सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः १/नानदम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नानदम्.
नानदम्


प्रत्यस्मै पिपीषते विश्वानि विदुषे भर |
अरङ्गमाय जग्मयेऽपश्चादध्वने नरः || १४४० ||, ऋ. ६.४२.१
एमेनं प्रत्येतन सोमेभिः सोमपातमं |
अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः || १४४१ ||
यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ |
वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते || १४४२ ||
अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतं |
कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ||१४४३ ||

१ नानदम् ।।इन्द्रः। अनुष्टुप्। इन्द्रः
ओं।। प्रत्यस्मैपिपी । षताऽ३इ। वाऽ२३४इ । श्वानिविदुषे। भारा।। अरङ्गमायज । ग्मयोऽ२३४हाइ ।। आपश्चादा।। घ्वनोऽ२३४वा । नाऽ५रोऽ६“हाइ ।।श्रीः।। एमेनंप्रत्ये । तनाऽ३। सोऽ२३४ ।। मेभिस्सोमपा । तामाम् ।। अमत्रेभिर्ऋजी । षिणोऽ२३४हाइ । अमत्रेभिर्ऋजी । षिणोऽ२३४हाइ ।। आइन्द्रꣲसूताइ ।। भिरोऽ२३४वा । दूऽ५भोऽ६“हाइ ।। श्रीः ।। यदीसुतेभिरि । दुभाऽ३इः । सोऽ२३४ । मेभिᳲप्रतिभू । षाथा ।। वेदाविश्वस्यमे । धिरोऽ२३४हाइ। । वेदाविश्वस्यमे । धिरोऽ२३४हाइ ।। धार्षत्तान्ताम् । इदोऽ२३४वा । षाऽ५तोऽ६“हाइ ।।
दी २५. उत् ३. मा. १६ बू ।।३७५।।


[सम्पाद्यताम्]

टिप्पणी

अभिजिद् एकाहे नानदं षोडशिसाम - आर्षेयकल्पः अ.३, पृ. १६२

नानदं षोळशि साम कर्तव्यमित्याहुरिन्द्रो वै वृत्राय वज्रमुदयच्छत्तमस्मै प्राहरत्तमभ्यहनत्सोऽभिहतो व्यनदद्यद्व्यनदत्तन्नानदं सामाभवत्तन्नानदस्य नानदत्वमभ्रातृव्यं वा एतद्भ्रातृव्यहा साम यन्नानदमभ्रातृव्यो भ्रातृव्यहा भवति .......तद्यदि नानदं कुर्युरविहृतः षोळशी शंस्तव्यो ऽविहृतासु हि तासु स्तुवते - ऐ.ब्रा. ४.२