ऋग्वेदः सूक्तं १०.१७५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१७५ इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← सूक्तं १०.१७४ ऋग्वेदः - मण्डल १०
सूक्तं १०.१७५
ऊर्ध्वग्रावा सर्प आर्बुदिः
सूक्तं १०.१७६ →
दे. ग्रावाणः। गायत्री
अर्बुदः कार्द्रवेयः


प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा ।
धूर्षु युज्यध्वं सुनुत ॥१॥
ग्रावाणो अप दुच्छुनामप सेधत दुर्मतिम् ।
उस्राः कर्तन भेषजम् ॥२॥
ग्रावाण उपरेष्वा महीयन्ते सजोषसः ।
वृष्णे दधतो वृष्ण्यम् ॥३॥
ग्रावाणः सविता नु वो देवः सुवतु धर्मणा ।
यजमानाय सुन्वते ॥४॥



सायणभाष्यम्

‘प्र वः' इति चतुर्ऋचं चतुर्विंशं सूक्तं गायत्रम् । अर्बुदस्य सर्पर्षेः पुत्र ऊर्ध्वग्रावा नामर्षिः । सोमाभिषवार्था ग्रावाणो देवता । तथा चानुक्रान्तं-प्र वश्चतुष्कमूर्ध्वग्रावार्बुदिर्ग्राव्णोऽस्तौद्गायत्रम्' इति । ग्रावस्तोत्र एतत्सूक्तम् । सूत्रितं च--- आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोः' ( आश्व. श्रौ. ५. १२) इति । यद्वा । इदमेकमेव सूक्तं ग्रावस्तोत्रम् । सूत्र्यते हि---* प्र वो ग्रावाण इत्येक उक्तं सर्पणम्' (आश्व. श्रौ. ५. १२ ) इति । ।


प्र वो॑ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा ।

धू॒र्षु यु॑ज्यध्वं सुनु॒त ॥

प्र । वः । ग्रावाणः । सविता । देवः । सुवतु । धर्मणा ।

धू:ऽसु । युज्यध्वम् । सुनुत ।। १ ॥

हे vग्रावाणः सोमाभिषवार्थाः पाषाणाः वः युष्मान् सविता प्रेरकः "देवः vधर्मणा आत्मीयेन धारणेन कर्मणा vप्र vसुवतु अभिषवार्थं प्रेरयतु । ' षू प्रेरणे' । तौदादिकः । यूयं च "धूर्षु अभिषवस्थानेषु प्राच्यादिमहादिक्षु "युज्यध्वं युक्ता भवत । अनन्तरं सुनुत अभिषुणुत सोमम् ॥


ग्रावा॑णो॒ अप॑ दु॒च्छुना॒मप॑ सेधत दुर्म॒तिम् ।

उ॒स्राः क॑र्तन भेष॒जम् ॥

ग्रावाणः । अप। दुच्छुनाम् । अप । सेधत । दुःऽमतिम् ।

उस्राः । कर्तन । भेषजम् ।।२।।

हे "ग्रावाणः vदुच्छुनां दुःखकारिणीं शत्रुभूतां प्रजाम् अप vसेधत अस्मत्तोऽपगमयत । * षिधु गत्याम्'। तथा दुर्मतिं दुष्टाभिसंधिं च vअप सेधत । vभेषजं सुखमस्माकं यथा भवति तथा vउस्राः गाः vकर्तन कुरुत ॥ करोतेश्छान्दसो विकरणस्य लुक् ।' तप्तनप्तनथनाश्च' इति तनबादेशः ॥


ग्रावा॑ण॒ उप॑रे॒ष्वा म॑ही॒यन्ते॑ स॒जोष॑सः ।

वृष्णे॒ दध॑तो॒ वृष्ण्य॑म् ॥

ग्रावाणः । उपरेषु । आ । महीयन्ते । सजोषसः ।

वृष्णे । दधतः । वृष्ण्यम् ।। ३ ।।

vग्रावाणः दिक्ष्ववस्थिताः पाषाणाः सजोषसः सह प्रीयमाणाः संगताः सन्तो वा उपरेषु । उपरो नामाभिषवाय चतुर्णां ग्राव्णां मध्ये स्थापितो विस्तृतः पाषाणः । प्रदेशापेक्षं बहुवचनम् । उपरस्य प्रान्तेषु vमहीयन्ते प्रकाशन्ते । आकारः पूरणः । किं कुर्वन्तः । Vवृष्णे वर्षित्रे सोमाय vवृष्ण्यं वीर्यं दधतः प्रयच्छन्तः ॥


ग्रावा॑णः सवि॒ता नु वो॑ दे॒वः सु॑वतु॒ धर्म॑णा ।

यज॑मानाय सुन्व॒ते ॥

ग्रावाणः । सविता । नु। वः । देवः । सुवतु । धर्मणा ।

यजमानाय । सुन्वते ।। ४ ।।

vदेवः दानादिगुणयुक्तः सविता हे ग्रावाणः Vवः युष्मान् vधर्मणा आत्मीयेन धारणेन 'नु क्षिप्रं "सुवतु अभिषवे प्रेरयतु । किमर्थम् । सुन्वते सोमाभिषवं कुर्वते यजमानाय यजमानार्थम् । तस्य यागनिष्पत्तय इत्यर्थः ॥ ॥ ३३ ॥



मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

[सम्पाद्यताम्]

टिप्पणी

सोमयागे सुत्यादिवसे माध्यन्दिन सवने ग्रावस्तुद् ऋत्विजः स्वशस्त्रस्य उच्चारणं करोति। तस्य शस्त्रस्य ऋचानां समूहः ऋग्वेदे १०.९४ सूक्ते प्रकटयति। अस्य सूक्तस्य ऋषिः अर्बुदः कार्द्रवेयः भवति एवं देवता ग्रावाणः भवति। निरुक्तोपनिषत् १.१० अनुसारेण, यदा गर्भे शुक्रस्य स्थापना भवति, तदा पंचरात्रि पर्यन्तं तस्य संज्ञा बुद्बुदं भवति, सप्तरात्रि पर्यन्तं पेशी, चत्वारिंशत् रात्रि पर्यन्तं अर्बुदं एवं पंचविशति रात्रि पर्यन्तं घनं भवति। शतपथ ब्राह्मणानुसारेण यदा वायुः पृथिवीतत्त्वे प्रवेशं करोति, तदा बुद्बुदस्य सृष्टिः भवति। बुद्बुदस्य रचनानन्तरं मृद, शर्करा, अश्मा, हिरण्यादस्य क्रमानुसारेण सृष्टिः भवति। अत्र वायुः प्राणानां रूपमस्ति। अतः यदा निरुक्तोपनिषदे बुद्बुदस्य रचनस्य कथनं प्रकटयति, अयं संकेतः भवति यत् जड तत्त्वे यदा वचसः, मनसः, प्राणस्य प्रवेशं भवति, तदा गर्भः संजायते। अर्बुदं बुद्बुदस्य एकं विकसित रूपमस्ति। अर्बुदस्य विकसिततमं रूपं ग्रावाणः सन्ति। ग्रावाणः अर्थात् दिव्याः प्राणाः। ग्रावाणः रूपाः ते प्राणाः अशुद्धात् सोमात् शुद्धस्य सोमस्य विश्लेषणं कर्तुं समर्थाः भविष्यन्ति। ग्री – विज्ञाने। अथर्ववेदे अपि अर्बुदस्य सूक्तं प्रकटयति। अनेनानुसारेण अर्बुदस्य विकसिततमं रूपं न्यर्बुदि अस्ति, अयं प्रतीयते। लौकिकां भाषायां अर्बुदं, न्यर्बुदं संख्यानां क्रमिक रूपेण वर्धिताः रूपाः भवन्ति – अर्बुदं – अरब(१००कोटि)। लक्ष्मीनारायण संहिता १.५५१ मध्ये अर्बुदाचलस्य अतिरिक्तं रहस्यं प्रकटी भवति यत् त्रिपुष्कराणां तादात्म्यं अर्बुदाचलस्य व्योम, शिखर एवं भूमि अथवा सरोवराणां सह भवति। अतः त्रिपुष्कराणां ये गुणाः सन्ति, तेषामनुसारेण अर्बुदाचलस्य गुणानां ग्रहणं अपि बोधगम्यं भवति।

अर्बुदोपरि टिप्पणी

पुराणेषु अर्बुदः

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१७५&oldid=142162" इत्यस्माद् पुनः प्राप्तिः