सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.९८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.९८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.९७ ऋग्वेदः - मण्डल १०
सूक्तं १०.९८
आर्ष्टिषेणो देवापिः (वृष्टिकामः)
सूक्तं १०.९९ →
दे. देवाः। त्रिष्टुप्।


बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा ।
आदित्यैर्वा यद्वसुभिर्मरुत्वान्स पर्जन्यं शंतनवे वृषाय ॥१॥
आ देवो दूतो अजिरश्चिकित्वान्त्वद्देवापे अभि मामगच्छत् ।
प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतीं वाचमासन् ॥२॥
अस्मे धेहि द्युमतीं वाचमासन्बृहस्पते अनमीवामिषिराम् ।
यया वृष्टिं शंतनवे वनाव दिवो द्रप्सो मधुमाँ आ विवेश ॥३॥
आ नो द्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथं सहस्रम् ।
नि षीद होत्रमृतुथा यजस्व देवान्देवापे हविषा सपर्य ॥४॥
आर्ष्टिषेणो होत्रमृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान् ।
स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥५॥
अस्मिन्समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवृता अतिष्ठन् ।
ता अद्रवन्नार्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥६॥
यद्देवापिः शंतनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् ।
देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥७॥
यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे ।
विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यमीरया वृष्टिमन्तम् ॥८॥
त्वां पूर्व ऋषयो गीर्भिरायन्त्वामध्वरेषु पुरुहूत विश्वे ।
सहस्राण्यधिरथान्यस्मे आ नो यज्ञं रोहिदश्वोप याहि ॥९॥
एतान्यग्ने नवतिर्नव त्वे आहुतान्यधिरथा सहस्रा ।
तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वृष्टिमिषितो रिरीहि ॥१०॥
एतान्यग्ने नवतिं सहस्रा सं प्र यच्छ वृष्ण इन्द्राय भागम् ।
विद्वान्पथ ऋतुशो देवयानानप्यौलानं दिवि देवेषु धेहि ॥११॥
अग्ने बाधस्व वि मृधो वि दुर्गहापामीवामप रक्षांसि सेध ।
अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह ॥१२॥

सायणभाष्यम्

‘बृहस्पते प्रति ' इति द्वादशर्चमष्टमं सूक्तं त्रैष्टुभं बृहस्पतिमित्रादिसर्वदेवताकम् । ऋष्टिषेणपुत्रो देवापिर्नामर्षिः । तथा चानुक्रान्तं- बृहस्पते द्वादशार्ष्टिषेणो देवापिर्वृष्टिकामो देवांस्तुष्टाव' । गतः सूक्तविनियोगः । अस्य सूक्तस्याख्यानं निरुक्तकारः प्रदर्शयति-- देवापिश्चार्ष्टिषेणः शंतनुश्च कौरव्यौ भ्रातरौ बभूवतुः । स शंतनुः कनीयानभिषेचयांचक्रे देवापिस्तपः प्रतिपेदे । ततः शंतनो राज्ये द्वादश वर्षाणि देवो न ववर्ष । तमूचुर्ब्राह्मणा अधर्मंस्त्वया चरितो ज्येष्ठं भ्रातरमन्तरित्या भिषेचितं तस्मात्ते देवो न वर्षतीति । स शंतनुर्देवापिं शिशिक्ष राज्येन । तमुवाच देवापिः पुरोहितस्तेऽसानि याजयानि च एवेति । तस्यैतद्वर्षकामसूक्तम्' (निरु. २. १०) इति ॥


बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा ।

आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥१

बृह॑स्पते । प्रति॑ । मे॒ । दे॒वता॑म् । इ॒हि॒ । मि॒त्रः । वा॒ । यत् । वरु॑णः । वा॒ । असि॑ । पू॒षा ।

आ॒दि॒त्यैः । वा॒ । यत् । वसु॑ऽभिः । म॒रुत्वा॑न् । सः । प॒र्जन्य॑म् । शम्ऽत॑नवे । वृ॒ष॒य॒ ॥१

बृहस्पते । प्रति । मे। देवताम् । इहि । मित्रः । वा । यत् । वरुणः । वा । असि । पूषा ।

आदित्यैः । वा । यत् । वसुऽभिः । मरुत्वान् । सः । पर्जन्यम् । शम्ऽतनवे । वृषय ।। १॥

तत्र ब्रह्मत्वे प्रवृत्तो बृहस्पतिमनुधावति । हे "बृहस्पते “मे मम वृष्ट्यर्थं प्रति “देवतां “प्रति “इहि प्रतिगच्छ । यष्टव्या देवताः प्रतिगच्छ । यदि त्वं “मित्रो “वा “असि अथवा “वरुणः असि “यद्वा “पूषा असि अथवा “आदित्यैः द्वादशादित्यैररुणादिभिः “वसुभिः वासकैरष्टवसुभिर्धरध्रुवादिभिः सह “मरुत्वान् । मरुतो देवाः । तद्वानसि। “सः त्वं “पर्जन्यं तर्पयितारं मेघं “शंतनवे राज्ञे “वृषाय वर्षय । “ छन्दसि शायजपि ' इति व्यत्ययेन शपोऽपि शायजादेशः ॥


आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वान्त्वद्दे॑वापे अ॒भि माम॑गच्छत् ।

प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ॥२

आ । दे॒वः । दू॒तः । अ॒जि॒रः । चि॒कि॒त्वान् । त्वत् । दे॒व॒ऽआ॒पे॒ । अ॒भि । माम् । अ॒ग॒च्छ॒त् ।

प्र॒ती॒ची॒नः । प्रति॑ । माम् । आ । व॒वृ॒त्स्व॒ । दधा॑मि । ते॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् ॥२

आ। देवः । दूतः । अजिरः । चिकित्वान् । त्वत् । देवऽआपे । अभि । माम् । अगच्छत् ।

प्रतीचीनः । प्रति । माम् । आ । ववृत्स्व । दधामि । ते। द्युऽमतीम् । वाचम् । आसन् ॥२॥

“देवः कश्चित् “दूतः “अजिरः गमनशीलः “चिकित्वान् चेतनावान् हे “देवापे त्वत् त्वत्तः सकाशात् त्वया प्रेषितः सन् "माम् अभि “आ “अगच्छत् अभ्यागच्छतु । हे बृहस्पते “प्रतीचीनः अस्मदभिमुखः "मां "प्रति “आ “ववृत्स्व मां प्रत्यागच्छ। “ते तुभ्यं त्वदर्थं “द्युमतीं दीप्तियुक्तां “वाचं स्तुतिरूपां “दधामि “आसन् आस्येऽस्मदीये ॥


अ॒स्मे धे॑हि द्यु॒मतीं॒ वाच॑मा॒सन्बृह॑स्पते अनमी॒वामि॑षि॒राम् ।

यया॑ वृ॒ष्टिं शंत॑नवे॒ वना॑व दि॒वो द्र॒प्सो मधु॑माँ॒ आ वि॑वेश ॥३

अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् । बृह॑स्पते । अ॒न॒मी॒वाम् । इ॒षि॒राम् ।

यया॑ । वृ॒ष्टिम् । शम्ऽत॑नवे । वना॑व । दि॒वः । द्र॒प्सः । मधु॑ऽमान् । आ । वि॒वे॒श॒ ॥३

अस्मे इति । धेहि । द्युऽमतीम् । वाचम् । आसन् । बृहस्पते । अनमीवाम् । इषिराम् ।।

यया । वृष्टिम् । शम्ऽतनवे । वनाव । दिवः । द्रप्सः । मधुऽमान् । आ। विवेश ॥ ३ ॥

हे "बृहस्पते त्वम् “अस्मे अस्मासु “द्युमतीं दीप्तिमतीं वाचं स्तोत्रात्मिकाम् “आसन् आस्येऽस्मदीये “धेहि स्थापय। कीदृशीं वाचम्। “अनमीवाम् अमीवारहिताम् । वाचोऽमीवा नाम गद्गदादिदोषः । तथा “इषिरां गमनशीलाम् । यया वाचा स्तुत्यात्मिकया देवानिष्वादो “शंतनवे वृष्टिकामाय “वनाव संभजेवहि “वृष्टिं त्वं चाहं च "दिवः द्युलोकात् । त्वयाधिष्ठितः “द्रप्सः उदकस्यन्दः “मधुमान् माधुर्योपेतः “आ “विवेश आविशति । तां वाचमिति समन्वयः ॥


आ नो॑ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र॑म् ।

नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्दे॑वापे ह॒विषा॑ सपर्य ॥४

आ । नः॒ । द्र॒प्साः । मधु॑ऽमन्तः । वि॒श॒न्तु॒ । इन्द्र॑ । दे॒हि । अधि॑ऽरथम् । स॒हस्र॑म् ।

नि । सी॒द॒ । हो॒त्रम् । ऋ॒तु॒ऽथा । य॒ज॒स्व॒ । दे॒वान् । दे॒व॒ऽआ॒पे॒ । ह॒विषा॑ । स॒प॒र्य॒ ॥४

आ। नः । द्रप्साः । मधुऽमन्तः । विशन्तु । इन्द्रं । देहि। अधिऽरथम् । सहस्रम् ।

नि । सीद । होत्रम् । ऋतुऽथा। यजस्व । देवान् । देवऽआपे । हविषा । सपर्य ।। ४ ।।

“नः अस्मान् “द्रप्साः वृष्टिसंस्त्यायाः "मधुमन्तः माधुर्योपेताः “आ “विशन्तु । हे “इन्द्र परमेश्वर बृहस्पते “अधिरथं रथस्याध्युपरि वर्तमानं “सहस्रं सहस्रसंख्याकं धनं “देहि धेहि । यद्वा । रथमधिकं यस्य सहस्रस्य तादृशं गोसहस्रम् । हे “देवापे “नि “षीद “होत्रम् । आर्त्विज्ये निषीद। निषण्णश्च त्वम् “ऋतुथा काले काले “यजस्व यष्टव्यान् "देवान् स्तुत्या “हविषा च “सपर्य परिचर ॥


आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि॑र्नि॒षीद॑न्दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् ।

स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ॥५

आ॒र्ष्टि॒षे॒णः । हो॒त्रम् । ऋषिः॑ । नि॒ऽसीद॑न् । दे॒वऽआ॑पिः । दे॒व॒ऽसु॒म॒तिम् । चि॒कि॒त्वान् ।

सः । उत्ऽत॑रस्मात् । अध॑रम् । स॒मु॒द्रम् । अ॒पः । दि॒व्याः । अ॒सृ॒ज॒त् । व॒र्ष्याः॑ । अ॒भि ॥५

आर्ष्टिषेणः । होत्रम् । ऋषिः । निऽसीदन् । देवआपिः । देवऽसुमतिम्। चिकित्वान् ।

सः । उत्ऽतरस्मात् । अधरम् । समुद्रम् । अपः । दिव्याः । असृजत् । वर्ष्याः । अभि ॥५

“आर्ष्टिषेणः ऋष्टिषेणस्य पुत्रः “देवापिः “ऋषिः "देवसुमतिं देवानां कल्याणीं मतिं स्तुतिं “चिकित्वान् जानन् "होत्रं होतृकर्म कर्तुं निषीदन् निषण्णो भवति । “स “उत्तरस्मात् उपरि वर्तमानादन्तरिक्षाख्यात् समुद्रात् "अधरम् अधो वर्तमानं पार्थिव "समुद्रम् “अभि "दिव्याः दिवि भवाः “वर्ष्याः वर्षभवाः “अपः “असृजत् सृजतु । अत्र ' आर्ष्टिषेण ऋष्टिषेणस्य पुत्रः' (निरु. २. ११) इत्यादि निरुक्तं द्रष्टव्यम् ॥


अ॒स्मिन्स॑मु॒द्रे अध्युत्त॑रस्मि॒न्नापो॑ दे॒वेभि॒र्निवृ॑ता अतिष्ठन् ।

ता अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी॑षु ॥६

अ॒स्मिन् । स॒मु॒द्रे । अधि॑ । उत्ऽत॑रस्मिन् । आपः॑ । दे॒वेभिः॑ । निऽवृ॑ताः । अ॒ति॒ष्ठ॒न् ।

ताः । अ॒द्र॒व॒न् । आ॒र्ष्टि॒षे॒णेन॑ । सृ॒ष्टाः । दे॒वऽआ॑पिना । प्रऽइ॑षिताः । मृ॒क्षिणी॑षु ॥६

अस्मिन् । समुद्रे । अधि । उत्ऽतरस्मिन् । आपः । देवेभिः । निऽवृताः । अतिष्ठन् ।

ताः । अद्रवन् । आर्ष्टिषेणेन । सृष्टाः । देवऽआपिना । प्रऽईषिताः । मृक्षिणीषु ॥ ६ ॥

“अस्मिन् पार्थिवे “समुद्रे पूरणीये सति । “अधि इति सप्तम्यर्थानुवादी । “उत्तरस्मिन् समुद्रे अन्तरिक्षाख्ये "आपः उदकानि “देवेभिः द्योतमानैः “निवृताः निरुद्धाः “अतिष्ठन् । “ताः आपः “आर्ष्टिषेणेन ऋष्टिषेणस्य पुत्रेण “देवापिना “सृष्टाः “प्रेषिताः प्रकर्षेणेच्छां प्राप्ताः काङ्क्षिताः “मृक्षिणीषु मृष्टवतीषु परिमृष्टासु स्थलीषु “अद्रवन् स्रवन्ति ॥ ॥ १२ ॥


यद्दे॒वापि॒ः शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् ।

दे॒व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ॥७

यत् । दे॒वऽआ॑पिः । शम्ऽत॑नवे । पु॒रःऽहि॑तः । हो॒त्राय॑ । वृ॒तः । कृ॒पय॑न् । अदी॑धेत् ।

दे॒व॒ऽश्रुत॑म् । वृ॒ष्टि॒ऽवनि॑म् । ररा॑णः । बृह॒स्पतिः॑ । वाच॑म् । अ॒स्मै॒ । अ॒य॒च्छ॒त् ॥७

यत् । देवऽआपिः । शम्ऽतनवे । पुरःऽहितः । होत्राय । वृतः । कृपयन् । अदीधेत् ।

देवऽश्रुतम् । वृष्टिऽवनिम्। रराणः । बृहस्पतिः । वाचम् । अस्मै । अयच्छत् ॥ ७ ॥

“यत् यदा “देवापिः आर्ष्टिषेणः “शंतनवे स्वभ्रात्रे कौरव्याय “पुरोहितः सन् "होत्राय होत्रार्थं "वृतः सन् "देवश्रुतम् । देवा एनं शृण्वन्तीति देवश्रुत् । तं तथा “वृष्टिवनिं वृष्टियाचिनं बृहस्पतिम् “अदीधेत् अन्वध्यायत् स च “रराणः रममाणः “बृहस्पतिः देवः “अस्मै देवापये “वाचम् अयच्छत् ॥


यं त्वा॑ दे॒वापिः॑ शुशुचा॒नो अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्यः॑ समी॒धे ।

विश्वे॑भिर्दे॒वैर॑नुम॒द्यमा॑न॒ः प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त॑म् ॥८

यम् । त्वा॒ । दे॒वऽआ॑पिः । शु॒शु॒चा॒नः । अ॒ग्ने॒ । आ॒र्ष्टि॒षे॒णः । म॒नु॒ष्यः॑ । स॒म्ऽई॒धे ।

विश्वे॑भिः । दे॒वैः । अ॒नु॒ऽम॒द्यमा॑नः । प्र । प॒र्जन्य॑म् । ई॒र॒य॒ । वृ॒ष्टि॒ऽमन्त॑म् ॥८

यम् । त्वा । देवऽआपिः । शुशुचानः । अग्ने । आर्ष्टिषेणः । मनुष्यः । सम्ऽईधे ।

विश्वेभिः । देवैः । अनुऽमद्यमानः । प्र । पर्जन्यम् । ईरय । वृष्टिऽमन्तम् ॥ ८ ॥

हे "अग्ने “यं “त्वा त्वां “शुशुचानः स्तोत्रेण ज्वलन् “मनुष्यः “आर्ष्टिषेणः "देवापिः “समीधे सम्यग्दीपयति स त्वं “विश्वेभिः सर्वैः "देवैः “अनुमद्यमानः अनुमाद्यमानः सन् "पर्जन्यं मेघं वृष्टिमन्तं वर्षणवन्तं “प्र “ईरय गमय ।।


त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा॑य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ ।

स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ॥९

त्वाम् । पूर्वे॑ । ऋष॑यः । गीः॒ऽभिः । आ॒य॒न् । त्वाम् । अ॒ध्व॒रेषु॑ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ।

स॒हस्रा॑णि । अधि॑ऽरथानि । अ॒स्मे इति॑ । आ । नः॒ । य॒ज्ञम् । रो॒हि॒त्ऽअ॒श्व॒ । उप॑ । या॒हि॒ ॥९

त्वाम् । पूर्वे । ऋषयः । गी:ऽभिः । आयन्। त्वाम् । अध्वरेषु । पुरुहूत । विश्वे ।

सहस्राणि । अधिऽरथानि । अस्मे इति । आ । नः । यज्ञम् । रोहित्ऽअश्व । उप। याहि ॥९॥

हे अग्ने “त्वां “पूर्वे “ऋषयः “गीभिः स्तुतिभिः “आयन् आगच्छन् । तथा हे “पुरुहूत बहुभिराहूताग्ने “विश्वे सर्वेऽपदानींतना यजमानाः “अध्वरेषु यज्ञेषु स्तुतिभिः गच्छन्तीति शेषः। किंच “सहस्राणि सहस्रसंख्यानि गोयूथानि “अधिरथानि रथाधिकानि "अस्मे अस्माकं शंतनुना दक्षिणात्वेन संकल्पितानि भवन्त्विति शेषः। हे “रोहिदश्व “नो यज्ञम् उप “याहि उपागच्छ॥


ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ ।

तेभि॑र्वर्धस्व त॒न्वः॑ शूर पू॒र्वीर्दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ॥१०

ए॒तानि॑ । अ॒ग्ने॒ । न॒व॒तिः । नव॑ । त्वे इति॑ । आऽहु॑तानि । अधि॑ऽरथा । स॒हस्रा॑ ।

तेभिः॑ । व॒र्ध॒स्व॒ । त॒न्वः॑ । शू॒र॒ । पू॒र्वीः । दि॒वः । नः॒ । वृ॒ष्टिम् । इ॒षि॒तः । रि॒री॒हि॒ ॥१०

एतानि । अग्ने । नवतिः । नव । त्वे इति । आऽहुतानि । अधिऽरथा । सहस्रा ।

तेभिः । वर्धस्व । तन्वः । शूर । पूर्वीः । दिवः । नः । वृष्टिम् । इषितः । रिरीहि ॥ १० ॥

हे “अग्ने गवां “नवतिः "नव च तथा “एतानि अधिरथानि "सहस्रा सहस्राणि च रथाधिकानि गवां सहस्राणि च “त्वे त्वयि “आहुतानि त्वयि प्रीणयितव्ये सत्याहुतानि । यद्वा । त्वे त्वयि आहुतानि समर्पितानीत्यर्थः । “तेभिः तैः प्रत्तैः “पूर्वीः बह्वीः “तन्वः तनूः युष्मदीयाः “वर्धस्व वर्धय । “नः अस्मदर्थं “दिवः द्युलोकात् "वृष्टिम् "इषितः प्रार्थितः सन् "रिरीहि पूरय ॥


ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा॑य भा॒गम् ।

वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्यौ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ॥११

ए॒तानि॑ । अ॒ग्ने॒ । न॒व॒तिम् । स॒हस्रा॑ । सम् । प्र । य॒च्छ॒ । वृष्णे॑ । इन्द्रा॑य । भा॒गम् ।

वि॒द्वान् । प॒थः । ऋ॒तु॒ऽशः । दे॒व॒ऽयाना॑न् । अपि॑ । औ॒ला॒नम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ ॥११

एतानि । अग्ने । नवतिम् । सहस्रा । सम् । प्र । यच्छ। वृष्णे। इन्द्राय । भागम् ।

विद्वान् । पथः । ऋतुऽशः । देवऽयानान् अपि । औलानम् । दिवि । देवेषु । धेहि॥११॥

हे “अग्ने गवाम् “एतानि "नवतिं "सहस्रा सहस्राणि च "वृष्णे वर्षित्रे “इन्द्राय “भागं “सं “प्र “यच्छ । तत्प्रीत्यर्थमृत्विग्भ्यो देहि । किंच “देवयानान् "पथः देवयानान् मार्गान् “विद्वान् त्वम् “ऋतुशः काले काले “औलानम् “अपि कुरुकुलजातमपि शान्तनवं “देवेषु मध्ये “धेहि निधेहि स्थापय ।।


अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी॑वा॒मप॒ रक्षां॑सि सेध ।

अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ॥१२

अग्ने॑ । बाध॑स्व । वि । मृधः॑ । वि । दुः॒ऽगहा॑ । अप॑ । अमी॑वाम् । अप॑ । रक्षां॑सि । से॒ध॒ ।

अ॒स्मात् । स॒मु॒द्रात् । बृ॒ह॒तः । दि॒वः । नः॒ । अ॒पाम् । भू॒मान॑म् । उप॑ । नः॒ । सृ॒ज॒ । इ॒ह ॥१२

अग्ने । बाधस्व । वि। मृधः । वि। दु:ऽगहा । अप । अमीवाम् । अप । रक्षांसि । सेध ।।

अस्मात् । समुद्रात् । बृहतः । दिवः । नः। अपाम् । भूमानम् । उप । नः । सृज। इह ॥१२॥

हे “अग्ने “दुर्गहा दुर्गहाणि दुःखेन गाहितव्यानि शत्रुपुराणि "वि “बाधस्व । तथा “अमीवां रोगम् "अप सेध । तथा “रक्षांसि “अप सेध अपवारय । “अस्मात् "समुद्रात् समुद्रवणसाधनात् “बृहतः महतः “दिवः द्युलोकादन्तरिक्षाद्वा “अपाम् उदकानां “भूमानं बहुभावं वृष्टिसंस्त्यायम् “इह अस्मिँल्लोके “उप "सृज प्रयच्छेत्यर्थः ॥ ॥ १३ ॥



टिप्पणी

आर्ष्टिषेणस्तु देवापिः कौरव्यश्चैव शंतनुः ।
भ्रातरौ कुरुषु त्वेतौ राजपुत्रौ बभूवतुः ।।१५५ ।।
ज्येष्ठस्तयोस्तु देवापिः कनीयांश्चैव शंतनुः ।
त्वग्दोषी राजपुत्रस्तु ऋष्टिषेणसुतोऽभवत् ।। १५६।।
राज्येन छन्दयामासुः प्रजाः स्वर्गं गते गुरौ ।
स मुहूर्त्तमिव ध्यात्वा प्रजास्ताः प्रत्यभाषत ।। बृहद्देवता ७.१५७।।
न राज्यमहमर्हामि नृपतिर्वोऽस्तु शंतनुः ।
तथेत्युक्त्वाभ्यसिञ्चस्ताः प्रजाः राज्याय शंतनुम् ।। १।।
ततोऽभिषिक्ते कौरव्ये वनं देवापिराविशत् ।
न ववर्षाय पर्जन्यो राज्ये द्वादश वै समाः ।। २ ।।
ततोऽभ्यगच्छद्देवापिं प्रजाभिः सह शंतनुः ।
प्रसादयामास चैनं तस्मिन्धर्मव्यतिक्रमे ।। ३ ।।
शिशिक्ष चैनं राज्येन प्रजाभिः सहितस्तदा ।
तमुवाचाय देवापिः प्रह्वं तु प्राञ्जलिस्थितम् ।। ४ ।।
न राज्यमहमर्हामि त्वग्दोषोपहतेन्द्रियः ।
याजयिष्यामि ते राजन् वृष्टिकामेज्यया स्वयम् ।। ५ ।।
ततस्तं तु पुरोऽधत्त आर्त्विज्याय स शंतनुः ।
स चास्य चक्रे कर्माणि वार्षिकाणि यथाविधि ।। ६ ।।
बृहस्पते प्रतीत्यृग्भिर् ईजे चैव बृहस्पतिम् ।
द्वितीययास्य सूक्तस्य बोधिते जातवेदसा ।। ७ ।।
आस्ये ते द्युमतीं वाचं दधामि स्तुहि देवताः ।
ततः सोऽस्मै ददौ प्रीतो वाचं देवीं तथा च सः ।। ८ ।।
ऋग्भिश्चतसृभिर्देवाञ् जगौ वृष्ट्यर्थमेव तु ।
अग्निं च सूक्तशेषेण कमैन्द्रं सूक्तमुत्तरम् ।। बृहद्देवता ८.९ ।।

सूक्तस्य पौराणिकं रूपान्तरम्

आर्ष्टिषेणोपरि पौराणिकाः संदर्भाः

आर्ष्टिषेणोपरि टिप्पणी

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.९८&oldid=314339" इत्यस्माद् प्रतिप्राप्तम्