ऋग्वेदः सूक्तं १०.९६

विकिस्रोतः तः
← सूक्तं १०.९५ ऋग्वेदः - मण्डल १०
सूक्तं १०.९६
वरुराङ्गिरसः, सर्वहरिर्वा ऐन्द्रः।
सूक्तं १०.९७ →
दे. हरिः। जगती, १२-१३ त्रिष्टुप्
श्रीहरिविष्णु मूर्ति, नेपाल


प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् ।
घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥१॥
हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः ।
आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥२॥
सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः ।
द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥३॥
दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या ।
तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥४॥
त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः ।
त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥५॥
ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी ।
पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥६॥
अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा ।
अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥७॥
हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत ।
अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥८॥
स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।
प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥९॥
उत स्म सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवाँ अचिक्रदत् ।
मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतश्चिदा ॥१०॥
आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् ।
प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥११॥
आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र ।
पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिम् ॥१२॥
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।
ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषञ्जठर आ वृषस्व ॥१३॥


सायणभाष्यम्

प्र ते मह इति त्रयोदशर्चं षष्ठं सूक्तं वरुर्नामांगिरसऋषिः इन्द्रस्य पुत्रः सर्वहरिर्वा नाम द्वादशीत्रयोदश्यौ त्रिष्टुभौ शिष्टा एकादश जगत्यः इन्द्रस्याश्वौ हरी तयोरत्र स्तूयमानत्वात्तद्देव- ताकमिदं तथा चानुक्रान्तं - प्र ते सप्तोना वरुः सर्वहरिर्वेन्द्रो हरिस्तुतिर्द्वित्रिष्टुबन्तं । अतिरात्रे तृतीये पर्याये ब्राह्मणाच्छंसिन एतत्सूक्तं सूत्रितं च – प्र ते मह ऊती शचीवस्तव वीर्येणेति याज्येति । षोडशिशस्त्रेप्याद्यस्तृचः शंसनीयः । सूत्रितं च- प्र ते महे विदथे शंसिषं हरी इति तिसो जगत्य इति ।


प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म् ।

घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥१

प्र । ते॒ । म॒हे । वि॒दथे॑ । शं॒सि॒ष॒म् । हरी॒ इति॑ । प्र । ते॒ । व॒न्वे॒ । व॒नुषः॑ । ह॒र्य॒तम् । मद॑म् ।

घृ॒तम् । न । यः । हरि॑ऽभिः । चारु॑ । सेच॑ते । आ । त्वा॒ । वि॒श॒न्तु॒ । हरि॑ऽवर्पसम् । गिरः॑ ॥१

प्र । ते । महे। विदथे । शंसिषम् । हरी इति । प्र । ते । वन्वे । वनुषः । हर्यतम् । मदम् ।।

घृतम् । न । यः । हरिऽभिः । चारु । सेचते । आ । त्वा । विशन्तु । हरिऽवर्पसम् । गिरः॥१॥

हे इन्द्र “ते तव “हरी अश्वौ “महे महति “विदथे यज्ञे “प्र “शंसिषम् अशंसिषम् । अस्ताविषम्। तथा “वनुषः । वनु हिंसायाम्' । हिंसकस्य “ते तव “हर्यतम् । ‘हर्य गतिकान्त्योः ' । तस्यौणादिकोऽतच् । चित्स्वरेणान्तोदात्तः । कमनीयं “मदं “प्र “वन्वे प्रयाचेऽस्मदभिमतम् ।' वनु याचने'। “यः इन्द्रः “हरिभिः हरितवर्णैरश्वैः मद्यागं गत्वा “चारु चरणीयं “घृतं न घृतमिव सुपूतमुदकं “सेचते वर्षति तं तादृशं “हरिवर्पसम्। वर्प इति रूपनाम । हरितरूपं “त्वा त्वाम् “आ “विशन्तु “गिरः अस्मदीयाः स्तुतिवाचस्तव मदाय ॥


हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ ।

आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥२

हरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्तः॑ । हरी॒ इति॑ । दि॒व्यम् । यथा॑ । सदः॑ ।

आ । यम् । पृ॒णन्ति॑ । हरि॑ऽभिः । न । धे॒नवः॑ । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् । अ॒र्च॒त॒ ॥२

हरिम्। हि । योनिम्। अभि। ये। सम्ऽअस्वरन् । हिन्वन्तः । हरी इति । दिव्यम् । यथा। सदः।

आ। यम् । पृणन्ति । हरिऽभिः । न । धेनवः । इन्द्राय । शूषम् । हरिऽवन्तम् । अर्चत ॥२॥


ये पूर्वे स्तोतार ऋषयो योनिं इन्द्रस्य स्थानभूतं हरिं अश्वं अभिसमस्वरन् । स्वृ शब्दोपतापयोः। अभिसंस्तुवन्ति किं कुर्वन्तः दिव्यं देवसंबन्धि सदोयागगृहं यथा प्रेरयन्तीन्द्रं तथा हरी अश्वौ हिन्वन्तः प्रेरयन्तः सोमेभिषुते सति स्वयमेवेन्द्रो रथेश्वौ प्रेरयति अतः स्तोतॄणां हरि- प्रेरणत्वं । यद्वा दिव्यं सदः इन्द्रः प्राप्नुयात्तथा हरिं रथाय स्तुतिभिर्हिन्वन्तः प्रेरयन्तः यमिन्द्रं धेनवः नवप्रसूतागावो यथा पृणन्ति क्षीरादिभिः । अत्र पुरस्तादुपचारोपि नकारउपमार्थीयः । हरिभिः हरितवर्णैः सोमैरापृणन्ति पूरयन्ति तथा यूयमपीन्द्रायेन्द्रस्य हरिवन्त शूषं बलं अर्चत पूजयत हे स्तोतारः स्तुतिभिः ।। २ ।।


सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः ।

द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥३

सः । अ॒स्य॒ । वज्रः॑ । हरि॑तः । यः । आ॒य॒सः । हरिः॑ । निऽका॑मः । हरिः॑ । आ । गभ॑स्त्योः ।

द्यु॒म्नी । सु॒ऽशि॒प्रः । हरि॑मन्युऽसायकः । इन्द्रे॑ । नि । रू॒पा । हरि॑ता । मि॒मि॒क्षि॒रे॒ ॥३

सः । अस्य । वज्रः । हरितः । यः । आयसः । हरिः । निऽकामः । हरिः । आ । गभस्त्योः ।

द्युम्नी । सुऽशिप्रः । हरिमन्युऽसायकः । इन्द्रे । नि । रूपा । हरिता । मिमिक्षिरे ॥३

अस्येन्द्रस्य वज्रो हरितो हरितवर्णः य आयसः अयसःसारभूतोस्ति निर्मितः स च हरिर्हरितवर्णो- वज्रो निकामः नितरां कमनीयः स आहन्ता शत्रूणां तादृशो वज्रो गभस्त्योः हस्तयोर्वतते इति शेषः । अयमिन्द्रो द्युम्नी द्युम्नं द्योतमानं धनं तद्वान् सुशिप्रः शोभनहनुः हरिमन्युसायकः यस्य मन्युः सायकः शत्रुहन्ताभिगन्ता वा भवति। यद्वा शत्रुहन्ता कोपः सायकश्च यस्य स तादृशो भवति । किं च बहूनां इन्द्रे रूपा रूपाणि सर्वाणि हरिता हरितानि निमिमिक्षिरे निषिक्तानि बभूवुः मिहेः सन्नन्तात्कर्मणि लिटि रूपं ।। ३ ।।


दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ ।

तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ॥४

दि॒वि । न । के॒तुः । अधि॑ । धा॒यि॒ । ह॒र्य॒तः । वि॒व्यच॑त् । वज्रः॑ । हरि॑तः । न । रंह्या॑ ।

तु॒दत् । अहि॑म् । हरि॑ऽशिप्रः । यः । आ॒य॒सः । स॒हस्र॑ऽशोकाः । अ॒भ॒व॒त् । ह॒रि॒म्ऽभ॒रः ॥४

दिवि । न । केतुः । अधि । धायि । हर्यतः । विव्यचत् । वज्रः । हरितः । न । रंह्या ।

तुदत् । अहिम् । हरिऽशिप्रः । यः । आयसः । सहस्रऽशोकाः । अभवत् । हरिम्ऽभरः ॥४

दिव्यन्तरिक्षे केतुः प्रकाशेन सर्वस्य प्रज्ञापक आदित्य इव स यथा अधिनिहितः एवमयमिन्द्रः अधिधायि अध्यधायि स्तोतृभिरधिनिहितः किंचेन्द्रस्य वज्रः हर्यतः स्पृहणीयः सन्विव्यचत् विव्याप्नोति व्याप्तव्यं शत्रुसंघं । तव दृष्टान्तः-हरितो न हरितवर्णा अध्वा हर्तारो- वा अश्वाआदित्यसंबन्धिनस्ते यथा रंह्या रंहणेन वेगेन व्याप्नुवन्ति व्याप्तव्यं योस्य वज्रः आयसः अयोविकारः अहिं वृत्रं मेघं वा तुदत् हिनस्ति योयं महानुभावो हरिशिप्रः सोमपान- रभसेन हरितवर्णनासिकः तद्वर्णहनुर्वा हरिंभरः हर्योर्भर्ता इन्द्रः सहस्रशोकाः अभवत् शुच दीप्तौ अपरिमितदीप्तिर्भवति ।। ४ ।।


त्वंत्व॑महर्यथा॒ उप॑स्तुत॒ः पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः ।

त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥५

त्वम्ऽत्व॑म् । अ॒ह॒र्य॒थाः॒ । उप॑ऽस्तुतः । पूर्वे॑भिः । इ॒न्द्र॒ । ह॒रि॒ऽके॒श॒ । यज्व॑ऽभिः ।

त्वम् । ह॒र्य॒सि॒ । तव॑ । विश्व॑म् । उ॒क्थ्य॑म् । असा॑मि । राधः॑ । ह॒रि॒ऽजा॒त॒ । ह॒र्य॒तम् ॥५

त्वम्ऽत्वम् । अहर्यथाः । उपऽस्तुतः । पूर्वेभिः । इन्द्र । हरिऽकेश । यज्वऽभिः ।

त्वम् । हर्यसि । तव । विश्वम् । उक्थ्यम् । असामि । राधः । हरिऽजात । हर्यतम् ॥५

हे इन्द्र हे हरिकेश हरितरोमवदश्व त्वं त्वमेव सर्वत्र यज्ञे अहर्यथाः अकामयथाः स्तोत्रं हविर्वा ।कीदृशस्त्वं पूर्वेभिः पूर्वतनैर्यज्वभिर्यजमानैरुपस्तुतः सन् हे हरिजात हरितवर्णः सन् प्रादुर्भूत हारकप्रादुर्भाव वा शत्रुवधार्थं प्रादुर्भूतेत्यर्थः हे तादृशेन्द्र त्वं तव स्वभूतमिति शेषः विश्वं व्याप्तं सोमचरुपुरोडाशादिरूपं सर्वं वा यद्वा यत्र यानि यानि हवींषि दीयन्ते तत्सर्वंं वा तथा उक्थ्यं प्रशस्यं असामि असाधारणं असमं कृत्स्नं हर्यतं कान्तं राधोन्नं हविर्लक्षणं हर्यसि कामयसे ।। ५ ।।


ता व॒ज्रिणं॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ ।

पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥६

ता । व॒ज्रिण॑म् । म॒न्दिन॑म् । स्तोम्य॑म् । मदे॑ । इन्द्र॑म् । रथे॑ । व॒ह॒तः॒ । ह॒र्य॒ता । हरी॒ इति॑ ।

पु॒रूणि॑ । अ॒स्मै॒ । सव॑नानि । हर्य॑ते । इन्द्रा॑य । सोमाः॑ । हर॑यः । द॒ध॒न्वि॒रे॒ ॥६

ता । वज्रिणम् । मन्दिनम् । स्तोम्यम् । मदे । इन्द्रम् । रथे । वहतः । हर्यता । हरी इति ।

पुरूणि । अस्मै । सवनानि । हर्यते । इन्द्राय । सोमाः । हरयः । दधन्विरे ॥६

ता तौ प्रसिद्धौ हर्यता हर्यतौ गन्तारौ कान्तौ वा हरी हरितवर्णौ अश्वौ मन्दिनं मोदमानं स्तोम्यं स्तुत्यर्हं वज्रिणमिन्द्रं मदे निमित्ते रथे वहतः धारयतः यज्ञमस्मदीयं प्रापयतः अस्मै हर्यते कान्तायेन्द्राय पुरूणि बहूनि सवनानि प्रातरादीनि हरयो हरितवर्णाः सोमा दधन्विरे निधीयन्ते ।। ६ ।।


अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा ।

अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥७

अर॑म् । कामा॑य । हर॑यः । द॒ध॒न्वि॒रे॒ । स्थि॒राय॑ । हि॒न्व॒न् । हर॑यः । हरी॒ इति॑ । तु॒रा ।

अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । जोष॑म् । ईय॑ते । सः । अ॒स्य॒ । काम॑म् । हरि॑ऽवन्तम् । आ॒न॒शे॒ ॥७

अरम् । कामाय । हरयः । दधन्विरे । स्थिराय । हिन्वन् । हरयः । हरी इति । तुरा ।

अर्वत्ऽभिः । यः । हरिऽभिः । जोषम् । ईयते । सः । अस्य । कामम् । हरिऽवन्तम् । आनशे ॥७

अरमलं पर्याप्तं कामायेन्द्रकामनाय हरयो हरितवर्णाः सोमा दधन्विरे ते च हरयः स्थिराय युद्धे अपालितायेन्द्राय तुरा तुरौ त्वरमाणौ हरी अश्वौ हिन्वन् प्रेरयन्ति यः अर्वद्भिररणकुशलैर्हरिभिरश्वैर्जोषं शरैः सेव्यं संग्राममीयते गच्छति स रथोस्येन्द्रस्य स्वभूतं कामं कमनीयं हरिवन्तं सोमवन्तं यज्ञं आनशे व्याप्नोति ।। ७ ।।


हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत ।

अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥८

हरि॑ऽश्मशारुः । हरि॑ऽकेशः । आ॒य॒सः । तु॒रः॒ऽपेये॑ । यः । ह॒रि॒ऽपाः । अव॑र्धत ।

अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । वा॒जिनी॑ऽवसुः । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । पारि॑षत् । हरी॒ इति॑ ॥८

हरिऽश्मशारुः । हरिऽकेशः । आयसः । तुरःऽपेये । यः । हरिऽपाः । अवर्धत ।

अर्वत्ऽभिः । यः । हरिऽभिः । वाजिनीऽवसुः । अति । विश्वा । दुःऽइता । पारिषत् । हरी इति ॥८

हरिश्मशारुर्हरितवर्णश्मश्रुः हरिकेशः हरितवर्णकेशः आयसः अयोमयहृदयोस्य शत्रूणां घातक इत्यर्थः एतादृशो य इन्द्रः तुरस्पेये तूर्णं पातव्ये सोमे हरिपाः हरितवर्णसोमपाः अवर्धत वर्धते यश्चार्वद्भिगन्तृभिहरिभिरश्वैः सोमैर्वा वाजिनीवसुः वाजिनमन्नं हविर्लक्षणं तदस्यास्तीति वाजिनी क्रिया सैव वसु धनं यस्य स तथोक्तः यज्ञधन इत्यर्थः । यद्वा वाजिनमेव वाजिनो तदेव धनं यस्य स एवमुक्तलक्षणइन्द्रो हरी रथे योजयित्वा विश्वा विश्वानि सर्वाणि दुरिता अस्माकं दुरितानि पारिषत् पारयतु पारयतेर्लेटि सिप्यडागमः ।। ८ ।।


स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततु॒ः शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः ।

प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥९

स्रुवा॑ऽइव । यस्य॑ । हरि॑णी॒ इति॑ । वि॒ऽपे॒ततुः॑ । शिप्रे॒ इति॑ । वाजा॑य । हरि॑णी॒ इति॑ । दवि॑ध्वतः ।

प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ॑जत् । हरी॒ इति॑ । पी॒त्वा । मद॑स्य । ह॒र्य॒तस्य॑ । अन्ध॑सः ॥९

स्रुवाऽइव । यस्य । हरिणी इति । विऽपेततुः । शिप्रे इति । वाजाय । हरिणी इति । दविध्वतः ।

प्र । यत् । कृते । चमसे । मर्मृजत् । हरी इति । पीत्वा । मदस्य । हर्यतस्य । अन्धसः ॥९

यस्येन्द्रस्य हरिणी हरितवर्णावश्वौ विपेततुः रथे इन्द्रमारोप्य विपततो यज्ञमस्मदीयं । यद्वा यस्य हरिणी हरितवर्णे कनीनिके विपेततुः सोमं प्रति विपततः तत्र दृष्टान्तः-स्रुवेव यथा स्रुवा स्रुवौ हविषा पूर्णौ पात्रविशेषौ होमार्थं विपततः तद्वत् । तथा यस्य च हरिणी हरितवर्णे शिप्रे हनू वाजाय सोमलक्षणायान्नाय दविध्वतः कंपयतः पुरतः प्रत्तस्य सोमस्य प्रीत्या चलतः तथा यद्यदा कृते संस्कृते चमसे वर्तमानं मदस्य मदकरं हर्यतस्य कान्तं अन्धसोन्नं सोमं पीत्वा हरी अश्वौ प्रमर्मृजत् प्रमार्ष्टि तदानीं स्तुत इत्यर्थः ।। ९ ।।


उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॒॑रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् ।

म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ॥१०

उ॒त । स्म॒ । सद्म॑ । ह॒र्य॒तस्य॑ । प॒स्त्योः॑ । अत्यः॑ । न । वाज॑म् । हरि॑ऽवान् । अ॒चि॒क्र॒द॒त् ।

म॒ही । चि॒त् । हि । धि॒षणा॑ । अह॑र्यत् । ओज॑सा । बृ॒हत् । वयः॑ । द॒धि॒षे॒ । ह॒र्य॒तः । चि॒त् । आ ॥१०

उत । स्म । सद्म । हर्यतस्य । पस्त्योः । अत्यः । न । वाजम् । हरिऽवान् । अचिक्रदत् ।

मही । चित् । हि । धिषणा । अहर्यत् । ओजसा । बृहत् । वयः । दधिषे । हर्यतः । चित् । आ ॥१०

उतापि च हर्यतस्य कमनीयस्येन्द्रस्य सद्म सदनं पस्त्योः द्यावापृथिव्योः संबन्धि । सोऽयमत्यो न अश्व इव वाजं संग्रामं हरिवान् अश्ववान् अचिक्रदत् गच्छति । तथा हि यस्मात् हे इन्द्र त्वां मही महती धिषणा स्तुतिरोजसा बलेन युक्तमिन्द्रं अहर्यत्कामयते चिदिति पूरणः अतो वाजमचिक्रदत् तथा सति हे इन्द्र हर्यतः कामयमानस्य यजमानस्य बृहत् महत् वयोन्नं आदधिषे आप्रयच्छसि । चिदिति पूरणः ।। १० ।।


आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् ।

प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥११

आ । रोद॑सी॒ इति॑ । हर्य॑माणः । म॒हि॒ऽत्वा । नव्य॑म्ऽनव्यम् । ह॒र्य॒सि॒ । मन्म॑ । नु । प्रि॒यम् ।

प्र । प॒स्त्य॑म् । अ॒सु॒र॒ । ह॒र्य॒तम् । गोः । आ॒विः । कृ॒धि॒ । हर॑ये । सूर्या॑य ॥११

आ । रोदसी इति । हर्यमाणः । महिऽत्वा । नव्यम्ऽनव्यम् । हर्यसि । मन्म । नु । प्रियम् ।

प्र । पस्त्यम् । असुर । हर्यतम् । गोः । आविः । कृधि । हरये । सूर्याय ॥११

हे इन्द्र हर्यमाणः कामयमानो महित्वा महत्वेन रोदसी द्यावापृथिव्यौ आपूरयसीति शेषः । तथा नव्यंनव्यं नवतरं प्रियं प्रियकरं मन्म मननीयं स्तोत्रं नु क्षिप्रं हर्यसि कामयसे हे असुर बलवन् असुः प्राणः तद्वन् मत्वर्थीयोरः तादृशेन्द्र गोः जातावेकवचनं गवां हर्यतं स्पृहणीयं पस्त्यं गृहं गोरुदकस्योक्तगुणकं स्थानं वा हरये उदकस्य हर्त्रे सूर्याय प्र- प्रकर्षेण आविष्कृधि प्रकटीकुरु ।। ११ ।।


आ त्वा॑ ह॒र्यन्तं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र ।

पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ॥१२

आ । त्वा॒ । ह॒र्यन्त॑म् । प्र॒ऽयुजः॑ । जना॑नाम् । रथे॑ । व॒ह॒न्तु॒ । हरि॑ऽशिप्रम् । इ॒न्द्र॒ ।

पिब॑ । यथा॑ । प्रति॑ऽभृतस्य । मध्वः॑ । हर्य॑न् । य॒ज्ञम् । स॒ध॒ऽमादे॑ । दश॑ऽओणिम् ॥१२

आ । त्वा । हर्यन्तम् । प्रऽयुजः । जनानाम् । रथे । वहन्तु । हरिऽशिप्रम् । इन्द्र ।

पिब । यथा । प्रतिऽभृतस्य । मध्वः । हर्यन् । यज्ञम् । सधऽमादे । दशऽओणिम् ॥१२

हे इन्द्र हरिशिप्रं हरितवर्णशिप्रं त्वा त्वां हर्यतं यज्ञं कामयमानं प्रयुजो रथे प्रयुक्ताअश्वा रथे स्थापयित्वा जनानां ऋत्विग्यजमानानां अन्तिकं प्रति वहन्तु प्रापयन्तु यथा येन प्रकारेण प्रतिभृतस्य गृहादिषु संवृतं मध्वो मधु सोमरसं यज्ञं यागसाधनं दशोणिं ओणयोंगुलयः दशभिरंगुलीभिः संपादितं सोमं हर्यन् कामयमानः सन्पिब पिबसि सधमादे संग्रामे जयार्थं तथा वहन्त्वित्यर्थः ।। १२ ।।


अपा॒ः पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते ।

म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ॥१३

अपाः॑ । पूर्वे॑षाम् । ह॒रि॒ऽवः॒ । सु॒ताना॑म् । अथो॒ इति॑ । इ॒दम् । सव॑नम् । केव॑लम् । ते॒ ।

म॒म॒द्धि । सोम॑म् । मधु॑ऽमन्तम् । इ॒न्द्र॒ । स॒त्रा । वृ॒ष॒न् । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ ॥१३

अपाः । पूर्वेषाम् । हरिऽवः । सुतानाम् । अथो इति । इदम् । सवनम् । केवलम् । ते ।

ममद्धि । सोमम् । मधुऽमन्तम् । इन्द्र । सत्रा । वृषन् । जठरे । आ । वृषस्व ॥१३

हे इन्द्र त्वं सुतानामभिषुतानां पूर्वेषां प्रातःसवने संपादितानां कर्मणि षष्ठ्यावेते अभिषुतान्प्रातःसवनिकान्सोमानित्यर्थः तानपाः अपिबः हे हरिव इतीन्द्रसंबोधनं हरिभ्यामश्वा-भ्यां तद्वन्यद्वा ऋक्सामात्मकाभ्यां हरिभ्यां युक्त ।ऋक्सामे वा इन्द्रस्य हरी ।ताभ्यामेष हरतीति ब्राह्मणं । अथो अपि चेदं माध्यंदिनसवनं केवलं ते तवैवासाधारणं । माध्यंदिनं सवनं केवलं त इति हि मंत्रान्तरं । तस्मिन्हे इन्द्र मधुमन्तं माधुर्योपेतं सोमं ममद्धि पिब आस्वादयेत्यर्थः। मदिरत्रास्वादनकर्मा पिबन्तु मदन्तु वियंत्विति च मंत्रः । सत्रावृषन् सत्रा शब्दो भूयिष्ठवचनः हे भूयिष्ठं वर्षितरिन्द्र जठरे आवृषस्व आसिंचस्व ।। १३ ।।

[सम्पाद्यताम्]

टिप्पणी

तुलनीयं - ऋग्वेदः १.८२

  • शाखान्तरे(आश्वलायनशाखीया, सम्पादकः व्रजबिहारी चौबे) वरुराङ्गिरसः स्थाने वरुणाङ्गिरसः ऋषिः उल्लिखितं अस्ति। वरु शब्देन वरप्राप्तिइच्छुकस्य संकेतं भवति। यदि वरः श्रेष्ठतावाचकः भवेत्, तर्हि वरु शब्देन श्रेष्ठताप्राप्तिकामस्य संकेतं भवेत्। यदि वरु स्थाने वलु भवेत्, एवं हरि स्थाने हलं भवेत्, तर्हि वल - संवरणे(प्रसारे)(काशकृत्स्न धातुकोशः १.४९७) अनुसारे यस्य ऊर्जा विकीर्णिता अस्ति, तस्योपायं हलेन तस्याः संवरणम् अस्ति।

विषुवत्कालः - दुरोहणम्--प्र ते महे विदथे शंसिषम् हरी इति । तस्य नव शस्त्वा आहूय निविदम् दधाति । आविष् कृधि हरये सूर्याय इति सूर्यवत् । तद् एतस्य अह्नो रूपम् ।- कौ.ब्रा. २५.७

एष ब्रह्मा प्र ते महे विदथे शंसिषं हरी इति द्विपदाश्च जगतीश्च व्यतिषजति द्विपाद्वै पुरुषो जागताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति - ऐ.ब्रा. ४.३

एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गणे प्र ते महे विदथे शꣳसिषꣳ हरी । य ऋत्वियः प्र ते वन्वे वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यो हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु हरिवर्पसं गिर इति सर्वेषु ग्रहणेषु षोडशिनमभिमन्त्रयते । - हिरण्यकेशिश्रौतसू. ९.७

एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतो गणे । प्र ते महे विदथे शंसिषं हरी । य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरिवर्पसं गिर इत्येताभिश्चतसृभिः सन्नमभिमन्त्र्य आप.श्रौ.सू १४.२. १३

छन्दसां पदानां व्यतिषजनं(परस्परप्रतिस्थापनं) केन कारणेन अस्ति। पद्मपुराणे १.१४ एवं स्कन्दपुराणे ५.१.३ ब्रह्मणः एवं विष्णोः नरयोः व्यतिषजनस्य कथा अस्ति।

http://puraana.tripod.com/pur_index30/hari.htm हरिरुपरि डा. श्रद्धा चौहानस्य अभिव्यक्तिः]

यथा स्कन्दपुराणे ६.२४७.४१कथितमस्ति, अश्वत्थवृक्षस्य पत्रेषु हरिः वासं करोति। पुराणेषु पत्रस्य कार्यद्वयोः उल्लेखमस्ति - पितृपालनं एवं विशेषम्। पितृपालनं अर्थात् देहधारणार्थं ये शक्तयः अपेक्षिताः सन्ति, तेषां भरणम्। इतः परि विशेषः आरभ्यते। शूद्रतः ब्राह्मणत्वे क्रमणं, ब्राह्मणतः देवत्वे क्रमणं एतानि विशेषाणि सन्ति।

प्रस्तुत सूक्ते आयसः शब्दस्य त्रिवारं उल्लेखमस्ति। शुक्लयजुर्वेदे ५.८ आदिषु उपसदिष्ट्याः संदर्भे कथनमस्ति - या ते ऽ अग्ने ऽयःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचोऽअपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते ऽ अग्ने रजःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते अग्ने हरिशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ॥ प्रथमउपसदिष्ट्यां अग्नेः आयसीतनुर्भवति, द्वितीययां राजसी, तृतीययां हरिण्ययी।

१०.९६.६ ता वज्रिणं मन्दिनं स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी इति -

शतपथब्राह्मणे ४.४.३ हारियोजनग्रहस्य कथनमस्ति। हारियोजनग्रहस्य प्रतिष्ठा सोमयागस्य अन्तिमचरणे भवति। तत्र कथनमस्ति यत् ऋक् एवं साम इन्द्रस्य रथस्य हरीद्वयौ भवन्ति। इतः पूर्वं ऋचा ४ मध्ये हरितो न रंह्या इति कथनमस्ति। रंहिः मनुष्यरथस्य भवति।]]


१०.९६.१३ अपाः पूर्वेषां हरिवः इति

अपाः पूर्वेषां हरिवः सुतानामिति यजति पीतवद्वै प्रातःसवनम्प्रातःसवनादेवैनं तत्संनिर्मिमीतेऽथो इदं सवनं केवलं त इति माध्यंदिनं वै सवनं केवलम्माध्यंदिनादेवैनं तत्सवनात्संनिर्मिमीते ममद्धि सोमम्मधुमन्तमिन्द्रेति मद्वद्वै तृतीयसवनं तृतीयसवनादेवैनं तत्संनिर्मिमीते - ऐब्रा ४.४



मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.९६&oldid=342198" इत्यस्माद् प्रतिप्राप्तम्