ऋग्वेदः सूक्तं १०.११९
← सूक्तं १०.११८ | ऋग्वेदः - मण्डल १० सूक्तं १०.११९ ऐन्द्रो लबः। |
सूक्तं १०.१२० → |
दे. आत्मा (इन्द्रः)। गायत्री |
इति वा इति मे मनो गामश्वं सनुयामिति ।
कुवित्सोमस्यापामिति ॥१॥
प्र वाता इव दोधत उन्मा पीता अयंसत ।
कुवित्सोमस्यापामिति ॥२॥
उन्मा पीता अयंसत रथमश्वा इवाशवः ।
कुवित्सोमस्यापामिति ॥३॥
उप मा मतिरस्थित वाश्रा पुत्रमिव प्रियम् ।
कुवित्सोमस्यापामिति ॥४॥
अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम् ।
कुवित्सोमस्यापामिति ॥५॥
नहि मे अक्षिपच्चनाच्छान्त्सुः पञ्च कृष्टयः ।
कुवित्सोमस्यापामिति ॥६॥
नहि मे रोदसी उभे अन्यं पक्षं चन प्रति ।
कुवित्सोमस्यापामिति ॥७॥
अभि द्यां महिना भुवमभीमां पृथिवीं महीम् ।
कुवित्सोमस्यापामिति ॥८॥
हन्ताहं पृथिवीमिमां नि दधानीह वेह वा ।
कुवित्सोमस्यापामिति ॥९॥
ओषमित्पृथिवीमहं जङ्घनानीह वेह वा ।
कुवित्सोमस्यापामिति ॥१०॥
दिवि मे अन्यः पक्षोऽधो अन्यमचीकृषम् ।
कुवित्सोमस्यापामिति ॥११॥
अहमस्मि महामहोऽभिनभ्यमुदीषितः ।
कुवित्सोमस्यापामिति ॥१२॥
गृहो याम्यरंकृतो देवेभ्यो हव्यवाहनः ।
कुवित्सोमस्यापामिति ॥१३॥
सायणभाष्यम्
‘ इति वै ' इति त्रयोदशर्चं सप्तमं सूक्तं गायत्रम् । इन्द्रो लबरूपमास्थाय सोमपानं कुर्वन् तदानीमृषिभिः दृष्टः सन् स्वात्मानमनेन सूक्तेनास्तावीत् । अतो लबरूपापन्न इन्द्र ऋषिः । स एव देवता । तथा चानुक्रम्यते -- ' इति वै सप्तोनैन्द्रो लब आत्मानं तुष्टाव ' इति । गतो विनियोगः ॥
इति॒ वा इति॑ मे॒ मनो॒ गामश्वं॑ सनुया॒मिति॑ ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥ १
इति॑ । वै । इति॑ । मे॒ । मनः॑ । गाम् । अश्व॑म् । स॒नु॒या॒म् । इति॑ ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥१
इति । वै । इति । मे । मनः । गाम् । अश्वम् । सनुयाम् । इति ।
कुवित् । सोमस्य । अपाम् । इति ॥१
“इति "वै इति खलु “इति एवंप्रकारेण "मे मदीयं "मनः वर्तते । तं प्रकारं दर्शयति । “गामश्वं च "सनुयां स्तोतृभ्यः प्रयच्छामि “इति । षणु दाने । तानादिकः। इतिशब्दो हेतौ । यस्मात् “कुवित् बहुवारं "सोमस्य सोमम् "अपां पीतवानस्मि ॥ ‘ क्रियाग्रहणं कर्तव्यम्' इति सोमस्य संप्रदानसंज्ञा। चतुर्थ्यर्थे बहुलम् ' इति षष्ठी। ‘ पा पाने ' । लुङि • गातिस्था ' इति सिचो लुक् । कुविद्योगादनिघातः ॥
प्र वाता॑ इव॒ दोध॑त॒ उन्मा॑ पी॒ता अ॑यंसत ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥ २
प्र । वाताः॑ऽइव । दोध॑तः । उत् । मा॒ । पी॒ताः । अ॒यं॒स॒त॒ ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥२
प्र । वाताःऽइव । दोधतः । उत् । मा । पीताः । अयंसत ।
कुवित् । सोमस्य । अपाम् । इति ॥२
“दोधतः भृशं कम्पयमानाः “वाताइव वायवो यथा वृक्षादीनुद्यच्छन्ते तद्वत् "पीताः सोमाः “मा मां प्रकर्षेण “उत् "अयंसत उद्यच्छन्ते ॥ यमेर्लुङि समुदाङ्भ्यो यमोऽग्रन्थे ' (पा. सू. १. ३. ७५) इत्यात्मनेपदम् । यस्माद्बहुवारं सोमम् "अपाम् ॥
उन्मा॑ पी॒ता अ॑यंसत॒ रथ॒मश्वा॑ इवा॒शवः॑ ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ३
उत् । मा॒ । पी॒ताः । अ॒यं॒स॒त॒ । रथ॑म् । अश्वाः॑ऽइव । आ॒शवः॑ ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥३
उत् । मा । पीताः । अयंसत । रथम् । अश्वाःऽइव । आशवः ।
कुवित् । सोमस्य । अपाम् । इति ॥३
“पीताः सोमाः माम् "उत् "अयंसत उद्यच्छन्ते । तत्र दृष्टान्तः। "रथमश्वाइव यथा "आशवः क्षिप्रगामिनो गमनेन व्याप्ता वाश्वा रथमुद्गमयन्ति तद्वत् ॥
उप॑ मा म॒तिर॑स्थित वा॒श्रा पु॒त्रमि॑व प्रि॒यम् ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ४
उप॑ । मा॒ । म॒तिः । अ॒स्थि॒त॒ । वा॒श्रा । पु॒त्रम्ऽइ॑व । प्रि॒यम् ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥४
उप । मा । मतिः । अस्थित । वाश्रा । पुत्रम्ऽइव । प्रियम् ।
कुवित् । सोमस्य । अपाम् । इति ॥४
“मतिः स्तोतृभिः क्रियमाणा स्तुतिः “मा माम् "उप "अस्थित संयोजयति ॥ ‘ उपाद्देवपूजासंगतिकरण ' (पा. सू. १. ३. २५. १ ) इत्यात्मनेपदम् । कथमिव । “वाश्रा “पुत्रमिव यथा वाश्रा शब्दायमाना धेनुः "प्रियं पुत्रं वत्सं सँगच्छति तद्वत् ॥
अ॒हं तष्टे॑व व॒न्धुरं॒ पर्य॑चामि हृ॒दा म॒तिम् ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ५
अ॒हम् । तष्टा॑ऽइव । व॒न्धुर॑म् । परि॑ । अ॒चा॒मि॒ । हृ॒दा । म॒तिम् ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥५
अहम् । तष्टाऽइव । वन्धुरम् । परि । अचामि । हृदा । मतिम् ।
कुवित् । सोमस्य । अपाम् । इति ॥५
“तष्टेव तक्षा यथा "वन्धुरं सारथिनिवासस्थानम् । तद्वान् वोपलक्ष्यते । तत्स्थानं रथं वा साधुकरोति तद्वत् "अहं “मतिं स्तुतिं "हृदा आत्मीयेन मनसा "पर्यचामि । साधुकरणाय परिगच्छामि ॥
न॒हि मे॑ अक्षि॒पच्च॒नाच्छा॑न्त्सुः॒ पञ्च॑ कृ॒ष्टयः॑ ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ६
न॒हि । मे॒ । अ॒क्षि॒ऽपत् । च॒न । अच्छा॑न्त्सुः । पञ्च॑ । कृ॒ष्टयः॑ ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥६
नहि । मे । अक्षिऽपत् । चन । अच्छान्त्सुः । पञ्च । कृष्टयः ।
कुवित् । सोमस्य । अपाम् । इति ॥६
“चन इति निपातसमुदायोऽप्यर्थे। "पञ्च “कृष्टयः अपि निषादपञ्चमाश्चत्वारो वर्णाः पञ्च जनाः । यद्वा । देवमनुष्यादयः । “मे मदीयम् "अक्षिपत् चक्षुःपतनं दृष्टिसंचारं "नहि “अच्छान्त्सुः न ह्यपवृण्वन्ति° । न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते ' (श. ब्रा. १४. ७. १. २३ ) इति हि श्रुतेः । ‘ छदि अपवारणे ' । ' चुरादीनाम् ' इति वा ण्यन्तत्वादत्र ण्यभावे लुङि हलन्तलक्षणा वृद्धिः (पा. सू: ७. २. ३ ) ॥ यस्माद्बहुवारं सोमम् "अपाम् ॥ ॥ २६ ॥
न॒हि मे॒ रोद॑सी उ॒भे अ॒न्यं प॒क्षं च॒न प्रति॑ ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ७
न॒हि । मे॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अ॒न्यम् । प॒क्षम् । च॒न । प्रति॑ ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥७
नहि । मे । रोदसी इति । उभे इति । अन्यम् । पक्षम् । चन । प्रति ।
कुवित् । सोमस्य । अपाम् । इति ॥७
“उभे "रोदसी द्यावापृथिव्यौ "मे मदीयम् "अन्यं "पक्षं “चन पक्षमपि "प्रति समाने न भवतः॥
अ॒भि द्यां म॑हि॒ना भु॑वम॒भी॒३॒॑मां पृ॑थि॒वीं म॒हीम् ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ८
अ॒भि । द्याम् । म॒हि॒ना । भु॒व॒म् । अ॒भि । इ॒माम् । पृ॒थि॒वीम् । म॒हीम् ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥८
अभि । द्याम् । महिना । भुवम् । अभि । इमाम् । पृथिवीम् । महीम् ।
कुवित् । सोमस्य । अपाम् । इति ॥८
उक्तमर्थं प्रतिपादयति । "महिना महिम्नात्मीयेन "द्यां द्युलोकम् "अभि "भुवम् अभिभवामि । तथा “महीं महतीम् “इमां "पृथिवीं स्वमहिम्ना "अभि भवामि ॥ भवतेर्लङि छान्दसो विकरणस्य लुक् । ‘ भूसुवोस्तिङि ' (पा. सू. ७. ३. ८८) इति गुणे प्रतिषिद्ध उवङादेशः ॥
हन्ता॒हं पृ॑थि॒वीमि॒मां नि द॑धानी॒ह वे॒ह वा॑ ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ९
हन्त॑ । अ॒हम् । पृ॒थि॒वीम् । इ॒माम् । नि । द॒धा॒नि॒ । इ॒ह । वा॒ । इ॒ह । वा॒ ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥९
हन्त । अहम् । पृथिवीम् । इमाम् । नि । दधानि । इह । वा । इह । वा ।
कुवित् । सोमस्य । अपाम् । इति ॥९
“हन्त इति संभावनायामनुज्ञायां वा । संभावयाम्येतदनुजानामि वा। किं तत् । "अहम् “इमां “पृथिवीम् "इह "वा अन्तरिक्षे "नि “दधानि । "इह “वा द्युलोके इति हस्तेन निर्दिशति । दधातेर्लोटि मेर्निः ॥
ओ॒षमित्पृ॑थि॒वीम॒हं ज॒ङ्घना॑नी॒ह वे॒ह वा॑ ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥ १०
ओ॒षम् । इत् । पृ॒थि॒वीम् । अ॒हम् । ज॒ङ्घना॑नि । इ॒ह । वा॒ । इ॒ह । वा॒ ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥१०
ओषम् । इत् । पृथिवीम् । अहम् । जङ्घनानि । इह । वा । इह । वा ।
कुवित् । सोमस्य । अपाम् । इति ॥१०
“अहं "पृथिवीम् अभिलक्ष्य “ओषं स्वतेजसा तापकमादित्यम् "इह “वा अन्तरिक्षे “इह “वा द्युलोके “जङ्घनानि भृशं यापयानि । “इत् इति पूरणः ॥ हन्तेर्गत्यर्थस्य यङ्लुगन्तस्य लोटि शपो लुगभावश्छान्दसः ।।
दि॒वि मे॑ अ॒न्यः प॒क्षो॒३॒॑ऽधो अ॒न्यम॑चीकृषम् ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥ ११
दि॒वि । मे॒ । अ॒न्यः । प॒क्षः । अ॒धः । अ॒न्यम् । अ॒ची॒कृ॒ष॒म् ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥११
दिवि । मे । अन्यः । पक्षः । अधः । अन्यम् । अचीकृषम् ।
कुवित् । सोमस्य । अपाम् । इति ॥११
“मे मदीयः “अन्यः "पक्षः "दिवि द्युलोके स्थापितः। "अधः ।। ' पूर्वाधरावराणामसि (पा. सू. ५. ३. ३९ ) इत्यादिनासिप्रत्ययः । प्रकृतेरधादेशश्च ।। अधस्तात्पृथिव्याम् "अन्यं पक्षम् “अचीकृषम् अकार्क्षम् ।। ‘ कृष विलेखने ' । ण्यन्तस्य लुङि चङि ‘ नित्यं छन्दसि' (पा. सू. ७. ४. ८) इत्यृकारादेशः ।। विलेखनं नामोत्पादनम् । उदपादयम् । आस्थापयमित्यर्थः ।।
अ॒हम॑स्मि महाम॒हो॑ऽभिन॒भ्यमुदी॑षितः ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥ १२
अ॒हम् । अ॒स्मि॒ । म॒हा॒ऽम॒हः । अ॒भि॒ऽन॒भ्यम् । उत्ऽई॑षितः ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥१२
अहम् । अस्मि । महाऽमहः । अभिऽनभ्यम् । उत्ऽईषितः ।
कुवित् । सोमस्य । अपाम् । इति ॥१२
“अभिनभ्यं नाभौ मध्यस्थाने भवं नभ्यमन्तरिक्षम्। 'उगवादिभ्यो यत् ' (पा. सू. ५. १. ३) इति यत्प्रत्ययः । तत्रैव पाठान्नभादेशश्च । ' लक्षणेनाभिप्रती आभिमुख्ये ' ( पा. सू. २. १. १४) इत्यव्ययीभावः । समासस्वरः । अन्तरिक्षमभि “उदीषितः उद्गतः सूर्यात्मा "अहं "महामहः "अस्मि । महतामपि महानस्मि । यद्वा । महत् प्रभूतं महस्तेजो यस्य । प्रभूततेजस्कोऽस्मि ।। ‘ आन्महतः । (पा. सू. ६. ३. ४६ ) इत्यात्वम् ।।
गृ॒हो या॒म्यरं॑कृतो दे॒वेभ्यो॑ हव्य॒वाह॑नः ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥ १३
गृ॒हः । या॒मि॒ । अर॑म्ऽकृतः । दे॒वेभ्यः॑ । ह॒व्य॒ऽवाह॑नः ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥१३
गृहः । यामि । अरम्ऽकृतः । देवेभ्यः । हव्यऽवाहनः ।
कुवित् । सोमस्य । अपाम् । इति ॥१३
“गृहः हविषां ग्रहीता “अरंकृतः यजमानैरलंकृतोऽहं “देवेभ्यः इन्द्रादिभ्यः "हव्यवाहनः हविषां वोढा प्रापयिता अग्न्यात्मा सन् “यामि हवींषि प्रापयामि ॥ ‘ या प्रापणे '। लट् । ‘ हव्येऽनन्तःपादम् ' इति वहेर्ञ्युट् । ञित्त्वादाद्युदात्तः । समासे कृदुत्तरपदप्रकृतिस्वरः ॥ “इति यस्मात् “कुवित् बहुवारं "सोमस्य सोमम् "अपां पीतवानस्मि । तस्मादेतान्यकार्षमितीन्द्रः स्वात्मानमेवास्तावीत् ॥ ॥ २७ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थाँश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्येऽष्टमाष्टके षष्ठोऽध्यायः ।।
टिप्पणी
१०.११९.९ हन्ताहं पृथिवीमिमाम् इति
प्रमादस्त्वेष हन्ताहं(१०.११९.९) न स स्व (७.८६.६)इत्यपह्नवः ।
इन्द्राकुत्सेत्युपप्रैषो(५.३१.९) न विजानामि(१.१६४.३७) संज्वरः ।।बृहद्देवता १.५६ ।।
मण्डल १० | ||||
---|---|---|---|---|