तस्य यथा दक्षिणोऽर्ध एवं पूर्वोऽर्धो विषुवतो यथोत्तरोऽर्ध एवमुत्तरोऽर्धो विषुवतस्तस्मादुत्तर इत्याचक्षते प्रबाहुक्सतः शिर एव विषुवान्बिदलसंहित इव वै पुरुषस्तद्धापि स्यूमेव मध्ये शीर्ष्णो विज्ञायते तदाहुर्विषुवत्येवैतदहः शंसेद्विषुवान्वा एतदुक्थानामुक्थं विषुवान्विषुवानिति ह विषुवन्तो भवन्ति श्रेष्ठतामश्नुवत इति तत्तन्नादृत्यं संवत्सर एव शंसेद्रेतो वा एतत्संवत्सरं दधतो यन्ति यानि वै पुरा संवत्सराद्रेतांसि जायन्ते यानि पञ्चमास्यानि यानि षण्मास्यानि स्रीव्यन्ति वै तानि न वै तैर्भुञ्जतेऽथ यान्येव दशमास्यानि जायन्ते यानि सांवत्सरिकाणि तैर्भुञ्जते तस्मात्संवत्सर एवैतदहः शंसेत्संवत्सरो ह्येतदहराप्नोति संवत्सरं ह्येतदहराप्नुवन्त्येष ह वै संवत्सरेण पाप्मानमपहतैष विषुवताङ्गेभ्यो हैव मासैः पाप्मानमपहते शीर्ष्णो विषुवता अप संवत्सरेण पाप्मानं हतेऽप विषुवता य एवं वेद वैश्वकर्मणमृषभं सवनीयस्योपालम्भ्यमालभेरन्द्विरूपमुभयत एतं महाव्रतीयेऽहनीन्द्रो वै वृत्रं हत्वा विश्वकर्माऽभवत्प्रजापतिः प्रजाः सृष्ट्वा विश्वकर्माऽभवत्संवत्सरो विश्वकर्मेन्द्र मेव तदात्मानं प्रजापतिं संवत्सरं विश्वकर्माणमाप्नुवन्तीन्द्र एव तदात्मनि प्रजापतौ संवत्सरे विश्वकर्मण्यन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद य एवं वेद॥4.22॥


[२८]प्रजापतिरकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स तपस्तप्त्वेमं द्वादशाहमप्श्यदात्मन एवाङ्गेषु च प्राणेषु च तमात्मन एवाङ्गेभ्यश्च प्राणेभ्यश्च द्वादशधा निरमिमीत तमाहरत्तेनायजत ततो वै सोऽभवदात्मना प्र प्रजया पशुभिरजायत भवत्यात्मना प्र प्रजया पशुभिर्जायते य एवं वेद सोऽकामयत कथं नु गायत्र्या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमृध्नुयामिति तं वै तेजसैव पुरस्तात्पर्यभवच्छन्दोभिर्मध्यतोऽक्षरैरुपरिष्टाद्गायत्र्या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमार्ध्नोत्सर्वामृद्धिमृध्नोति य एवं वेद यो वै गायत्रीं पक्षिणीं चक्षुष्मतीं ज्योतिष्मतीम्भास्वतीं वेद गायत्र्या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेत्येषा वै गायत्री पक्षिणी चक्षुष्मती ज्योतिष्मती भास्वती यद्द्वादशाहस्तस्य यावभितोऽतिरात्रौ तौ पक्षौ यावन्तराग्निष्टोमौ ते चक्षुषी येऽष्टौ मध्य उक्थ्याः स आत्मा गायत्र्या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेति य एवं वेद॥4.23॥


[२९]त्रयश्च वा एते त्र्यहा आ दशममहरा द्वावतिरात्रौ यद्द्वादशाहो द्वादशाहानि दीक्षितो भवति यज्ञिय एव तैर्भवति द्वादश रात्रीरुपसद उपैति शरीरमेव ताभिर्धूनुते द्वादशाहम्प्रसुतो भूत्वा शरीरं धूत्वा शुद्धः पूतो देवता अप्येति य एवं वेद षट्त्रिंशदहो वा एष यद्द्वादशाहः षट्त्रिंशदक्षरा वै बृहती बृहत्या वा एतदयनं यद्द्वादशाहो बृहत्या वै देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षम्दशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठन्प्रतितिष्ठति य एवं वेद तदाहुर्यदन्यानि छन्दांसि वर्षीयांसि भूयोऽक्षरतराण्यथ कस्मादेताम्बृहतीत्याचक्षत इत्येतया हि देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षंशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठंस्तस्मादेतां बृहतीत्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद॥4.24॥


[३०]प्राजापतियज्ञो वा एष यद्द्वादशाहः प्रजापतिर्वा एतेनाग्रेऽयजत द्वादशाहेन सोऽब्रवीदृतूंश्च मासांश्च याजयत मा द्वादशाहेनेति तं दीक्षयित्वानपक्रमं गमयित्वाब्रुवन्देहि नु नोऽथ त्वा याजयिष्याम इति तेभ्य इषमूर्जम्प्रायछत्सैषोर्गृतुषु च मासेषु च निहिता ददतं वै ते तमयाजयंस्तस्माद्ददद्याज्यः प्रतिगृह्णन्तो वै ते तमयाजयंस्तस्मात्प्रतिगृह्णता याज्यमुभये राध्नुवन्ति य एवं विद्वांसो यजन्ते च याजयन्ति च ते वा इम ऋतवश्च मासाश्च गुरव इवामन्यन्त द्वादशाहे प्रतिगृह्य तेऽब्रुवन्प्रजापतिं याजय नो द्वादशाहेनेति स तथेत्यब्रवीत्ते वै दीक्षध्वमिति ते पूर्वपक्षाः पूर्वे दीक्षन्त ते पाप्मानमपाहत तस्मात्ते दिवेव दिवेव ह्यपहतपाप्मानोऽपरपक्षा अपरेऽदीक्षन्त ते नतराम्पाप्मानमपाहत तस्मात्ते तम इव तम इव ह्यनपहतपाप्मानस्तस्मादेवं विद्वान्दीक्षमाणेषु पूर्वः-पूर्व एव दिदीक्षिषेता प पाप्मानं हते य एवं वेद स वा अयम्प्रजापतिः संवत्सर ऋतुषु च मासेषु च प्रत्यतिष्ठत्ते वा इम ऋतवश्च मासाश्च प्रजापतावेव संवत्सरे प्रत्यतिष्ठंस्त एतेऽन्योन्यस्मिन्प्रतिष्ठिता एवं ह वाव स ऋत्विजि प्रतितिष्ठति यो द्वादशाहेन यजते तस्मादाहुर्न पापः पुरुषो याज्यो द्वादशाहेन नेदयम्मयि प्रतितिष्ठादिति ज्येष्वहयज्ञो वा एष यद्द्वादशाहः स वै देवानां ज्येष्ठो य एतेनाग्रेऽयजत श्रेष्ठयज्ञो वा एष यद्द्वादशाहः स वै देवानां श्रेष्ठो य एतेनाग्रेऽयजत ज्येष्ठः श्रेष्ठो यजेत कल्याणीह समा भवति न पापः पुरुषो याज्यो द्वादशाहेन नेदयम्मयि प्रतितिष्ठदितीन्द्राय वै देव ज्यैष्ठ्याय श्रैष्ठ्याय नातिष्ठन्त सोऽब्रवीद्बृहस्पतिं याजय मा द्वादशाहेनेति तमयाजयत्तलो वै तस्मै देवा ज्यैष्ठ्याय श्रैष्ठ्यायातिष्ठन्त तिष्ठन्तेऽस्मै स्वा ज्यैष्ठ्याय श्रैष्ठ्याय समस्मिन्स्वाः श्रेष्ठतायां जानते य एवं वेदोर्ध्वो वै प्रथम स्त्र्?यहस्तिर्यङ्मध्यमोऽर्वाङुत्तमः स यदूर्ध्वः प्रथम स्त्र्?यहस्तस्मादयमग्निरूर्ध्व उद्दीप्यत ऊर्ध्वा ह्येतस्य दिग् यत्तिर्यङ्मध्यमस्तस्मादयं वायुस्तिर्यङ्पवते तिरश्चीरापो वहन्ति तिरश्ची ह्येतस्य दिग् यदर्वाङुत्तमस्तस्मादसावर्वाङ्तपत्यर्वाङ्वर्षत्यर्वाञ्चि नक्षत्राण्यार्वाचि ह्येतस्य दिक् सम्यञ्चो वा इमे लोकाः सम्यञ्च एते त्र्?यहाः सम्यञ्चोऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद॥4.25॥


[३१]दीक्षा वै देवेभ्योऽपाक्रामत्तां वासन्तिकाभ्याम्मासाभ्यामन्वयुञ्जत तां वासन्तिकाभ्याम्मासाभ्यां नोदाप्नुवंस्तां ग्रैष्माभ्यां तां वार्षिकाभ्यां तां शारदाभ्यां तां हैमन्तिकाभ्याम्मासाभ्यामन्वयुञ्जत तां हैमन्तिकाभ्याम्मासाभ्यां नोदाप्नुवंस्तां शैशिराभ्याम्माआभ्यामन्वयुञ्जत तां शैशिराभ्याम्मासाभ्या-माप्नुवन्नाप्नोति यमीप्सति नैनं द्विषन्नाप्नोति य एवं वेद तस्माद्यं सत्रिया दीक्षोपनमेदेतयोरेव शैशिरयोर्मासयोरागतयोर्दीक्षेत साक्षादेव तद्दीक्षायामा-गतायाम्दीक्षते प्रत्यक्षाद्दीक्षाम्परिगृह्णाति तस्मादेतयोरेव शैशिरयोर्मासयो-रागतयोर्ये चैव ग्राम्याः पशवो ये चारण्या अणिमानमेव तत्परुषिमाणं नियन्ति दीक्षारूपमेव तदुपनिप्लवन्ते स पुरस्ताद्दीक्षायाः प्राजापत्यम्पशुमालभते तस्य सप्तदश सामिधेनीरनुब्रूयात्सप्तदशो वै प्रजापतिः प्रजापतेराप्त्यै तस्याप्रियो जामदग्न्यो भवन्ति तदाहुर्यदन्येषु पशुषु यथऋष्याप्रियो भवन्त्यथ कस्मादस्मिन्सर्वेषां जामदग्न्य एवेति सर्वरूपा वै जामदग्न्यः सर्वसमृद्धाः सर्वरूप एष पशुः सर्वसमृद्धस्तद्यज्जामदग्न्यो भवन्ति सर्वरूपतायै सर्वसमृद्ध्यै तस्य वायव्यः पशुपुरोळाशो भवति तदाहुर्यदन्यदेवत्य उत पशुर्भवत्यथ कस्माद्वायव्यः पशुपुरोळाशः क्रियत इति प्रजापतिर्वै यज्ञो यज्ञस्यायातया-मताया इति ब्रूयाद्यदु वायव्यस्तेन प्रजापतेर्नैति वायुर्ह्येव प्रजापति-स्तदुक्तमृषिणा पवमानः प्रजापतिरिति सत्रमु चेत्संन्युप्याग्नीन्यजेरन्सर्वे दीक्षेरन्सर्वे सुनुयुर्वसन्तमभ्युदवस्यत्यूर्ग्वै वसन्त इषमेव तदूर्जमभ्युदवस्यति॥4.26॥


[३२]छन्दांसि वा अन्योन्यस्यायतनमभ्यध्यायन्गायत्री त्रिष्टुभश्च जगत्यै चायतनमभ्यध्यायत्त्रिष्टुब्गायत्र्यै च जगत्यै च जगती गायत्र्यै च त्रिष्टुभश्च ततो वा एतं प्रजापतिर्व्यूळ्हछन्दसं द्वादशाहमपश्यत्तमाहरत्तेनायजत तेन स सर्वान्कामांश्छन्दांस्यगमयत्सर्वान्कामान्गच्छति य एवं वेद छन्दांसि व्यूहत्ययातयामतायै छन्दांस्येव व्यूहति तद्यथादोऽश्वैर्वानळुद्भिर्वान्यैरन्यैरश्रान्ततरैरश्रान्ततरैरुपविमोकं यान्त्येवमेवैतच्छन्दोभिरन्यैरन्यैरश्रान्ततरैरश्रान्ततरैरुपविमोकं स्वर्गं लोकं यन्ति यच्छन्दांसि व्यूहतीमौ वै लोकौ सहास्तां तौ व्यैतां नावर्षन्न समतपत्ते पञ्चजना न समजानत तौ देवाः समनयंस्तौ संयन्तावेतं देवविवाहं व्यवहेतां रथंतरेणैवेयममूं जिन्वति बृहतासाविमां नौधसेनैवेयममूं जिन्वति श्यैतेनासाविमां धूमेनैवेयममूं जिन्वति वृष्ट्यासाविमां देवयजनमेवेयममुष्यामदधात्पशूनसावस्यामेतद्वा इयममुष्यां देवयजनमदधाद्यदेतच्चन्द्रमसि कृष्णमिव तस्मादापूर्यमाणपक्षेषु यजन्त एतदेवोपेप्सन्त ऊषानसावस्यां तद्धापि तुरः कावषेय उवाचोषः पोषो जनमेजयकेति तस्माद्धाप्येतर्हि गव्यं मीमांसमानाः पृच्छन्ति सन्ति तत्रोषाः इति ऊषो हि पोषोऽसौ वै लोक इमं लोकमभिपर्यावर्तत ततो वै द्यावापृथिवी अभवतां न द्यावान्तरिक्षान्नान्तरिक्षाद्भूमिः॥4.27॥


[३३]बृहच्च वा इदमग्रे रथंतरं चाऽऽस्तां वाक्च वै तन्मनश्चाऽऽस्तां वाग्वै रथंतरं मनो बृहत्तद्बृहत्पूर्वं ससृजानं रथंतरमत्यमन्यत तद्रथंतरं गर्भमधत्त तद्वैरूपमसृजत। ते द्वे भूत्वा रथंतरं च वैरूपं च बृहदत्यमन्येतां तद्बृहद्गर्भमधत्त तद्वैराजमसृजत। ते द्वे भूत्वा बृहच्च वैराजं च रथंतरं च वैरूपं चात्यमन्येतां तद्रथंतरं गर्भमधत्त तच्छाक्वरमसृजत। तानि त्रीणि भूत्वा रथंतरं च वैरूपं च शाक्वरं च बृहच् वैराजं चात्यमन्यन्त तद्बृहद्गर्भमधत्त तद्रैवतमसृजत। तानि त्रीण्यन्यानि त्रीण्यन्यानि षड्पृष्ठान्यासन्। तानि ह तर्हि त्रीणि च्छन्दांसि षट्पृष्ठानि नोदाप्नुवन्सा गायत्री गर्भमधत्त साऽनुष्टुभमसृजत त्रिष्टुब्गर्भमधत्त सा पङ्क्तिमसृजत जगती गर्भमधत्त साऽतिच्छन्दसमसृजत तानि त्रीण्यन्यानि त्रीण्यन्यानि षट्छन्दांस्यासन्षट्पृष्ठानि तानि तथाऽकल्पन्त कल्पते यज्ञोऽपि। तस्यै जनतायै कल्पते यत्रैवमेतां छन्दसां च पृष्ठानां च कलृप्तिं विद्वान्दीक्षते दीक्षते॥4.28॥ (19.6) (149)


[३४]अग्निर्वै देवता प्रथममहर्वहति त्रिवृत्स्तोमो रथंतरं साम गायत्री छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं यद्युक्तवद्यद्रथवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यद्राथंतरं यद्गायत्रं यत्करिष्यदेतानि वै प्रथमस्याह्नो रूपाण्युपप्रयन्तो अध्वरमिति प्रथमस्याह्न आज्यम्भवति प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं वायवा याहि दर्शतेति प्रउगमेति प्रथमेऽहनि प्रथमस्याह्नो रूपमा त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ रथवच्च पिबवच्च प्रथमेऽहनि प्रथमस्याह्नो रूपमिन्द्र नेदीय एदिहीतीन्द्र निहवः प्रगाथः प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपं प्रैतु ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः प्रथमेषु पदेषु देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्नो रूपं प्र वा इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमा यात्विन्द्रोऽवस उप न इति सूक्तमेति प्रथमेऽहनि प्रथमस्याह्नो रूपमभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथंतरं पृष्ठं भवति राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नो रूपं यद्वावान पुरुतमं पुराषाळ् इति धाय्या वृत्रहेन्द्रो नामान्यप्रा इत्येति प्रथमेऽहनि प्रथमस्याह्नो रूपं पिबा सुतस्य रसिन इति सामप्रगाथः पिबवान्प्रथमेऽहनि प्रथमस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यं पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद॥4.29॥

तार्क्ष्य साम Eagle chant

806

[३५]आ न इन्द्रो दूरादा न आसादिति सूक्तमेति प्रथमेऽहनि प्रथमस्याह्नो रूपं सम्पातौ भवतो निष्केवल्यमरुत्वतीययोर्निविद्धाने वामदेवो वा इमाँल्लोकानपश्यत्तान्सम्पातैः समपतद्यत्सम्पातैः समपतत्तत्सम्पातानां सम्पातत्वं तद्यत्सम्पातौ प्रथमेऽहनि शंसति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्यै तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नो रूपं युञ्जते मन उत युञ्जते धिय इति सावित्रं युक्तवत्प्रथमेऽहनि प्रथमस्याह्नो रूपं प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति द्यावापृथिवीयं प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमिहेह वो मनसा बन्धुता नर इत्यार्भवं यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं तद्यत्प्रेति सर्वमभविष्यत्प्रैष्यन्नेवास्माल्लोकाद्यजमाना इति तद्यदिहेह वो मनसा बन्धुता नर इत्यार्भवं प्रथमेऽहनि शंसत्ययं वै लोक इहेहास्मिन्नेवैनांस्तल्लोके रमयति देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमे पदे देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्नो रूपं महान्तं वा एतेऽध्वानमेष्यन्तो भवन्ति ये संवत्सरं वा द्वादशाहं वासते तद्यद्देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमेऽहनि शंसति स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद येषां चैवं विद्वानेतद्धोता देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमेऽहनि शंसति वैश्वानराय पृथुपाजसे विप इत्याग्निमारुतस्य प्रतिपत्प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपं प्रत्वक्षसो प्रतवसो विरप्शिन इति मारुतं प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्यां पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्याः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद प्र तव्यसीं नव्यसीं धीतिमग्नय इति जातवेदस्यं प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं समानमाग्निमारुतं भवति यच्चाग्निष्टोमे यद्वै यज्ञे समानं क्रियते तत्प्रजा अनु समनन्ति तस्मात्समानमाग्निमारुतं भवति॥4.30॥


इन्द्रो वै देवता द्वितीयमहर्वहति पञ्चदशः स्तोमो बृहत्साम त्रिष्टुप्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै नेति न प्रेति यत्स्थितं तद्द्वितीयस्याह्नो रूपं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्व-द्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्बार्हतं यत्त्रैष्टुभं यत्कुर्वदेतानि वै द्वितीयस्याह्नो रूपाण्यग्निं दूतं वृणीमह इति द्वितीयस्याह्न आज्यम्भवति कुर्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं वायो ये ते सहस्रिण इति प्रउगं सुतः सोम ऋतावृधेति वृधन्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ वृधन्वच्चान्तर्वच्च द्वितीयेऽहनि द्वितीयस्याह्नो रूपमिन्द्र नेदीय एदिहीत्यच्युतः प्रगाथ उत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्य ऊर्ध्ववान्द्वितीयेऽहनि द्वितीय-स्याह्नो रूपमग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्या अच्युता बृहदिन्द्राय गायतेति मरुत्वतीयः प्रगाथो येन ज्योतिरजनयन्नृतावृध इति वृधन्वान्द्वितीयेऽहनि द्वितीयस्याह्नो रूपमिन्द्र सोमं सोमपते पिबेममिति सूक्तम्सजोषा रुद्रै स्तृपदा वृषस्वेति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठं भवति बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपं यद्वावानेति धाय्याच्युतोभयं शृणवच्च न इति सामप्रगाथो यच्चेदमद्य यदु च ह्य आसीदिति बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो च्युतः॥4.31॥


या त ऊतिरवमा या परमेति सूक्तं जहि वृष्ण्यानि कृणुही पराच इति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। विश्वो देवस्य नेतुस्तत्सवितु्र्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। उदु ष्य देवः सविता हिरण्ययेति सावित्रमूर्ध्ववद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। ते हि द्यावापृथिवी विश्वशंभुवेति द्यावापृथिवीयं सुजन्मनी धिषणे अन्तरीयत इत्यन्तर्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। तक्षन्रथं सुवृतं विद्मनापस इत्यार्भवं तक्षन्हरी इन्द्रवाहा वृषण्वसू इति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। यज्ञस्य वो रथ्यं विश्पतिं विशामिति वैश्वदेवं वृषाकेतुर्यजतो द्यामशायतेति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। तदु शार्यातमङ्गिरसो वै स्वर्गाय लोकाय सत्रमासत ते ह स्म द्वितीयं द्वितीयमेवाहरागत्य मुह्यन्ति तान्वा एतच्छार्यातो मानवो द्वितीयेऽहनि सूक्तमशंससत्ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकं तद्यदेतत्सूक्तं द्वितीयेऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै। पृक्षस्य वृष्णो अरुषस्य नू सह इत्याग्निमारुतस्य प्रतिपद्वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। वृष्णे शर्धाय सुमखाय वेधस इति मारुतं वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। जातवेदसे सुनवाम सोममिति जातवेदस्याऽच्युता। यज्ञेन वर्धत जातवेदसमिति जातवेदस्य वृधन्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपमह्नो रूपम्॥4.32॥ ((20.4) (153)
इत्यैतरेयब्राह्मणे चतुर्थपञ्चिका समाप्ता

  1. आख्यायिका-षोळशिक्रतुविधानार्था
    षोळशिशस्त्रस्य वज्रस्वरूपत्वेन प्रशंसा
    शंसनकालनिरूपणम्
    विहृताविहृतरूपाभ्यां द्वैविध्यम्
    द्वयोः ऋचोर्विहृतपाठप्रकारः
    प्रश्नोत्तराभ्यां षोळशिशब्दस्य निर्वचनम्
    षोळशिशस्त्रीयानामृचां द्व्यक्षराधिक्येन षोडशिनः प्रशंसा
    षोळशीतिनाम्नो निदानकथनम्
    षोळशिशस्त्रार्थवेदितुः सत्यानृतावनुकूलाविति फलम्
  2. गौरिवीतस्य साम्नः षोळशिसामत्वविधानम्
    नानदस्य साम्नश्च षोळशिसामत्वविधानम्
    गौरिवीतसामपक्षे षोळशिशस्त्रस्य विहृतपाठविधिः
    नानदसामपक्षे षोळशिशस्त्रस्याविहृतपाठविधिः
  3. षोळशिशस्त्रे गायत्रीपङ्क्त्योर्विहरणप्रकारोपदेशः
    उष्णिग्बृहत्योर्विहरणप्रकारोपदेशः
    द्विपदात्रिष्टुभोर्विहरणप्रकारोपदेशः
    द्विपदाजगत्योर्विहरणप्रकारोपदेशः
    अतिच्छन्दोनामनिर्वचनम्, तद्विधिश्च
  4. महानाम्नीनामुपसर्गाणामुपसर्जनप्रकारोपदेशः
    महानाम्नीनाम् ऋचां लोक त्रयसाम्येन प्रशंसा
    विहरणनैरपेक्ष्येणाध्यापकैः प्रज्ञातानां नवानामनुष्टुभां विधिः
    पुरुषविशेषमुपजीव्य विहृताविहृतयोः शस्त्रविशेषयोर्व्यवस्था
    षोळशिशस्त्रस्य परिधानीयाया विधिः.
    याज्यायाः ऋचो विधानं व्याख्या च
    याज्याया ऋचः पादेषूपसर्गविधिः
  5. ऋ. ८.६९.१
  6. ऋ. ८.६९.८
  7. ऋ. ८.६९.१३
  8. ऋ. ८.६९.७
  9. ऋ. १०.९६.१३
  10. आख्यायिका-अतिरात्रक्रतुविधानार्था छन्दसामिन्द्रसहकारित्वप्रदर्शनम् इन्द्रच्छन्दसामसुरनिराकरणत्वाख्यानम् असुरनिराकरणे छन्दसां सौकर्याधिक्येन प्रशंसा छन्दसामपिशर्वरनामव्यवहारस्य हेतुकथनम्
  11. अतिरात्रक्रतौ षोडशिशस्त्रादूर्ध्वं त्रयो रात्रिपर्यायाः शंसनीयाः
    रात्रिपर्यायेषु प्रथमपर्याये होतुः शस्त्रम्
    त्रिष्वेव पर्यायेषु शस्त्रयाज्यायाविधिः
    प्रथमपर्याये प्रयोगविशेषविधिः
    द्वितीयपर्याये
    तृतीयपर्याये
    अतिरात्रक्रतौ पवमानस्तोत्रत्रयस्य रात्रौ प्रयोगाभावः, तत्प्रयोगाभावात् अह्नो रात्रेश्च समानभागयुक्तत्वं कथमिति प्रश्नः
    रात्रेरपि प्रकारान्तरेण पवमानस्तोत्रत्रयविशिष्टत्वमित्युत्तरम्
    पञ्चदशस्तोत्रोपेतमहर्भवति, न तथा रात्रिः तथा च अहश्च रात्रिश्चेत्येते समानभागयुक्ते कथमिति प्रश्नः
    रात्रेरपि प्रकारान्तरेण पञ्चदशस्तोत्रत्वमिति समाधानम्
    अपिशर्वराणि स्तोत्राणि द्वादश
    रथन्तरसाम्ना निष्पाद्यस्य सन्धिस्तोत्रस्य त्रिधात्वम्
    शस्त्रबाहुल्यस्य प्रशंसा, पुनः प्रशंसा च
  12. आख्यायिका-आश्विनशस्त्रविधानार्था
    आश्विनशस्त्रीयर्चां सहस्रस्याश्विनसहस्रमिति पुरातनं नाम
    आश्विनशस्त्रस्य शंसनस्येतिकर्त्तव्यताविधानम्
    शंसने उपस्थानस्य लक्षणविधाने प्रतिपदो विधि।
    प्रतिपद्विधौ विचारः
  13. आग्नेयं काण्डम्
    उषस्यं काण्डम्
    ऐन्द्रं काण्डम्..
    आश्विनं काण्डम्
    आश्विनत्ववर्णनाय प्रश्नोत्तरे
  14. आख्यायिका-आश्विनशस्त्रस्य प्रशंसार्था
    अश्वतरीरथेनाग्नेः आजिधावनम्
    अरुणैर्गोभिरुषसः आजिधावनम्
    अश्वरथेनेन्द्रस्य आजिधावनम्
    गर्दभरथेन आश्विनोराजिधावनम्
    सौर्याणां मन्त्रसमूहानां सङ्ख्याविधानाय विचारः
    त्रयाणां छन्दसां प्रारम्भनिर्णयाय विचारः
  15. ऐन्द्रादिप्रगाथानां विधानाय प्रस्तावः
    तत्र सूर्यमतिलङ्घ्य शंसननिषेधः
    आश्विनशस्त्रे ऐन्द्रप्रगाथस्य शंसनविधिः
    रथन्तरयोनिप्रगाथस्य शंसनविधिः
    मैत्रावरुणप्रगाथस्य शंसनविधिः
    आश्विनशस्त्रस्य चितैधमुक्थमिति नामव्यवहारः
  16. ब्राह्मणस्य परिधानीयायाविधिः
    प्रजापशुकामस्य परिधानीयायाविधिः
    आश्विनशस्त्रस्य तेजोब्रह्मवर्च्चसकामस्य परिधानीयाविधिः
    वेदनपूर्वकानुष्ठानस्य नानाविधाप्रशंसा
    याज्याद्वयविधानम्, तयोः प्रशंसा च
    ब्राह्मणस्पत्यायाः बृहत्याश्च सूर्यानतिक्रमहेतुप्रदर्शनम्
    चतुःसंस्थस्य ज्योतिष्टोमस्य होत्रविधिसमापनम्
  17. गवामयननामसंवत्सरसत्रस्य विधानारम्भः
    एकैकदिनसाध्यस्य सोमप्रयोगस्याहःशब्देन व्यवहारः
    संवत्सरसत्रस्य आद्ये दिवसे अतिरात्रसंस्थस्य सोमस्य प्रयोगविधिः
    द्वितीयदिने उक्थ्यसंस्थस्य सोमस्य प्रयोगविधिः
    अग्निष्टोमसंस्थस्य सोमस्य च प्रयोगविधिः
    द्वितीयदिनस्य आरम्भणीय नाम
    आरम्भणीयनामतात्पर्यकथनम्
    द्वितीयदिने चतुर्विशस्तोमविधिस्तत्प्रशंसा च
    चतुर्विंशस्तोमस्य छन्दोगाम्नातस्वरूपप्रदर्शनम्
    चतुर्विंशनामनिर्वचनम्, तत्स्तोमप्रशंसा च
    गवामयननामविकृतियागे प्रकृतिवत् स्तोत्रशस्त्रविधिः
    आरम्भणीयेऽहनि स्तोत्रसङ्ख्या ऋक्सङ्ख्या च
    षष्ट्यधिकशतत्रयसङ्ख्याकानां स्तोत्रियाणां विधिः
    आरम्भणीयाहस्याग्निष्टोमसंस्थत्वपक्षे बहिष्पवमानमाध्यन्दिन
     पवमानार्भवपवमानस्तोत्रेषु अष्टाचत्वारिंशस्तोमविधिः
    छन्दोगाम्नातमष्टाचत्वारिंशस्तोमस्वरूपम्
  18. पृष्ठस्तोत्रे चोदकप्राप्तस्य विकल्पितस्य सामद्वयस्य विविध प्रशंसा
    गवामयनादिषु सत्रेषु पृष्ठस्तोत्रे बृहद्रथन्तरयोः परित्यागनिषेधः
    पृष्ठस्तोत्रे बृहद्रथन्तरयोरन्यतरपरित्यागे दोषाभावः
    वैरूप-वैराज-शाक्वरसाम्नां परिचयादि
    आरम्भणीयाहस्यानुष्ठानप्रशंसादि -
    सत्रगतस्योत्तरपक्षस्य प्रत्यवरोहविधिः
    संवत्सरसत्रस्य मध्याहस्य विषुवतो दिवाकीर्त्त्यनामहेतुः
  19. संवत्सरसत्रस्य महाव्रतनामके उपान्त्येऽहनि निष्केवल्यशस्त्रे विशेषविधिः
    आद्यान्तयोः प्रायणीयोदयनीययोरतिरात्रसंस्थत्वविधिः
    प्रायणीयोदयनीययोरनुष्ठानस्य तद्वेदनस्य च प्रशंसा
  20. अभिप्लवषडहपूर्वभागानां ज्योतिर्गौरायुरिति याज्ञिक प्रसिद्धानां त्रयाणामह्ना विधानम्
    अभिप्लवषडहोत्तरभागानामायुर्गौर्ज्योतिरिति याज्ञिकप्रसिद्धानां त्रयाणामह्नां विधानम्
    अभिप्लवषडहे संख्याविशेषाणां विधानम्, प्रशंसा च
  21. अभिप्लवषडहस्यैकस्मिन् मासि पञ्चकृत्व आवृत्तेर्विधानम्
    पञ्चसु षडहेषु प्रथमस्य विध्यनुवादप्रशंसे
    द्वितीयस्य, तृतीयस्य
    चतुर्थस्य, पञ्चमस्य
    तस्यैव षडहपञ्चकस्य पुनः प्रशंसा
  22. संवत्सरसत्राणां प्रकृतिभूतस्य गवामयनस्य विधिः
    आख्यायिका-दशमाससम्पाद्यस्य गवामयनस्य प्रशंसा
    द्वादशमाससम्पाद्यस्य गवामयनस्य प्रशंसा
    आदित्यानामयनाङ्गिरसामयनयोः सत्रयोर्विधानार्था
    गवामयनविकृतिरूपस्य आदित्यानामयनस्याहःक्लृप्तिविधानम्
    अङ्गिरसामयनस्याहःक्लृप्तिविधानम्
    आदित्यानामयनाङ्गिरसामयनयोरभिप्लवषडहपृष्ठषडहयोर्वर्णनम्
    गवामयनादिषु सत्रेषु पूर्वोत्तरयोर्मासषट्कयोः मध्यवर्त्तिनो
  23. विषुवन्नामकस्याह्नो विधानम्
    छन्दोगाम्नातस्येकविंशस्तोमस्य स्वरूपवर्णनम्
    एकविंशस्तोमस्यादित्यसाम्येन प्रशंसा, तत्र शाखान्तरीयश्रुतिश्च
    विषुवतोऽह्नः मासषट्कयोरतिरिक्तत्वमादित्यसाम्येन प्रशंसां च
    उभयतः दशकद्वयस्य विधानम्
    स्वरसामाख्यानामह्नां प्रशंसा
    स्वरसामाख्यानामह्नामेव परस्सामेति नामान्तरम्
    स्वरसामाख्येष्वहस्तु सप्तदशस्तोमानां प्रशंसा
    विषुवत एव प्रशंसामभिप्रेत्य तद्रूपत्वेनोपचरितस्यादित्यस्य प्रशंसा
  24. स्वरसामाख्यानामह्नां विधानम्, स्वरसामनामनिर्वचनञ्च
    स्वरसामभ्यः सर्वेभ्योऽधस्तात् अभिजिदाख्यस्याह्नः उपरिष्टात् विश्वजिदाख्यस्याह्नो विधानम्
    विषुवत्यहनि महादिवाकीर्त्त्यादिपञ्चसामविधानम्
    महादिवाकीर्त्त्यस्य परिचयः, तस्य पृष्ठसामत्ववर्णनं च
    विकर्णस्य परिचयः, तस्य ब्रह्मसामत्ववर्णनं च
    भाषाख्यसाम्नः परिचयः, तस्य अग्निष्टोमसामत्ववर्णनं च
    बृहद्रथन्तरयोस्साम्नोर्माध्यन्दिनपवमानार्भवपवमानयोर्गेयत्वम्
    प्रातरनुवाकस्य चोदकप्राप्तकालबाधनाय कालान्तरविधानम्
    गवामयनादिके विकृतौ सवनीयपशुविषये विशेषविधिः
    सामिधेनीविषये विशेषविधिः
    निष्केवल्यशस्त्रे एकपञ्चाशतं द्विपञ्चाशतं वा शस्ता निविदाधानम्
    ततस्तावतीनामेवर्चां शंसनविधानम्
  25. दूरोहणनामकस्य सूक्तस्य शंसनविधिः, तत्प्रशंसा च
    हंसवतीतिप्रसिद्धस्यर्चः शंसनविधिः, तद्व्याख्यानं च
    हंसवतीनाममन्त्रस्य तात्पर्यवर्णंनादि
    स्वर्गकामस्य हंसवतीस्थाने तार्क्ष्यसूक्तशंसनविधिः
    तार्क्ष्यसूक्तस्य प्रथमायाः ऋचो व्याख्यानादि
    द्वितीयस्या ऋचो व्याख्यानादि
    तृतीयस्या ऋचो व्याख्यानादि
  26. दूरोहणसूक्तशंसने आरोहप्रकारोपदेशः
    अवरोहप्रकारोपदेशः
    पशुकामस्य मिथुनसूक्तानां शंसनविधिः
  27. विषुवन्नामकस्याहो मनुष्यसाम्येन प्रशंसा
    विषुवद्विधौ कश्चिद् विचारः, विषुवत्प्रशंसा च
    महाव्रताख्येऽहनि कस्यचित् पशोर्विधानम्, तद्देवताप्रशंसा च
  28. आख्यायिका-द्वादशाहक्रतुविधानार्था
    शाखान्तरीयविधिश्रवणात् द्वादशाहयागस्य विध्युन्नयनम्
    द्वादशाहयागस्य अहःक्लृप्तिप्रदर्शनम्
  29. व्यूढद्वादशाहयागस्य विधिः
    व्यूढद्वादशाहे दीक्षादिसङ्ख्याविकल्पं बाधित्वा नियमः
    उपसस्तु च विशेषविधिः
    द्वादशसु दिनेषु सोमाभिषवविधिः
    दीक्षोपसत्सुत्यादिनसङ्ख्यानां प्रशंसा
    बृहत्यादिच्छन्दोविषयकविचारः
  30. द्वादशाहयागस्य यजनयाजनाधिकारिणोर्निर्णयः
    द्वादशाहे दीक्षां प्राप्तवत्सु यजमानेषु दीक्षाप्राप्तेः प्रशंसा
    यजमानपापविनाशहेतुत्वात् ऋत्विजः प्रशंसा
    द्वादशाहयागस्य ज्येष्ठत्वेन प्रशंसा
    ज्यैष्ठ्यश्रैष्ठ्यहेतुत्वे उदाहरणप्रदर्शनम्
    द्वादशाहयागे पापपुरुषस्य याज्यत्वनिषेधः
    व्यूढद्वादशाहे प्रथमैकादशद्वादशदिनव्यतिरिक्तो यो नवरात्रः, तत्र
    ये त्रयस्त्र्यहाः सम्पन्नाः तेषां प्रशंसा
  31. आख्यायिका-द्वादशाहयागस्य दीक्षायाः कालविशेषविधानार्था
    द्वादशाहयागे दीक्षायाः कालविशेषविधिः
    दीक्षार्थिनालब्धस्य प्राजापत्यपशोर्विधानम्
    आप्रीयाज्यासु च विशेषविधिः
    सामिधेनीषु च विशेषविधिः
    पश्वङ्गे पशुपुरोडाशे च विशेषविधिः
    यथ ऋष्याप्रियो भवन्ति'-इत्यत्र विचारः
    'यद्देवत्यः पशुस्तद्देवत्यः पुरोडाशः' इत्यत्र विचारः
    वायुप्रजापत्योरभिन्नत्वे मन्त्रप्रमाणप्रदर्शनम्
    भरतद्वादशाह-व्यूढद्वादशाहयोः सत्रत्वे बिशेषविषयः
  32. आख्यायिका-व्यूढद्वादशाहप्रशंसार्था
    छन्दसां व्यूहनविधिः, तत्प्रशंसा च
    बृहद्रथन्तरयोः साम्नोः प्रशंसार्था
    श्यैतनौधसयोः साम्नोर्वृष्टिधूमरूपत्वेन प्रशंसा
    देवयजनशब्दस्य विवक्षितार्थव्याख्यानम्
    चन्द्रमसि कृष्णरूपप्रसङ्गाद् यागेषु मुख्यत्वेन शुक्लपक्षस्य विधिः
    पशुशब्दस्य विवक्षितार्थव्याख्यानम् (पुष्टिहेतुः पशुः)
    द्यावापृयिव्योः परस्परमुपकार्योपकारकसम्बन्धवर्णनम्
  33. आख्यायिका-पृष्ठस्तोत्रोपयुक्तसाम्नां विधानार्था
    बृहद्रथन्तरवैरूपवैराजशाक्वररैवतसाम्नामुत्पत्तिकथा
    बृहदादीनां षण्णां साम्नां पृष्ठस्तोत्रसाधनत्ववर्णनम्
    षड्विधपृष्ठस्तोत्रसामाधारत्वेन षड्विधच्छन्दसामुपन्यासः
    गायत्र्यादिकल्पनाप्रकारवेदनपूर्वकानुष्ठानस्य प्रशंसा
    द्वादशाहक्रतौ प्रायणीयं नाम प्रथममहः, उदयनीयं नाम द्वादशमहः,
    अविवाक्यं नामैकादशमहः, तद्व्यतिरिक्तानां नवानामहां
  34. प्रथमेऽहनि देवता-स्तोम-साम-च्छन्दसां विधानम्
  35. प्रथमेऽहनि मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः
    द्वितीयेऽहनि देवता-स्तोम-साम-च्छन्दसां विधानम्
    मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः