ऋग्वेदः सूक्तं १०.६४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.६४ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १०.६३ ऋग्वेदः - मण्डल १०
सूक्तं १०.६४
गयः प्लातः
सूक्तं १०.६५ →
दे. विश्वे देवाः। जगती, १२, १६, १७ त्रिष्टुप् ।


कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वतां मनामहे ।
को मृळाति कतमो नो मयस्करत्कतम ऊती अभ्या ववर्तति ॥१॥
क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः ।
न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ॥२॥
नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा ।
सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातमुषसमक्तुमश्विना ॥३॥
कथा कविस्तुवीरवान्कया गिरा बृहस्पतिर्वावृधते सुवृक्तिभिः ।
अज एकपात्सुहवेभिरृक्वभिरहिः शृणोतु बुध्न्यो हवीमनि ॥४॥
दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि ।
अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥५॥
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।
सहस्रसा मेधसाताविव त्मना महो ये धनं समिथेषु जभ्रिरे ॥६॥
प्र वो वायुं रथयुजं पुरंधिं स्तोमैः कृणुध्वं सख्याय पूषणम् ।
ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः ॥७॥
त्रिः सप्त सस्रा नद्यो महीरपो वनस्पतीन्पर्वताँ अग्निमूतये ।
कृशानुमस्तॄन्तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे ॥८॥
सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तु वक्षणीः ।
देवीरापो मातरः सूदयित्न्वो घृतवत्पयो मधुमन्नो अर्चत ॥९॥
उत माता बृहद्दिवा शृणोतु नस्त्वष्टा देवेभिर्जनिभिः पिता वचः ।
ऋभुक्षा वाजो रथस्पतिर्भगो रण्वः शंसः शशमानस्य पातु नः ॥१०॥
रण्वः संदृष्टौ पितुमाँ इव क्षयो भद्रा रुद्राणां मरुतामुपस्तुतिः ।
गोभिः ष्याम यशसो जनेष्वा सदा देवास इळया सचेमहि ॥११॥
यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम् ।
तां पीपयत पयसेव धेनुं कुविद्गिरो अधि रथे वहाथ ॥१२॥
कुविदङ्ग प्रति यथा चिदस्य नः सजात्यस्य मरुतो बुबोधथ ।
नाभा यत्र प्रथमं संनसामहे तत्र जामित्वमदितिर्दधातु नः ॥१३॥
ते हि द्यावापृथिवी मातरा मही देवी देवाञ्जन्मना यज्ञिये इतः ।
उभे बिभृत उभयं भरीमभिः पुरू रेतांसि पितृभिश्च सिञ्चतः ॥१४॥
वि षा होत्रा विश्वमश्नोति वार्यं बृहस्पतिररमतिः पनीयसी ।
ग्रावा यत्र मधुषुदुच्यते बृहदवीवशन्त मतिभिर्मनीषिणः ॥१५॥
एवा कविस्तुवीरवाँ ऋतज्ञा द्रविणस्युर्द्रविणसश्चकानः ।
उक्थेभिरत्र मतिभिश्च विप्रोऽपीपयद्गयो दिव्यानि जन्म ॥१६॥
एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी ।
ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥१७॥

सायणभाष्यम्

' कथा ' इति सप्तदशर्चं चतुर्थं सूक्तं प्लातस्य गयस्यार्षं वैश्वदेवम् । ' यां मे धियम् ' इत्येषा द्वादशी षोडशीसप्तदश्यौ च त्रिष्टुभः शेषा जगत्यः । तथा चानुक्रान्त-' कथा यां मे त्रिष्टुप् ' इति । गतो विनियोगः ।।

क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ शृण्व॒तां म॑नामहे ।

को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ॥१

क॒था । दे॒वाना॑म् । क॒त॒मस्य॑ । याम॑नि । सु॒ऽमन्तु॑ । नाम॑ । शृ॒ण्व॒ताम् । म॒ना॒म॒हे॒ ।

कः । मृ॒ळा॒ति॒ । क॒त॒मः । नः॒ । मयः॑ । क॒र॒त् । क॒त॒मः । ऊ॒ती । अ॒भि । आ । व॒व॒र्त॒ति॒ ॥१

कथा । देवानां । कतमस्य । यामनि । सुऽमन्तु । नाम । शृण्वताम् । मनामहे ।

कः । मृळाति । कतमः । नः । मयः । करत् । कतमः । ऊती । अभि । आ । ववर्तति।। १ ।।

ऋषिर्बहुधात्मानं वितर्कयति । यामनि । यान्ति गच्छन्त्यत्रेति यामा यज्ञः । तस्मिन् शृण्वताम् अस्माभिरुक्तानि स्तोत्राणि देवानां मध्ये कतमस्य देवस्य सुमन्तु सुष्ठु मननीयं स्तोतव्यं नाम कथा कथं मनामहे उच्चारयामः । अस्मान् कः वा मृळाति । ' मृळतिरुपदयाकर्मा ' ( निरु. १०. १५) इति यास्कः । कृपां करोति । कतमः वा नः अस्माकं मयः सुखं करत् करोति । कतमः वा ऊती । चतुर्थ्याः पूर्वसवर्णदीर्घः । ऊत्यै अस्माकं रक्षणाय अभ्या ववर्तति अभ्यागच्छतीत्यर्थः ।।


क्र॒तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन॑न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ ।

न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ॥२

क्र॒तु॒ऽयन्ति॑ । क्रत॑वः । हृ॒त्ऽसु । धी॒तयः॑ । वेन॑न्ति । वे॒नाः । प॒तय॑न्ति । आ । दिशः॑ ।

न । म॒र्डि॒ता । वि॒द्य॒ते॒ । अ॒न्यः । ए॒भ्यः॒ । दे॒वेषु॑ । मे॒ । अधि॑ । कामाः॑ । अ॒यं॒स॒त॒ ॥२

क्रतुऽयन्ति । क्रतवः । हृत्ऽसु । धीतयः । वेनन्ति । वेनाः । पतयन्ति । आ । दिशः ।

न । मर्डिता । विद्यते । अन्यः । एभ्यः । देवेषु । मे । अधि । कामाः । अयंसत ॥२


हृत्सु हृदयेषु धीतयः निधातव्या निहिताः क्रतवः प्रज्ञाः क्रतूयन्ति अग्निहोत्रादिकर्म कर्तुमिच्छन्ति । तदेवाह । वेनाः कान्ताः प्रज्ञाः वेनन्ति देवान् कामयन्ते । ' वेनो वेनतेः कान्तिकर्मणः ' ( निरु. १०. ३८) इति यास्कः । तथा दिशः अस्माभिर्निर्दिश्यमानाः प्रेर्यमाणाः कामाः आ पतयन्ति देवान् फलावाप्तय आगच्छन्ति । यतः एभ्यः देवेभ्यः अन्यः देवः एषां कामानां मर्डिता सुखयिता न विद्यते । किं बहुना । देवेषु अधि । अधिशब्दः सप्तम्यर्थद्योतकः । इन्द्रादिषु देवेषु मे मदीयाः कामाः अयंसत नियम्यन्ते । यच्छतेः कर्मणि लुङि रूपम् ।।


नरा॑ वा॒ शंसं॑ पू॒षण॒मगो॑ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा ।

सूर्या॒मासा॑ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ॥३

नरा॒शंस॑म् । वा॒ । पू॒षण॑म् । अगो॑ह्यम् । अ॒ग्निम् । दे॒वऽइ॑द्धम् । अ॒भि । अ॒र्च॒से॒ । गि॒रा ।

सूर्या॒मासा॑ । च॒न्द्रम॑सा । य॒मम् । दि॒वि । त्रि॒तम् । वात॑म् । उ॒षस॑म् । अ॒क्तुम् । अ॒श्विना॑ ॥३

नराशंसम् । वा । पूषणम् । अगोह्यम् । अग्निम् । देवऽइद्धम् । अभि । अर्चसे । गिरा ।

सूर्यामासा । चन्द्रमसा । यमम् । दिवि । त्रितम् । वातम् । उषसम् । अक्तुम् । अश्विना ॥३


ऋषिः स्वात्मानं संबोध्याह । नराशंसम् । ' उभे वनस्पत्यादिषु युगपत् ' इत्युभयपदप्रकृतिस्वरत्वम् । संहितायां विप्रकर्षश्छान्दसः । नरैः शंसनीयमेतन्नामानं पूषणं स्तोतॄणां धनदानेन पोषकमेतन्नामानं तथा अगोह्यम् अगृहितमन्यैर्गन्तुमशक्यं देवेद्धं वामदेवादिभिर्ऋषिभिर्दीपितम् अग्निं च गिरा स्तुत्या अभ्यर्चसे अभिष्टुहि । तथा सूर्यामासा चन्द्रमसा । मा इति चन्द्रमसो विशेषणम् । माति पक्षमिति माश्चन्द्रमाः । तौ सूर्याचन्द्रमसौ दिवि द्युलोके स्थितं यमं च त्रितं त्रिषु लोकेषु ततं स्वमहिम्ना विस्तृतं त्रिस्थानं वा तमिन्द्रं वातं वायुम् उषसम् उषःकालम् अक्तुं रात्रिम् अश्विना अश्विनौ चैतान्देवान् तत्तल्लिङ्गैः स्तोत्रैरभिष्टुहि ।।


क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभिः॑ ।

अ॒ज एक॑पात्सु॒हवे॑भि॒रृक्व॑भि॒रहिः॑ शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ॥४

क॒था । क॒विः । तु॒वि॒ऽरवा॑न् । कया॑ । गि॒रा । बृह॒स्पतिः॑ । व॒वृ॒ध॒ते॒ । सु॒वृ॒क्तिऽभिः॑ ।

अ॒जः । एक॑ऽपात् । सु॒ऽहवे॑भिः । ऋक्व॑ऽभिः । अहिः॑ । शृ॒णो॒तु॒ । बु॒ध्न्यः॑ । हवी॑मनि ॥४

कथा । कविः । तुविऽरवान् । कया । गिरा । बृहस्पतिः । ववृधते । सुवृक्तिऽभिः ।

अजः । एकऽपात् । सुऽहवेभिः । ऋक्वऽभिः । अहिः । शृणोतु । बुध्न्यः । हवीमनि ॥४


कविः क्रान्तप्रज्ञोऽग्निः कथा कथं केन प्रकारेण तुवीरवान् बहुस्तोतृयुक्तो भवति ।। मत्वर्थीयप्रत्ययावृत्तिः । यद्वा । तुविशब्दस्य रो मत्वर्थीयः । बाहुल्ययुक्तदेवैः सहितो भवति ।। कया वा गिरा स्तुत्या बहुमान् भवति । बृहस्पतिः एतन्नामको देवः सुवृक्तिभिः शोभनाभिः स्तुतिभिस्तथा वावृधते । तथा एकपात् । एकोऽसहाय एव' पतति गच्छतीत्येकपात् । तादृशो दिवो धारयिता अजः एतन्नामको देवश्च सुहवेभिः शोभनाह्वानैः ऋक्वभिः मन्त्रवद्भिः स्तोत्रैः वावृधते एते त्रयो देवा वर्धन्ते । त्रित्वापेक्षया बहुवचनम् । ' वृधु वृद्धौ ' । व्यत्ययेन शपः श्लुः । अहिर्बुध्न्यः च एतन्नामको देवश्च हवीमनि आह्वाने अस्मान् शृणोतु ।।


दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि ।

अतू॑र्तपन्थाः पुरु॒रथो॑ अर्य॒मा स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ॥५

दक्ष॑स्य । वा॒ । अ॒दि॒ते॒ । जन्म॑नि । व्र॒ते । राजा॑ना । मि॒त्रावरु॑णा । आ । वि॒वा॒स॒सि॒ ।

अतू॑र्तऽपन्थाः । पु॒रु॒ऽरथः॑ । अ॒र्य॒मा । स॒प्तऽहो॑ता । विषु॑ऽरूपेषु । जन्म॑ऽसु ॥५

दक्षस्य । वा । अदिते । जन्मनि । व्रते । राजाना । मित्रावरुणा । आ । विवाससि ।

अतूर्तऽपन्थाः । पुरुऽरथः । अर्यमा । सप्तऽहोता । विषुऽरूपेषु । जन्मऽसु ।। ५ ।।

हे अदिते पृथिवि दक्षस्य सूर्यस्य जन्मनि तस्मिञ्जाते व्रते तस्य यज्ञकर्मणि राजाना राजन्तौ मित्रावरुणौ विवाससि । वाशब्द उपमार्थः । यथा त्वं वेदिभूता सती तौः पर्यचरः एवमिदानीमप्यस्मद्यज्ञे कुर्विति पृथिवीमाशास्ते । सः अर्यमा अरीणां तमसां यन्ता नियन्ता सूर्यः विषुरूपेषु नानारूपेषु जन्मसु कर्मसु अन्वहमुद्यन् सप्तहोता । सप्त रश्मयो यस्मिन् रसान् जुह्वति प्रक्षिपन्ति स एतादृशो भवति । अतूर्तपन्थाः अतूर्तस्त्वरारहितः पन्था यस्य सः । नियतगतित्वात् त्वरमाणो ह्यनियतगतिर्भवति । पुरुरथः । रथो रंहतेः । प्रत्यहं भुक्तिभेदाद्बहुरंहणो भवति । यद्वा । हे अदिते प्रातस्तनि संध्ये दक्षस्यादित्यस्य जन्मन्युदयाख्ये जन्मनि कर्मणि । उद्यत्यादित्य इत्यर्थः । वाशब्दः श्रुतिसामर्थ्याद्दक्षस्य वा जन्मनि त्वत्तस्तव वा जन्मनि दक्षादिति । राजाना दीप्यमानौ मित्रावरुणा । ' अहर्वै मित्रो रात्रिर्वरुणः ' (ऐ. ब्रा. ४१०) इति श्रुतेरहोरात्रौ मित्रावरुणावुच्येते । तौ विवाससि परिचरसि । कथम् । तदनुप्रवेशेन । अर्धं हि संध्याया रात्रिमनुप्रविशत्यर्धमहरिति । उत्तरार्धः पूर्ववत् । सप्तहोता । ह्वयतेरर्चतिकर्मण इदं रूपम् । सप्तर्षयो भरद्वाजादयो होतारः स्तोतारः सन्तीति । अथवा सप्तहोता । मलिम्लुचांहसस्पतिसहिताः सप्तर्तवो यस्य होतारो भवन्ति तादृशः । अत्र निरुक्तं-' दक्षस्य वादिते जन्मनि कर्मणि व्रते राजानौ ' ( निरु. ११ .२३) इत्यादि ।। ।।६।।


ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।

स॒ह॒स्र॒सा मे॒धसा॑ताविव॒ त्मना॑ म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ॥६

ते । नः॒ । अर्व॑न्तः । ह॒व॒न॒ऽश्रुतः॑ । हव॑म् । विश्वे॑ । शृ॒ण्व॒न्तु॒ । वा॒जिनः॑ । मि॒तऽद्र॑वः ।

स॒ह॒स्र॒ऽसाः । मे॒धसा॑तौऽइव । त्मना॑ । म॒हः । ये । धन॑म् । स॒म्ऽइ॒थेषु॑ । ज॒भ्रि॒रे ॥६

ते । नः । अर्वन्तः । हवनऽश्रुतः । हवम् । विश्वे । शृण्वन्तु । वाजिनः । मितऽद्रवः ।

सहस्रऽसाः । मेधसातौऽइव । त्मना । महः । ये । धनम् । सम्ऽइथेषु । जभ्रिरे ॥६


हवनश्रुतः आह्वानं शृण्वन्तः वाजिनः बलवन्तः मितद्रवः मितमार्गा अध्वानं परिचिछिन्दन्तः विश्वे सर्वे प्रसिद्धाः अर्वन्तः अश्वा इन्द्रादीनां वाहनभूता हर्यादयः नः अस्माकं हवम् आह्वानं शण्वन्तु । कीदृशाः । मेधसाताविव । मेधाः स्तुतयः सायन्ते संभज्यन्तेऽत्रेति मेधसातिर्यज्ञः । तस्मिन्निव त्मना आत्मनैव सहस्रसाः सहस्रसंख्याकधनस्य दातारः ते शृण्वन्तु ये अश्वाः समिथेषु । संग्रामनामैतत् । संप्राप्यते योद्धृभिरत्रेति । तेषु संग्रामेषु महः महत् धनं जभ्रिरे शत्रुभ्य आहरन्ति । हृग्रहोर्भः ।।


प्र वो॑ वा॒युं र॑थ॒युजं॒ पुरं॑धिं॒ स्तोमैः॑ कृणुध्वं स॒ख्याय॑ पू॒षण॑म् ।

ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि॒ क्रतुं॒ सच॑न्ते स॒चित॒ः सचे॑तसः ॥७

प्र । वः॒ । वा॒युम् । र॒थ॒ऽयुज॑म् । पुर॑म्ऽधिम् । स्तोमैः॑ । कृ॒णु॒ध्व॒म् । स॒ख्याय॑ । पू॒षण॑म् ।

ते । हि । दे॒वस्य॑ । स॒वि॒तुः । सवी॑मनि । क्रतु॑म् । सच॑न्ते । स॒ऽचितः॑ । सऽचे॑तसः ॥७

प्र । वः । वायुम् । रथऽयुजम् । पुरम्ऽधिम् । स्तोमैः । कृणुध्वम् । सख्याय । पूषणम् ।

ते । हि । देवस्य । सवितुः । सवीमनि । क्रतुम् । सचन्ते । सऽचितः । सऽचेतसः ॥७


हे स्तोतारः वः यूयं वायुं रथयुजं रथस्य योक्तारं पुरंधिम् बहुकर्माणमिन्द्रं पूषणम् एतन्नामानं च स्तोमैः त्रिवृत्पञ्चदशादिलक्षणैः सख्याय सखिकर्मणे प्र कृणुध्वं प्रकुरुध्वम् । यथा तेऽस्माकं धनादिप्रदानेन सखायो भवन्ति तथा कुरुत । हि यस्मात् सचितः ज्ञानयुक्ताः ते देवाः सचेतसः परस्परं समानबुद्धयः सन्तः सवितुः सर्वस्य प्रेरकस्थ देवस्य आदित्यस्य सवीमनि प्रसवेऽह्नि क्रतुं यज्ञं सचन्ते सेवन्ते तस्मात् प्रकुरुध्वम् ।।


त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ ।

कृ॒शानु॒मस्तॄ॑न्ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ॥८

त्रिः । स॒प्त । स॒स्राः । न॒द्यः॑ । म॒हीः । अ॒पः । वन॒स्पती॑न् । पर्व॑तान् । अ॒ग्निम् । ऊ॒तये॑ ।

कृ॒शानु॑म् । अस्तॄ॑न् । ति॒ष्य॑म् । स॒धऽस्थे॑ । आ । रु॒द्रम् । रु॒द्रेषु॑ । रु॒द्रिय॑म् । ह॒वा॒म॒हे॒ ॥८

त्रिः । सप्त । सस्राः । नद्यः । महीः । अपः । वनस्पतीन् । पर्वतान् । अग्निम् । ऊतये ।

कृशानुम् । अस्तॄन् । तिष्यम् । सधऽस्थे । आ । रुद्रम् । रुद्रेषु । रुद्रियम् । हवामहे ॥८


त्रिः सप्त एकविंशतिसंख्याकाः सस्राः सरन्तीः नद्यः नदीः । सरस्वती सरयुः सिन्धुरिति त्रयाणां गणानां प्रधानभूताः । तदाद्या नदीः महीः महान्ति अपः तासामुदकानि सोमाभिषेकार्थं वनस्पतीन् दारुमयांश्चमसादीन् पर्वतान् सोमाभिषवार्थं ग्राव्णः अग्निं होमनिष्पादकं कृशानु सोमपालमेतन्नामानं गन्धर्वम् अस्तॄन् इषूणां क्षेप्तॄंस्तदनुचरान् गन्धर्वान् ऊतये सोमरक्षणाय तिष्यं नक्षत्रं च रुद्रियं रुद्रस्तोमार्हं रुद्रं हविर्भागिनं रुद्रमेतन्नामानं यद्वा यज्ञपरिशिष्टस्वामिनं रुद्रं च एतान् सर्वान् सधस्थे । सह तिष्ठन्त्यत्रेति सधस्थो यज्ञः । तस्मिन् रुद्रेषु स्तोत्रकारिषु तदर्थं हवामहे स्तुत्यत्वेनाह्वयामहे ।।


सर॑स्वती स॒रयु॒ः सिन्धु॑रू॒र्मिभि॑र्म॒हो म॒हीरव॒सा य॑न्तु॒ वक्ष॑णीः ।

दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो॑ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ॥९

सर॑स्वती । स॒रयुः॑ । सिन्धुः॑ । ऊ॒र्मिऽभिः॑ । म॒हः । म॒हीः । अव॑सा । आ । य॒न्तु॒ । वक्ष॑णीः ।

दे॒वीः । आपः॑ । मा॒तरः॑ । सू॒द॒यि॒त्न्वः॑ । घृ॒तऽव॑त् । पयः॑ । मधु॑ऽमत् । नः॒ । अ॒र्च॒त॒ ॥९

सरस्वती । सरयुः । सिन्धुः । ऊर्मिऽभिः । महः । महीः । अवसा । आ । यन्तु । वक्षणीः ।

देवीः । आपः । मातरः । सूदयित्न्वः । घृतऽवत् । पयः । मधुऽमत् । नः । अर्चत ॥९


महः महतोऽपि महीः महत्योऽत्यन्तं महत्यः ऊर्मिभिः सहिताः सरस्वती सरयुः सिन्धुः एतदाद्या एकविंशतिसंख्याकाः वक्षणीः इमा नद्यः अवसा रक्षणेन हेतुना आ यन्तु अस्मदीयं यज्ञं प्रत्यागच्छन्तु । ततः देवीः देवनशीलाः मातरः मातृभूताः सूदयित्न्वः प्रेरयित्र्यः तासाम् आपः घृतवत् घृतयुक्तं मधुमत् मधुसहितमात्मीयं पयः नः अस्मभ्यम् अर्चत प्रयच्छन्तु ।।


उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ ।

ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ॥१०

उ॒त । मा॒ता । बृ॒ह॒त्ऽदि॒वा । शृ॒णो॒तु॒ । नः॒ । त्वष्टा॑ । दे॒वेभिः॑ । जनि॑ऽभिः । पि॒ता । वचः॑ ।

ऋ॒भु॒क्षाः । वाजः॑ । रथः॒पतिः॑ । भगः॑ । र॒ण्वः । शंसः॑ । श॒श॒मा॒नस्य॑ । पा॒तु॒ । नः॒ ॥१०

उत । माता । बृहत्ऽदिवा । शृणोतु । नः । त्वष्टा । देवेभिः । जनिऽभिः । पिता । वचः ।

ऋभुक्षाः । वाजः । रथःपतिः । भगः । रण्वः । शंसः । शशमानस्य । पातु । नः ॥१०


उत अपि च बृहद्दिवा । ' महद्दिवा ' (निरु ११. ४९) इति यास्कः । महती दिवा दीप्तिर्यस्याः सा माता देवमाता नः अस्माकमाह्वानं शृणोतु । तथा देवेभिः देवैरिन्द्रादिभिः जनिभिः देवपत्नीभिश्च पिता सर्वेषां त्वष्टा एतन्नामकोऽस्मदीयं वचः शृणोतु । तथा ऋभुक्षाः इन्द्रः वाजः तत्सहायो वाजो नाम सौधन्वनः कनीयान् रथस्पतिः रथस्थ पतिः भगः च तथा रण्वः रमणीयः शंसः स्तुत्यो मरुद्गणश्च ततः शशमानस्य शंसमानस्य स्तोतुः नः अस्मान् पातु रक्षतु ।। ।। ७ ।।


र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः ।

गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥११

र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ । भ॒द्रा । रु॒द्राणा॑म् । म॒रुता॑म् । उप॑ऽस्तुतिः ।

गोभिः॑ । स्या॒म॒ । य॒शसः॑ । जने॑षु । आ । सदा॑ । दे॒वा॒सः॒ । इळ॑या । स॒चे॒म॒हि॒ ॥११

रण्वः । सम्ऽदृष्टौ । पितुमान्ऽइव । क्षयः । भद्रा । रुद्राणाम् । मरुताम् । उपऽस्तुतिः ।

गोभिः । स्याम । यशसः । जनेषु । आ । सदा । देवासः । इळया । सचेमहि ॥११


संदृष्टौ संदर्शने रण्वः रमणीयो मरुद्गणः पितुमानिव अन्नवानिव क्षयः निवासः स्तोतॄणां भवति । रुद्राणां रुद्रपुत्राणां तेषां मरुताम् उपस्तुतिः अनुग्रहबुद्धिः भद्रा कल्याणी भवति । तस्मात् जनेषु जनानां मध्ये वयं गोभिः गवादिभिः यशसः यशस्विनः स्याम भवेम । आ अनन्तरं हे देवासः देवा युष्मान् सदा सर्वदा इळया अन्नेन हविर्लक्षणेन सचेमहि सचेम संगच्छेम ।।


यां मे॒ धियं॒ मरु॑त॒ इन्द्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यम् ।

तां पी॑पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ॥१२

यम् । मे॒ । धिय॑म् । मरु॑तः । इन्द्र॑ । देवाः॑ । अद॑दात । व॒रु॒ण॒ । मि॒त्र॒ । यू॒यम् ।

ताम् । पी॒प॒य॒त॒ । पय॑साऽइव । धे॒नुम् । कु॒वित् । गिरः॑ । अधि॑ । रथे॑ । वहा॑थ ॥१२

यम् । मे । धियम् । मरुतः । इन्द्र । देवाः । अददात । वरुण । मित्र । यूयम् ।

ताम् । पीपयत । पयसाऽइव । धेनुम् । कुवित् । गिरः । अधि । रथे । वहाथ ॥१२


हे मरुतः हे इन्द्र देवाः हे वरुण हे मित्र यूयं यां धियं यत्कर्म मे मह्यम् अददात दत्तवन्तः स्थ । मरुत इत्यत्र वाक्यभेदादनिघातः । पूर्वपूर्वस्याविद्यमानत्वेनाद्युदात्तत्वम् । तां धियं पीपयत फलेनाप्याययत । तत्र दृष्टान्तः । पयसेव धेनुम् । नवप्रसूतिकां गां क्षीरेण यथाप्याययन्ति तद्वत् । किंच गिरः अस्मदीयाः स्तुतीः अधि रथे आत्मीये रथे कुवित् बहुवारं वहाथ प्राप्ताः स्थ । स्तुतेषु सत्सु यज्ञं प्रत्यागमनाय रथारूढा भवथ ।।


कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ ।

नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥१३

कु॒वित् । अ॒ङ्ग । प्रति॑ । यथा॑ । चि॒त् । अ॒स्य । नः॒ । स॒ऽजा॒त्य॑स्य । म॒रु॒तः॒ । बुबो॑धथ ।

नाभा॑ । यत्र॑ । प्र॒थ॒मम् । स॒म्ऽनसा॑महे । तत्र॑ । जा॒मि॒ऽत्वम् । अदि॑तिः । द॒धा॒तु॒ । नः॒ ॥१३

कुवित् । अङ्ग । प्रति । यथा । चित् । अस्य । नः । सऽजात्यस्य । मरुतः । बुबोधथ ।

नाभा । यत्र । प्रथमम् । सम्ऽनसामहे । तत्र । जामिऽत्वम् । अदितिः । दधातु । नः ॥१३


अङ्ग इति संबुद्धौ । हे मरुतः यूयं नोऽस्मान् कुवित् बहुवारं प्रति बुबोधथ तथा प्रतिबुध्यध्वम् । कुविच्छब्दयोगादनिघातः । यथा नः अस्मान् सजात्यस्य अस्य बान्धवस्य विषयभूतान् कुरुथ तथा जानीथ । ततः नाभा पृथिव्या नाभिस्थाने यत्र यस्मिन्नुत्तरवेदिलक्षणे देशे प्रथमम् एव संनसामहे हविषा यत्र संगच्छेमहि पतत्र एव देशे अदितिः देवानां माता नः अस्माकं जामित्वं मनुष्यैः सह बान्धवं दधातु विदधातु ।।


ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः ।

उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ॥१४

ते । हि । द्यावा॑पृथि॒वी इति॑ । मा॒तरा॑ । म॒ही इति॑ । दे॒वी इति॑ । दे॒वान् । जन्म॑ना । य॒ज्ञिये॒ इति॑ । इ॒तः ।

उ॒भे इति॑ । बि॒भृ॒तः॒ । उ॒भय॑म् । भरी॑मऽभिः । पु॒रु । रेतां॑सि । पि॒तृऽभिः॑ । च॒ । सि॒ञ्च॒तः॒ ॥१४

ते । हि । द्यावापृथिवी इति । मातरा । मही इति । देवी इति । देवान् । जन्मना । यज्ञिये इति । इतः ।

उभे इति । बिभृतः । उभयम् । भरीमऽभिः । पुरु । रेतांसि । पितृऽभिः । च । सिञ्चतः ॥१४


मातरा सर्वस्य जगतो निर्मात्र्यौ अत एव मही महत्यौ देवी देवनशीले यज्ञिये यज्ञार्हेवते द्यावापृथिवी द्यावापृथिव्यौ देवान् इन्द्रादीन् जन्मना एव इतः हि प्राप्नुतः खलु ।व' इण गतौ ' । लटि रूपम् । किंच उभे द्यावापृथिव्यौ भरीमभिः भरणैर्नानाविधैः उभयं जनं देवान्मनुष्यांश्च बिभृतः धारयतः पोषयतः । तथा पितृभिः पालकैर्देवैः संगते ते पुरु पुरूण्यात्मीयानि रेतांसि उदकानि सिञ्चतः क्षरतः । प्रत्यक्षेण धारयतः ।।


वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑ति॒ः पनी॑यसी ।

ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशन्त म॒तिभि॑र्मनी॒षिणः॑ ॥१५

वि । सा । होत्रा॑ । विश्व॑म् । अ॒श्नो॒ति॒ । वार्य॑म् । बृह॒स्पतिः॑ । अ॒रम॑तिः । पनी॑यसी ।

ग्रावा॑ । यत्र॑ । म॒धु॒ऽसुत् । उ॒च्यते॑ । बृ॒हत् । अवी॑वशन्त । म॒तिऽभिः॑ । म॒नी॒षिणः॑ ॥१५

वि । सा । होत्रा । विश्वम् । अश्नोति । वार्यम् । बृहस्पतिः । अरमतिः । पनीयसी ।

ग्रावा । यत्र । मधुऽसुत् । उच्यते । बृहत् । अवीवशन्त । मतिऽभिः । मनीषिणः ॥१५


होत्रा । वाङ्नामैतत् । आहूयन्तेऽनया देवा इति । सा वाक् वार्यं वरणीयं विश्वं सर्वं पश्वादिसहितं धनं वि अश्नोति विविधं व्याप्नुते । कीदृशी । बृहस्पतिः बृहतां महतां पालयित्री अरमतिः पर्याप्तस्तुतिः यद्वा कुत्राप्यनुपरता पनीयसी अत्यन्तं देवानां स्तोत्रकारिणी । यत्र यस्यां होत्रायां मधुषुत् सोममभिषुण्वन् बृहत् महान् ग्रावा उष्यते अभिधीयते । स्तूयत इत्यर्थः । तं स्तुतिमन्तं यज्ञं मनीषिणः देवाः मतिभिः स्तुतिभिः सह अवीवशन्त कामयन्ते । वष्टेर्ण्यन्तस्य लुङि रूपम् । यद्वा । मनीषिणः स्तोतारः स्तुतिभिर्देवान्यज्ञं कामयमानान् कुर्वन्ति ।।


ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः ।

उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥१६

ए॒व । क॒विः । तु॒वि॒ऽरवा॑न् । ऋ॒त॒ऽज्ञाः । द्र॒वि॒ण॒स्युः । द्रवि॑णसः । च॒का॒नः ।

उ॒क्थेभिः॑ । अत्र॑ । म॒तिऽभिः॑ । च॒ । विप्रः॑ । अपी॑पयत् । गयः॑ । दि॒व्यानि॑ । जन्म॑ ॥१६

एव । कविः । तुविऽरवान् । ऋतऽज्ञाः । द्रविणस्युः । द्रविणसः । चकानः ।

उक्थेभिः । अत्र । मतिऽभिः । च । विप्रः । अपीपयत् । गयः । दिव्यानि । जन्म ॥१६


कविः क्रान्तप्रज्ञः तुवीरवान् । मत्वर्थीयप्रत्ययावृत्तिः । बहुस्तुतियुक्तः ऋतज्ञाः यज्ञस्य वेदिता द्रविणस्युः धनकामः । ' सर्वप्रातिपदिकेभ्यो लालसायाम्' इति सुगागमः । तस्यैव विशदवचनं द्रविणसश्चकानः इति । पश्वादिधनं कामयमान इत्यर्थः । विप्रः मेधावी गयः नामर्षिः एवमुक्तप्रकारेण अत्र सूक्ते उक्थेभिः शस्त्रैः मतिभिः स्तुतिभिः च दिव्यानि दिवि जातानि जन्म जननानि देवान् अपीपयत् अवर्धयत् । अस्तावीदित्यर्थः ।।


ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।

ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥१७

ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी ।

ई॒शा॒नासः॑ । नरः॑ । अम॑र्त्येन । अस्ता॑वि । जनः॑ । दि॒व्यः । गये॑न ॥१७

एव । प्लतेः । सूनुः । अवीवृधत् । वः । विश्वे । आदित्याः । अदिते । मनीषी ।

ईशानासः । नरः । अमर्त्येन । अस्तावि । जनः । दिव्यः । गयेन ॥१७


इयं व्याख्याता ।। ।। ८ ।।

[सम्पाद्यताम्]

टिप्पणी

गयोपरि टिप्पणी

१०.६४.१ कथा देवानां इति

अभिप्लवषडहे पञ्चममहः -- कथा देवनामिति वैश्वदेवम् । - शांश्रौसू. ११.४.१०

विश्वजित्प्रकरणम् -- कथा देवानामिति वैश्वदेवं सात्त्रिकस्य बृहत्पृष्ठस्य - शांश्रौसू. ११.१५.८

अभिप्लवषडहे ज्योतिः प्रथममहः -- कथा देवानाम् कतमस्य यामनी इति वैश्वदेवम् । कतम ऊती अभ्या ववर्तति इत्य् अभिवत् । तद् राथन्तरम् रूपम् । - कौब्रा. २०.२

अभिप्लवषडहे आयुःपञ्चममहः-- कथा देवानाम् कतमस्य यामनी इति वैश्वदेवम् । सहस्रसा मेधसाताव् इव त्मना इति सहस्रसा इति पशुमत् । पशुमद् इति वा अस्य रूपम् । - कौब्रा. २१.३


१०.६४.८ कृशानुमस्तॄन् तिष्यं इति

अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन्। रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः॥ १०.०६८.११

यथा श्यावं, कृष्णं अश्वं कृशनेभिः, सुवर्णेभिः अलंकुर्वन्ति, एवं प्रकारेणैव पितरः नक्षत्रेभिः द्यामपिंशन्। अस्य पौराणिकं रूपं एवंप्रकारेण अस्ति - लक्ष्मीनारायणसंहिता ३.९१.७८ यां कृशाङ्ग द्विजस्य कथा अस्ति। बीजदोषकारणेन कृशाङ्गः ब्राह्मणीपुत्रो भूत्वापि चाण्डालः आसीत्। तेन तपस्तप्त्वा चाण्डालत्वात् मुक्तिं प्राप्य द्विजत्वं अगृह्णात्। कृशाङ्गः संज्ञा संकेतमस्ति यत् तपसा स्वपापानां शोधनमात्रं, कृशाङ्गत्वं पर्याप्तं नास्ति, अपितु कृशानु - यः अन्यानपि कृशं कर्तुं, तेषां दोषानां हरणाय समर्थं भवितुं शक्तः अस्ति, तस्य संज्ञा कृशानुः अस्ति। लक्ष्मीनारायणसंहितायां अयं कृत्यं अश्वपट्टसरोवरनिकटे अभूत् । अयं संकेतं अस्ति यत् कृशांगता प्राप्तिः एकांगी साधना अस्ति, कृशानुत्वं सर्वांगीणा, अश्वप्रकारा साधना। प्रस्तुतायां ऋचायां तथा अन्यत्रापि कृशानुः बाणस्य क्षेप्ता अस्ति येन कारणेन सोमस्याहरणसक्तस्य श्येनस्य पर्णं अच्छिद्यत्। पर्णः स्थूलत्वस्य प्रतीकमस्ति। यदा पर्णस्य छेदनं भवति, तदैव कृशाङ्गत्वं।

तिष्यं - तैब्रा. १.५.१.१ कथनमस्ति - बृहस्पतेस्तिष्यः । जुह्वतः परस्ताद्यजमाना अवस्तात् । वाचस्पत्यमादि कोशेषु तिष्यशब्दस्य मूलं तुष्यं इति अस्ति। तिष्यः अर्थात् कलियुगः। कलियुगः पापेभिः ग्रस्तः अस्ति। यदा दिव्यशक्तीनां आह्वानेन यजमानः तृप्तः भवति, तदैव तिष्यः तुष्यः भविष्यति। तैब्रा. ३.१.४.६ अनुसारेण -- बृहस्पतिर्वा अकामयत । ब्रह्मवर्चसी स्यामिति । स एतं बृहस्पतये तिष्याय नैवारं चरुं पयसि निरवपत् । तिष्यस्य अपरसंज्ञा पुष्यः अपि अस्ति। कथनमस्ति यत् पुष्यः पशूनां वाचकः अस्ति , येषां अधिपतिः पूषा अस्ति। एवंप्रकारेण, तिष्यः मानवस्य एवं पशोः मिश्रणं अस्ति, अयं प्रतीयते।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.६४&oldid=315576" इत्यस्माद् प्रतिप्राप्तम्